| |
|

This overlay will guide you through the buttons:

शस्तानि घोरदानानि महादानानि नित्यशः ॥ पात्रभ्येस्तु प्रदेयानि आत्मानं तारयंति च ॥ १ ॥
शस्तानि घोर-दानानि महा-दानानि नित्यशस् ॥ पात्रभ्येः तु प्रदेयानि आत्मानम् तारयन्ति च ॥ १ ॥
śastāni ghora-dānāni mahā-dānāni nityaśas .. pātrabhyeḥ tu pradeyāni ātmānam tārayanti ca .. 1 ..
हिरण्वदानं गोदानं शमिदान द्विजोत्तम ॥ गृह्णंतो वै पवित्राणि तार यंति स्वमेव तम् ॥ २ ॥
हिरण्व-दानम् गो-दानम् शमि-दान द्विजोत्तम ॥ गृह्णंतः वै पवित्राणि तार यंति स्वम् एव तम् ॥ २ ॥
hiraṇva-dānam go-dānam śami-dāna dvijottama .. gṛhṇaṃtaḥ vai pavitrāṇi tāra yaṃti svam eva tam .. 2 ..
सुवर्णदानं गोदानं पृथिवीदानमेव च ॥ एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते ॥ ३ ॥
सुवर्ण-दानम् गो-दानम् पृथिवी-दानम् एव च ॥ एतानि श्रेष्ठ-दानानि कृत्वा पापैः प्रमुच्यते ॥ ३ ॥
suvarṇa-dānam go-dānam pṛthivī-dānam eva ca .. etāni śreṣṭha-dānāni kṛtvā pāpaiḥ pramucyate .. 3 ..
तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ॥ द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती ॥ ४ ॥
तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ॥ द्वे तु तुल्य-बले शस्ते हि अधिका च सरस्वती ॥ ४ ॥
tulādānāni śastāni gāvaḥ pṛthvī sarasvatī .. dve tu tulya-bale śaste hi adhikā ca sarasvatī .. 4 ..
नित्यं ह्यनुदुहो गावश्छत्रं वस्नमुपानहौ ॥ देयानि याचमानेभ्यः पानमन्नं तथैव च ॥ ५ ॥
नित्यम् हि अनुदुहः गावः छत्रम् वस्नम् उपानहौ ॥ देयानि याचमानेभ्यः पानम् अन्नम् तथा एव च ॥ ५ ॥
nityam hi anuduhaḥ gāvaḥ chatram vasnam upānahau .. deyāni yācamānebhyaḥ pānam annam tathā eva ca .. 5 ..
संकल्पविदितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ॥ आर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ॥ ६ ॥
संकल्प-विदितः यः अर्थः ब्राह्मणेभ्यः प्रदीयते ॥ आर्थिभ्यः अपीडितेभ्यः च मनस्वी तेन जायते ॥ ६ ॥
saṃkalpa-viditaḥ yaḥ arthaḥ brāhmaṇebhyaḥ pradīyate .. ārthibhyaḥ apīḍitebhyaḥ ca manasvī tena jāyate .. 6 ..
कनकं च तिला नागाः कन्या दासी गृहं रथः । मणयः कपिला गावो महादानानि वै दश ॥ ७ ॥
कनकम् च तिलाः नागाः कन्या दासी गृहम् रथः । मणयः कपिलाः गावः महा-दानानि वै दश ॥ ७ ॥
kanakam ca tilāḥ nāgāḥ kanyā dāsī gṛham rathaḥ . maṇayaḥ kapilāḥ gāvaḥ mahā-dānāni vai daśa .. 7 ..
गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा । वदान्यांस्तारयेंत्सद्यो ह्यात्मानं च न संशयः ॥ ८ ॥
गृहीत्वा एतानि सर्वाणि ब्राह्मणः ज्ञान-विद् सदा । वदान्यान् तारयेत् सद्यस् हि आत्मानम् च न संशयः ॥ ८ ॥
gṛhītvā etāni sarvāṇi brāhmaṇaḥ jñāna-vid sadā . vadānyān tārayet sadyas hi ātmānam ca na saṃśayaḥ .. 8 ..
सुवर्णं ये प्रयच्छंति नराश्शुध्देन चेतसा ॥ देवतास्तं प्रयच्छंति समंतादिति मे श्रुतम् ॥ ९॥
सुवर्णम् ये प्रयच्छन्ति नराः शुध्देन चेतसा ॥ देवताः तम् प्रयच्छंति समंतात् इति मे श्रुतम् ॥ ९॥
suvarṇam ye prayacchanti narāḥ śudhdena cetasā .. devatāḥ tam prayacchaṃti samaṃtāt iti me śrutam .. 9..
अग्निर्हि देवतास्सर्वाः सवर्णै च हुताशनः ॥ तस्मात्सुवर्णै दत्वा च दत्तास्स्युस्सर्वदेवता ॥ १०॥
अग्निः हि देवताः सर्वाः च हुताशनः ॥ तस्मात् सुवर्णैः द त्वा च दत्ताः स्युः सर्व-देवता ॥ १०॥
agniḥ hi devatāḥ sarvāḥ ca hutāśanaḥ .. tasmāt suvarṇaiḥ da tvā ca dattāḥ syuḥ sarva-devatā .. 10..
पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् ॥ सौवर्णै च विशेषेण यत्कतं पृथुना पुरा ॥ ११ ॥
पृथ्वी-दानम् महा-श्रेष्ठम् सर्व-काम-फल-प्रदम् ॥ च विशेषेण यत् कतम् पृथुना पुरा ॥ ११ ॥
pṛthvī-dānam mahā-śreṣṭham sarva-kāma-phala-pradam .. ca viśeṣeṇa yat katam pṛthunā purā .. 11 ..
दीयमानां प्रपश्यंति पृथ्वीं रुक्मसमन्विताम् ॥ सर्वपापविनिर्मुक्त्तास्ते यांति परमां गतिम् ॥ १२ ॥
दीयमानाम् प्रपश्यंति पृथ्वीम् रुक्म-समन्विताम् ॥ सर्व-पाप-विनिर्मुक्त्ताः ते यांति परमाम् गतिम् ॥ १२ ॥
dīyamānām prapaśyaṃti pṛthvīm rukma-samanvitām .. sarva-pāpa-vinirmukttāḥ te yāṃti paramām gatim .. 12 ..
अथान्यश्च प्रवक्ष्यामि दानं सर्वेत्तमं मुने ॥ कांतारं यन्न पश्यंति यमस्य बहुदुःखदम् ॥ १३॥
अथ अन्यः च प्रवक्ष्यामि दानम् सर्व-इत्तमम् मुने ॥ कांतारम् यत् न पश्यंति यमस्य बहु-दुःख-दम् ॥ १३॥
atha anyaḥ ca pravakṣyāmi dānam sarva-ittamam mune .. kāṃtāram yat na paśyaṃti yamasya bahu-duḥkha-dam .. 13..
कुर्यात्कांतारदानं हि विधिना शुध्दमानसः ॥ न्यायर्जितेन द्रव्येण वित्त शाठयविवर्जितः ॥ १४ ॥
कुर्यात् कांतार-दानम् हि विधिना ॥ न्याय-अर्जितेन द्रव्येण वित्त शाठय-विवर्जितः ॥ १४ ॥
kuryāt kāṃtāra-dānam hi vidhinā .. nyāya-arjitena dravyeṇa vitta śāṭhaya-vivarjitaḥ .. 14 ..
तिलप्रस्थमर्यी कृत्वा धेनुं सर्वगुणन्विताम् ॥ धेनुवत्सं सुवर्णै च सुदिव्यं सर्वसक्षणम् Il १५ ॥
तिल-प्रस्थम् अर्यी कृत्वा धेनुम् सर्व-गुण-न्विताम् ॥ धेनु-वत्सम् सुवर्णैः च सु दिव्यम् सर्व-सक्षणम् इद् ॥
tila-prastham aryī kṛtvā dhenum sarva-guṇa-nvitām .. dhenu-vatsam suvarṇaiḥ ca su divyam sarva-sakṣaṇam id ..
पद्ममष्टदलं कृत्वा कुंकु माक्त्ताक्षतैश्शुभैः॥ पूजयेत्तत्र रुद्राद्रीन्सर्वान्देवान्सुभक्त्तितः ॥ १६॥
पद्मम् अष्ट-दलम् कृत्वा कुंकु माक्त्त-अक्षतैः शुभैः॥ पूजयेत् तत्र रुद्र-अद्रीन् सर्वान् देवान् सु भक्त्तितः ॥ १६॥
padmam aṣṭa-dalam kṛtvā kuṃku māktta-akṣataiḥ śubhaiḥ.. pūjayet tatra rudra-adrīn sarvān devān su bhakttitaḥ .. 16..
एवं संपूज्य तां दद्याद्रह्मणाय स्वशक्तितः ॥ सरत्नां सहिरण्यां च सर्वाभरण भूषिताम् ॥ १७॥
एवम् संपूज्य ताम् दद्यात् रह्मणाय स्व-शक्तितः ॥ स रत्नाम् स हिरण्याम् च सर्व-आभरण-भूषिताम् ॥ १७॥
evam saṃpūjya tām dadyāt rahmaṇāya sva-śaktitaḥ .. sa ratnām sa hiraṇyām ca sarva-ābharaṇa-bhūṣitām .. 17..
ततो नक्तं समश्रीयाद्यीपान्दयाद्यातु विस्तरात् ॥ कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ॥ १८ ॥
ततस् नक्तम् समश्रीयात् यीपान्दयात् यातु विस्तरात् ॥ कार्तिक्याम् इति कर्तव्यम् पूर्णिमायाम् प्रयत्नतः ॥ १८ ॥
tatas naktam samaśrīyāt yīpāndayāt yātu vistarāt .. kārtikyām iti kartavyam pūrṇimāyām prayatnataḥ .. 18 ..
एवं यः करते सम्यग्विधा नेन स्वशक्तितः ॥ यममार्गभयं घोरं नरकं च न पश्यति ॥ १९॥
एवम् यः करते सम्यक् विधाः नेन स्व-शक्तितः ॥ यम-मार्ग-भयम् घोरम् नरकम् च न पश्यति ॥ १९॥
evam yaḥ karate samyak vidhāḥ nena sva-śaktitaḥ .. yama-mārga-bhayam ghoram narakam ca na paśyati .. 19..
कृत्वा पापान्यशेषाणि सबंधुस्सुसुहज्जनः ॥ दिवि संक्त्रिडते व्यास यावदिन्द्राश्च तुर्दश ॥ २० ॥
कृत्वा पापानि अशेषाणि स बंधुः सु सुहत्-जनः ॥ दिवि संक्त्रिडते व्यास यावत् इन्द्राः च तुर्दश ॥ २० ॥
kṛtvā pāpāni aśeṣāṇi sa baṃdhuḥ su suhat-janaḥ .. divi saṃktriḍate vyāsa yāvat indrāḥ ca turdaśa .. 20 ..
विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ॥ न तेन सद्यशं व्यास परं दानं प्रकीर्तितम् ॥ २१॥
विधितः गोः च दानम् वै सर्व-उत्तमम् इह स्मृतम् ॥ न तेन सत्-यशम् व्यास परम् दानम् प्रकीर्तितम् ॥ २१॥
vidhitaḥ goḥ ca dānam vai sarva-uttamam iha smṛtam .. na tena sat-yaśam vyāsa param dānam prakīrtitam .. 21..
प्रयच्छते यः कपिलां सवत्सां स्वर्णश्रंगिकाम् ॥ कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम् ॥ २२ ॥
प्रयच्छते यः कपिलाम् स वत्साम् स्वर्ण-श्रंगिकाम् ॥ कांस्य-पात्राम् रौप्य-खुराम् सर्व-लक्षण-लक्षिताम् ॥ २२ ॥
prayacchate yaḥ kapilām sa vatsām svarṇa-śraṃgikām .. kāṃsya-pātrām raupya-khurām sarva-lakṣaṇa-lakṣitām .. 22 ..
तैस्तैर्गुणैः कामदुधा भूत्वा सा गौरुपैति तम् ॥ प्रदातारं नरं व्यास परत्रेह च जन्मनि ॥ २३॥
तैः तैः गुणैः कामदुधा भूत्वा सा गौः उपैति तम् ॥ प्रदातारम् नरम् व्यास परत्र इह च जन्मनि ॥ २३॥
taiḥ taiḥ guṇaiḥ kāmadudhā bhūtvā sā gauḥ upaiti tam .. pradātāram naram vyāsa paratra iha ca janmani .. 23..
यद्यदिष्टतमं लोके यदस्ति दयितं गे ॥ तत्तद्गणवते देयं तदेवाक्षयमिच्छता ॥ २४॥
यत् यत् इष्टतमम् लोके यत् अस्ति दयितम् गे ॥ तत् तत् गणवते देयम् तत् एव अक्षयम् इच्छता ॥ २४॥
yat yat iṣṭatamam loke yat asti dayitam ge .. tat tat gaṇavate deyam tat eva akṣayam icchatā .. 24..
तुलापुरुषदानं दि दानानां दानमुत्त मम्॥ तुलासंरोहणं कार्ये यदीच्छेच्छ्रेय आत्मनः ॥ २५॥
तुलापुरुष-दानम् दानम् उत्तमम्॥ तुला-संरोहणम् कार्ये यदि इच्छेत् श्रेयः आत्मनः ॥ २५॥
tulāpuruṣa-dānam dānam uttamam.. tulā-saṃrohaṇam kārye yadi icchet śreyaḥ ātmanaḥ .. 25..
यतकृत्वा मुच्यते पापैर्वधबंकृतोद्भवैः ॥ तुलादानं महत्पुण्यं सर्वपापक्षयंकरम् ॥ २६ ॥
यत-कृत्वा मुच्यते पापैः ॥ तुलादानम् महत् पुण्यम् सर्व-पाप-क्षयंकरम् ॥ २६ ॥
yata-kṛtvā mucyate pāpaiḥ .. tulādānam mahat puṇyam sarva-pāpa-kṣayaṃkaram .. 26 ..
कृत्वा पापान्यशोषाणि तुलादानं करोति यः ॥ सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम् ॥ २७ ॥
कृत्वा पापानि अशोषाणि तुलादानम् करोति यः ॥ सर्वैः तु पातकैः मुक्तः स दिवम् याति असंशयम् ॥ २७ ॥
kṛtvā pāpāni aśoṣāṇi tulādānam karoti yaḥ .. sarvaiḥ tu pātakaiḥ muktaḥ sa divam yāti asaṃśayam .. 27 ..
पापं कृतं यद्यिवसे निशायां द्विसंध्ययोर्मध्यदिने निशांते॥ कालत्रये कायमनोवचोभिस्तुला पुमान्वै तद पाकरोति ॥ २८ ॥
पापम् कृतम् यत् यिवसे निशायाम् द्वि-संध्ययोः मध्यदिने निशांते॥ काल-त्रये काय-मनः-वचोभिः तुला पुमान् वै अपाकरोति ॥ २८ ॥
pāpam kṛtam yat yivase niśāyām dvi-saṃdhyayoḥ madhyadine niśāṃte.. kāla-traye kāya-manaḥ-vacobhiḥ tulā pumān vai apākaroti .. 28 ..
वालेन वृध्देन मया हि यूनां विजाग्रता ज्ञानपरेण पापम् ॥ तत्सर्वमेवाशु कृतं मदीयं तुलापुमान्वै हरतु स्मरारिः ॥ २९॥
वालेन वृध्देन मया हि यूनाम् विजाग्रता ज्ञान-परेण पापम् ॥ तत् सर्वम् एवा आशु कृतम् मदीयम् तुला-पुमान् वै हरतु स्मरारिः ॥ २९॥
vālena vṛdhdena mayā hi yūnām vijāgratā jñāna-pareṇa pāpam .. tat sarvam evā āśu kṛtam madīyam tulā-pumān vai haratu smarāriḥ .. 29..
पात्रे प्रयुक्त्तं द्रविणं मयाऽद्य प्रमाणपूर्णै निहितं तुलायाम् ॥ तेनैव सार्धे तु ममावशेषं कृताकृतं य त्सुकृतं समेतु ॥ ३० ॥
पात्रे द्रविणम् मया अद्य प्रमाण-पूर्णैः निहितम् तुलायाम् ॥ तेन एव सार्धे तु मम अवशेषम् कृत-अकृतम् यत् सुकृतम् समेतु ॥ ३० ॥
pātre draviṇam mayā adya pramāṇa-pūrṇaiḥ nihitam tulāyām .. tena eva sārdhe tu mama avaśeṣam kṛta-akṛtam yat sukṛtam sametu .. 30 ..
सनतकुमार उवाच
एवमुच्चार्य्य तं दद्यात् द्विजेभ्यः सर्वदा हितः ॥ नैकस्यापि प्रदातव्यं न निस्तारस्ततों भवेत् ॥ ३१ ॥
एवम् उच्चार्य तम् दद्यात् द्विजेभ्यः सर्वदा हितः ॥ न एकस्य अपि प्रदातव्यम् न निस्तारः भवेत् ॥ ३१ ॥
evam uccārya tam dadyāt dvijebhyaḥ sarvadā hitaḥ .. na ekasya api pradātavyam na nistāraḥ bhavet .. 31 ..
ददात्येवं तु यो व्यास त॒लापरुषमुत्तमम् ॥ हत्वा पापं दिवं तिष्ठेद्यावदिन्द्राश्चतुर्द्यश ॥३२॥
ददाति एवम् तु यः व्यास तलापरुषम् उत्तमम् ॥ हत्वा पापम् दिवम् तिष्ठेत् यावत् इन्द्राः चतुर्द्यश ॥३२॥
dadāti evam tu yaḥ vyāsa talāparuṣam uttamam .. hatvā pāpam divam tiṣṭhet yāvat indrāḥ caturdyaśa ..32..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्द्यशोऽध्यायः ॥ १४ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् सामान्यदानवर्णनम् नाम चतुर्द्यशः अध्यायः ॥ १४ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām sāmānyadānavarṇanam nāma caturdyaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In