| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
पाराशर्य्य सुसंक्षेपाच्छृणु त्वं वदतो मम ॥ मण्डलं च भुवस्सम्यक् सप्तद्वीपादिसंयुतम् ॥ १ ॥
पाराशर्य्य सु संक्षेपात् शृणु त्वम् वदतः मम ॥ मण्डलम् च भुवः सम्यक् सप्तद्वीपा-आदि-संयुतम् ॥ १ ॥
pārāśaryya su saṃkṣepāt śṛṇu tvam vadataḥ mama .. maṇḍalam ca bhuvaḥ samyak saptadvīpā-ādi-saṃyutam .. 1 ..
जंबू प्लक्षश्शाल्मलिश्च कुशः क्रौञ्चश्च शाककः ॥ पुष्पकस्सप्तमस्सर्वे समुद्रैस्सप्तभिर्वृताः ॥ २ ॥
जंबू प्लक्षः शाल्मलिः च कुशः क्रौञ्चः च शाककः ॥ पुष्पकः सप्तमः सर्वे समुद्रैः सप्तभिः वृताः ॥ २ ॥
jaṃbū plakṣaḥ śālmaliḥ ca kuśaḥ krauñcaḥ ca śākakaḥ .. puṣpakaḥ saptamaḥ sarve samudraiḥ saptabhiḥ vṛtāḥ .. 2 ..
लवणेक्षुरसौ सर्पिर्दविदुग्धजलाशयाः॥जम्बुद्वीपस्समस्तानामेतेषां मध्यतः स्थितः ॥ ३ ॥
लवण-इक्षु-रसौ सर्पिः-दवि-दुग्ध-जल-आशयाः॥जम्बुद्वीपः समस्तानाम् एतेषाम् मध्यतस् स्थितः ॥ ३ ॥
lavaṇa-ikṣu-rasau sarpiḥ-davi-dugdha-jala-āśayāḥ..jambudvīpaḥ samastānām eteṣām madhyatas sthitaḥ .. 3 ..
तस्यापि मेरुः कालेयमध्ये कनकपर्वतः ॥ प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ॥ ४॥
तस्य अपि मेरुः कालेय-मध्ये कनकपर्वतः ॥ प्रविष्टः षोडश अधस्तात् योजनैः तस्य च उच्छ्रयः ॥ ४॥
tasya api meruḥ kāleya-madhye kanakaparvataḥ .. praviṣṭaḥ ṣoḍaśa adhastāt yojanaiḥ tasya ca ucchrayaḥ .. 4..
चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ॥ ५॥
चतुरशीति-मानैः तैः द्वात्रिंशत् मूर्ध्नि विस्तृतः ॥ भूमि-पृष्ठ-स्थ-शैलः अयम् विस्तरः तस्य सर्वतस् ॥ ५॥
caturaśīti-mānaiḥ taiḥ dvātriṃśat mūrdhni vistṛtaḥ .. bhūmi-pṛṣṭha-stha-śailaḥ ayam vistaraḥ tasya sarvatas .. 5..
मूले षोडशसाहस्रः कर्णिकाकार संस्थितः ॥ हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ॥ ६॥
मूले षोडश-साहस्रः कर्णिका-आकार-संस्थितः ॥ हिमवान् हेमकूटः च निषधः च अस्य दक्षिणे ॥ ६॥
mūle ṣoḍaśa-sāhasraḥ karṇikā-ākāra-saṃsthitaḥ .. himavān hemakūṭaḥ ca niṣadhaḥ ca asya dakṣiṇe .. 6..
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ दशसाहस्रिकं ह्येते रत्नवंतोऽरुणप्रभाः ॥ ७॥
नीलः श्वेतः च शृङ्गी च उत्तरे वर्षपर्वताः ॥ दश-साहस्रिकम् हि एते रत्नवन्तः अरुण-प्रभाः ॥ ७॥
nīlaḥ śvetaḥ ca śṛṅgī ca uttare varṣaparvatāḥ .. daśa-sāhasrikam hi ete ratnavantaḥ aruṇa-prabhāḥ .. 7..
सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते॥भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्॥८॥
सहस्र-योजन-उत्सेधाः तावत्-विस्तारिणः च ते॥भारतम् प्रथमम् वर्षम् ततस् किंपुरुषम् स्मृतम्॥८॥
sahasra-yojana-utsedhāḥ tāvat-vistāriṇaḥ ca te..bhāratam prathamam varṣam tatas kiṃpuruṣam smṛtam..8..
हरिवर्षं ततो ऽन्यद्वै मेरोर्दक्षिणतो मुने ॥ रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम्॥९॥
हरिवर्षम् ततस् अन्यत् वै मेरोः दक्षिणतस् मुने ॥ रम्यकम् च उत्तरे पार्श्वे तस्य अंशे तु हिरण्मयम्॥९॥
harivarṣam tatas anyat vai meroḥ dakṣiṇatas mune .. ramyakam ca uttare pārśve tasya aṃśe tu hiraṇmayam..9..
उत्तरे कुरवश्चैव यथा वै भारतं तथा॥नवसाहस्रमेकैकमेतेषां मुनिसत्तम ॥ 5.17.१० ॥
उत्तरे कुरवः च एव यथा वै भारतम् तथा॥नव-साहस्रम् एकैकम् एतेषाम् मुनि-सत्तम ॥ ५।१७।१० ॥
uttare kuravaḥ ca eva yathā vai bhāratam tathā..nava-sāhasram ekaikam eteṣām muni-sattama .. 5.17.10 ..
इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ मेरोश्चतुर्द्दिशं तत्र नवसाहस्रमुच्छ्रितम् ॥ ११ ॥
इलावृतम् तु तद्-मध्ये तद्-मध्ये मेरुः उच्छ्रितः ॥ मेरोः चतुर्द्दिशम् तत्र नव-साहस्रम् उच्छ्रितम् ॥ ११ ॥
ilāvṛtam tu tad-madhye tad-madhye meruḥ ucchritaḥ .. meroḥ caturddiśam tatra nava-sāhasram ucchritam .. 11 ..
इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः ॥ विष्कंभा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ॥ १२ ॥
इलावृतम् ऋषि-श्रेष्ठ चत्वारः च अत्र पर्वताः ॥ विष्कंभाः रचिताः मेरोः योजिताः पुनर् उच्छ्रिताः ॥ १२ ॥
ilāvṛtam ṛṣi-śreṣṭha catvāraḥ ca atra parvatāḥ .. viṣkaṃbhāḥ racitāḥ meroḥ yojitāḥ punar ucchritāḥ .. 12 ..
पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः ॥ विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ॥ १३॥
पूर्वे हि मन्दरः नाम दक्षिणे गन्धमादनः ॥ विपुलः पश्चिमे भागे सुपार्श्वः च उत्तरे स्थितः ॥ १३॥
pūrve hi mandaraḥ nāma dakṣiṇe gandhamādanaḥ .. vipulaḥ paścime bhāge supārśvaḥ ca uttare sthitaḥ .. 13..
कदंबो जंबुवृक्षश्च पिप्पलो वट एव च ॥ एकादशशतायामाः पादपा गिरिकेतवः ॥ १४ ॥
कदंबः जंबु-वृक्षः च पिप्पलः वटः एव च ॥ एकादश-शत-आयामाः पादपाः गिरि-केतवः ॥ १४ ॥
kadaṃbaḥ jaṃbu-vṛkṣaḥ ca pippalaḥ vaṭaḥ eva ca .. ekādaśa-śata-āyāmāḥ pādapāḥ giri-ketavaḥ .. 14 ..
जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने ॥ विराजंते महावृक्षास्तत्स्वभावं वदामि ते ॥ १५ ॥
जम्बूद्वीपस्य नाम्नः वै हेतुम् शृणु महा-मुने ॥ विराजन्ते महा-वृक्षाः तद्-स्वभावम् वदामि ते ॥ १५ ॥
jambūdvīpasya nāmnaḥ vai hetum śṛṇu mahā-mune .. virājante mahā-vṛkṣāḥ tad-svabhāvam vadāmi te .. 15 ..
महागज प्रमाणानि जम्ब्वास्तस्याः फलानि च ॥ पतंति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः ॥ १६ ॥
महागज-प्रमाणानि जम्ब्वाः तस्याः फलानि च ॥ पतन्ति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतस् ॥ १६ ॥
mahāgaja-pramāṇāni jambvāḥ tasyāḥ phalāni ca .. patanti bhūbhṛtaḥ pṛṣṭhe śīryyamāṇāni sarvatas .. 16 ..
रसेन तेषां विख्याता जम्बूनदीति वै ॥ परितो वर्तते तत्र पीयते तन्निवासिभिः ॥ १७ ॥
रसेन तेषाम् विख्याता जम्बूनदी इति वै ॥ परितस् वर्तते तत्र पीयते तद्-निवासिभिः ॥ १७ ॥
rasena teṣām vikhyātā jambūnadī iti vai .. paritas vartate tatra pīyate tad-nivāsibhiḥ .. 17 ..
न स्वेदो न च दौर्गंध्यं न जरा चेन्द्रियग्रहः ॥ तस्यास्तटे स्थितानान्तु जनानां तन्न जायते ॥ १८॥
न स्वेदः न च दौर्गंध्यम् न जरा च इन्द्रिय-ग्रहः ॥ तस्याः तटे स्थितानाम् तु जनानाम् तत् न जायते ॥ १८॥
na svedaḥ na ca daurgaṃdhyam na jarā ca indriya-grahaḥ .. tasyāḥ taṭe sthitānām tu janānām tat na jāyate .. 18..
तीरमृत्स्नां च सम्प्राप्य मुखवायुविशोषिताम् ॥ जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्॥ १९ ॥
तीर-मृत्स्नाम् च सम्प्राप्य मुख-वायु-विशोषिताम् ॥ जाम्बूनद-आख्यम् भवति सुवर्णम् सिद्ध-भूषणम्॥ १९ ॥
tīra-mṛtsnām ca samprāpya mukha-vāyu-viśoṣitām .. jāmbūnada-ākhyam bhavati suvarṇam siddha-bhūṣaṇam.. 19 ..
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ॥ वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ॥ 5.17.२० ॥
भद्राश्वम् पूर्वतस् मेरोः केतुमालम् च पश्चिमे ॥ वर्षे द्वे तु मुनि-श्रेष्ठ तयोः मध्ये इलावृतम् ॥ ५।१७।२० ॥
bhadrāśvam pūrvatas meroḥ ketumālam ca paścime .. varṣe dve tu muni-śreṣṭha tayoḥ madhye ilāvṛtam .. 5.17.20 ..
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ॥ विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २१ ॥
वनम् चैत्ररथम् पूर्वे दक्षिणे गन्धमादनः ॥ विभ्राजम् पश्चिमे तद्वत् उत्तरे नन्दनम् स्मृतम् ॥ २१ ॥
vanam caitraratham pūrve dakṣiṇe gandhamādanaḥ .. vibhrājam paścime tadvat uttare nandanam smṛtam .. 21 ..
अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् ॥ सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ॥ २२ ॥
अरुणोदम् महाभद्रम् शीतोदम् मानसम् स्मृतम् ॥ सरांसि एतानि चत्वारि देव-भोग्यानि सर्वशस् ॥ २२ ॥
aruṇodam mahābhadram śītodam mānasam smṛtam .. sarāṃsi etāni catvāri deva-bhogyāni sarvaśas .. 22 ..
शीतांजनः कुरुंगश्च कुररो माल्यवांस्तथा ॥ चैकैकप्रमुखा मेरोः पूर्वतः केसराचलाः॥२३॥
शीतांजनः कुरुंगः च कुररः माल्यवान् तथा ॥ च एकैक-प्रमुखाः मेरोः पूर्वतस् केसर-अचलाः॥२३॥
śītāṃjanaḥ kuruṃgaḥ ca kuraraḥ mālyavān tathā .. ca ekaika-pramukhāḥ meroḥ pūrvatas kesara-acalāḥ..23..
त्रिकूटश्शिशिरश्चैव पतंगो रुचकस्तथा॥निषधः कपिलायाश्च दक्षिणे केसराचलाः॥२४॥
त्रिकूटः शिशिरः च एव पतंगः रुचकः तथा॥निषधः कपिलायाः च दक्षिणे केसर-अचलाः॥२४॥
trikūṭaḥ śiśiraḥ ca eva pataṃgaḥ rucakaḥ tathā..niṣadhaḥ kapilāyāḥ ca dakṣiṇe kesara-acalāḥ..24..
सिनी वासः कुसुंभश्च कपिलो नारदस्तथा ॥ नागादयश्च गिरयः पश्चिमे केसराचलाः।२५॥
सिनी वासः कुसुंभः च कपिलः नारदः तथा ॥ नाग-आदयः च गिरयः पश्चिमे केसर-अचलाः।२५॥
sinī vāsaḥ kusuṃbhaḥ ca kapilaḥ nāradaḥ tathā .. nāga-ādayaḥ ca girayaḥ paścime kesara-acalāḥ.25..
शंखचूडोऽथ ऋषभो हंसो नाम महीधरः॥कालंजराद्याश्च तथा उत्तरे केसराचलाः॥२६॥
शंखचूडः अथ ऋषभः हंसः नाम महीधरः॥कालंजर-आद्याः च तथा उत्तरे केसर-अचलाः॥२६॥
śaṃkhacūḍaḥ atha ṛṣabhaḥ haṃsaḥ nāma mahīdharaḥ..kālaṃjara-ādyāḥ ca tathā uttare kesara-acalāḥ..26..
मेरोरुपरि मध्ये हि शातकौंभं विधेः पुरम्॥चतुर्द्दशसहस्राणि योजनानि च संख्यया ॥ २७॥
मेरोः उपरि मध्ये हि शातकौंभम् विधेः पुरम्॥चतुर्द्दश-सहस्राणि योजनानि च संख्यया ॥ २७॥
meroḥ upari madhye hi śātakauṃbham vidheḥ puram..caturddaśa-sahasrāṇi yojanāni ca saṃkhyayā .. 27..
अष्टानां लोकपालानां परितस्तदनुक्रमात्॥यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः ॥ २८ ॥
अष्टानाम् लोकपालानाम् परितस् तद्-अनुक्रमात्॥यथादिशम् यथारूपम् पुरस् अष्टौ उपकल्पिताः ॥ २८ ॥
aṣṭānām lokapālānām paritas tad-anukramāt..yathādiśam yathārūpam puras aṣṭau upakalpitāḥ .. 28 ..
तस्यां च ब्रह्मणः पुर्य्यां पातयित्वेन्दुमण्डलम् ॥ विष्णुपादविनिष्क्रांता गंगा पतति वै नदी ॥ २९ ॥
तस्याम् च ब्रह्मणः पुर्य्याम् पातयित्वा इन्दु-मण्डलम् ॥ विष्णु-पाद-विनिष्क्रांता गंगा पतति वै नदी ॥ २९ ॥
tasyām ca brahmaṇaḥ puryyām pātayitvā indu-maṇḍalam .. viṣṇu-pāda-viniṣkrāṃtā gaṃgā patati vai nadī .. 29 ..
सीता चालकनंदा च चक्षुर्भद्रा च वै क्रमात् ॥ सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ॥ 5.17.३० ॥
सीता च अलकनंदा च चक्षुः भद्रा च वै क्रमात् ॥ सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ॥ ५।१७।३० ॥
sītā ca alakanaṃdā ca cakṣuḥ bhadrā ca vai kramāt .. sā tatra patitā dikṣu caturddhā pratyapadyata .. 5.17.30 ..
सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे ॥ सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत् ॥ ३१ ॥
सीता पूर्वेण शैलम् हि नन्दा च एव तु दक्षिणे ॥ सा चक्षुः पश्चिमे च एव भद्रा च उत्तरतस् व्रजेत् ॥ ३१ ॥
sītā pūrveṇa śailam hi nandā ca eva tu dakṣiṇe .. sā cakṣuḥ paścime ca eva bhadrā ca uttaratas vrajet .. 31 ..
गिरीनतीत्य सकलांश्चतुर्द्दिक्षु महांबुधिम् ॥ सा ययौ प्रयता सूता गंगा त्रिपथगामिनी ॥ ३२ ॥
गिरीन् अतीत्य सकलान् चतुर्-द्दिक्षु महा-अंबुधिम् ॥ सा ययौ प्रयता सूता गंगा त्रिपथगामिनी ॥ ३२ ॥
girīn atītya sakalān catur-ddikṣu mahā-aṃbudhim .. sā yayau prayatā sūtā gaṃgā tripathagāminī .. 32 ..
सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ ॥ तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३३ ॥
सुनील-निषधौ यौ तौ माल्यवत्-गन्धमादनौ ॥ तेषाम् मध्य-गतः मेरुः कर्णिका-आकार-संस्थितः ॥ ३३ ॥
sunīla-niṣadhau yau tau mālyavat-gandhamādanau .. teṣām madhya-gataḥ meruḥ karṇikā-ākāra-saṃsthitaḥ .. 33 ..
भारतः केतुमालश्च भद्राश्वः कुरवस्तथा ॥ पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः ॥ ३४॥
भारतः केतुमालः च भद्राश्वः कुरवः तथा ॥ पत्राणि लोक-पद्मस्य मर्यादा-लोक-पर्वताः ॥ ३४॥
bhārataḥ ketumālaḥ ca bhadrāśvaḥ kuravaḥ tathā .. patrāṇi loka-padmasya maryādā-loka-parvatāḥ .. 34..
जठरं देवकूटश्च आयामे दक्षिणोत्तरे ॥ गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ ॥ ३५ ॥
जठरम् देवकूटः च आयामे दक्षिण-उत्तरे ॥ गन्धमादन-कैलासौ पूर्व-पश्चिमतः गतौ ॥ ३५ ॥
jaṭharam devakūṭaḥ ca āyāme dakṣiṇa-uttare .. gandhamādana-kailāsau pūrva-paścimataḥ gatau .. 35 ..
पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः ॥ दक्षिणोत्तरमायातौ कर्णिकांतर्व्यवस्थितौ ॥ ३६ ॥
पूर्व-पश्चिमतस् मेरोः निषधः नीलपर्वतः ॥ दक्षिण-उत्तरम् आयातौ कर्णिका-अंतर् व्यवस्थितौ ॥ ३६ ॥
pūrva-paścimatas meroḥ niṣadhaḥ nīlaparvataḥ .. dakṣiṇa-uttaram āyātau karṇikā-aṃtar vyavasthitau .. 36 ..
जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ ॥ केसराः पर्वता एते श्वेताद्याः सुमनोरमाः ॥ ३७॥
जठर-आद्याः स्थिताः मेरोः येषाम् द्वौ द्वौ व्यवस्थितौ ॥ केसराः पर्वताः एते श्वेत-आद्याः सु मनोरमाः ॥ ३७॥
jaṭhara-ādyāḥ sthitāḥ meroḥ yeṣām dvau dvau vyavasthitau .. kesarāḥ parvatāḥ ete śveta-ādyāḥ su manoramāḥ .. 37..
शैलानामुत्तरे द्रोण्यस्सिद्धचारणसेविताः॥सुरम्याणि तथा तासु काननानि पुराणि च ॥ ३८॥
शैलानाम् उत्तरे द्रोण्यः सिद्ध-चारण-सेविताः॥सु रम्याणि तथा तासु काननानि पुराणि च ॥ ३८॥
śailānām uttare droṇyaḥ siddha-cāraṇa-sevitāḥ..su ramyāṇi tathā tāsu kānanāni purāṇi ca .. 38..
सर्वेषां चैव देवानां यक्षगंधर्वरक्षसाम् ॥ क्रीडंति देवदैतेयाश्शैलप्रायेष्वहर्निशम् ॥ ३९ ॥
सर्वेषाम् च एव देवानाम् यक्ष-गंधर्व-रक्षसाम् ॥ क्रीडन्ति देव-दैतेयाः शैल-प्रायेषु अहर्निशम् ॥ ३९ ॥
sarveṣām ca eva devānām yakṣa-gaṃdharva-rakṣasām .. krīḍanti deva-daiteyāḥ śaila-prāyeṣu aharniśam .. 39 ..
धर्मिणामालया ह्येते भौमास्स्वर्गाः प्रकीर्तिताः ॥ न तेषु पापकर्तारो यांति पश्यंति कुत्रचित् ॥ 5.17.४० ॥
धर्मिणाम् आलयाः हि एते भौमाः स्वर्गाः प्रकीर्तिताः ॥ न तेषु पाप-कर्तारः यांति पश्यंति कुत्रचिद् ॥ ५।१७।४० ॥
dharmiṇām ālayāḥ hi ete bhaumāḥ svargāḥ prakīrtitāḥ .. na teṣu pāpa-kartāraḥ yāṃti paśyaṃti kutracid .. 5.17.40 ..
यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने ॥ न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम् ॥ ४१ ॥
यानि किंपुरुष-आदीनि वर्षाणि अष्टौ महा-मुने ॥ न तेषु शोकः न आपत्त्यः न उद्वेगः क्षुध्-भय-आदिकम् ॥ ४१ ॥
yāni kiṃpuruṣa-ādīni varṣāṇi aṣṭau mahā-mune .. na teṣu śokaḥ na āpattyaḥ na udvegaḥ kṣudh-bhaya-ādikam .. 41 ..
स्वस्थाः प्रजा निरातंकास्सर्वदुःखविवर्जिताः ॥ दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ४२ ॥
स्वस्थाः प्रजाः निरातंकाः सर्व-दुःख-विवर्जिताः ॥ दश-द्वादश-वर्षाणाम् सहस्राणि स्थिर-आयुषः ॥ ४२ ॥
svasthāḥ prajāḥ nirātaṃkāḥ sarva-duḥkha-vivarjitāḥ .. daśa-dvādaśa-varṣāṇām sahasrāṇi sthira-āyuṣaḥ .. 42 ..
कृतत्रेतादिकाश्चैव भौमान्यंभांसि सर्वतः ॥ न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना ॥ ४३ ॥
कृत-त्रेता-आदिकाः च एव भौमानि अंभांसि सर्वतस् ॥ न तेषु वर्षते देवः तेषु स्थानेषु कल्पना ॥ ४३ ॥
kṛta-tretā-ādikāḥ ca eva bhaumāni aṃbhāṃsi sarvatas .. na teṣu varṣate devaḥ teṣu sthāneṣu kalpanā .. 43 ..
सप्तस्वेतेषु नद्यश्च सुजातास्स्वर्णवा लुकाः ॥ शतशस्संति क्षुद्राश्च तासु क्रीडारता जनाः ॥ ४४॥
सप्तसु एतेषु नद्यः च सु जाताः स्वर्णवाः लुकाः ॥ शतशस् संति क्षुद्राः च तासु क्रीडा-रताः जनाः ॥ ४४॥
saptasu eteṣu nadyaḥ ca su jātāḥ svarṇavāḥ lukāḥ .. śataśas saṃti kṣudrāḥ ca tāsu krīḍā-ratāḥ janāḥ .. 44..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोध्यायः ॥ १७ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् ब्रह्माण्ड-कथने जम्बूद्वीपवर्षवर्णनम् नाम सप्तदशः उध्यायः ॥ १७ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām brahmāṇḍa-kathane jambūdvīpavarṣavarṇanam nāma saptadaśaḥ udhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In