| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
तेषां मूर्द्धोपरिष्टाद्वै नरकांस्ताञ्छृणुष्व च॥मत्तो मुनिवरश्रेष्ठ पच्यंते यत्र पापिनः ॥ १॥
तेषाम् मूर्द्ध-उपरिष्टात् वै नरकान् तान् शृणुष्व च॥मत्तः मुनि-वर-श्रेष्ठ पच्यंते यत्र पापिनः ॥ १॥
teṣām mūrddha-upariṣṭāt vai narakān tān śṛṇuṣva ca..mattaḥ muni-vara-śreṣṭha pacyaṃte yatra pāpinaḥ .. 1..
रौरवश्शूकरो रोधस्तालो विवसनस्तथा ॥ महाज्वालस्तप्तकुंभो लवणोपि विलोहितः॥२॥
रौरवः शूकरः रोधः तालः विवसनः तथा ॥ महाज्वालः तप्तकुंभः लवणः अपि विलोहितः॥२॥
rauravaḥ śūkaraḥ rodhaḥ tālaḥ vivasanaḥ tathā .. mahājvālaḥ taptakuṃbhaḥ lavaṇaḥ api vilohitaḥ..2..
वैतरणी पूयवहा कृमिणः कृमिभोजनः ॥ असिपत्रवनं घोरं लालाभक्षश्च दारुणः ॥ ३ ॥
वैतरणी पूय-वहा कृमिणः कृमि-भोजनः ॥ असिपत्त्रवनम् घोरम् लालाभक्षः च दारुणः ॥ ३ ॥
vaitaraṇī pūya-vahā kṛmiṇaḥ kṛmi-bhojanaḥ .. asipattravanam ghoram lālābhakṣaḥ ca dāruṇaḥ .. 3 ..
तथा पूयवहः प्रायो बहिर्ज्वालो ह्यधश्शिराः ॥ संदंशः कालसूत्रश्च तमश्चावीचिरो धनः ॥ ४ ॥
तथा पूय-वहः प्रायस् बहिस् ज्वालः हि अधस् शिराः ॥ संदंशः कालसूत्रः च तमः च अवीचिरः धनः ॥ ४ ॥
tathā pūya-vahaḥ prāyas bahis jvālaḥ hi adhas śirāḥ .. saṃdaṃśaḥ kālasūtraḥ ca tamaḥ ca avīciraḥ dhanaḥ .. 4 ..
श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ॥ इत्याद्या बहवस्तत्र नरका दुःखदायकाः ॥ ५ ॥
श्वभोजनः अथ रुष्टः च महारौरव-शाल्मली ॥ इत्याद्याः बहवः तत्र नरकाः दुःख-दायकाः ॥ ५ ॥
śvabhojanaḥ atha ruṣṭaḥ ca mahāraurava-śālmalī .. ityādyāḥ bahavaḥ tatra narakāḥ duḥkha-dāyakāḥ .. 5 ..
पच्यंते तेषु पुरुषाः पापकर्मरतास्तु ये ॥ क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु ॥ ६ ॥
पच्यंते तेषु पुरुषाः पाप-कर्म-रताः तु ये ॥ क्रमात् वक्ष्ये तु तान् व्यास सावधान-तया शृणु ॥ ६ ॥
pacyaṃte teṣu puruṣāḥ pāpa-karma-ratāḥ tu ye .. kramāt vakṣye tu tān vyāsa sāvadhāna-tayā śṛṇu .. 6 ..
कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ॥ सदाऽनृतं वदेद्यस्तु स नरो याति रौरवम्॥ ७ ॥
कूटसाक्ष्यम् तु यः वक्ति विना विप्रान् सुरान् च गाः ॥ सदा अनृतम् वदेत् यः तु स नरः याति रौरवम्॥ ७ ॥
kūṭasākṣyam tu yaḥ vakti vinā viprān surān ca gāḥ .. sadā anṛtam vadet yaḥ tu sa naraḥ yāti rauravam.. 7 ..
भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ॥ सुरापो ब्रह्महंता च परद्रव्यापहारकः ॥ ८ ॥
भ्रूण-हा स्वर्ण-हर्ता च गोरोधी विश्व-घातकः ॥ च पर ॥ ८ ॥
bhrūṇa-hā svarṇa-hartā ca gorodhī viśva-ghātakaḥ .. ca para .. 8 ..
यस्तत्संगी स वै याति मृतो व्यास गुरोर्वधात् ॥ ततः कुंभे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा ॥ ९ ॥
यः तद्-संगी स वै याति मृतः व्यास गुरोः वधात् ॥ ततस् कुंभे स्वसुः मातुः गोः च एव दुहितुः तथा ॥ ९ ॥
yaḥ tad-saṃgī sa vai yāti mṛtaḥ vyāsa guroḥ vadhāt .. tatas kuṃbhe svasuḥ mātuḥ goḥ ca eva duhituḥ tathā .. 9 ..
साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ॥ तप्तलोहेषु पच्यंते यश्च भक्तं परित्यजेत् ॥ 5.16.१० ॥
साध्व्याः विक्रय-कृत् च अथ वार्द्धकी केश-विक्रयी ॥ तप्त-लोहेषु पच्यंते यः च भक्तम् परित्यजेत् ॥ ५।१६।१० ॥
sādhvyāḥ vikraya-kṛt ca atha vārddhakī keśa-vikrayī .. tapta-loheṣu pacyaṃte yaḥ ca bhaktam parityajet .. 5.16.10 ..
अवमंता गुरूणां यः पश्चाद्भोक्ता नराधमः ॥ देवदूषयिता चैव देवविक्रयिकश्च यः ॥ ११ ॥
अवमंता गुरूणाम् यः पश्चात् भोक्ता नर-अधमः ॥ देव-दूषयिता च एव देव-विक्रयिकः च यः ॥ ११ ॥
avamaṃtā gurūṇām yaḥ paścāt bhoktā nara-adhamaḥ .. deva-dūṣayitā ca eva deva-vikrayikaḥ ca yaḥ .. 11 ..
अगम्यगामी यश्चांते याति सप्तबलं द्विज ॥ चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा ॥ १२ ॥ ।
अगम्य-गामी यः च अन्ते याति सप्त-बलम् द्विज ॥ चौरः गो-घ्नः हि पतितः मर्यादा-दूषकः तथा ॥ १२ ॥ ।
agamya-gāmī yaḥ ca ante yāti sapta-balam dvija .. cauraḥ go-ghnaḥ hi patitaḥ maryādā-dūṣakaḥ tathā .. 12 .. .
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टकृत् ॥ १३॥
देव-द्विज-पितृ-द्वेष्टा रत्न-दूषयिता च यः ॥ स याति कृमि-भक्षम् वै कृमीन् अत्ति दुरिष्ट-कृत् ॥ १३॥
deva-dvija-pitṛ-dveṣṭā ratna-dūṣayitā ca yaḥ .. sa yāti kṛmi-bhakṣam vai kṛmīn atti duriṣṭa-kṛt .. 13..
पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः॥लालाभक्षं स यात्यज्ञो यश्शस्त्रकूटकृन्नरः ॥ १४॥
पितृ-देव-सुरान् यः तु पर्यश्नाति नर-अधमः॥लालाभक्षम् स याति अज्ञः यः शस्त्र-कूट-कृत् नरः ॥ १४॥
pitṛ-deva-surān yaḥ tu paryaśnāti nara-adhamaḥ..lālābhakṣam sa yāti ajñaḥ yaḥ śastra-kūṭa-kṛt naraḥ .. 14..
यश्चांत्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ॥ अयाज्ययाजकश्चैव तथैवाभक्ष्य भक्षकः॥ १५ ॥
यः च अंत्यजेन संसेव्यः हि असत्-ग्राही तु यः द्विजः ॥ अ याज्य-याजकः च एव तथा एव अ भक्ष्य भक्षकः॥ १५ ॥
yaḥ ca aṃtyajena saṃsevyaḥ hi asat-grāhī tu yaḥ dvijaḥ .. a yājya-yājakaḥ ca eva tathā eva a bhakṣya bhakṣakaḥ.. 15 ..
रुधिरौघे पतंत्येते सोमविक्रयिणश्च ये॥मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम् ॥ १६ ॥
रुधिर-ओघे पतन्ति एते सोम-विक्रयिणः च ये॥मधु-हा ग्राम-हा याति क्रूराम् वैतरणीम् नदीम् ॥ १६ ॥
rudhira-oghe patanti ete soma-vikrayiṇaḥ ca ye..madhu-hā grāma-hā yāti krūrām vaitaraṇīm nadīm .. 16 ..
नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ॥ ते कृत्यं यांत्यशौचाश्च कुलकाजीविनश्च ये ॥ १७ ॥
नव-यौवन-मत्ताः च मर्यादा-भेदिनः च ये ॥ ते कृत्यम् यांति अशौचाः च कुलक-आजीविनः च ये ॥ १७ ॥
nava-yauvana-mattāḥ ca maryādā-bhedinaḥ ca ye .. te kṛtyam yāṃti aśaucāḥ ca kulaka-ājīvinaḥ ca ye .. 17 ..
असिपत्रवनं याति वृक्षच्छेदी वृथैव यः॥क्षुरभ्रका मृगव्याधा वह्निज्वाले पतंति ते ॥ १८ ॥
असिपत्रवनम् याति वृक्ष-छेदी वृथा एव यः॥क्षुरभ्रकाः मृग-व्याधाः वह्नि-ज्वाले पतंति ते ॥ १८ ॥
asipatravanam yāti vṛkṣa-chedī vṛthā eva yaḥ..kṣurabhrakāḥ mṛga-vyādhāḥ vahni-jvāle pataṃti te .. 18 ..
भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ॥ यात्यंते द्विज तत्रैव यः श्वपाकेषु वह्निदः ॥ १९ ॥
भ्रष्ट-आचारः हि यः विप्रः क्षत्रियः वैश्यः एव च ॥ द्विज तत्र एव यः श्वपाकेषु वह्नि-दः ॥ १९ ॥
bhraṣṭa-ācāraḥ hi yaḥ vipraḥ kṣatriyaḥ vaiśyaḥ eva ca .. dvija tatra eva yaḥ śvapākeṣu vahni-daḥ .. 19 ..
व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये॥संदंशयातनामध्ये पतंति भृशदारुणे॥5.16.२०॥
व्रतस्य लोपकाः ये च स्व-आश्रमात् विच्युताः च ये॥संदंश-यातना-मध्ये पतंति भृश-दारुणे॥५।१६।२०॥
vratasya lopakāḥ ye ca sva-āśramāt vicyutāḥ ca ye..saṃdaṃśa-yātanā-madhye pataṃti bhṛśa-dāruṇe..5.16.20..
वीर्यं स्वप्नेषु स्कंदेयुर्ये नरा ब्रह्मचारिणः॥पुत्रा नाध्यापिता यैश्च ते पतंति श्वभोजने ॥ २१ ॥
वीर्यम् स्वप्नेषु स्कंदेयुः ये नराः ब्रह्मचारिणः॥पुत्राः न अध्यापिताः यैः च ते पतंति श्वभोजने ॥ २१ ॥
vīryam svapneṣu skaṃdeyuḥ ye narāḥ brahmacāriṇaḥ..putrāḥ na adhyāpitāḥ yaiḥ ca te pataṃti śvabhojane .. 21 ..
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ॥ येषु दुष्कृतकर्माणः पच्यते यातनागताः ॥ २२ ॥
एते च अन्ये च नरकाः शतशस् अथ सहस्रशस् ॥ येषु दुष्कृत-कर्माणः पच्यते यातना-गताः ॥ २२ ॥
ete ca anye ca narakāḥ śataśas atha sahasraśas .. yeṣu duṣkṛta-karmāṇaḥ pacyate yātanā-gatāḥ .. 22 ..
तथैव पापान्येतानि तथान्यानि सहस्रशः ॥ भुज्यंते यानि पुरुषैर्नरकांतरगोचरैः ॥ २३॥
तथा एव पापानि एतानि तथा अन्यानि सहस्रशस् ॥ भुज्यंते यानि पुरुषैः नरक-अंतर-गोचरैः ॥ २३॥
tathā eva pāpāni etāni tathā anyāni sahasraśas .. bhujyaṃte yāni puruṣaiḥ naraka-aṃtara-gocaraiḥ .. 23..
वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः॥कर्मणा मनसा वाचा निरये तु पतंति ते॥२४॥
वर्ण-आश्रम-विरुद्धम् च कर्म कुर्वंति ये नराः॥कर्मणा मनसा वाचा निरये तु पतंति ते॥२४॥
varṇa-āśrama-viruddham ca karma kurvaṃti ye narāḥ..karmaṇā manasā vācā niraye tu pataṃti te..24..
अधश्शिरोभिर्दृश्यंते नारका दिवि दैवतैः॥देवानधोमुखान्सर्वानधः पश्यंति नारकाः ॥ २५॥
अधस् शिरोभिः दृश्यंते नारकाः दिवि दैवतैः॥देवान् अधोमुखान् सर्वान् अधस् पश्यंति नारकाः ॥ २५॥
adhas śirobhiḥ dṛśyaṃte nārakāḥ divi daivataiḥ..devān adhomukhān sarvān adhas paśyaṃti nārakāḥ .. 25..
स्थावराः कृमिपाकाश्च पक्षिणः पशवो मृगाः ॥ धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्॥२६॥
स्थावराः कृमि-पाकाः च पक्षिणः पशवः मृगाः ॥ धार्मिकाः त्रिदशाः तद्वत् मोक्षिणः च यथाक्रमम्॥२६॥
sthāvarāḥ kṛmi-pākāḥ ca pakṣiṇaḥ paśavaḥ mṛgāḥ .. dhārmikāḥ tridaśāḥ tadvat mokṣiṇaḥ ca yathākramam..26..
यावंतो जंतवस्स्वर्गे तावंतो नरकौकसः ॥ पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २७॥
यावंतः जंतवः स्वर्गे तावंतः नरक-ओकसः ॥ पाप-कृत् याति नरकम् प्रायश्चित्त-पराङ्मुखः ॥ २७॥
yāvaṃtaḥ jaṃtavaḥ svarge tāvaṃtaḥ naraka-okasaḥ .. pāpa-kṛt yāti narakam prāyaścitta-parāṅmukhaḥ .. 27..
गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा ॥ प्रायश्चित्तानि कालेय मनुस्स्वायम्भुवोऽब्रवीत्॥२८॥
गुरूणि गुरुभिः च एव लघूनि लघुभिः तथा ॥ प्रायश्चित्तानि कालेय मनुः स्वायम्भुवः अब्रवीत्॥२८॥
gurūṇi gurubhiḥ ca eva laghūni laghubhiḥ tathā .. prāyaścittāni kāleya manuḥ svāyambhuvaḥ abravīt..28..
यानि तेषामशेषाणां कर्मार्ण्युक्तानि तेषु वै॥प्रायश्चित्तमशेषेण हरानुस्मरणं परम् ॥ २९॥
यानि तेषाम् अशेषाणाम् कर्म-अर्णि-उक्तानि तेषु वै॥प्रायश्चित्तम् अशेषेण हर-अनुस्मरणम् परम् ॥ २९॥
yāni teṣām aśeṣāṇām karma-arṇi-uktāni teṣu vai..prāyaścittam aśeṣeṇa hara-anusmaraṇam param .. 29..
प्रायश्चित्तं तु यस्यैव पापं पुंसः प्रजायते॥कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम्॥5.16.३०॥
प्रायश्चित्तम् तु यस्य एव पापम् पुंसः प्रजायते॥कृते पापे अनुतापः अपि शिव-संस्मरणम् परम्॥५।१६।३०॥
prāyaścittam tu yasya eva pāpam puṃsaḥ prajāyate..kṛte pāpe anutāpaḥ api śiva-saṃsmaraṇam param..5.16.30..
माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन्॥प्रातर्निशि च संध्यायां क्षीणपापो भवेन्नरः॥३१॥
माहेश्वरम् अवाप्नोति मध्याह्न-आदिषु संस्मरन्॥प्रातर् निशि च संध्यायाम् क्षीण-पापः भवेत् नरः॥३१॥
māheśvaram avāpnoti madhyāhna-ādiṣu saṃsmaran..prātar niśi ca saṃdhyāyām kṣīṇa-pāpaḥ bhavet naraḥ..31..
मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसंक्षयम॥शिवस्य स्मरणादेव तस्य शंभोरुमापतेः ॥ ३२ ॥
मुक्तिम् प्रयाति स्वर्गम् वा समस्त-क्लेश-संक्षयम्॥शिवस्य स्मरणात् एव तस्य शंभोः उमापतेः ॥ ३२ ॥
muktim prayāti svargam vā samasta-kleśa-saṃkṣayam..śivasya smaraṇāt eva tasya śaṃbhoḥ umāpateḥ .. 32 ..
पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च ॥ भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम ॥ ३३ ॥
पाप-अन्तरायः विप्र-इन्द्र जप-होम-अर्चन-आदि च ॥ भवति एव न कुत्र अपि त्रैलोक्ये मुनि-सत्तम ॥ ३३ ॥
pāpa-antarāyaḥ vipra-indra japa-homa-arcana-ādi ca .. bhavati eva na kutra api trailokye muni-sattama .. 33 ..
महेश्वरे मतिर्यस्य जपहोमार्चनादिपु ॥ यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम् ॥ ३४॥
महेश्वरे मतिः यस्य जप-होम-अर्चन-आदिपु ॥ यत् पुण्यम् तत् कृतम् तेन देव-इन्द्र-त्व-आदिकम् फलम् ॥ ३४॥
maheśvare matiḥ yasya japa-homa-arcana-ādipu .. yat puṇyam tat kṛtam tena deva-indra-tva-ādikam phalam .. 34..
पुमान्न नरकं याति यः स्मरन्भक्तितो मुने ॥ अहर्निशं शिवं तस्मात्स क्षीणाशेषपातकः ॥ ३५ ॥
पुमान् न नरकम् याति यः स्मरन् भक्तितः मुने ॥ अहर्निशम् शिवम् तस्मात् स क्षीण-अशेष-पातकः ॥ ३५ ॥
pumān na narakam yāti yaḥ smaran bhaktitaḥ mune .. aharniśam śivam tasmāt sa kṣīṇa-aśeṣa-pātakaḥ .. 35 ..
नरकस्वर्गसंज्ञाये पापपुण्ये द्विजोत्तम ॥ ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च ॥ ३६॥
नरक-स्वर्ग-संज्ञाये पाप-पुण्ये द्विजोत्तम ॥ ययोः तु एकम् तु दुःखाय अन्यत् सुखाय उद्भवाय च ॥ ३६॥
naraka-svarga-saṃjñāye pāpa-puṇye dvijottama .. yayoḥ tu ekam tu duḥkhāya anyat sukhāya udbhavāya ca .. 36..
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ॥ तत्स्याद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ॥ ३७॥
तत् एव प्रीतये भूत्वा पुनर् दुःखाय जायते ॥ तत् स्यात् दुःख-आत्मकम् न अस्ति न च किंचिद् सुख-आत्मकम् ॥ ३७॥
tat eva prītaye bhūtvā punar duḥkhāya jāyate .. tat syāt duḥkha-ātmakam na asti na ca kiṃcid sukha-ātmakam .. 37..
मनसः परिणामोऽयं सुखदुःखोपलक्षणः ॥ ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते ॥ ३८ ॥
मनसः परिणामः अयम् सुख-दुःख-उपलक्षणः ॥ ज्ञानम् एव परम् ब्रह्म ज्ञानम् तत्त्वाय कल्पते ॥ ३८ ॥
manasaḥ pariṇāmaḥ ayam sukha-duḥkha-upalakṣaṇaḥ .. jñānam eva param brahma jñānam tattvāya kalpate .. 38 ..
ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् ॥ परविज्ञानतः किंचिद्विद्यते न परं मुने ॥ ३९ ॥
ज्ञान-आत्मकम् इदम् विश्वम् सकलम् सचराचरम् ॥ पर-विज्ञानतः किंचिद् विद्यते न परम् मुने ॥ ३९ ॥
jñāna-ātmakam idam viśvam sakalam sacarācaram .. para-vijñānataḥ kiṃcid vidyate na param mune .. 39 ..
एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् ॥ अत ऊर्ध्वं प्रवक्ष्यामि सांप्रतं मंडलं भुवः ॥ 5.16.४०॥
एवम् एतत् मया आख्यातम् सर्वम् नरक-मण्डलम् ॥ अतस् ऊर्ध्वम् प्रवक्ष्यामि सांप्रतम् मंडलम् भुवः ॥ ५।१६।४०॥
evam etat mayā ākhyātam sarvam naraka-maṇḍalam .. atas ūrdhvam pravakṣyāmi sāṃpratam maṃḍalam bhuvaḥ .. 5.16.40..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् ब्रह्माण्ड-वर्णने नरकोद्धारवर्णनम् नाम षोडशः अध्यायः ॥ १६ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām brahmāṇḍa-varṇane narakoddhāravarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In