| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ॥ जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ॥ १ ॥
इति आकर्ण्य मुनेः वाक्यम् उपमन्योः महात्मनः ॥ जात-भक्तिः महादेवे कृष्णः प्रोवाच तम् मुनिम् ॥ १ ॥
iti ākarṇya muneḥ vākyam upamanyoḥ mahātmanaḥ .. jāta-bhaktiḥ mahādeve kṛṣṇaḥ provāca tam munim .. 1 ..
।। श्रीकृष्ण उवाच ।।
उपमन्यो मुने तात कृपां कुरु ममोपरि ॥ ये ये शिवं समाराध्य कामानापुश्च तान्वद ॥ २ ॥
उपमन्यो मुने तात कृपाम् कुरु मम उपरि ॥ ये ये शिवम् समाराध्य कामान् आपुः च तान् वद ॥ २ ॥
upamanyo mune tāta kṛpām kuru mama upari .. ye ye śivam samārādhya kāmān āpuḥ ca tān vada .. 2 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्योपमन्युस्स मुनिश्शैववरो महान् ॥ कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ॥ ३ ॥
इति आकर्ण्य उपमन्युः स मुनिः शैव-वरः महान् ॥ कृष्ण-वाक्यम् सु प्रशस्य प्रत्युवाच कृपा-निधिः ॥ ३ ॥
iti ākarṇya upamanyuḥ sa muniḥ śaiva-varaḥ mahān .. kṛṣṇa-vākyam su praśasya pratyuvāca kṛpā-nidhiḥ .. 3 ..
उपमन्युरुवाच।।
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ॥ तांस्तान्भक्तान्प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ॥ ४ ॥
यैः यैः भव-आराधनतः प्राप्तः हृद्-कामः एव हि ॥ तान् तान् भक्तान् प्रवक्ष्यामि शृणु त्वम् वै यदु-उद्वह ॥ ४ ॥
yaiḥ yaiḥ bhava-ārādhanataḥ prāptaḥ hṛd-kāmaḥ eva hi .. tān tān bhaktān pravakṣyāmi śṛṇu tvam vai yadu-udvaha .. 4 ..
शर्वात्सर्वामरैश्वर्य्यं हिरण्यकशिपुः पुरा ॥ वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ॥ ५ ॥
शर्वात् सर्व-अमर-ऐश्वर्य्यम् हिरण्यकशिपुः पुरा ॥ वर्षाणाम् दश-लक्षाणि सः अलभत् चन्द्रशेखरात् ॥ ५ ॥
śarvāt sarva-amara-aiśvaryyam hiraṇyakaśipuḥ purā .. varṣāṇām daśa-lakṣāṇi saḥ alabhat candraśekharāt .. 5 ..
तस्याऽथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ॥ स च शर्ववरादिन्द्रं वर्षायुतमधोनयत्॥६॥
तस्य अथ पुत्र-प्रवरः नन्दनः नाम विश्रुतः ॥ स च शर्व-वरात् इन्द्रम् वर्ष-अयुतम् अधस् नयत्॥६॥
tasya atha putra-pravaraḥ nandanaḥ nāma viśrutaḥ .. sa ca śarva-varāt indram varṣa-ayutam adhas nayat..6..
विष्णुचक्रं च तद्धोरं वज्रमाखण्डलस्य च ॥ शीर्णं पुराऽभवत्कृष्ण तदंगेषु महाहवे ॥ ७ ॥
विष्णुचक्रम् च तत् होरम् वज्रम् आखण्डलस्य च ॥ शीर्णम् पुरा अभवत् कृष्ण तत् अंगेषु महा-आहवे ॥ ७ ॥
viṣṇucakram ca tat horam vajram ākhaṇḍalasya ca .. śīrṇam purā abhavat kṛṣṇa tat aṃgeṣu mahā-āhave .. 7 ..
न शस्त्राणि वहंत्यंगे धर्मतस्तस्य धीमतः ॥ ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ॥ ८॥
न शस्त्राणि वहंति अंगे धर्मतः तस्य धीमतः ॥ ग्रहस्य अतिबलस्य आजौ चक्र-वज्र-मुखानि अपि ॥ ८॥
na śastrāṇi vahaṃti aṃge dharmataḥ tasya dhīmataḥ .. grahasya atibalasya ājau cakra-vajra-mukhāni api .. 8..
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ॥ देवदत्तवरा जघ्नुरसुरेन्द्रास्सुरान्भृशम् ॥ ९॥
अर्द्यमानाः च विबुधाः ग्रहेण सु बलीयसा ॥ देवदत्त-वराः जघ्नुः असुर-इन्द्राः सुरान् भृशम् ॥ ९॥
ardyamānāḥ ca vibudhāḥ graheṇa su balīyasā .. devadatta-varāḥ jaghnuḥ asura-indrāḥ surān bhṛśam .. 9..
तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरता मदात् ॥ शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ॥ 5.2.१० ॥
तुष्टः विद्युत्प्रभस्य अपि त्रैलोक्य-ईश्वर-ता मदात् ॥ शत-वर्ष-सहस्राणि सर्व-लोक-ईश्वरः भवः ॥ ५।२।१० ॥
tuṣṭaḥ vidyutprabhasya api trailokya-īśvara-tā madāt .. śata-varṣa-sahasrāṇi sarva-loka-īśvaraḥ bhavaḥ .. 5.2.10 ..
तथा पुत्रसहस्राणामयुतं च ददौ शिवः ॥ मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ॥ ११॥
तथा पुत्र-सहस्राणाम् अयुतम् च ददौ शिवः ॥ मम च अनुचरः नित्यम् भविष्यसि अब्रवीत् इति ॥ ११॥
tathā putra-sahasrāṇām ayutam ca dadau śivaḥ .. mama ca anucaraḥ nityam bhaviṣyasi abravīt iti .. 11..
कुशद्वीपे शुभं राज्यमददाद्भगवान्भवः ॥ स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ॥ १२॥
कुशद्वीपे शुभम् राज्यम् अददात् भगवान् भवः ॥ स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्ट-धीः ॥ १२॥
kuśadvīpe śubham rājyam adadāt bhagavān bhavaḥ .. sa tasmai śaṅkaraḥ prītyā vāsudeva prahṛṣṭa-dhīḥ .. 12..
धात्रा सृष्टश्शतमखो दैत्यो वर्षशतं पुरा ॥ तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ॥ १३ ॥
धात्रा सृष्टः शतमखः दैत्यः वर्ष-शतम् पुरा ॥ तपः कृत्वा सहस्रम् तु पुत्राणाम् अलभत् भवात् ॥ १३ ॥
dhātrā sṛṣṭaḥ śatamakhaḥ daityaḥ varṣa-śatam purā .. tapaḥ kṛtvā sahasram tu putrāṇām alabhat bhavāt .. 13 ..
याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः॥आराध्य स महादेवं प्राप्तवाञ्ज्ञानमुत्तमम् ॥ १४॥
याज्ञवल्क्यः इति ख्यातः गीतः वेदेषु वै मुनिः॥आराध्य स महादेवम् प्राप्तवान् ज्ञानम् उत्तमम् ॥ १४॥
yājñavalkyaḥ iti khyātaḥ gītaḥ vedeṣu vai muniḥ..ārādhya sa mahādevam prāptavān jñānam uttamam .. 14..
वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः॥सोऽपि शंकरमाराध्य त्रिकालज्ञानमाप्तवान्॥१५॥
वेदव्यासः तु यः नाम्ना प्राप्तवान् अतुलम् यशः॥सः अपि शंकरम् आराध्य त्रि-काल-ज्ञानम् आप्तवान्॥१५॥
vedavyāsaḥ tu yaḥ nāmnā prāptavān atulam yaśaḥ..saḥ api śaṃkaram ārādhya tri-kāla-jñānam āptavān..15..
इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ॥ लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ॥ १६॥
इन्द्रेण वालखिल्याः ते परिभूताः तु शङ्करात् ॥ लेभिरे सोम-हर्तारम् गरुडम् सर्व-दुर्जयम् ॥ १६॥
indreṇa vālakhilyāḥ te paribhūtāḥ tu śaṅkarāt .. lebhire soma-hartāram garuḍam sarva-durjayam .. 16..
आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्द्दिनः ॥ शर्वं समकपालेन देवैरिष्ट्वा प्रवर्तितम् ॥ १७॥
आपः प्रनष्टाः सर्वाः च पूर्व-रोषात् कपर्द्दिनः ॥ शर्वम् सम-कपालेन देवैः इष्ट्वा प्रवर्तितम् ॥ १७॥
āpaḥ pranaṣṭāḥ sarvāḥ ca pūrva-roṣāt kaparddinaḥ .. śarvam sama-kapālena devaiḥ iṣṭvā pravartitam .. 17..
अत्रेर्भार्य्या चानसूया त्रीणि वर्षशतानि च ॥ मुशलेषु निराहारा सुप्त्वा शर्वात्ततस्सुतान् ॥ १८ ॥
अत्रेः भार्य्या च अनसूया त्रीणि वर्ष-शतानि च ॥ मुशलेषु निराहारा सुप्त्वा शर्वात् ततस् सुतान् ॥ १८ ॥
atreḥ bhāryyā ca anasūyā trīṇi varṣa-śatāni ca .. muśaleṣu nirāhārā suptvā śarvāt tatas sutān .. 18 ..
दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ॥ गंगां प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९ ॥
दत्तात्रेयम् मुनिम् लेभे चन्द्रम् दुर्वाससम् तथा ॥ गंगाम् प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९ ॥
dattātreyam munim lebhe candram durvāsasam tathā .. gaṃgām pravartayāmāsa citrakūṭe pativratā .. 19 ..
विकर्णश्च महादेवं तथा भक्तसुखावहम् ॥ प्रसाद्य महतीं सिद्धिमाप्तवान्मधुसूदन ॥ 5.2.२० ॥
विकर्णः च महादेवम् तथा भक्त-सुख-आवहम् ॥ प्रसाद्य महतीम् सिद्धिम् आप्तवान् मधुसूदन ॥ ५।२।२० ॥
vikarṇaḥ ca mahādevam tathā bhakta-sukha-āvaham .. prasādya mahatīm siddhim āptavān madhusūdana .. 5.2.20 ..
चित्रसेनो नृपश्शंभुं प्रसाद्य दृढभक्तिमान् ॥ समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ॥ २१॥
चित्रसेनः नृपः शंभुम् प्रसाद्य दृढ-भक्तिमान् ॥ समस्त-नृप-भीतिभ्यः अभयम् प्राप अतुलम् च कम् ॥ २१॥
citrasenaḥ nṛpaḥ śaṃbhum prasādya dṛḍha-bhaktimān .. samasta-nṛpa-bhītibhyaḥ abhayam prāpa atulam ca kam .. 21..
श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ॥ जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ॥ २२ ॥
॥ जात-भक्तिः महादेवे परमाम् सिद्धिम् आप्तवान् ॥ २२ ॥
.. jāta-bhaktiḥ mahādeve paramām siddhim āptavān .. 22 ..
चित्राङ्गदो नृपसुतस्सीमन्तिन्याः पतिर्हरे ॥ शिवानुग्रहतो मग्नो यमुनायां मृतो न हि॥२३॥
चित्राङ्गदः नृप-सुतः सीमन्तिन्याः पतिः हरे ॥ शिव-अनुग्रहतः मग्नः यमुनायाम् मृतः न हि॥२३॥
citrāṅgadaḥ nṛpa-sutaḥ sīmantinyāḥ patiḥ hare .. śiva-anugrahataḥ magnaḥ yamunāyām mṛtaḥ na hi..23..
स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ॥ आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ॥ २४॥
स च तक्ष-आलयम् गत्वा तद्-मैत्रीम् प्राप्य सुव्रतः ॥ आयातः स्व-गृहम् प्रीतः नाना धन-समन्वितः ॥ २४॥
sa ca takṣa-ālayam gatvā tad-maitrīm prāpya suvrataḥ .. āyātaḥ sva-gṛham prītaḥ nānā dhana-samanvitaḥ .. 24..
सीमंतिनी प्रिया तस्य सोमव्रतपरायणा॥शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ॥ २५ ॥
सीमंतिनी प्रिया तस्य सोम-व्रत-परायणा॥शिव-अनुग्रहतः कृष्ण लेभे सौभाग्यम् उत्तमम् ॥ २५ ॥
sīmaṃtinī priyā tasya soma-vrata-parāyaṇā..śiva-anugrahataḥ kṛṣṇa lebhe saubhāgyam uttamam .. 25 ..
तत्प्रभावाद्व्रते तस्मिन्नेको द्विजसुतः पुरा ॥ कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ॥ २६॥
तद्-प्रभावात् व्रते तस्मिन् एकः द्विज-सुतः पुरा ॥ कश्चिद् स्त्री-त्वम् गतः लोभात् कृतदार-आकृतिः छलात् ॥ २६॥
tad-prabhāvāt vrate tasmin ekaḥ dvija-sutaḥ purā .. kaścid strī-tvam gataḥ lobhāt kṛtadāra-ākṛtiḥ chalāt .. 26..
चंचुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ॥ श्रुत्वा धर्मकथां शंभोर्भक्त्या प्राप परां गतिम् ॥ २७ ॥
चंचुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ॥ श्रुत्वा धर्म-कथाम् शंभोः भक्त्या प्राप पराम् गतिम् ॥ २७ ॥
caṃcukā puṃścalī duṣṭā gokarṇe dvijataḥ purā .. śrutvā dharma-kathām śaṃbhoḥ bhaktyā prāpa parām gatim .. 27 ..
स्वस्त्र्यनुग्रहतः पापी बिंदुगो चंचुकापतिः ॥ श्रुत्वा शिवपुराणं स सद्गतिं प्राप शांकरीम् ॥ २८ ॥
स्व-स्त्री-अनुग्रहतः पापी चंचुका-पतिः ॥ श्रुत्वा शिव-पुराणम् स सत्-गतिम् प्राप शांकरीम् ॥ २८ ॥
sva-strī-anugrahataḥ pāpī caṃcukā-patiḥ .. śrutvā śiva-purāṇam sa sat-gatim prāpa śāṃkarīm .. 28 ..
पिंगला गणिका ख्याता मदराह्वो द्विजाधमः ॥ शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ॥ २९ ॥
पिंगला गणिका ख्याता मदर-आह्वः द्विज-अधमः ॥ शैवम् ऋषभम् अभ्यर्च्य लेभाते सत्-गतिम् च तौ ॥ २९ ॥
piṃgalā gaṇikā khyātā madara-āhvaḥ dvija-adhamaḥ .. śaivam ṛṣabham abhyarcya lebhāte sat-gatim ca tau .. 29 ..
महानन्दाभिधा कश्चिद्वेश्या शिवपदादृता ॥ दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ॥ 5.2.३० ॥
महानन्द-अभिधा कश्चिद् वेश्या शिव-पद-आदृता ॥ दृढात् पणात् सु प्रसाद्य शिवम् लेभे च सत्-गतिम् ॥ ५।२।३० ॥
mahānanda-abhidhā kaścid veśyā śiva-pada-ādṛtā .. dṛḍhāt paṇāt su prasādya śivam lebhe ca sat-gatim .. 5.2.30 ..
कैकेयी द्विजबालाः च सादराह्वा शिवव्रता ॥ परमं हि सुखं प्राप शिवेशव्रतधारणात् ॥ ३१ ॥
कैकेयी द्विजबालाः च सादराह्वा शिवव्रता ॥ परमम् हि सुखम् प्राप शिव-ईश-व्रत-धारणात् ॥ ३१ ॥
kaikeyī dvijabālāḥ ca sādarāhvā śivavratā .. paramam hi sukham prāpa śiva-īśa-vrata-dhāraṇāt .. 31 ..
विमर्षणश्च नृपतिश्शिवभक्तिं विधाय वै ॥ गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ॥ ३२ ॥
विमर्षणः च नृपतिः शिव-भक्तिम् विधाय वै ॥ गतिम् लेभे पराम् कृष्ण शिव-अनुग्रहतः पुरा ॥ ३२ ॥
vimarṣaṇaḥ ca nṛpatiḥ śiva-bhaktim vidhāya vai .. gatim lebhe parām kṛṣṇa śiva-anugrahataḥ purā .. 32 ..
दुर्जनश्च नृपः पापी बहुस्त्रीलंपटः खलः ॥ शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ॥ ३३ ॥
दुर्जनः च नृपः पापी बहु-स्त्री-लंपटः खलः ॥ शिव-भक्त्या शिवम् प्राप निर्लिप्तः सर्व-कर्मसु ॥ ३३ ॥
durjanaḥ ca nṛpaḥ pāpī bahu-strī-laṃpaṭaḥ khalaḥ .. śiva-bhaktyā śivam prāpa nirliptaḥ sarva-karmasu .. 33 ..
सस्त्रीकश्शबरो नाम्ना शंकरश्च शिवव्रती ॥ चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ॥ ३४ ॥
स स्त्रीकः शबरः नाम्ना शंकरः च शिवव्रती ॥ चिता-भस्म-रतः भक्त्या लेभे तद्-गतिम् उत्तमाम् ॥ ३४ ॥
sa strīkaḥ śabaraḥ nāmnā śaṃkaraḥ ca śivavratī .. citā-bhasma-rataḥ bhaktyā lebhe tad-gatim uttamām .. 34 ..
सौमिनी नाम चाण्डाली संपूज्याज्ञानतो हि सा ॥ लेभे शैवीं गतिं कृष्ण शंकरानुग्रहात्परात् ॥ ३५ ॥
सौमिनी नाम चाण्डाली संपूज्य अज्ञानतः हि सा ॥ लेभे शैवीम् गतिम् कृष्ण शंकर-अनुग्रहात् परात् ॥ ३५ ॥
sauminī nāma cāṇḍālī saṃpūjya ajñānataḥ hi sā .. lebhe śaivīm gatim kṛṣṇa śaṃkara-anugrahāt parāt .. 35 ..
महाकालाभिधो व्याधो किरातः परहिंसकः ॥ समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ॥ ३६ ॥
महाकाल-अभिधः व्याधो किरातः पर-हिंसकः ॥ समभ्यर्च्य शिवम् भक्त्या लेभे सत्-गतिम् उत्तमाम् ॥ ३६ ॥
mahākāla-abhidhaḥ vyādho kirātaḥ para-hiṃsakaḥ .. samabhyarcya śivam bhaktyā lebhe sat-gatim uttamām .. 36 ..
दुर्वासा मुनिशार्दूलश्शिवानुग्रहतः पुरा ॥ तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम्॥३७॥
दुर्वासाः मुनि-शार्दूलः शिव-अनुग्रहतः पुरा ॥ तस्तार स्व-मतम् लोके शिव-भक्तिम् विमुक्ति-दाम्॥३७॥
durvāsāḥ muni-śārdūlaḥ śiva-anugrahataḥ purā .. tastāra sva-matam loke śiva-bhaktim vimukti-dām..37..
कौशिकश्च समाराध्य शंकरं लोक शंकरम् ॥ ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ॥ ३६॥
कौशिकः च समाराध्य शंकरम् लोक-शंकरम् ॥ ब्राह्मणः अभूत् क्षत्रियः च द्वितीयः इव पद्मभूः ॥ ३६॥
kauśikaḥ ca samārādhya śaṃkaram loka-śaṃkaram .. brāhmaṇaḥ abhūt kṣatriyaḥ ca dvitīyaḥ iva padmabhūḥ .. 36..
शिवमभ्यर्च्य सद्भक्त्या विरंचिश्शैवसत्तमः ॥ अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ॥ ३९॥
शिवम् अभ्यर्च्य सत्-भक्त्या विरंचिः शैव-सत्तमः ॥ अभूत् सर्ग-करः कृष्ण सर्व-लोक-पितामहः ॥ ३९॥
śivam abhyarcya sat-bhaktyā viraṃciḥ śaiva-sattamaḥ .. abhūt sarga-karaḥ kṛṣṇa sarva-loka-pitāmahaḥ .. 39..
मार्कण्डेयो मुनिवरश्चिरंजीवी महाप्रभुः॥शिवभक्तवरः श्रीमाञ्शिवानुग्रहतो हरे ॥ 5.2.४०॥
मार्कण्डेयः मुनि-वरः चिरंजीवी महा-प्रभुः॥शिव-भक्त-वरः श्रीमान् शिव-अनुग्रहतः हरे ॥ ५।२।४०॥
mārkaṇḍeyaḥ muni-varaḥ ciraṃjīvī mahā-prabhuḥ..śiva-bhakta-varaḥ śrīmān śiva-anugrahataḥ hare .. 5.2.40..
देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा॥शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ॥ ४१॥
देवेन्द्रः हि महाशैवः त्रैलोक्यम् बुभुजे पुरा॥शिव-अनुग्रहतः कृष्ण सर्व-देव-अधिपः प्रभुः ॥ ४१॥
devendraḥ hi mahāśaivaḥ trailokyam bubhuje purā..śiva-anugrahataḥ kṛṣṇa sarva-deva-adhipaḥ prabhuḥ .. 41..
बलिपुत्रो महाशैवश्शिवानुग्रहतो वशी॥बाणो बभूव ब्रह्माण्डनायकस्सकलेश्वरः ॥ ४२॥
बलि-पुत्रः महा-शैवः शिव-अनुग्रहतः वशी॥बाणः बभूव ब्रह्माण्ड-नायकः सकल-ईश्वरः ॥ ४२॥
bali-putraḥ mahā-śaivaḥ śiva-anugrahataḥ vaśī..bāṇaḥ babhūva brahmāṇḍa-nāyakaḥ sakala-īśvaraḥ .. 42..
हरिश्शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः ॥ शिवानुग्रहतोऽभूवंस्तथा रामो हि शांकरः ॥ ४३॥
हरिः शक्तिः च सत्-भक्त्या दधीचः च महेश्वरः ॥ शिव-अनुग्रहतः अभूवन् तथा रामः हि शांकरः ॥ ४३॥
hariḥ śaktiḥ ca sat-bhaktyā dadhīcaḥ ca maheśvaraḥ .. śiva-anugrahataḥ abhūvan tathā rāmaḥ hi śāṃkaraḥ .. 43..
कणादो भार्गवश्चैव गुरुर्गौतम एव च ॥ शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वरा ॥ ४४ ॥
कणादः भार्गवः च एव गुरुः गौतमः एव च ॥ शिव-भक्त्या बभूवुः ते महा-प्रभवः ईश्वरा ॥ ४४ ॥
kaṇādaḥ bhārgavaḥ ca eva guruḥ gautamaḥ eva ca .. śiva-bhaktyā babhūvuḥ te mahā-prabhavaḥ īśvarā .. 44 ..
शाकल्यश्शंसितात्मा च नववर्षशातान्यपि ॥ भवमाराधयामास मनोयज्ञेन माधव॥४५॥
शाकल्यः शंसित-आत्मा च नव-वर्ष-शातानि अपि ॥ भवम् आराधयामास मनः-यज्ञेन माधव॥४५॥
śākalyaḥ śaṃsita-ātmā ca nava-varṣa-śātāni api .. bhavam ārādhayāmāsa manaḥ-yajñena mādhava..45..
तुतोष भगवानाह ग्रंथकर्ता भविष्यसि॥वत्साक्षय्या च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति॥४६॥
तुतोष भगवान् आह ग्रंथ-कर्ता भविष्यसि॥वत्स अक्षय्या च ते कीर्तिः त्रैलोक्ये प्रभविष्यति॥४६॥
tutoṣa bhagavān āha graṃtha-kartā bhaviṣyasi..vatsa akṣayyā ca te kīrtiḥ trailokye prabhaviṣyati..46..
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ॥ भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः॥४७॥
अक्षयम् च कुलम् ते अस्तु महा-ऋषिभिः अलंकृतम् ॥ भविष्यसि ऋषि-श्रेष्ठ सूत्र-कर्ता ततस् ततस्॥४७॥
akṣayam ca kulam te astu mahā-ṛṣibhiḥ alaṃkṛtam .. bhaviṣyasi ṛṣi-śreṣṭha sūtra-kartā tatas tatas..47..
इत्येवं शंकरात्प्राप वरं मुनिवरस्स वै ॥ त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ॥ ४८॥
इति एवम् शंकरात् प्राप वरम् मुनि-वरः स वै ॥ त्रैलोक्ये विततः च आसीत् पूज्यः च यदुनन्दन ॥ ४८॥
iti evam śaṃkarāt prāpa varam muni-varaḥ sa vai .. trailokye vitataḥ ca āsīt pūjyaḥ ca yadunandana .. 48..
सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे ॥ इह तेन तपस्तप्तं षष्टिवर्षशतानि च ॥ ४९ ॥
सावर्णिः इति विख्यातः ऋषिः आसीत् कृते युगे ॥ इह तेन तपः तप्तम् षष्टि-वर्ष-शतानि च ॥ ४९ ॥
sāvarṇiḥ iti vikhyātaḥ ṛṣiḥ āsīt kṛte yuge .. iha tena tapaḥ taptam ṣaṣṭi-varṣa-śatāni ca .. 49 ..
तमाह भगवान्रुद्रस्साक्षात्तुष्टोस्मि तेऽनघ ॥ ग्रंथकृल्लोकविख्यातो भवितास्यजरामरः ॥ 5.2.५० ॥
तम् आह भगवान् रुद्रः साक्षात् तुष्टः अस्मि ते अनघ ॥ ग्रंथकृत् लोक-विख्यातः भवितासि अजर-अमरः ॥ ५।२।५० ॥
tam āha bhagavān rudraḥ sākṣāt tuṣṭaḥ asmi te anagha .. graṃthakṛt loka-vikhyātaḥ bhavitāsi ajara-amaraḥ .. 5.2.50 ..
एवंविधो महादेवः पुण्यपूर्वतरैस्ततः ॥ समर्च्चितश्शुभान्कामान्प्रददाति यथेप्सितान् ॥ ५१ ॥
एवंविधः महादेवः पुण्य-पूर्वतरैः ततस् ॥ समर्च्चितः शुभान् कामान् प्रददाति यथा ईप्सितान् ॥ ५१ ॥
evaṃvidhaḥ mahādevaḥ puṇya-pūrvataraiḥ tatas .. samarccitaḥ śubhān kāmān pradadāti yathā īpsitān .. 51 ..
एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः ॥ ये संति तान्न शक्नोमि ह्यपि वर्षशतैरपि ॥ ५२ ॥
एकेन एव मुखेन अहम् वक्तुम् भगवतः गुणाः ॥ ये संति तान् न शक्नोमि हि अपि वर्ष-शतैः अपि ॥ ५२ ॥
ekena eva mukhena aham vaktum bhagavataḥ guṇāḥ .. ye saṃti tān na śaknomi hi api varṣa-śataiḥ api .. 52 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् सनत्कुमार-व्यास-संवादे उपमन्यूपदेशः नाम द्वितीयः अध्यायः ॥ २ ॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām sanatkumāra-vyāsa-saṃvāde upamanyūpadeśaḥ nāma dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In