| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
रविचन्द्रमसोर्यावन्मयूखा भासयंति हि॥तावत्प्रमाणा पृथिवी भूलोकस्स तु गीयते ॥ १॥
रवि-चन्द्रमसोः यावत् मयूखाः भासयंति हि॥तावत्-प्रमाणा पृथिवी भू-लोकः स तु गीयते ॥ १॥
ravi-candramasoḥ yāvat mayūkhāḥ bhāsayaṃti hi..tāvat-pramāṇā pṛthivī bhū-lokaḥ sa tu gīyate .. 1..
भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ॥ योजनानां सहस्राणि सदैव परिसंख्यया॥२॥
भूमेः योजन-लक्षे तु संस्थितम् रवि-मण्डलम् ॥ योजनानाम् सहस्राणि सदा एव परिसंख्यया॥२॥
bhūmeḥ yojana-lakṣe tu saṃsthitam ravi-maṇḍalam .. yojanānām sahasrāṇi sadā eva parisaṃkhyayā..2..
शशिनस्तु प्रमाणाय जगतः परिचक्षते॥रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसंख्यया॥३॥
शशिनः तु प्रमाणाय जगतः परिचक्षते॥रवेः ऊर्ध्वम् शशी तस्थौ लक्ष-योजन-संख्यया॥३॥
śaśinaḥ tu pramāṇāya jagataḥ paricakṣate..raveḥ ūrdhvam śaśī tasthau lakṣa-yojana-saṃkhyayā..3..
ग्रहाणां मण्डलं कृत्स्नं शशेरुपरि संस्थितम्॥सनक्षत्रं सहस्राणि दशैव परितोपरि ॥ ४॥
ग्रहाणाम् मण्डलम् कृत्स्नम् शशेः उपरि संस्थितम्॥स नक्षत्रम् सहस्राणि दश एव परितस् उपरि ॥ ४॥
grahāṇām maṇḍalam kṛtsnam śaśeḥ upari saṃsthitam..sa nakṣatram sahasrāṇi daśa eva paritas upari .. 4..
बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम्॥बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः॥५॥
बुधः तस्मात् अथो काव्यः तस्मात् भौमस्य मण्डलम्॥बृहस्पतिः तद्-ऊर्ध्वम् तु तस्य उपरि शनैश्चरः॥५॥
budhaḥ tasmāt atho kāvyaḥ tasmāt bhaumasya maṇḍalam..bṛhaspatiḥ tad-ūrdhvam tu tasya upari śanaiścaraḥ..5..
सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ॥ ऋषिभ्य तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ॥ ६॥
सप्तर्षि-मण्डलम् तस्मात् लक्षेण एकेन संस्थितम् ॥ तु सहस्राणाम् शतात् ऊर्ध्वम् ध्रुवः स्थितः ॥ ६॥
saptarṣi-maṇḍalam tasmāt lakṣeṇa ekena saṃsthitam .. tu sahasrāṇām śatāt ūrdhvam dhruvaḥ sthitaḥ .. 6..
मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक्॥७॥
मेढी-भूतः स यः तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥भूः भुवः स्वर् इति ज्ञेयम् भुवः ऊर्ध्वम् ध्रुवात् अवाक्॥७॥
meḍhī-bhūtaḥ sa yaḥ tasya jyotiścakrasya vai dhruvaḥ..bhūḥ bhuvaḥ svar iti jñeyam bhuvaḥ ūrdhvam dhruvāt avāk..7..
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः॥ध्रुवादूर्ध्वं महर्लोकस्सप्तैते ब्रह्मणस्सुताः॥८॥
एक-योजन-कोटिः तु यत्र ते कल्प-वासिनः॥ध्रुवात् ऊर्ध्वम् महर् लोकः सप्त एते ब्रह्मणः सुताः॥८॥
eka-yojana-koṭiḥ tu yatra te kalpa-vāsinaḥ..dhruvāt ūrdhvam mahar lokaḥ sapta ete brahmaṇaḥ sutāḥ..8..
सनकश्च सनन्दश्च तृतीयश्च सनातनः॥कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा॥९॥
सनकः च सनन्दः च तृतीयः च सनातनः॥कपिलः च आसुरिः च एव वोढुः पंचशिखः तथा॥९॥
sanakaḥ ca sanandaḥ ca tṛtīyaḥ ca sanātanaḥ..kapilaḥ ca āsuriḥ ca eva voḍhuḥ paṃcaśikhaḥ tathā..9..
उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः॥द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ॥ 5.19.१०॥
उपरिष्टात् ततस् शुक्रः द्वि-लक्ष-अभ्यंतरे स्थितः॥द्वि-लक्ष-योजनम् तस्मात् अधस् सोमसुतः स्मृतः ॥ ५।१९।१०॥
upariṣṭāt tatas śukraḥ dvi-lakṣa-abhyaṃtare sthitaḥ..dvi-lakṣa-yojanam tasmāt adhas somasutaḥ smṛtaḥ .. 5.19.10..
द्विलक्षयोजनं तस्मादूर्ध्वं भौमस्स्थितो मुने॥द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरु ॥ ११॥
द्वि-लक्ष-योजनम् तस्मात् ऊर्ध्वम् भौमः स्थितः मुने॥द्वि-लक्ष-योजनम् तस्मात् ऊर्ध्वम् जीवः स्थितः गुरु ॥ ११॥
dvi-lakṣa-yojanam tasmāt ūrdhvam bhaumaḥ sthitaḥ mune..dvi-lakṣa-yojanam tasmāt ūrdhvam jīvaḥ sthitaḥ guru .. 11..
द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ॥ एते सप्तग्रहाः प्रोक्तास्स्वस्वराशिव्यवस्थिता ॥ १२ ॥
द्वि-लक्ष-योजनम् जीवात् ऊर्ध्वम् सौरिः व्यवस्थितः ॥ एते सप्त-ग्रहाः प्रोक्ताः स्व-स्व-राशि-व्यवस्थिता ॥ १२ ॥
dvi-lakṣa-yojanam jīvāt ūrdhvam sauriḥ vyavasthitaḥ .. ete sapta-grahāḥ proktāḥ sva-sva-rāśi-vyavasthitā .. 12 ..
रुद्रलक्षैर्योजनतस्सप्तोर्ध्वमृषयः स्थिताः ॥ विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ॥ १३ ॥
रुद्र-लक्षैः योजनतः सप्त-ऊर्ध्वम् ऋषयः स्थिताः ॥ विश्व-लक्षैः योजनतः ध्रुव-स्थितिः उदाहृता ॥ १३ ॥
rudra-lakṣaiḥ yojanataḥ sapta-ūrdhvam ṛṣayaḥ sthitāḥ .. viśva-lakṣaiḥ yojanataḥ dhruva-sthitiḥ udāhṛtā .. 13 ..
चतुर्गुणोत्तरे चार्द्धे जनलोकात्तपः स्मृतम् ॥ वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ॥ १४ ॥
चतुर्गुण-उत्तरे च अर्द्धे जनलोकात् तपः स्मृतम् ॥ वैराजाः यत्र देवाः वै स्थिताः दाह-विवर्जिताः ॥ १४ ॥
caturguṇa-uttare ca arddhe janalokāt tapaḥ smṛtam .. vairājāḥ yatra devāḥ vai sthitāḥ dāha-vivarjitāḥ .. 14 ..
षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ॥ ब्रह्मलोकः स विज्ञेयो वसंत्यमलचेतसः ॥ १५॥
षड्गुणेन तपोलोकात् सत्यलोकः व्यवस्थितः ॥ ब्रह्म-लोकः स विज्ञेयः वसंति अमल-चेतसः ॥ १५॥
ṣaḍguṇena tapolokāt satyalokaḥ vyavasthitaḥ .. brahma-lokaḥ sa vijñeyaḥ vasaṃti amala-cetasaḥ .. 15..
सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः॥यद्गामिनोऽथ भूलोकान्निवसंति हि मानवाः ॥ १६॥
सत्य-धर्म-रताः च एव ज्ञानिनः ब्रह्मचारिणः॥यद्-गामिनः अथ भू-लोकात् निवसंति हि मानवाः ॥ १६॥
satya-dharma-ratāḥ ca eva jñāninaḥ brahmacāriṇaḥ..yad-gāminaḥ atha bhū-lokāt nivasaṃti hi mānavāḥ .. 16..
भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ॥ स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ॥ १७ ॥
भुवर् लोके तु संसिद्धाः मुनयः देव-रूपिणः ॥ स्वर्ग-लोके सुर-आदित्याः मरुतः वसवः अश्विनौ ॥ १७ ॥
bhuvar loke tu saṃsiddhāḥ munayaḥ deva-rūpiṇaḥ .. svarga-loke sura-ādityāḥ marutaḥ vasavaḥ aśvinau .. 17 ..
विश्वेदेवास्तथा रुद्रास्साध्या नागाः खगादयः ॥ नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ॥ १८॥
विश्वेदेवाः तथा रुद्राः साध्याः नागाः खग-आदयः ॥ नव-ग्रहाः ततस् तत्र ऋषयः वीत-कल्मषाः ॥ १८॥
viśvedevāḥ tathā rudrāḥ sādhyāḥ nāgāḥ khaga-ādayaḥ .. nava-grahāḥ tatas tatra ṛṣayaḥ vīta-kalmaṣāḥ .. 18..
एते सप्त महालोकाः कालेय कथितास्तव ॥ पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ॥ १९ ॥
एते सप्त महा-लोकाः कालेय कथिताः तव ॥ पातालानि च सप्त एव ब्रह्माण्डस्य च विस्तरः ॥ १९ ॥
ete sapta mahā-lokāḥ kāleya kathitāḥ tava .. pātālāni ca sapta eva brahmāṇḍasya ca vistaraḥ .. 19 ..
दधिवृक्षफलं यद्वद्वृत्तिश्चोर्ध्वमधस्तथा ॥ एतदंडकटाहेन सर्वतो वै समावृतम् ॥ 5.19.२०॥
दधि-वृक्ष-फलम् यद्वत् वृत्तिः च ऊर्ध्वम् अधस् तथा ॥ एतत् अंड-कटाहेन सर्वतस् वै समावृतम् ॥ ५।१९।२०॥
dadhi-vṛkṣa-phalam yadvat vṛttiḥ ca ūrdhvam adhas tathā .. etat aṃḍa-kaṭāhena sarvatas vai samāvṛtam .. 5.19.20..
दशगुणेन पयसा सर्वतस्तत्समावृतम् ॥ वह्निना वायुना चापि नभसा तमसा तथा ॥ २१॥
दशगुणेन पयसा सर्वतस् तत् समावृतम् ॥ वह्निना वायुना च अपि नभसा तमसा तथा ॥ २१॥
daśaguṇena payasā sarvatas tat samāvṛtam .. vahninā vāyunā ca api nabhasā tamasā tathā .. 21..
भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ॥ महांतं च समावृत्य प्रधानं पुरुषः स्थितः ॥ २२॥
भूतादिना अपि महता दिश्-गुण-उत्तर-वेष्टितः ॥ महांतम् च समावृत्य प्रधानम् पुरुषः स्थितः ॥ २२॥
bhūtādinā api mahatā diś-guṇa-uttara-veṣṭitaḥ .. mahāṃtam ca samāvṛtya pradhānam puruṣaḥ sthitaḥ .. 22..
अनंतस्य न तस्यास्ति संख्यापि परमात्मनः ॥ तेनानंत इति ख्यातः प्रमाणं नास्ति वै यतः ॥ २३॥
अनंतस्य न तस्य अस्ति संख्या अपि परमात्मनः ॥ तेन अनंतः इति ख्यातः प्रमाणम् न अस्ति वै यतस् ॥ २३॥
anaṃtasya na tasya asti saṃkhyā api paramātmanaḥ .. tena anaṃtaḥ iti khyātaḥ pramāṇam na asti vai yatas .. 23..
हेतुभूतस्समस्तस्य प्रकृतिस्सा परा मुने ॥ अंडानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २४ ॥
हेतु-भूतः समस्तस्य प्रकृतिः सा परा मुने ॥ अंडानाम् तु सहस्राणाम् सहस्राणि अयुतानि च ॥ २४ ॥
hetu-bhūtaḥ samastasya prakṛtiḥ sā parā mune .. aṃḍānām tu sahasrāṇām sahasrāṇi ayutāni ca .. 24 ..
ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ॥ दारुण्यग्निस्तिले तैलं पयस्सु च यथा घृतम् ॥ २५ ॥
ईदृशानाम् प्रभूतानि तस्मात् अव्यक्त-जन्मनः ॥ दारुणि अग्निः तिले तैलम् पयस्सु च यथा घृतम् ॥ २५ ॥
īdṛśānām prabhūtāni tasmāt avyakta-janmanaḥ .. dāruṇi agniḥ tile tailam payassu ca yathā ghṛtam .. 25 ..
तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ॥ आदिबीजात्प्रसुवते ततस्तेभ्यः परेण्डजाः ॥ २६॥
तथा असौ परमात्मा वै सर्वम् व्याप्य आत्म-वेदनः ॥ आदि-बीजात् प्रसुवते ततस् तेभ्यः परे अण्डजाः ॥ २६॥
tathā asau paramātmā vai sarvam vyāpya ātma-vedanaḥ .. ādi-bījāt prasuvate tatas tebhyaḥ pare aṇḍajāḥ .. 26..
तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ॥ महदादयो विशेषांतास्तद्भवंति सुरादयः॥२७॥
तेभ्यः पुत्राः तथा अन्येषाम् बीजानि अन्यानि वै ततस् ॥ महत्-आदयः विशेष-अंताः तत् भवन्ति सुर-आदयः॥२७॥
tebhyaḥ putrāḥ tathā anyeṣām bījāni anyāni vai tatas .. mahat-ādayaḥ viśeṣa-aṃtāḥ tat bhavanti sura-ādayaḥ..27..
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ॥ सूर्य्यकांतमणेः सूर्य्याद्यद्वद्वह्निः प्रजायते ॥ २८॥
बीजात् वृक्ष-प्ररोहेण यथा ना अपचयः तरोः ॥ सूर्य्यकान्त-मणेः सूर्य्यात् यद्वत् वह्निः प्रजायते ॥ २८॥
bījāt vṛkṣa-praroheṇa yathā nā apacayaḥ taroḥ .. sūryyakānta-maṇeḥ sūryyāt yadvat vahniḥ prajāyate .. 28..
तद्वत्संजायते सृष्टिः शिवस्तत्रः न कामयेत् ॥ शिवशक्तिसमायोगे देवाद्याः प्रभवंति हि ॥ २९॥
तद्वत् संजायते सृष्टिः शिवः तत्र न कामयेत् ॥ शिव-शक्ति-समायोगे देव-आद्याः प्रभवन्ति हि ॥ २९॥
tadvat saṃjāyate sṛṣṭiḥ śivaḥ tatra na kāmayet .. śiva-śakti-samāyoge deva-ādyāḥ prabhavanti hi .. 29..
तथा स्वकर्मणैकेन प्ररोहमुपयांति वै ॥ ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ॥ 5.19.३०॥
तथा स्व-कर्मणा एकेन प्ररोहम् उपयांति वै ॥ ब्रह्मा विष्णुः च रुद्राः च स शिवः परिगीयते ॥ ५।१९।३०॥
tathā sva-karmaṇā ekena praroham upayāṃti vai .. brahmā viṣṇuḥ ca rudrāḥ ca sa śivaḥ parigīyate .. 5.19.30..
तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ॥ कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ॥ ३१॥
तस्मात् उद्धरते सर्वम् यस्मिन् च लयम् एष्यति ॥ कर्ता क्रियाणाम् सर्वासाम् स शिवः परिगीयते ॥ ३१॥
tasmāt uddharate sarvam yasmin ca layam eṣyati .. kartā kriyāṇām sarvāsām sa śivaḥ parigīyate .. 31..
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ छिंधि मे संशयं महत् ॥ सन्ति लोका हि ब्रह्मांडादुपरिष्टान्न वा मुने ॥ ३२॥
सनत्कुमार सर्वज्ञ छिंधि मे संशयम् महत् ॥ सन्ति लोकाः हि ब्रह्मांडात् उपरिष्टात् न वा मुने ॥ ३२॥
sanatkumāra sarvajña chiṃdhi me saṃśayam mahat .. santi lokāḥ hi brahmāṃḍāt upariṣṭāt na vā mune .. 32..
सनत्कुमार उवाच ।।
ब्रह्मांडादुपरिष्टाच्च संति लोका मुनीश्वर ॥ ताञ्छृणु त्वं विशेषेण वच्मि तेऽहं समागतः ॥ ३३ ॥
ब्रह्मांडात् उपरिष्टात् च संति लोकाः मुनि-ईश्वर ॥ तान् शृणु त्वम् विशेषेण वच्मि ते अहम् समागतः ॥ ३३ ॥
brahmāṃḍāt upariṣṭāt ca saṃti lokāḥ muni-īśvara .. tān śṛṇu tvam viśeṣeṇa vacmi te aham samāgataḥ .. 33 ..
विधिलोकात्परो लोको वैकुंठ इति विश्रुतः ॥ विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ॥ ३४ ॥
विधि-लोकात् परः लोकः वैकुंठः इति विश्रुतः ॥ विराजते महा-दीप्त्या यत्र विष्णुः प्रतिष्ठितः ॥ ३४ ॥
vidhi-lokāt paraḥ lokaḥ vaikuṃṭhaḥ iti viśrutaḥ .. virājate mahā-dīptyā yatra viṣṇuḥ pratiṣṭhitaḥ .. 34 ..
तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ॥ सेनानीः शंभुतनयो राजते यत्र सुप्रभः ॥ ३५॥
तस्य उपरिष्टात् कौमारः लोकः हि परम-अद्भुतः ॥ सेनानीः शंभु-तनयः राजते यत्र सु प्रभः ॥ ३५॥
tasya upariṣṭāt kaumāraḥ lokaḥ hi parama-adbhutaḥ .. senānīḥ śaṃbhu-tanayaḥ rājate yatra su prabhaḥ .. 35..
ततः परमुमालोको महादिव्यो विरा जते॥यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ॥ ३६॥
ततस् परम् उमा-लोकः महा-दिव्यः विराजते॥यत्र शक्तिः विभाति एका त्रि-देव-जननी शिवा ॥ ३६॥
tatas param umā-lokaḥ mahā-divyaḥ virājate..yatra śaktiḥ vibhāti ekā tri-deva-jananī śivā .. 36..
परात्परा हि प्रकृती रजस्सत्त्वतमोमयी॥निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ॥ ३७॥
परात्परा हि प्रकृती रजः-सत्त्व-तमः-मयी॥निर्गुणा च स्वयम् देवी निर्विकारा शिव-आत्मिका ॥ ३७॥
parātparā hi prakṛtī rajaḥ-sattva-tamaḥ-mayī..nirguṇā ca svayam devī nirvikārā śiva-ātmikā .. 37..
तस्योपरिष्टाद्विज्ञेयश्शिवलोकस्सनातनः ॥ अविनाशी महादिव्यो महाशोभान्वितस्सदा ॥ ३८॥
तस्य उपरिष्टात् विज्ञेयः शिव-लोकः सनातनः ॥ अविनाशी महा-दिव्यः महा-शोभा-अन्वितः सदा ॥ ३८॥
tasya upariṣṭāt vijñeyaḥ śiva-lokaḥ sanātanaḥ .. avināśī mahā-divyaḥ mahā-śobhā-anvitaḥ sadā .. 38..
विराजते परं ब्रह्म यत्र शंभुर्महेश्वरः ॥ त्रिदेवजनकस्वामी सर्वेषां त्रिगुणात्परः ॥ ३९ ॥
विराजते परम् ब्रह्म यत्र शंभुः महेश्वरः ॥ त्रि-देव-जनकस्वामी सर्वेषाम् त्रिगुणात् परः ॥ ३९ ॥
virājate param brahma yatra śaṃbhuḥ maheśvaraḥ .. tri-deva-janakasvāmī sarveṣām triguṇāt paraḥ .. 39 ..
तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ॥ गोमातरस्सुशीलाख्यास्तत्र संति शिवप्रिया ॥ 5.19.४० ॥
ततस् ऊर्ध्वम् न लोकाः च गोलोकः तद्-समीपतस् ॥ गोमातरः सुशील-आख्याः तत्र संति शिवप्रिया ॥ ५।१९।४० ॥
tatas ūrdhvam na lokāḥ ca golokaḥ tad-samīpatas .. gomātaraḥ suśīla-ākhyāḥ tatra saṃti śivapriyā .. 5.19.40 ..
तत्पालः कृष्णनामा हि राजते शंकराज्ञया ॥ प्रतिष्ठितश्शिवेनैव शक्त्या स्वच्छन्दचारिणा ॥ ४१॥
तद्-पालः कृष्ण-नामा हि राजते शंकर-आज्ञया ॥ प्रतिष्ठितः शिवेन एव शक्त्या स्वच्छन्द-चारिणा ॥ ४१॥
tad-pālaḥ kṛṣṇa-nāmā hi rājate śaṃkara-ājñayā .. pratiṣṭhitaḥ śivena eva śaktyā svacchanda-cāriṇā .. 41..
शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ॥ अतिनिर्वचनीयश्च नानावस्तुविराजितः ॥ ४२ ॥
शिव-लोकः अद्भुतः व्यास निराधारः मनोहरः ॥ अति निर्वचनीयः च नाना वस्तु-विराजितः ॥ ४२ ॥
śiva-lokaḥ adbhutaḥ vyāsa nirādhāraḥ manoharaḥ .. ati nirvacanīyaḥ ca nānā vastu-virājitaḥ .. 42 ..
शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ॥ विष्णुब्रह्महरैस्सेव्यः परमात्मा निरञ्जनः॥४३॥
शिवः तु तद्-अधिष्ठाता सर्व-देव-शिरोमणिः ॥ विष्णु-ब्रह्म-हरैः सेव्यः परमात्मा निरञ्जनः॥४३॥
śivaḥ tu tad-adhiṣṭhātā sarva-deva-śiromaṇiḥ .. viṣṇu-brahma-haraiḥ sevyaḥ paramātmā nirañjanaḥ..43..
इति ते कथिता तात सर्वब्रह्मांडसंस्थितिः ॥ तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि॥४४॥
इति ते कथिता तात सर्व-ब्रह्मांड-संस्थितिः ॥ तद्-ऊर्ध्वम् लोक-संस्थानम् किम् अन्यत् श्रोतुम् इच्छसि॥४४॥
iti te kathitā tāta sarva-brahmāṃḍa-saṃsthitiḥ .. tad-ūrdhvam loka-saṃsthānam kim anyat śrotum icchasi..44..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनंनामैकोनविंशोऽध्यायः॥१९॥।
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् लोक-वर्णनम् नाम एकोनविंशः अध्यायः॥१९॥।
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām loka-varṇanam nāma ekonaviṃśaḥ adhyāyaḥ..19...

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In