| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
तपस्तपति योऽरण्ये वन्यमूलफलाशनः ॥ योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने ॥ १ ॥
तपः तपति यः अरण्ये वन्य-मूल-फल-अशनः ॥ यः अधीते ऋचम् एकाम् हि फलम् स्यात् तद्-समम् मुने ॥ १ ॥
tapaḥ tapati yaḥ araṇye vanya-mūla-phala-aśanaḥ .. yaḥ adhīte ṛcam ekām hi phalam syāt tad-samam mune .. 1 ..
श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥ तदध्यापनतश्चापि द्विगुणं फलमश्नुते ॥ २ ॥
श्रुतेः अध्ययनात् पुण्यम् यत् आप्नोति द्विजोत्तमः ॥ तद्-अध्यापनतः च अपि द्विगुणम् फलम् अश्नुते ॥ २ ॥
śruteḥ adhyayanāt puṇyam yat āpnoti dvijottamaḥ .. tad-adhyāpanataḥ ca api dviguṇam phalam aśnute .. 2 ..
जगद्यथा निरालोकं जायतेऽशशिभास्करम् ॥ विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा ॥ ३॥
जगत् यथा निरालोकम् जायते अशशि-भास्करम् ॥ विना तथा पुराणम् हि अध्येयम् अस्मात् मुने सदा ॥ ३॥
jagat yathā nirālokam jāyate aśaśi-bhāskaram .. vinā tathā purāṇam hi adhyeyam asmāt mune sadā .. 3..
तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः ॥ सम्बोधयति लोकं तं तस्मात्पूज्यः पुराणगः ॥ ४ ॥
तप्यमानम् सदा अज्ञानात् निरये यः अपि शास्त्रतः ॥ सम्बोधयति लोकम् तम् तस्मात् पूज्यः पुराण-गः ॥ ४ ॥
tapyamānam sadā ajñānāt niraye yaḥ api śāstrataḥ .. sambodhayati lokam tam tasmāt pūjyaḥ purāṇa-gaḥ .. 4 ..
सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् ॥ पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् ॥ ५ ॥
सर्वेषाम् च एव पात्राणाम् मध्ये श्रेष्ठः पुराण-विद् ॥ पतनात् त्रायते यस्मात् तस्मात् पात्रम् उदाहृतम् ॥ ५ ॥
sarveṣām ca eva pātrāṇām madhye śreṣṭhaḥ purāṇa-vid .. patanāt trāyate yasmāt tasmāt pātram udāhṛtam .. 5 ..
मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन ॥ पुराणज्ञस्सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः ॥ ६ ॥
मर्त्य-बुद्धिः न कर्तव्या पुराण-ज्ञे कदाचन ॥ पुराण-ज्ञः सर्व-वेत्ता ब्रह्मा विष्णुः हरः गुरुः ॥ ६ ॥
martya-buddhiḥ na kartavyā purāṇa-jñe kadācana .. purāṇa-jñaḥ sarva-vettā brahmā viṣṇuḥ haraḥ guruḥ .. 6 ..
धनं धान्यं हिरण्यं च वासांसि विविधानि च ॥ देयं पुराणविज्ञाय परत्रेह च शर्म्मणे ॥ ७॥
धनम् धान्यम् हिरण्यम् च वासांसि विविधानि च ॥ देयम् पुराण-विज्ञाय परत्र इह च शर्म्मणे ॥ ७॥
dhanam dhānyam hiraṇyam ca vāsāṃsi vividhāni ca .. deyam purāṇa-vijñāya paratra iha ca śarmmaṇe .. 7..
यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः ॥ पात्राय शुभवस्तूनि स याति परमां गतिम्॥८॥
यः ददाति महा-प्रीत्या पुराण-ज्ञाय सत्-जनः ॥ पात्राय शुभ-वस्तूनि स याति परमाम् गतिम्॥८॥
yaḥ dadāti mahā-prītyā purāṇa-jñāya sat-janaḥ .. pātrāya śubha-vastūni sa yāti paramām gatim..8..
महीं गां वा स्यंदनांश्च गजानश्वांश्च शोभनान् ॥ यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु ॥ ९ ॥
महीम् गाम् वा स्यंदनान् च गजान् अश्वान् च शोभनान् ॥ यः प्रयच्छति पात्राय तस्य पुण्य-फलम् शृणु ॥ ९ ॥
mahīm gām vā syaṃdanān ca gajān aśvān ca śobhanān .. yaḥ prayacchati pātrāya tasya puṇya-phalam śṛṇu .. 9 ..
अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि ॥ अश्वमेधमखस्यापि स फलं लभते पुमान् ॥ 5.13.१०॥
अक्षयान् सर्व-कामान् च परत्र इह च जन्मनि ॥ अश्वमेध-मखस्य अपि स फलम् लभते पुमान् ॥ ५।१३।१०॥
akṣayān sarva-kāmān ca paratra iha ca janmani .. aśvamedha-makhasya api sa phalam labhate pumān .. 5.13.10..
मही ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ॥ स तारयति वै वंश्यान्दश पूर्वान्दशापरान् ॥ ११॥
मही ददाति यः तस्मै कृष्टाम् फलवतीम् शुभाम् ॥ स तारयति वै वंश्यान् दश पूर्वान् दश अपरान् ॥ ११॥
mahī dadāti yaḥ tasmai kṛṣṭām phalavatīm śubhām .. sa tārayati vai vaṃśyān daśa pūrvān daśa aparān .. 11..
इह भुक्त्वाखिलान्कामानंते दिव्यशरीरवान् ॥ विमानेन च दिव्येन शिवलोकं स गच्छति ॥ १२॥
इह भुक्त्वा अखिलान् कामान् अन्ते दिव्य-शरीरवान् ॥ विमानेन च दिव्येन शिव-लोकम् स गच्छति ॥ १२॥
iha bhuktvā akhilān kāmān ante divya-śarīravān .. vimānena ca divyena śiva-lokam sa gacchati .. 12..
न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ॥ बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ॥ १३ ॥
न यज्ञैः तुष्टिम् आयांति देवाः प्रोक्षणकैः अपि ॥ बलिभिः पुष्प-पूजाभिः यथा पुस्तक-वाचनैः ॥ १३ ॥
na yajñaiḥ tuṣṭim āyāṃti devāḥ prokṣaṇakaiḥ api .. balibhiḥ puṣpa-pūjābhiḥ yathā pustaka-vācanaiḥ .. 13 ..
शंभोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम् ॥ १४॥
शंभोः आयतने यः तु कारयेत् धर्म-पुस्तकम् ॥ विष्णोः अर्कस्य कस्य अपि शृणु तस्य अपि तद्-फलम् ॥ १४॥
śaṃbhoḥ āyatane yaḥ tu kārayet dharma-pustakam .. viṣṇoḥ arkasya kasya api śṛṇu tasya api tad-phalam .. 14..
राजसूयाश्वमेधानां फलमाप्नोति मानवः ॥ सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति ॥ १५ ॥
राजसूय-अश्वमेधानाम् फलम् आप्नोति मानवः ॥ सूर्य-लोकम् च भित्त्वा आशु ब्रह्म-लोकम् स गच्छति ॥ १५ ॥
rājasūya-aśvamedhānām phalam āpnoti mānavaḥ .. sūrya-lokam ca bhittvā āśu brahma-lokam sa gacchati .. 15 ..
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥ भुंक्ते निष्कंटकं भोगान्नात्र कार्या विचारणा ॥ १६॥
स्थित्वा कल्प-शतानि अत्र राजा भवति भू-तले ॥ भुंक्ते निष्कंटकम् भोगान् न अत्र कार्या विचारणा ॥ १६॥
sthitvā kalpa-śatāni atra rājā bhavati bhū-tale .. bhuṃkte niṣkaṃṭakam bhogān na atra kāryā vicāraṇā .. 16..
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ॥ तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत् ॥ १७ ॥
अश्वमेध-सहस्रस्य यत् फलम् समुदाहृतम् ॥ तत् फलम् समावाप्नोति देव-अग्रे यः जपम् चरेत् ॥ १७ ॥
aśvamedha-sahasrasya yat phalam samudāhṛtam .. tat phalam samāvāpnoti deva-agre yaḥ japam caret .. 17 ..
इतिहासपुराणाभ्यां शम्भोरायतने शुभे ॥ नान्यत्प्रीतिकरं शंभोस्तथान्येषां दिवौकसाम् ॥ १८ ॥
इतिहास-पुराणाभ्याम् शम्भोः आयतने शुभे ॥ न अन्यत् प्रीति-करम् शंभोः तथा अन्येषाम् दिवौकसाम् ॥ १८ ॥
itihāsa-purāṇābhyām śambhoḥ āyatane śubhe .. na anyat prīti-karam śaṃbhoḥ tathā anyeṣām divaukasām .. 18 ..
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ॥ तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १९॥
तस्मात् सर्व-प्रयत्नेन कार्यम् पुस्तक-वाचनम् ॥ तथा अस्य श्रवणम् प्रेम्णा सर्व-काम-फल-प्रदम् ॥ १९॥
tasmāt sarva-prayatnena kāryam pustaka-vācanam .. tathā asya śravaṇam premṇā sarva-kāma-phala-pradam .. 19..
पुराणश्रवणाच्छंभोर्निष्पापो जायते नरः ॥ भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात् ॥ 5.13.२०॥
पुराण-श्रवणात् शंभोः निष्पापः जायते नरः ॥ भुक्त्वा भोगान् सु विपुलान् शिव-लोकम् अवाप्नुयात् ॥ ५।१३।२०॥
purāṇa-śravaṇāt śaṃbhoḥ niṣpāpaḥ jāyate naraḥ .. bhuktvā bhogān su vipulān śiva-lokam avāpnuyāt .. 5.13.20..
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ॥ तत्पुण्यं लभते शंभोः कथाश्रवणमात्रतः ॥ २१ ॥
राजसूयेन यत् पुण्यम् अग्निष्टोम-शतेन च ॥ तत् पुण्यम् लभते शंभोः कथा-श्रवण-मात्रतः ॥ २१ ॥
rājasūyena yat puṇyam agniṣṭoma-śatena ca .. tat puṇyam labhate śaṃbhoḥ kathā-śravaṇa-mātrataḥ .. 21 ..
सर्वतीर्थावगाहेन गां कोटिप्रदानतः ॥ तत् फलं लभते शंभोः कथाश्रवणतो मुने ॥ २२ ॥
सर्व-तीर्थ-अवगाहेन गाम् कोटि-प्रदानतः ॥ तत् फलम् लभते शंभोः कथा-श्रवणतः मुने ॥ २२ ॥
sarva-tīrtha-avagāhena gām koṭi-pradānataḥ .. tat phalam labhate śaṃbhoḥ kathā-śravaṇataḥ mune .. 22 ..
ये शृण्वंति कथां शंभोस्सदा भुवनपावनीम् ॥ ते मनुष्या न मंतव्या रुद्रा एव न संशयः ॥ २३ ॥
ये शृण्वंति कथाम् शंभोः सदा भुवन-पावनीम् ॥ ते मनुष्याः न मंतव्याः रुद्राः एव न संशयः ॥ २३ ॥
ye śṛṇvaṃti kathām śaṃbhoḥ sadā bhuvana-pāvanīm .. te manuṣyāḥ na maṃtavyāḥ rudrāḥ eva na saṃśayaḥ .. 23 ..
शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् ॥ पदाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ २४॥
शृण्वताम् शिव-सत्-कीर्तिम् सताम् कीर्तयताम् च ताम् ॥ पद-अम्बुज-रजांसि एव तीर्थानि मुनयः विदुः ॥ २४॥
śṛṇvatām śiva-sat-kīrtim satām kīrtayatām ca tām .. pada-ambuja-rajāṃsi eva tīrthāni munayaḥ viduḥ .. 24..
गंतुं निःश्रेयसं स्थानं येऽभिवांछन्ति देहिनः ॥ कथां पौराणिकीं शैवीं भक्त्या शृण्वंतु ते सदा ॥ २५॥
गंतुम् निःश्रेयसम् स्थानम् ये अभिवांछन्ति देहिनः ॥ कथाम् पौराणिकीम् शैवीम् भक्त्या शृण्वंतु ते सदा ॥ २५॥
gaṃtum niḥśreyasam sthānam ye abhivāṃchanti dehinaḥ .. kathām paurāṇikīm śaivīm bhaktyā śṛṇvaṃtu te sadā .. 25..
कथां पौराणिकीं श्रोतुं यद्यशक्तस्सदा भवेत् ॥ नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २६॥
कथाम् पौराणिकीम् श्रोतुम् यदि अशक्तः सदा भवेत् ॥ नियत-आत्मा प्रतिदिनम् शृणुयात् वा मुहूर्तकम् ॥ २६॥
kathām paurāṇikīm śrotum yadi aśaktaḥ sadā bhavet .. niyata-ātmā pratidinam śṛṇuyāt vā muhūrtakam .. 26..
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ॥ पुण्यमासादिषु मुने शृणुयाच्छांकरीं कथाम् ॥ २७॥
यदि प्रतिदिनम् श्रोतुम् अशक्तः मानवः भवेत् ॥ पुण्य-मास-आदिषु मुने शृणुयात् शांकरीम् कथाम् ॥ २७॥
yadi pratidinam śrotum aśaktaḥ mānavaḥ bhavet .. puṇya-māsa-ādiṣu mune śṛṇuyāt śāṃkarīm kathām .. 27..
शैवीं कथां हि शृण्वानः पुरुषो हि मुनीश्वर ॥ स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २८॥
शैवीम् कथाम् हि शृण्वानः पुरुषः हि मुनि-ईश्वर ॥ स निस्तरति संसारम् दग्ध्वा कर्म-महा-अटवीम् ॥ २८॥
śaivīm kathām hi śṛṇvānaḥ puruṣaḥ hi muni-īśvara .. sa nistarati saṃsāram dagdhvā karma-mahā-aṭavīm .. 28..
कथां शैवीं मुहूर्तं वा तदर्द्धं क्षणं च वा ॥ ये शृण्वxति नरा भक्त्या न तेषां दुर्गतिर्भवेत् ॥ २९॥
कथाम् शैवीम् मुहूर्तम् वा तद्-अर्द्धम् क्षणम् च वा ॥ ये नराः भक्त्या न तेषाम् दुर्गतिः भवेत् ॥ २९॥
kathām śaivīm muhūrtam vā tad-arddham kṣaṇam ca vā .. ye narāḥ bhaktyā na teṣām durgatiḥ bhavet .. 29..
यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ॥ शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ 5.13.३०॥
यत् पुण्यम् सर्व-दानेषु सर्व-यज्ञेषु वा मुने ॥ शंभोः पुराण-श्रवणात् तद्-फलम् निश्चलम् भवेत् ॥ ५।१३।३०॥
yat puṇyam sarva-dāneṣu sarva-yajñeṣu vā mune .. śaṃbhoḥ purāṇa-śravaṇāt tad-phalam niścalam bhavet .. 5.13.30..
विशेषतः कलौ व्यास पुराणश्रवणादृते ॥ परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः ॥ ३१॥
विशेषतः कलौ व्यास पुराण-श्रवणात् ऋते ॥ परः धर्मः न पुंसाम् हि मुक्ति-ध्यान-परः स्मृतः ॥ ३१॥
viśeṣataḥ kalau vyāsa purāṇa-śravaṇāt ṛte .. paraḥ dharmaḥ na puṃsām hi mukti-dhyāna-paraḥ smṛtaḥ .. 31..
पुराणश्रवणं शम्भोर्नामसंकीर्तनं तथा ॥ कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः ॥ ३२ ॥
पुराण-श्रवणम् शम्भोः नाम-संकीर्तनम् तथा ॥ कल्पद्रुम-फलम् रम्यम् मनुष्याणाम् न संशयः ॥ ३२ ॥
purāṇa-śravaṇam śambhoḥ nāma-saṃkīrtanam tathā .. kalpadruma-phalam ramyam manuṣyāṇām na saṃśayaḥ .. 32 ..
कलौ दुर्मेधसां पुंसां धर्माचारोझ्झितात्मनाम् ॥ हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ ३३॥
कलौ दुर्मेधसाम् पुंसाम् धर्म-आचार-उझ्झित-आत्मनाम् ॥ हिताय विदधे शम्भुः पुराण-आख्यम् सुधा-रसम् ॥ ३३॥
kalau durmedhasām puṃsām dharma-ācāra-ujhjhita-ātmanām .. hitāya vidadhe śambhuḥ purāṇa-ākhyam sudhā-rasam .. 33..
एकोऽजरामरस्याद्वै पिबन्नेवामृतं पुमान् ॥ शम्भोः कथामृतापानात्कुलमेवाजरामरम् ॥ ३४॥
एकः अजर-अमरस्यात् वै पिबन् एव अमृतम् पुमान् ॥ शम्भोः कथा-अमृत-अपानात् कुलम् एव अजर-अमरम् ॥ ३४॥
ekaḥ ajara-amarasyāt vai piban eva amṛtam pumān .. śambhoḥ kathā-amṛta-apānāt kulam eva ajara-amaram .. 34..
या गतिः पुण्यशीलानां यज्वनां च तपस्विनाम् ॥ सा गतिस्सहसा तात पुराणश्रवणात्खलु ॥ ३५॥
या गतिः पुण्य-शीलानाम् यज्वनाम् च तपस्विनाम् ॥ सा गतिः सहसा तात पुराण-श्रवणात् खलु ॥ ३५॥
yā gatiḥ puṇya-śīlānām yajvanām ca tapasvinām .. sā gatiḥ sahasā tāta purāṇa-śravaṇāt khalu .. 35..
ज्ञानवाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः ॥ अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च॥३६॥
ज्ञान-अवाप्तिः यदा न स्यात् योग-शास्त्राणि यत्नतः ॥ अध्येतव्यानि पौराणम् शास्त्रम् श्रोतव्यम् एव च॥३६॥
jñāna-avāptiḥ yadā na syāt yoga-śāstrāṇi yatnataḥ .. adhyetavyāni paurāṇam śāstram śrotavyam eva ca..36..
पापं संक्षीयते नित्यं धर्म्मश्चैव विवर्द्धते॥पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते॥३७॥
पापम् संक्षीयते नित्यम् धर्म्मः च एव विवर्द्धते॥पुराण-श्रवणात् ज्ञानी न संसारम् प्रपद्यते॥३७॥
pāpam saṃkṣīyate nityam dharmmaḥ ca eva vivarddhate..purāṇa-śravaṇāt jñānī na saṃsāram prapadyate..37..
अतएव पुराणानि श्रोतव्यानि प्रयत्नतः ॥ धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा ॥ ३८ ॥
अतएव पुराणानि श्रोतव्यानि प्रयत्नतः ॥ धर्म-अर्थ-काम-लाभाय मोक्ष-मार्ग-आप्तये तथा ॥ ३८ ॥
ataeva purāṇāni śrotavyāni prayatnataḥ .. dharma-artha-kāma-lābhāya mokṣa-mārga-āptaye tathā .. 38 ..
यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया ॥ तत्फलम समवाप्नोति पुराणश्रवणान्नरः ॥ ३९॥
यज्ञैः दानैः तपोभिः तु यत् फलम् तीर्थ-सेवया ॥ तत् फलम् समवाप्नोति पुराण-श्रवणात् नरः ॥ ३९॥
yajñaiḥ dānaiḥ tapobhiḥ tu yat phalam tīrtha-sevayā .. tat phalam samavāpnoti purāṇa-śravaṇāt naraḥ .. 39..
न भवेयुः पुराणानि धर्ममार्गे क्षणानि तु ॥ यद्यत्र यद्व्रती स्थाता चात्र पारत्रकी कथाम्॥5.13.४०॥
न भवेयुः पुराणानि धर्म-मार्गे क्षणानि तु ॥ यत् यत्र यद्-व्रती स्थाता च अत्र पारत्रकी कथाम्॥५।१३।४०॥
na bhaveyuḥ purāṇāni dharma-mārge kṣaṇāni tu .. yat yatra yad-vratī sthātā ca atra pāratrakī kathām..5.13.40..
षड्विंशतिपुराणानां मध्येऽप्येकं शृणोति यः ॥ पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः॥४१॥
षड्विंशति-पुराणानाम् मध्ये अपि एकम् शृणोति यः ॥ पठेत् वा भक्ति-युक्तः तु स मुक्तः न अत्र संशयः॥४१॥
ṣaḍviṃśati-purāṇānām madhye api ekam śṛṇoti yaḥ .. paṭhet vā bhakti-yuktaḥ tu sa muktaḥ na atra saṃśayaḥ..41..
अन्यो न दृष्टस्सुखदो हि मार्गः पुराणमार्गो हि सदा वरिष्ठः ॥ शास्त्रं विना सर्वमिदं न भाति सूर्य्येण हीना इव जीवलोकाः॥४२॥
अन्यः न दृष्टः सुख-दः हि मार्गः पुराण-मार्गः हि सदा वरिष्ठः ॥ शास्त्रम् विना सर्वम् इदम् न भाति सूर्य्येण हीनाः इव जीव-लोकाः॥४२॥
anyaḥ na dṛṣṭaḥ sukha-daḥ hi mārgaḥ purāṇa-mārgaḥ hi sadā variṣṭhaḥ .. śāstram vinā sarvam idam na bhāti sūryyeṇa hīnāḥ iva jīva-lokāḥ..42..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् पुराणमाहात्म्यवर्णनम् नाम त्रयोदशः अध्यायः ॥ १३॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām purāṇamāhātmyavarṇanam nāma trayodaśaḥ adhyāyaḥ .. 13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In