| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे ॥ उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ॥ १॥
वक्ष्ये अहम् भारतम् वर्षम् हिमाद्रेः च एव दक्षिणे ॥ उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ॥ १॥
vakṣye aham bhāratam varṣam himādreḥ ca eva dakṣiṇe .. uttare tu samudrasya bhāratī yatra saṃsṛtiḥ .. 1..
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ॥ स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः ॥ २॥
नव-योजन-साहस्रः विस्तारः अस्य महा-मुने ॥ स्वर्ग-अपवर्गयोः कर्म-भूमिः एषा स्मृता बुधैः ॥ २॥
nava-yojana-sāhasraḥ vistāraḥ asya mahā-mune .. svarga-apavargayoḥ karma-bhūmiḥ eṣā smṛtā budhaiḥ .. 2..
यतस्संप्राप्यते पुंभिस्स्वर्गो नरक एव च ॥ भारतस्यापि वर्षस्य नव भेदान्ब्रवीमि ते ॥ ३ ॥
यतस् संप्राप्यते पुंभिः स्वर्गः नरकः एव च ॥ भारतस्य अपि वर्षस्य नव भेदान् ब्रवीमि ते ॥ ३ ॥
yatas saṃprāpyate puṃbhiḥ svargaḥ narakaḥ eva ca .. bhāratasya api varṣasya nava bhedān bravīmi te .. 3 ..
इंद्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥ नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ४ ॥
इंद्रद्युम्नः कसेरुः च ताम्रवर्णः गभस्तिमान् ॥ नागद्वीपः तथा सौम्यः गन्धर्वः तु अथ वारुणः ॥ ४ ॥
iṃdradyumnaḥ kaseruḥ ca tāmravarṇaḥ gabhastimān .. nāgadvīpaḥ tathā saumyaḥ gandharvaḥ tu atha vāruṇaḥ .. 4 ..
अयं तु नवमस्तेषां द्वीपस्सागरसंभृतः ॥ योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ॥ ५ ॥
अयम् तु नवमः तेषाम् द्वीपः सागर-संभृतः ॥ योजनानाम् सहस्रम् तु द्वीपः अयम् दक्षिण-उत्तरः ॥ ५ ॥
ayam tu navamaḥ teṣām dvīpaḥ sāgara-saṃbhṛtaḥ .. yojanānām sahasram tu dvīpaḥ ayam dakṣiṇa-uttaraḥ .. 5 ..
पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः ॥ पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः ॥ ६ ॥
पूर्वे किराताः यस्य स्युः दक्षिणे यवनाः स्थिताः ॥ पश्चिमे च तथा ज्ञेयाः उत्तरे हि तपस्विनः ॥ ६ ॥
pūrve kirātāḥ yasya syuḥ dakṣiṇe yavanāḥ sthitāḥ .. paścime ca tathā jñeyāḥ uttare hi tapasvinaḥ .. 6 ..
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः॥इज्या युद्धपणा सेवा वर्तयन्तो व्यवस्थिताः ॥ ७॥
ब्राह्मणाः क्षत्रियाः वैश्याः मध्ये शूद्राः च भूयशस्॥इज्या युद्ध-पणा सेवा वर्तयन्तः व्यवस्थिताः ॥ ७॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ madhye śūdrāḥ ca bhūyaśas..ijyā yuddha-paṇā sevā vartayantaḥ vyavasthitāḥ .. 7..
महेंद्रो मलयस्सह्यः सुदामा चर्क्षपर्वतः॥विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः।८।
महेंद्रः मलयः सह्यः सुदामा च ऋक्षपर्वतः॥विंध्यः च पारियात्रः च सप्त अत्र कुलपर्वताः।८।
maheṃdraḥ malayaḥ sahyaḥ sudāmā ca ṛkṣaparvataḥ..viṃdhyaḥ ca pāriyātraḥ ca sapta atra kulaparvatāḥ.8.
वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने॥सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि।९।
वेद-स्मृति-पुराण-आद्याः पारियात्र-उद्भवाः मुने॥सर्व-पाप-हरा ज्ञेया दर्शनात् स्पर्शनात् अपि।९।
veda-smṛti-purāṇa-ādyāḥ pāriyātra-udbhavāḥ mune..sarva-pāpa-harā jñeyā darśanāt sparśanāt api.9.
नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः॥विंध्योद्भवा महानद्यस्सर्वपापहराश्शुभाः।5.18.१०।
नर्मदा सुरसा-आद्याः च सप्त अन्याः च सहस्रशस्॥विंध्य-उद्भवाः महा-नद्यः सर्व-पाप-हराः शुभाः।५।१८।१०।
narmadā surasā-ādyāḥ ca sapta anyāḥ ca sahasraśas..viṃdhya-udbhavāḥ mahā-nadyaḥ sarva-pāpa-harāḥ śubhāḥ.5.18.10.
गोदावरी भीमरथी तापीप्रमुखनिम्नगाः॥गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः ॥ ११॥
॥गिरेः विनिर्गताः ऋक्षात् सद्यस् पाप-भय-अपहाः ॥ ११॥
..gireḥ vinirgatāḥ ṛkṣāt sadyas pāpa-bhaya-apahāḥ .. 11..
सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा ॥ कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ॥ १२॥
सह्य-पाद-उद्भवाः नद्यः कृष्णा-वेणी-आदिकाः तथा ॥ कृतमाला ताम्रपर्णी प्रमुखाः मलय-उद्भवाः ॥ १२॥
sahya-pāda-udbhavāḥ nadyaḥ kṛṣṇā-veṇī-ādikāḥ tathā .. kṛtamālā tāmraparṇī pramukhāḥ malaya-udbhavāḥ .. 12..
त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवा स्मृताः ॥ ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसंभवाः॥१३॥
त्रियामा च ऋषिकुल्या-आद्याः महेन्द्र-प्रभवा स्मृताः ॥ ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्-पाद-संभवाः॥१३॥
triyāmā ca ṛṣikulyā-ādyāḥ mahendra-prabhavā smṛtāḥ .. ṛṣikulyā kumāryyādyāḥ śuktimat-pāda-saṃbhavāḥ..13..
नानाजनपदास्तेषु मंडलेषु वसन्ति वै ॥ आसां पिबंति पानीयं सरत्सु विविधेषु च॥१४॥
नाना जनपदाः तेषु मंडलेषु वसन्ति वै ॥ आसाम् पिबंति पानीयम् सरत्सु विविधेषु च॥१४॥
nānā janapadāḥ teṣu maṃḍaleṣu vasanti vai .. āsām pibaṃti pānīyam saratsu vividheṣu ca..14..
चत्वारि भारते वर्षे युगान्यासन्महामुने ॥ कृतादीनि न चान्येषु द्वीपेषु प्रभवंति हि॥१५॥
चत्वारि भारते वर्षे युगानि आसन् महा-मुने ॥ कृत-आदीनि न च अन्येषु द्वीपेषु प्रभवन्ति हि॥१५॥
catvāri bhārate varṣe yugāni āsan mahā-mune .. kṛta-ādīni na ca anyeṣu dvīpeṣu prabhavanti hi..15..
दानानि चात्र दीयंते सुकृतैश्चात्र याज्ञिकैः ॥ तपस्तपंति यतयः परलोकार्थमादरात् ॥ १६॥
दानानि च अत्र दीयंते सुकृतैः च अत्र याज्ञिकैः ॥ तपः तपंति यतयः पर-लोक-अर्थम् आदरात् ॥ १६॥
dānāni ca atra dīyaṃte sukṛtaiḥ ca atra yājñikaiḥ .. tapaḥ tapaṃti yatayaḥ para-loka-artham ādarāt .. 16..
यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने ॥ अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः ॥ १७॥
यतस् हि कर्म-भूः एषा जम्बूद्वीपे महा-मुने ॥ अत्रा अपि भारतम् श्रेष्ठम् अतस् अन्याः भोगभूमयः ॥ १७॥
yatas hi karma-bhūḥ eṣā jambūdvīpe mahā-mune .. atrā api bhāratam śreṣṭham atas anyāḥ bhogabhūmayaḥ .. 17..
कदाचिल्लभते मर्त्यस्सहस्रैर्मुनिसत्तम ॥ अत्र जन्मसहस्राणां मानुष्यं पुण्यसंचयैः ॥ १८॥।
कदाचिद् लभते मर्त्यः सहस्रैः मुनि-सत्तम ॥ अत्र जन्म-सहस्राणाम् मानुष्यम् पुण्य-संचयैः ॥ १८॥।
kadācid labhate martyaḥ sahasraiḥ muni-sattama .. atra janma-sahasrāṇām mānuṣyam puṇya-saṃcayaiḥ .. 18...
स्वर्गापवर्गास्पदमार्गभूते धन्यास्तु ते भारतभूमिभागे ॥ गायंति देवाः किल गीतकानि भवंति भूयः पुरुषास्सुरास्ते॥१९॥
स्वर्ग-अपवर्ग-आस्पद-मार्ग-भूते धन्याः तु ते भारत-भूमि-भागे ॥ गायंति देवाः किल गीतकानि भवन्ति भूयस् पुरुषाः सुराः ते॥१९॥
svarga-apavarga-āspada-mārga-bhūte dhanyāḥ tu te bhārata-bhūmi-bhāge .. gāyaṃti devāḥ kila gītakāni bhavanti bhūyas puruṣāḥ surāḥ te..19..
अवाप्य मानुष्यमयं कदाचिद्विहृत्य शंभोः परमात्मरूपे ॥ फलानि सर्वाणि तु कर्मजानि यास्याम्यहं तत्तनुतां हि तस्य॥5.18.२०॥
अवाप्य मानुष्य-मयम् कदाचिद् विहृत्य शंभोः परमात्म-रूपे ॥ फलानि सर्वाणि तु कर्म-जानि यास्यामि अहम् तद्-तनु-ताम् हि तस्य॥५।१८।२०॥
avāpya mānuṣya-mayam kadācid vihṛtya śaṃbhoḥ paramātma-rūpe .. phalāni sarvāṇi tu karma-jāni yāsyāmi aham tad-tanu-tām hi tasya..5.18.20..
आप्स्यंति धन्याः खलु ते मनुष्याः सुखैर्युताः कर्मणि सन्निविष्टाः ॥ जनुर्हि येषां खलु भारतेऽस्ति ते स्वर्गमोक्षोभयलाभवन्तः॥२१॥
आप्स्यंति धन्याः खलु ते मनुष्याः सुखैः युताः कर्मणि सन्निविष्टाः ॥ जनुः हि येषाम् खलु भारते अस्ति ते स्वर्ग-मोक्ष-उभय-लाभवन्तः॥२१॥
āpsyaṃti dhanyāḥ khalu te manuṣyāḥ sukhaiḥ yutāḥ karmaṇi sanniviṣṭāḥ .. januḥ hi yeṣām khalu bhārate asti te svarga-mokṣa-ubhaya-lābhavantaḥ..21..
लक्षयोजनविस्तारस्समस्तपरिमण्डलः ॥ जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः ॥ २२॥
लक्ष-योजन-विस्तारः समस्त-परिमण्डलः ॥ जम्बूद्वीपः मया ख्यातः क्षार-उदधि-सु संवृतः ॥ २२॥
lakṣa-yojana-vistāraḥ samasta-parimaṇḍalaḥ .. jambūdvīpaḥ mayā khyātaḥ kṣāra-udadhi-su saṃvṛtaḥ .. 22..
संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् ॥ ततो हि द्विगुणो ब्रह्मन्प्लक्षद्वीपः प्रकीर्तितः ॥ २३॥
संवेष्ट्य क्षारम् उदधिम् शत-साहस्र-सम्मितम् ॥ ततस् हि द्विगुणः ब्रह्मन् प्लक्षद्वीपः प्रकीर्तितः ॥ २३॥
saṃveṣṭya kṣāram udadhim śata-sāhasra-sammitam .. tatas hi dviguṇaḥ brahman plakṣadvīpaḥ prakīrtitaḥ .. 23..
गोमंतश्चैव चन्द्रश्च नारदो दर्दुरस्तथा ॥ सोमकस्सुमनाश्शैलो वैभ्राजश्चैव सत्तमः ॥ २४॥
गोमंतः च एव चन्द्रः च नारदः दर्दुरः तथा ॥ सोमकः सुमनाः शैलः वैभ्राजः च एव सत्तमः ॥ २४॥
gomaṃtaḥ ca eva candraḥ ca nāradaḥ darduraḥ tathā .. somakaḥ sumanāḥ śailaḥ vaibhrājaḥ ca eva sattamaḥ .. 24..
वर्षाचलेषु रम्येषु सहितास्सततं प्रजाः ॥ वसंति देवगंधर्वा वर्षेष्वेतेषु नित्यशः ॥ २५॥
वर्ष-अचलेषु रम्येषु सहिताः सततम् प्रजाः ॥ वसंति देव-गंधर्वाः वर्षेषु एतेषु नित्यशस् ॥ २५॥
varṣa-acaleṣu ramyeṣu sahitāḥ satatam prajāḥ .. vasaṃti deva-gaṃdharvāḥ varṣeṣu eteṣu nityaśas .. 25..
नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् ॥ दश वर्षसहस्राणि तत्र जीवंति मानवाः ॥ २६ ॥
न आधयः व्याधयः वा अपि जनानाम् तत्र कुत्रचिद् ॥ दश वर्ष-सहस्राणि तत्र जीवंति मानवाः ॥ २६ ॥
na ādhayaḥ vyādhayaḥ vā api janānām tatra kutracid .. daśa varṣa-sahasrāṇi tatra jīvaṃti mānavāḥ .. 26 ..
अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा ॥ अमृता सुकृता चैव सप्तैवात्र च निम्नगाः ॥ २७ ॥
अनुतप्ता शिखी च एव पापघ्नी त्रिदिवा कृपा ॥ अमृता सुकृता च एव सप्ता एव अत्र च निम्नगाः ॥ २७ ॥
anutaptā śikhī ca eva pāpaghnī tridivā kṛpā .. amṛtā sukṛtā ca eva saptā eva atra ca nimnagāḥ .. 27 ..
क्षुद्रनद्यस्तथा शैलास्तत्र संति सहस्रशः ॥ ताः पिबंति सुसंहृष्टा नदीर्जनपदास्तु ते ॥ २८ ॥ ।
क्षुद्र-नद्यः तथा शैलाः तत्र संति सहस्रशस् ॥ ताः पिबंति सु संहृष्टाः नदीः जनपदाः तु ते ॥ २८ ॥ ।
kṣudra-nadyaḥ tathā śailāḥ tatra saṃti sahasraśas .. tāḥ pibaṃti su saṃhṛṣṭāḥ nadīḥ janapadāḥ tu te .. 28 .. .
न तत्रापि युगावस्था यथास्थानेषु सप्तसु ॥ त्रेतायुगसमः कालस्सर्वदैव महामुने ॥ २९॥
न तत्र अपि युग-अवस्था यथा स्थानेषु सप्तसु ॥ त्रेता-युग-समः कालः सर्वदा एव महा-मुने ॥ २९॥
na tatra api yuga-avasthā yathā sthāneṣu saptasu .. tretā-yuga-samaḥ kālaḥ sarvadā eva mahā-mune .. 29..
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ ।कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः ॥ 5.18.३० ॥
विप्र-क्षत्रिय-वैश्याः ते शूद्राः च मुनि-सत्तम ॥ ।कल्पवृक्ष-समानः तु तद्-मध्ये सु महा-तरुः ॥ ५।१८।३० ॥
vipra-kṣatriya-vaiśyāḥ te śūdrāḥ ca muni-sattama .. .kalpavṛkṣa-samānaḥ tu tad-madhye su mahā-taruḥ .. 5.18.30 ..
प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम ॥ इज्यते तत्र भगवाञ्छंकरो लोकशंकरः ॥ ३१॥
प्लक्षः तद्-नाम-संज्ञः वै प्लक्षद्वीपः द्विजोत्तम ॥ इज्यते तत्र भगवान् शंकरः लोक-शंकरः ॥ ३१॥
plakṣaḥ tad-nāma-saṃjñaḥ vai plakṣadvīpaḥ dvijottama .. ijyate tatra bhagavān śaṃkaraḥ loka-śaṃkaraḥ .. 31..
हरिश्च भगवान्ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः॥संक्षेपेण तथा भूयश्शाल्मलिं त्वं निशामय ॥ ३२ ॥
हरिः च भगवान् ब्रह्मा यन्त्रैः मन्त्रैः च वैदिकैः॥संक्षेपेण तथा भूयस् शाल्मलिम् त्वम् निशामय ॥ ३२ ॥
hariḥ ca bhagavān brahmā yantraiḥ mantraiḥ ca vaidikaiḥ..saṃkṣepeṇa tathā bhūyas śālmalim tvam niśāmaya .. 32 ..
सप्तवर्षाणि तत्रैव तेषां नामानि मे शृणु ॥ श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥ ३३ ॥
सप्त-वर्षाणि तत्र एव तेषाम् नामानि मे शृणु ॥ श्वेतः अथ हरितः च एव जीमूतः रोहितः तथा ॥ ३३ ॥
sapta-varṣāṇi tatra eva teṣām nāmāni me śṛṇu .. śvetaḥ atha haritaḥ ca eva jīmūtaḥ rohitaḥ tathā .. 33 ..
वैकलो मानसश्चैव सुप्रभस्सप्तमो मुने ॥ शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः ॥ ३४ ॥
वैकलः मानसः च एव सुप्रभः सप्तमः मुने ॥ शाल्मलेन तु वृक्षेण द्वीपः शाल्मलि-संज्ञकः ॥ ३४ ॥
vaikalaḥ mānasaḥ ca eva suprabhaḥ saptamaḥ mune .. śālmalena tu vṛkṣeṇa dvīpaḥ śālmali-saṃjñakaḥ .. 34 ..
द्विगुणेन समुद्रेण सततं संवृतः स्थितः ॥ वर्षाभिव्यंजका नद्यस्तासां नामानि मे शृणु ॥ ३५ ॥
द्विगुणेन समुद्रेण सततम् संवृतः स्थितः ॥ वर्ष-अभिव्यंजकाः नद्यः तासाम् नामानि मे शृणु ॥ ३५ ॥
dviguṇena samudreṇa satatam saṃvṛtaḥ sthitaḥ .. varṣa-abhivyaṃjakāḥ nadyaḥ tāsām nāmāni me śṛṇu .. 35 ..
शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ॥ निवृत्तिः सप्तमी तासां पुण्यतोया सुशीतलाः ॥ ३६ ॥
शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ॥ निवृत्तिः सप्तमी तासाम् पुण्य-तोया सुशीतलाः ॥ ३६ ॥
śuklā raktā hiraṇyā ca candrā śubhrā vimocanā .. nivṛttiḥ saptamī tāsām puṇya-toyā suśītalāḥ .. 36 ..
सप्तैव तानि वर्षाणि चतुर्वर्णायुतानि च ॥ भगवन्तं सदा शंभुं यजंते विविधैर्मखैः ॥ ३७ ॥
सप्त एव तानि वर्षाणि चतुर्-वर्ण-अयुतानि च ॥ भगवन्तम् सदा शंभुम् यजंते विविधैः मखैः ॥ ३७ ॥
sapta eva tāni varṣāṇi catur-varṇa-ayutāni ca .. bhagavantam sadā śaṃbhum yajaṃte vividhaiḥ makhaiḥ .. 37 ..
देवानां तत्र सान्निध्यमतीव सुमनोरमे ॥ एष द्वीपस्समुद्रेण सुरोदेन समावृतः ॥ ३८ ॥
देवानाम् तत्र सान्निध्यम् अतीव सु मनोरमे ॥ एष द्वीपः समुद्रेण सुरोदेन समावृतः ॥ ३८ ॥
devānām tatra sānnidhyam atīva su manorame .. eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ .. 38 ..
द्विगुणेन कुशद्वीपः समंताद्बाह्यतः स्थितः ॥ वसंति तत्र दैतेया मनुजैस्सह दानवाः ॥ ३९ ॥
द्विगुणेन कुशद्वीपः समंतात् बाह्यतस् स्थितः ॥ वसंति तत्र दैतेयाः मनुजैः सह दानवाः ॥ ३९ ॥
dviguṇena kuśadvīpaḥ samaṃtāt bāhyatas sthitaḥ .. vasaṃti tatra daiteyāḥ manujaiḥ saha dānavāḥ .. 39 ..
तथैव देवगन्धर्वा यक्षाः किंपुरुषादयः ॥ वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः ॥ 5.18.४० ॥
तथा एव देव-गन्धर्वाः यक्षाः किंपुरुष-आदयः ॥ वर्णाः तत्र एव चत्वारः निज-अनुष्ठान-तत्पराः ॥ ५।१८।४० ॥
tathā eva deva-gandharvāḥ yakṣāḥ kiṃpuruṣa-ādayaḥ .. varṇāḥ tatra eva catvāraḥ nija-anuṣṭhāna-tatparāḥ .. 5.18.40 ..
तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्द्दनम् ॥ यजंति च तथेशानं सर्वकामफलप्रदम् ॥ ४१ ॥
तत्र एव च कुशद्वीपे ब्रह्माणम् च जनार्द्दनम् ॥ यजंति च तथा ईशानम् सर्व-काम-फल-प्रदम् ॥ ४१ ॥
tatra eva ca kuśadvīpe brahmāṇam ca janārddanam .. yajaṃti ca tathā īśānam sarva-kāma-phala-pradam .. 41 ..
कुशेशयो हरिश्चैव द्युतिमान्पुष्पवांस्तथा ॥ मणिद्रुमो हेमशैलस्सप्तमो मन्दराचलः ॥ ४२ ॥
कुशेशयः हरिः च एव द्युतिमान् पुष्पवान् तथा ॥ ॥ ४२ ॥
kuśeśayaḥ hariḥ ca eva dyutimān puṣpavān tathā .. .. 42 ..
नद्यश्च सप्त तासां तु नामानि शृणु तत्त्वतः ॥ धूतपापा शिवा चैव पवित्रा संमितिस्तथा ॥ ४३ ॥
नद्यः च सप्त तासाम् तु नामानि शृणु तत्त्वतः ॥ धूतपापा शिवा च एव पवित्रा संमितिः तथा ॥ ४३ ॥
nadyaḥ ca sapta tāsām tu nāmāni śṛṇu tattvataḥ .. dhūtapāpā śivā ca eva pavitrā saṃmitiḥ tathā .. 43 ..
विद्या दंभा मही चान्या सर्वपापहरास्त्विमाः ॥ अन्यास्सहस्रशस्संति शुभापो हेमवालुकाः ॥ ४४ ॥
विद्या दंभा मही च अन्या सर्व-पाप-हराः तु इमाः ॥ अन्याः सहस्रशस् संति शुभाः अपः हेम-वालुकाः ॥ ४४ ॥
vidyā daṃbhā mahī ca anyā sarva-pāpa-harāḥ tu imāḥ .. anyāḥ sahasraśas saṃti śubhāḥ apaḥ hema-vālukāḥ .. 44 ..
कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः ॥ क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् ॥ ४५ ॥
कुशद्वीपे कुश-स्तम्बः घृतोदेन समावृतः ॥ क्रौञ्चद्वीपः महाभाग श्रूयताम् च अपरः महान् ॥ ४५ ॥
kuśadvīpe kuśa-stambaḥ ghṛtodena samāvṛtaḥ .. krauñcadvīpaḥ mahābhāga śrūyatām ca aparaḥ mahān .. 45 ..
द्विगुणेन समुद्रेण दधिमंडेन चावृतः ॥ वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ ४६ ॥
द्विगुणेन समुद्रेण दधिमंडेन च आवृतः ॥ वर्ष-अचलाः महाबुद्धे तेषाम् नामानि मे शृणु ॥ ४६ ॥
dviguṇena samudreṇa dadhimaṃḍena ca āvṛtaḥ .. varṣa-acalāḥ mahābuddhe teṣām nāmāni me śṛṇu .. 46 ..
क्रौञ्चश्च वामनश्चैव तृतीयश्चांधकारकः ॥ दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः ॥ ४७ ॥
क्रौञ्चः च वामनः च एव तृतीयः च अंधकारकः ॥ दिवावृतिः मनः च एव पुण्डरीकः च दुन्दुभिः ॥ ४७ ॥
krauñcaḥ ca vāmanaḥ ca eva tṛtīyaḥ ca aṃdhakārakaḥ .. divāvṛtiḥ manaḥ ca eva puṇḍarīkaḥ ca dundubhiḥ .. 47 ..
निवसंति निरातंका वर्षशैलेषु तेषु वै ॥ सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः ॥ ४८ ॥
निवसंति निरातंकाः वर्ष-शैलेषु तेषु वै ॥ सर्व-सौवर्ण-रम्येषु सुहृद्-देव-गणैः प्रजाः ॥ ४८ ॥
nivasaṃti nirātaṃkāḥ varṣa-śaileṣu teṣu vai .. sarva-sauvarṇa-ramyeṣu suhṛd-deva-gaṇaiḥ prajāḥ .. 48 ..
ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्राश्चानुक्रमोदिताः ॥ संति तत्र महानद्यस्सप्तान्यास्तु सहस्रशः ॥ ४९॥
ब्राह्मणाः क्षत्त्रियाः वैश्याः शूद्राः च अनुक्रम-उदिताः ॥ संति तत्र महा-नद्यः सप्ता अन्याः तु सहस्रशस् ॥ ४९॥
brāhmaṇāḥ kṣattriyāḥ vaiśyāḥ śūdrāḥ ca anukrama-uditāḥ .. saṃti tatra mahā-nadyaḥ saptā anyāḥ tu sahasraśas .. 49..
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ शांतिश्च पुंडरीका च याः पिबन्ति पयश्शुभम् ॥ 5.18.५०॥
गौरी कुमुद्वती च एव सन्ध्या रात्रिः मनोजवा ॥ शांतिः च पुंडरीका च याः पिबन्ति पयः शुभम् ॥ ५।१८।५०॥
gaurī kumudvatī ca eva sandhyā rātriḥ manojavā .. śāṃtiḥ ca puṃḍarīkā ca yāḥ pibanti payaḥ śubham .. 5.18.50..
भगवान्पूज्यते तत्र योगरुद्रस्वरूपवान् ॥ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः॥५१॥
भगवान् पूज्यते तत्र योग-रुद्र-स्व-रूपवान् ॥ दधिमण्ड-उदकः च अपि शाकद्वीपेन संवृतः॥५१॥
bhagavān pūjyate tatra yoga-rudra-sva-rūpavān .. dadhimaṇḍa-udakaḥ ca api śākadvīpena saṃvṛtaḥ..51..
द्विगुणेनाद्रयस्सप्त तेषां नामानि मे शृणु॥पूर्वे तत्रोदयगिरिर्जलधारः परे यतः ॥ ५२ ॥
द्विगुणेन अद्रयः सप्त तेषाम् नामानि मे शृणु॥पूर्वे तत्र उदयगिरिः जलधारः परे यतस् ॥ ५२ ॥
dviguṇena adrayaḥ sapta teṣām nāmāni me śṛṇu..pūrve tatra udayagiriḥ jaladhāraḥ pare yatas .. 52 ..
पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी ॥ शाकस्तत्र महावृक्षस्सिद्धगंधर्वसेवितः ॥ ५३॥
पृष्ठतस् अस्त-गिरिः च एव हि अविकेशः च केसरी ॥ शाकः तत्र महा-वृक्षः सिद्ध-गंधर्व-सेवितः ॥ ५३॥
pṛṣṭhatas asta-giriḥ ca eva hi avikeśaḥ ca kesarī .. śākaḥ tatra mahā-vṛkṣaḥ siddha-gaṃdharva-sevitaḥ .. 53..
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ॥ नद्यश्चात्र महापुण्यास्सर्वपापभयापहाः ॥ ५४॥
तत्र पुण्याः जनपदाः चातुर्वर्ण्य-समन्विताः ॥ नद्यः च अत्र महा-पुण्याः सर्व-पाप-भय-अपहाः ॥ ५४॥
tatra puṇyāḥ janapadāḥ cāturvarṇya-samanvitāḥ .. nadyaḥ ca atra mahā-puṇyāḥ sarva-pāpa-bhaya-apahāḥ .. 54..
सुकुमारी कुमारी च नलिनी वेणुका तथा ॥ इक्षुश्च रेणुका चैव गभस्तिस्सप्तमी तथा ॥ ५५॥
सुकुमारी कुमारी च नलिनी वेणुका तथा ॥ इक्षुः च रेणुका च एव गभस्तिः सप्तमी तथा ॥ ५५॥
sukumārī kumārī ca nalinī veṇukā tathā .. ikṣuḥ ca reṇukā ca eva gabhastiḥ saptamī tathā .. 55..
अन्यास्सहस्रशस्तत्र क्षुद्रनद्यो महामुने ॥ महीधरास्तथा संति शतशोऽथ सहस्रशः ॥ ५६ ॥
अन्याः सहस्रशस् तत्र क्षुद्र-नद्यः महा-मुने ॥ महीधराः तथा संति शतशस् अथ सहस्रशस् ॥ ५६ ॥
anyāḥ sahasraśas tatra kṣudra-nadyaḥ mahā-mune .. mahīdharāḥ tathā saṃti śataśas atha sahasraśas .. 56 ..
धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः ॥ वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम् ॥ ५७॥
धर्म-हानिः न तेषु अस्ति स्वर्गात् आगत्य मानवाः ॥ वर्षेषु तेषु पृथिवीम् विहरन्ति परस्परम् ॥ ५७॥
dharma-hāniḥ na teṣu asti svargāt āgatya mānavāḥ .. varṣeṣu teṣu pṛthivīm viharanti parasparam .. 57..
शाकद्वीपे तु वै सूर्य्यः प्रीत्या जनपदैस्सदा ॥ यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ ५८ ॥
शाकद्वीपे तु वै सूर्य्यः प्रीत्या जनपदैः सदा ॥ यथा उक्तैः इज्यते सम्यक् कर्मभिः नियत-आत्मभिः ॥ ५८ ॥
śākadvīpe tu vai sūryyaḥ prītyā janapadaiḥ sadā .. yathā uktaiḥ ijyate samyak karmabhiḥ niyata-ātmabhiḥ .. 58 ..
क्षीरोदेनावृतस्सोऽपि द्विगुणेन समंततः ॥ क्षीराब्धिस्सर्वतो व्यास पुष्कराख्येन संवृतः ॥ ५९ ॥
क्षीरोदेन आवृतः सः अपि द्विगुणेन समंततः ॥ क्षीराब्धिः सर्वतस् व्यास पुष्कर-आख्येन संवृतः ॥ ५९ ॥
kṣīrodena āvṛtaḥ saḥ api dviguṇena samaṃtataḥ .. kṣīrābdhiḥ sarvatas vyāsa puṣkara-ākhyena saṃvṛtaḥ .. 59 ..
द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः॥योजनानां सहस्राणि पंचैवोर्ध्वसमुच्छ्रितः ॥ 5.18.६० ॥
द्विगुणेन महावर्षः तत्र ख्यातः अत्र मानसः॥योजनानाम् सहस्राणि पंच एव ऊर्ध्व-समुच्छ्रितः ॥ ५।१८।६० ॥
dviguṇena mahāvarṣaḥ tatra khyātaḥ atra mānasaḥ..yojanānām sahasrāṇi paṃca eva ūrdhva-samucchritaḥ .. 5.18.60 ..
तानि चैव तु लक्षाणि सर्वतो वलयाकृति॥पुष्करद्वीपवलयो मध्येन विभजंति च॥६१।
तानि च एव तु लक्षाणि सर्वतस् वलय-आकृति॥पुष्करद्वीप-वलयः मध्येन विभजंति च॥६१।
tāni ca eva tu lakṣāṇi sarvatas valaya-ākṛti..puṣkaradvīpa-valayaḥ madhyena vibhajaṃti ca..61.
तेनैव वलया कारा द्वीपवर्षसमाकृतिः॥दशवर्षसहस्राणि तत्र जीवंति मानवाः॥६२॥
तेन एव वलया काराः द्वीप-वर्ष-सम-आकृतिः॥दश-वर्ष-सहस्राणि तत्र जीवंति मानवाः॥६२॥
tena eva valayā kārāḥ dvīpa-varṣa-sama-ākṛtiḥ..daśa-varṣa-sahasrāṇi tatra jīvaṃti mānavāḥ..62..
निरामया वीतशोका रागद्वेषविवर्जिताः॥अधर्मो न मतस्तेषां न बंधवधकौ मुने ॥ ६३ ॥
निरामयाः वीत-शोकाः राग-द्वेष-विवर्जिताः॥अधर्मः न मतः तेषाम् न बंध-वधकौ मुने ॥ ६३ ॥
nirāmayāḥ vīta-śokāḥ rāga-dveṣa-vivarjitāḥ..adharmaḥ na mataḥ teṣām na baṃdha-vadhakau mune .. 63 ..
सत्यानृते न तस्यास्तां सदैव वसतिस्सदा ॥ तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः ॥ ६४ ॥
सत्य-अनृते न तस्य आस्ताम् सदा एव वसतिः सदा ॥ तुल्य-वेषाः तु मनुजाः हेम-वर्ण-एक-रूपिणः ॥ ६४ ॥
satya-anṛte na tasya āstām sadā eva vasatiḥ sadā .. tulya-veṣāḥ tu manujāḥ hema-varṇa-eka-rūpiṇaḥ .. 64 ..
वर्षश्चायं तु कालेय भौम स्वर्गोपमो मतः ॥ सर्वस्य सुखदः काले जरारोगविवर्जितः ॥ ६५ ॥
वर्षः च अयम् तु कालेय भौम स्वर्ग-उपमः मतः ॥ सर्वस्य सुख-दः काले जरा-रोग-विवर्जितः ॥ ६५ ॥
varṣaḥ ca ayam tu kāleya bhauma svarga-upamaḥ mataḥ .. sarvasya sukha-daḥ kāle jarā-roga-vivarjitaḥ .. 65 ..
पुष्करे धातकीखण्डे महावीते महामुने ॥ ।न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ॥ ६६॥
पुष्करे धातकीखण्डे महावीते महा-मुने ॥ ।न्यग्रोधम् पुष्करद्वीपे ब्रह्मणः स्थानम् उत्तमम् ॥ ६६॥
puṣkare dhātakīkhaṇḍe mahāvīte mahā-mune .. .nyagrodham puṣkaradvīpe brahmaṇaḥ sthānam uttamam .. 66..
तस्मिन्निवसते ब्रह्मा पूज्यमानस्सुरासुरैः॥स्वादूदकेनांबुधिना पुष्करः परिवेष्टितः॥ ॥ ६७ ॥
तस्मिन् निवसते ब्रह्मा पूज्यमानः सुर-असुरैः॥स्वादु-उदकेन अंबुधिना पुष्करः परिवेष्टितः॥ ॥ ६७ ॥
tasmin nivasate brahmā pūjyamānaḥ sura-asuraiḥ..svādu-udakena aṃbudhinā puṣkaraḥ pariveṣṭitaḥ.. .. 67 ..
एवं द्वीपास्समुद्रैस्तु सप्त सप्तभिरावृताः ॥ द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः ॥ ६८ ॥
एवम् द्वीपाः समुद्रैः तु सप्त सप्तभिः आवृताः ॥ द्वीपाः च एव समुद्राः च समानाः द्विगुणैः परैः ॥ ६८ ॥
evam dvīpāḥ samudraiḥ tu sapta saptabhiḥ āvṛtāḥ .. dvīpāḥ ca eva samudrāḥ ca samānāḥ dviguṇaiḥ paraiḥ .. 68 ..
उक्तातिरिक्तता तेषां समुद्रेषु समानि वै ॥ पयांसि सर्वदाऽल्पत्वं जायते न कदाचन।६९॥
उक्ता अतिरिक्त-ता तेषाम् समुद्रेषु समानि वै ॥ पयांसि सर्वदा अल्प-त्वम् जायते न कदाचन।६९॥
uktā atirikta-tā teṣām samudreṣu samāni vai .. payāṃsi sarvadā alpa-tvam jāyate na kadācana.69..
स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तमः ॥ तथेन्दुवृद्धौ सलिलमूर्द्ध्वगं भवति ध्रुवम् ॥ 5.18.७०॥
स्थाली-स्थम् अग्नि-संयोगात् अधस् स्थम् मुनि-सत्तमः ॥ तथा इन्दु-वृद्धौ सलिलम् ऊर्द्ध्व-गम् भवति ध्रुवम् ॥ ५।१८।७०॥
sthālī-stham agni-saṃyogāt adhas stham muni-sattamaḥ .. tathā indu-vṛddhau salilam ūrddhva-gam bhavati dhruvam .. 5.18.70..
उदयास्तमनेत्विंदोर्वर्द्धंत्यापो ह्रसन्ति च ॥ अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः ॥ ७१ ॥
उदय-अस्तमन-इतु-इंदोः वर्द्धन्ति अपः ह्रसन्ति च ॥ अतस् न्यून-अतिरिक्ताः च पक्षयोः शुक्ल-कृष्णयोः ॥ ७१ ॥
udaya-astamana-itu-iṃdoḥ varddhanti apaḥ hrasanti ca .. atas nyūna-atiriktāḥ ca pakṣayoḥ śukla-kṛṣṇayoḥ .. 71 ..
अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम्॥समुद्राणां मुनिश्रेष्ठो सर्वेषां कथितं तव॥७२॥
अपाम् वृद्धि-क्षयौ दृष्टौ शतशस् तु दश-उत्तरम्॥समुद्राणाम् मुनि-श्रेष्ठः सर्वेषाम् कथितम् तव॥७२॥
apām vṛddhi-kṣayau dṛṣṭau śataśas tu daśa-uttaram..samudrāṇām muni-śreṣṭhaḥ sarveṣām kathitam tava..72..
भोजनं पुष्करद्वीपे प्रजास्सर्वाः सदैव हि ॥ खंडस्य कुर्वते विप्र तत्र स्वयमुपस्थितम् ॥ ७३॥
भोजनम् पुष्करद्वीपे प्रजाः सर्वाः सदा एव हि ॥ खंडस्य कुर्वते विप्र तत्र स्वयम् उपस्थितम् ॥ ७३॥
bhojanam puṣkaradvīpe prajāḥ sarvāḥ sadā eva hi .. khaṃḍasya kurvate vipra tatra svayam upasthitam .. 73..
स्वांगदो यस्य पुरतो नास्ति लोकस्य संस्थितिः॥द्विगुणा हिरण्मयी भूमिस्सर्वजंतुविवर्जिता॥७४॥
स्व-अंगदः यस्य पुरतस् ना अस्ति लोकस्य संस्थितिः॥द्विगुणा हिरण्मयी भूमिः सर्व-जंतु-विवर्जिता॥७४॥
sva-aṃgadaḥ yasya puratas nā asti lokasya saṃsthitiḥ..dviguṇā hiraṇmayī bhūmiḥ sarva-jaṃtu-vivarjitā..74..
लोकालोकस्ततश्शैलस्सहस्राण्यचलो हि सः॥उच्छ्रयेण हि तावंति योजनायुतविस्तृतः ॥ ७५॥।
लोकालोकः ततस् शैलः सहस्राणि अचलः हि सः॥उच्छ्रयेण हि तावंति योजन-अयुत-विस्तृतः ॥ ७५॥।
lokālokaḥ tatas śailaḥ sahasrāṇi acalaḥ hi saḥ..ucchrayeṇa hi tāvaṃti yojana-ayuta-vistṛtaḥ .. 75...
तमश्चांडकटाहेन सेयमुर्वी महामुने ॥ पंचाशत्कोटिविस्तारा सद्वीपा समहीधरा ॥ ७६॥
तमः च अंड-कटाहेन सा इयम् उर्वी महा-मुने ॥ पंचाशत्-कोटि-विस्तारा स द्वीपा स महीधरा ॥ ७६॥
tamaḥ ca aṃḍa-kaṭāhena sā iyam urvī mahā-mune .. paṃcāśat-koṭi-vistārā sa dvīpā sa mahīdharā .. 76..
आधारभूता सर्वेषां सर्वभूतगुणाधिका॥सेयं धात्री च कालेय सर्वेषां जगतामिला॥७७॥
आधार-भूता सर्वेषाम् सर्व-भूत-गुण-अधिका॥सा इयम् धात्री च कालेय सर्वेषाम् जगताम् इला॥७७॥
ādhāra-bhūtā sarveṣām sarva-bhūta-guṇa-adhikā..sā iyam dhātrī ca kāleya sarveṣām jagatām ilā..77..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तदीपवर्णनं नामाष्टादशोऽध्यायः॥१८॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् ब्रह्माण्ड-कथने सप्तदीपवर्णनम् नाम अष्टादशः अध्यायः॥१८॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām brahmāṇḍa-kathane saptadīpavarṇanam nāma aṣṭādaśaḥ adhyāyaḥ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In