| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् ॥ दानानां तन्ममाख्या हि मानुषाणां हितार्थतः॥१॥
येन एकेन हि दत्तेन सर्वेषाम् प्राप्यते फलम् ॥ दानानाम् तत् मम आख्या हि मानुषाणाम् हित-अर्थतः॥१॥
yena ekena hi dattena sarveṣām prāpyate phalam .. dānānām tat mama ākhyā hi mānuṣāṇām hita-arthataḥ..1..
सनत्कुमार उवाच।।
शृणु कालेः प्रदत्ताद्वै फलं विंदंति मानवाः॥एकस्मादपि सर्वेषां दानानां तद्वदामि ते ॥ २ ॥
शृणु कालेः प्रदत्तात् वै फलम् विंदंति मानवाः॥एकस्मात् अपि सर्वेषाम् दानानाम् तत् वदामि ते ॥ २ ॥
śṛṇu kāleḥ pradattāt vai phalam viṃdaṃti mānavāḥ..ekasmāt api sarveṣām dānānām tat vadāmi te .. 2 ..
दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः ॥ दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै ॥ ३ ॥
दानानाम् उत्तमम् दानम् ब्रह्माण्डम् खलु मानवैः ॥ दातव्यम् मुक्ति-कामैः तु संसार-उत्तारणाय वै ॥ ३ ॥
dānānām uttamam dānam brahmāṇḍam khalu mānavaiḥ .. dātavyam mukti-kāmaiḥ tu saṃsāra-uttāraṇāya vai .. 3 ..
ब्रह्मांडे सकलं दत्तं यत्फलं लभते नरः ॥ तदेकभावादाप्नोति सप्तलोकाधिपो भवेत् ॥ ४ ॥
ब्रह्मांडे सकलम् दत्तम् यत् फलम् लभते नरः ॥ तद्-एक-भावात् आप्नोति सप्त-लोक-अधिपः भवेत् ॥ ४ ॥
brahmāṃḍe sakalam dattam yat phalam labhate naraḥ .. tad-eka-bhāvāt āpnoti sapta-loka-adhipaḥ bhavet .. 4 ..
यावच्चन्द्रदिवाकरौ नभसि वै यावत्स्थिरा मेदिनीतावत्सोऽपि नरः स्वबांधवयुतस्स्ववर्गौकसामोकसि॥
यावत् चन्द्र-दिवाकरौ नभसि वै यावत् स्थिरा मेदिनी तावत् सः अपि नरः स्व-बांधव-युतः स्व-वर्ग-ओकसाम् ओकसि॥
yāvat candra-divākarau nabhasi vai yāvat sthirā medinī tāvat saḥ api naraḥ sva-bāṃdhava-yutaḥ sva-varga-okasām okasi..
सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडतेपश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम् ॥ ५ ॥
सर्वेषु एव मनोनुगेषु ककुभिः ब्रह्माण्ड-दः क्रीडते पश्चात् याति पदम् सु दुर्लभतरम् देवैः मुदे माधवम् ॥ ५ ॥
sarveṣu eva manonugeṣu kakubhiḥ brahmāṇḍa-daḥ krīḍate paścāt yāti padam su durlabhataram devaiḥ mude mādhavam .. 5 ..
व्यास उवाच ।।
भगवन्ब्रूहि ब्राह्माण्डं यत्प्रमाणं यदात्मकम् ॥ यदाधारं यथाभूतं येन मे प्रत्ययो भवेत् ॥ ६ ॥
भगवन् ब्रूहि ब्राह्म-अण्डम् यत् प्रमाणम् यद्-आत्मकम् ॥ यद्-आधारम् यथाभूतम् येन मे प्रत्ययः भवेत् ॥ ६ ॥
bhagavan brūhi brāhma-aṇḍam yat pramāṇam yad-ātmakam .. yad-ādhāram yathābhūtam yena me pratyayaḥ bhavet .. 6 ..
सनत्कुमार उवाच ।।
मुने शृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् ॥ ब्रह्माण्डं तत्तु संक्षेपाच्छ्रुत्वा पापात्प्रमुच्यते ॥ ७॥
मुने शृणु प्रवक्ष्यामि यद्-उत्सेधम् तु विस्तरम् ॥ ब्रह्माण्डम् तत् तु संक्षेपात् श्रुत्वा पापात् प्रमुच्यते ॥ ७॥
mune śṛṇu pravakṣyāmi yad-utsedham tu vistaram .. brahmāṇḍam tat tu saṃkṣepāt śrutvā pāpāt pramucyate .. 7..
यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् ॥ तस्मात्संजायते ब्रह्मा द्विधाभूताद्धि कालतः ॥ ८॥
यत् तत् कारणम् अव्यक्तम् व्यक्तम् शिवम् अनामयम् ॥ तस्मात् संजायते ब्रह्मा द्विधाभूतात् हि कालतः ॥ ८॥
yat tat kāraṇam avyaktam vyaktam śivam anāmayam .. tasmāt saṃjāyate brahmā dvidhābhūtāt hi kālataḥ .. 8..
ब्राह्माण्डं सृजति ब्रह्मा चतुर्द्दशभवात्मकम् ॥ तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः ॥ ९॥
ब्राह्म-अण्डम् सृजति ब्रह्मा चतुर्द्दश-भव-आत्मकम् ॥ तत् वच्मि क्रमतस् तात समासात् शृणु यत्नतः ॥ ९॥
brāhma-aṇḍam sṛjati brahmā caturddaśa-bhava-ātmakam .. tat vacmi kramatas tāta samāsāt śṛṇu yatnataḥ .. 9..
पातालानि तु सप्तैव भुवनानि तथोर्द्ध्वतः ॥ उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च ॥ 5.15.१० ॥
पातालानि तु सप्त एव भुवनानि तथा ऊर्द्ध्वतस् ॥ उच्छ्रायः द्विगुणः तस्य जल-मध्ये स्थितस्य च ॥ ५।१५।१० ॥
pātālāni tu sapta eva bhuvanāni tathā ūrddhvatas .. ucchrāyaḥ dviguṇaḥ tasya jala-madhye sthitasya ca .. 5.15.10 ..
तस्याधारः स्थितो नागस्स च विष्णुः प्रकीर्तितः ॥ ब्रह्मणो वचसो हेतोर्बिभर्ति सकलं त्विदम् ॥ ११ ॥
तस्य आधारः स्थितः नागः स च विष्णुः प्रकीर्तितः ॥ ब्रह्मणः वचसः हेतोः बिभर्ति सकलम् तु इदम् ॥ ११ ॥
tasya ādhāraḥ sthitaḥ nāgaḥ sa ca viṣṇuḥ prakīrtitaḥ .. brahmaṇaḥ vacasaḥ hetoḥ bibharti sakalam tu idam .. 11 ..
शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः ॥ योनंतः पठ्यते सिद्धैर्देवर्षिगणपूजितः ॥ १२ ॥
शेषस्य अस्य गुणान् वक्तुम् न शक्ताः देव-दानवाः ॥ पठ्यते सिद्धैः देव-ऋषि-गण-पूजितः ॥ १२ ॥
śeṣasya asya guṇān vaktum na śaktāḥ deva-dānavāḥ .. paṭhyate siddhaiḥ deva-ṛṣi-gaṇa-pūjitaḥ .. 12 ..
शिरःसाहस्रयुक्तस्स सर्वा विद्योतयन्दिशः ॥ फणामणिसहस्रेण स्वस्तिकामलभूषणः ॥ १३ ॥
शिरः-साहस्र-युक्तः स सर्वाः विद्योतयन् दिशः ॥ फणामणि-सहस्रेण स्वस्तिक-अमल-भूषणः ॥ १३ ॥
śiraḥ-sāhasra-yuktaḥ sa sarvāḥ vidyotayan diśaḥ .. phaṇāmaṇi-sahasreṇa svastika-amala-bhūṣaṇaḥ .. 13 ..
मदाघूर्णितनेत्रोऽसौ साग्निश्श्वेत इवाचलः ॥ स्रग्वी किरीटी ह्याभाति यस्सदैवैक कुंडलः ॥ १४ ॥
मद-आघूर्णित-नेत्रः असौ स अग्निः श्वेतः इव अचलः ॥ स्रग्वी किरीटी हि आभाति यः सदा एव एक-कुंडलः ॥ १४ ॥
mada-āghūrṇita-netraḥ asau sa agniḥ śvetaḥ iva acalaḥ .. sragvī kirīṭī hi ābhāti yaḥ sadā eva eka-kuṃḍalaḥ .. 14 ..
सायं गंगाप्रवाहेण श्वेतशैलोपशोभितः ॥ नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः ॥ १५ ॥
सायम् गंगा-प्रवाहेण श्वेतशैल-उपशोभितः ॥ नील-वासाः मद-उद्रिक्तः कैलास-अद्रिः इव अपरः ॥ १५ ॥
sāyam gaṃgā-pravāheṇa śvetaśaila-upaśobhitaḥ .. nīla-vāsāḥ mada-udriktaḥ kailāsa-adriḥ iva aparaḥ .. 15 ..
लांगलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम्॥योऽर्च्यते नागकन्याभिस्स्वर्णवर्णाभिरादरात् ॥ १६॥
लांगल-आसक्त-हस्त-अग्रः बिभ्रन् मुसलम् उत्तमम्॥यः अर्च्यते नाग-कन्याभिः स्वर्ण-वर्णाभिः आदरात् ॥ १६॥
lāṃgala-āsakta-hasta-agraḥ bibhran musalam uttamam..yaḥ arcyate nāga-kanyābhiḥ svarṇa-varṇābhiḥ ādarāt .. 16..
संकर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः ॥ कल्पांते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः ॥ दग्ध्वा जगत्त्रयं शान्ता भवंतीत्यनुशुश्रुम ॥ १७ ॥
॥ कल्प-अन्ते निष्क्रमन्ते यत् वक्त्रेभ्यः अग्नि-शिखाः मुहुर् ॥ दग्ध्वा जगत्त्रयम् शान्ताः भवन्ति इति अनुशुश्रुम ॥ १७ ॥
.. kalpa-ante niṣkramante yat vaktrebhyaḥ agni-śikhāḥ muhur .. dagdhvā jagattrayam śāntāḥ bhavanti iti anuśuśruma .. 17 ..
आस्ते पातालमूलस्थस्स शेषः क्षितिमण्डलम् ॥ बिभ्रत्स्वपृष्ठे भूतेशश्शेषोऽशेषगुणार्चितः ॥ १८॥
आस्ते पाताल-मूल-स्थः स शेषः क्षिति-मण्डलम् ॥ बिभ्रत् स्व-पृष्ठे भूतेशः शेषः अशेष-गुण-अर्चितः ॥ १८॥
āste pātāla-mūla-sthaḥ sa śeṣaḥ kṣiti-maṇḍalam .. bibhrat sva-pṛṣṭhe bhūteśaḥ śeṣaḥ aśeṣa-guṇa-arcitaḥ .. 18..
तस्य वीर्यप्रभावश्च साकांक्षैस्त्रिदशैरपि ॥ न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा ॥ १९ ॥
तस्य वीर्य-प्रभावः च साकांक्षैः त्रिदशैः अपि ॥ न हि वर्णयितुम् शक्यः स्वरूपम् ज्ञातुम् एव वा ॥ १९ ॥
tasya vīrya-prabhāvaḥ ca sākāṃkṣaiḥ tridaśaiḥ api .. na hi varṇayitum śakyaḥ svarūpam jñātum eva vā .. 19 ..
आस्ते कुसुममालेव फणामणिशिलारुणा ॥ यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति ॥ 5.15.२०॥
आस्ते कुसुम-माला इव फणामणि-शिला-अरुणा ॥ यस्य एषा सकला पृथ्वी कः तत् वीर्यम् वदिष्यति ॥ ५।१५।२०॥
āste kusuma-mālā iva phaṇāmaṇi-śilā-aruṇā .. yasya eṣā sakalā pṛthvī kaḥ tat vīryam vadiṣyati .. 5.15.20..
यदा विजृम्भतेऽनंतो मदाघूर्णितलोचनः ॥ तदा चलति भूरेषा साद्रितोयाधिकानना ॥ २१॥
यदा विजृम्भते अनंतः मद-आघूर्णित-लोचनः ॥ तदा चलति भूः एषा स अद्रि-तोय-अधिक-आनना ॥ २१॥
yadā vijṛmbhate anaṃtaḥ mada-āghūrṇita-locanaḥ .. tadā calati bhūḥ eṣā sa adri-toya-adhika-ānanā .. 21..
दशसाहस्रमेकैकं पातालं मुनि सत्तम ॥ अतलं वितलं चैव सुतलं च रसातलम् ॥ २२ ॥
दश-साहस्रम् एकैकम् पातालम् मुनि सत्तम ॥ अतलम् वितलम् च एव सुतलम् च रसातलम् ॥ २२ ॥
daśa-sāhasram ekaikam pātālam muni sattama .. atalam vitalam ca eva sutalam ca rasātalam .. 22 ..
तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् ॥ भूमेरधस्सप्त लोका इमे ज्ञेया विचक्षणैः॥२३॥
तलम् तलातलम् च अग्र्यम् पातालम् सप्तमम् मतम् ॥ भूमेः अधस् सप्त लोकाः इमे ज्ञेयाः विचक्षणैः॥२३॥
talam talātalam ca agryam pātālam saptamam matam .. bhūmeḥ adhas sapta lokāḥ ime jñeyāḥ vicakṣaṇaiḥ..23..
उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः ॥ रत्नवन्तोऽथ प्रासादा भूमयो हेमसंभवाः॥२४॥
उच्छ्रायः द्विगुणः च एषाम् सर्वेषाम् रत्न-भूमयः ॥ रत्नवन्तः अथ प्रासादाः भूमयः हेम-संभवाः॥२४॥
ucchrāyaḥ dviguṇaḥ ca eṣām sarveṣām ratna-bhūmayaḥ .. ratnavantaḥ atha prāsādāḥ bhūmayaḥ hema-saṃbhavāḥ..24..
तेषु दानवदैतेया नागानां जातयस्तथा ॥ निवसंति महानागा राक्षसा दैत्यसंभवाः ॥ २५॥
तेषु दानव-दैतेयाः नागानाम् जातयः तथा ॥ निवसंति महा-नागाः राक्षसाः दैत्य-संभवाः ॥ २५॥
teṣu dānava-daiteyāḥ nāgānām jātayaḥ tathā .. nivasaṃti mahā-nāgāḥ rākṣasāḥ daitya-saṃbhavāḥ .. 25..
प्राह स्वर्गसदोमध्ये पातालानीति नारदः ॥ स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि॥२६॥
प्राह स्वर्गसदः मध्ये पातालानि इति नारदः ॥ स्वर् लोकात् अति रम्याणि तेभ्यः असौ आगतः दिवि॥२६॥
prāha svargasadaḥ madhye pātālāni iti nāradaḥ .. svar lokāt ati ramyāṇi tebhyaḥ asau āgataḥ divi..26..
नानाभूषणभूषासु मणयो यत्र सुप्रभाः ॥ आह्लादकानि शुभ्राणि पातालं केन तत्समम्॥२७॥
नाना भूषण-भूषासु मणयः यत्र सु प्रभाः ॥ आह्लादकानि शुभ्राणि पातालम् केन तत् समम्॥२७॥
nānā bhūṣaṇa-bhūṣāsu maṇayaḥ yatra su prabhāḥ .. āhlādakāni śubhrāṇi pātālam kena tat samam..27..
पाताले कस्य न प्रीतिरितश्चेतश्च शोभितम् ॥ देवदानवकन्याभिर्विमुक्तस्याभिजायते ॥ २८ ॥
पाताले कस्य न प्रीतिः इतस् च इतस् च शोभितम् ॥ देव-दानव-कन्याभिः विमुक्तस्य अभिजायते ॥ २८ ॥
pātāle kasya na prītiḥ itas ca itas ca śobhitam .. deva-dānava-kanyābhiḥ vimuktasya abhijāyate .. 28 ..
दिवार्करश्मयो यत्र न भवंति विधो निशि ॥ न शीतमातपो यत्र मणितेजोऽत्र केवलम् ॥ २९ ॥
दिवा अर्क-रश्मयः यत्र न भवन्ति विधो निशि ॥ न शीतम् आतपः यत्र मणि-तेजः अत्र केवलम् ॥ २९ ॥
divā arka-raśmayaḥ yatra na bhavanti vidho niśi .. na śītam ātapaḥ yatra maṇi-tejaḥ atra kevalam .. 29 ..
भक्ष्यभोज्यान्नपानानि भुज्यंते मुदितैर्भृशम् ॥ यत्र न जायते कालो गतोऽपि मुनिसत्तम ॥ 5.15.३०॥
भक्ष्य-भोज्य-अन्न-पानानि भुज्यंते मुदितैः भृशम् ॥ यत्र न जायते कालः गतः अपि मुनि-सत्तम ॥ ५।१५।३०॥
bhakṣya-bhojya-anna-pānāni bhujyaṃte muditaiḥ bhṛśam .. yatra na jāyate kālaḥ gataḥ api muni-sattama .. 5.15.30..
पुंस्कोकिलरुतं यत्र पद्मानि कमलाकराः ॥ नद्यस्सरांसि रम्याणि ह्यन्योन्यविचराणि च ॥ ३१॥
पुंस्कोकिल-रुतम् यत्र पद्मानि कमल-आकराः ॥ नद्यः सरांसि रम्याणि हि अन्योन्य-विचराणि च ॥ ३१॥
puṃskokila-rutam yatra padmāni kamala-ākarāḥ .. nadyaḥ sarāṃsi ramyāṇi hi anyonya-vicarāṇi ca .. 31..
भूषणान्यतिशुभ्राणि गंधाढ्यं चानुलेपनम् ॥ वीणावेणुमृदंगानां स्वना गेयानि च द्विज॥३२॥
भूषणानि अति शुभ्राणि गंध-आढ्यम् च अनुलेपनम् ॥ वीणा-वेणु-मृदंगानाम् स्वनाः गेयानि च द्विज॥३२॥
bhūṣaṇāni ati śubhrāṇi gaṃdha-āḍhyam ca anulepanam .. vīṇā-veṇu-mṛdaṃgānām svanāḥ geyāni ca dvija..32..
दैत्योरगैश्च भुज्यंते पाताले वै सुखानि च ॥ तपसा समवाप्नोति दानवैस्सिद्धमानवैः॥३३॥
दैत्य-उरगैः च भुज्यंते पाताले वै सुखानि च ॥ तपसा समवाप्नोति दानवैः सिद्ध-मानवैः॥३३॥
daitya-uragaiḥ ca bhujyaṃte pātāle vai sukhāni ca .. tapasā samavāpnoti dānavaiḥ siddha-mānavaiḥ..33..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने पाताललोकवर्णनं नाम पंचदशोऽध्यायः॥१५॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् ब्रह्माण्ड-कथने पाताललोकवर्णनम् नाम पंचदशः अध्यायः॥१५॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām brahmāṇḍa-kathane pātālalokavarṇanam nāma paṃcadaśaḥ adhyāyaḥ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In