| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम ॥ यद्गत्वा न निवर्तंते शिवभक्तियुता नराः ॥ १ ॥
सनत्कुमार सर्वज्ञ तद्-प्राप्तिम् वद सत्तम ॥ यत् गत्वा न निवर्तन्ते शिव-भक्ति-युताः नराः ॥ १ ॥
sanatkumāra sarvajña tad-prāptim vada sattama .. yat gatvā na nivartante śiva-bhakti-yutāḥ narāḥ .. 1 ..
।। सनत्कुमार उवाच ।।
पराशरसुत व्यास शृणु प्रीत्या शुभां गतिम् ॥ व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम् ॥ २॥
पराशर-सुत व्यास शृणु प्रीत्या शुभाम् गतिम् ॥ व्रतम् हि शुद्ध-भक्तानाम् तथा शुद्धम् तपस्विनाम् ॥ २॥
parāśara-suta vyāsa śṛṇu prītyā śubhām gatim .. vratam hi śuddha-bhaktānām tathā śuddham tapasvinām .. 2..
ये शिवं शुद्धकर्माणस्सुशुद्धतपसान्विताः ॥ समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम् ॥ ३॥
ये शिवम् शुद्ध-कर्माणः सु शुद्ध-तपसा अन्विताः ॥ समर्चयन्ति तम् नित्यम् वन्द्याः ते सर्वथा अन्वहम् ॥ ३॥
ye śivam śuddha-karmāṇaḥ su śuddha-tapasā anvitāḥ .. samarcayanti tam nityam vandyāḥ te sarvathā anvaham .. 3..
नातप्ततपसो यांति शिवलोकमनामयम् ॥ शिवानुग्रहसद्धेतुस्तप एव महामुने॥४॥
न अतप्त-तपसः यांति शिव-लोकम् अनामयम् ॥ शिव-अनुग्रह-सत्-हेतुः तपः एव महा-मुने॥४॥
na atapta-tapasaḥ yāṃti śiva-lokam anāmayam .. śiva-anugraha-sat-hetuḥ tapaḥ eva mahā-mune..4..
तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः॥ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः ॥ ५॥
तपसा दिवि मोदन्ते प्रत्यक्षम् देवता-गणाः॥ऋषयः मुनयः च एव सत्यम् जानि इह मद्-वचः ॥ ५॥
tapasā divi modante pratyakṣam devatā-gaṇāḥ..ṛṣayaḥ munayaḥ ca eva satyam jāni iha mad-vacaḥ .. 5..
सुदुर्द्धरं दुरासाध्यं सुधुरं दुरतिक्रमम्॥तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ६ ॥
सु दुर्द्धरम् दुरासाध्यम् सु धुरम् दुरतिक्रमम्॥तत् सर्वम् तपसा साध्यम् तपः हि दुरतिक्रमम् ॥ ६ ॥
su durddharam durāsādhyam su dhuram duratikramam..tat sarvam tapasā sādhyam tapaḥ hi duratikramam .. 6 ..
सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा॥देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम् ॥ ७॥
सुस्थितः तपसि ब्रह्मा नित्यम् विष्णुः हरः तथा॥देवाः देव्यः अखिलाः प्राप्ताः तपसा दुर्लभम् फलम् ॥ ७॥
susthitaḥ tapasi brahmā nityam viṣṇuḥ haraḥ tathā..devāḥ devyaḥ akhilāḥ prāptāḥ tapasā durlabham phalam .. 7..
येन येन हि भावेन स्थित्वा यत्क्रियते तपः ॥ ततस्संप्राप्यतेऽसौ तैरिह लोके न संशयः ॥ ८ ॥
येन येन हि भावेन स्थित्वा यत् क्रियते तपः ॥ ततस् संप्राप्यते असौ तैः इह लोके न संशयः ॥ ८ ॥
yena yena hi bhāvena sthitvā yat kriyate tapaḥ .. tatas saṃprāpyate asau taiḥ iha loke na saṃśayaḥ .. 8 ..
सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ॥ विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम्॥९॥
सात्त्विकम् राजसम् च एव तामसम् त्रिविधम् स्मृतम् ॥ विज्ञेयम् हि तपः व्यास सर्व-साधन-साधनम्॥९॥
sāttvikam rājasam ca eva tāmasam trividham smṛtam .. vijñeyam hi tapaḥ vyāsa sarva-sādhana-sādhanam..9..
सात्त्विकं दैवतानां हि यतीनामूर्द्ध्वरेतसाम् ॥ राजसं दानवानां हि मनुष्याणां तथैव च ॥ तामसं राक्षसानां हि नराणां क्रूरकर्मणाम् ॥ 5.20.१०॥
सात्त्विकम् दैवतानाम् हि यतीनाम् ऊर्द्ध्वरेतसाम् ॥ राजसम् दानवानाम् हि मनुष्याणाम् तथा एव च ॥ तामसम् राक्षसानाम् हि नराणाम् क्रूर-कर्मणाम् ॥ ५।२०।१०॥
sāttvikam daivatānām hi yatīnām ūrddhvaretasām .. rājasam dānavānām hi manuṣyāṇām tathā eva ca .. tāmasam rākṣasānām hi narāṇām krūra-karmaṇām .. 5.20.10..
त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ॥ जपो ध्यानं तु देवानामर्चनं भक्तितश्शुभम्॥११॥
त्रिविधम् तद्-फलम् प्रोक्तम् मुनिभिः तत्त्व-दर्शिभिः ॥ जपः ध्यानम् तु देवानाम् अर्चनम् भक्तितः शुभम्॥११॥
trividham tad-phalam proktam munibhiḥ tattva-darśibhiḥ .. japaḥ dhyānam tu devānām arcanam bhaktitaḥ śubham..11..
सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् ॥ इह लोके परे चैव मनोभिप्रेतसाधनम् ॥ १२ ॥
सात्त्विकम् तत् हि निर्दिष्टम् अशेष-फल-साधकम् ॥ इह लोके परे च एव मनः-अभिप्रेत-साधनम् ॥ १२ ॥
sāttvikam tat hi nirdiṣṭam aśeṣa-phala-sādhakam .. iha loke pare ca eva manaḥ-abhipreta-sādhanam .. 12 ..
कामनाफलमुद्दिश्य राजसं तप उच्यते ॥ निजदेहं सुसंपीड्य देहशोषकदुस्सहैः ॥ १३ ॥
कामना-फलम् उद्दिश्य राजसम् तपः उच्यते ॥ निज-देहम् सु संपीड्य देह-शोषक-दुस्सहैः ॥ १३ ॥
kāmanā-phalam uddiśya rājasam tapaḥ ucyate .. nija-deham su saṃpīḍya deha-śoṣaka-dussahaiḥ .. 13 ..
तपस्तामसमुद्दिष्टं मनोभिप्रेतसाधनम् ॥ १४ ॥
तपः तामसम् उद्दिष्टम् मनः-अभिप्रेत-साधनम् ॥ १४ ॥
tapaḥ tāmasam uddiṣṭam manaḥ-abhipreta-sādhanam .. 14 ..
उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला ॥ स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम् ॥ १५॥
उत्तमम् सात्त्विकम् विद्यात् धर्म-बुद्धिः च निश्चला ॥ स्नानम् पूजा जपः होमः शुद्ध-शौचम् अहिंसनम् ॥ १५॥
uttamam sāttvikam vidyāt dharma-buddhiḥ ca niścalā .. snānam pūjā japaḥ homaḥ śuddha-śaucam ahiṃsanam .. 15..
व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः ॥ धीर्विद्या सत्यमक्रोधो दानं क्षांतिर्दमो दया ॥ १६॥
व्रत-उपवास-चर्या च मौनम् इन्द्रिय-निग्रहः ॥ धीः विद्या सत्यम् अक्रोधः दानम् क्षांतिः दमः दया ॥ १६॥
vrata-upavāsa-caryā ca maunam indriya-nigrahaḥ .. dhīḥ vidyā satyam akrodhaḥ dānam kṣāṃtiḥ damaḥ dayā .. 16..
वापीकूपतडागादेः प्रसादस्य च कल्पना ॥ कृच्छ्रं चांद्रायणं यज्ञस्सुतीर्थान्याश्रमाः पुनः ॥ १७ ॥
वापी-कूप-तडाग-आदेः प्रसादस्य च कल्पना ॥ कृच्छ्रम् चांद्रायणम् यज्ञः सु तीर्थानि आश्रमाः पुनर् ॥ १७ ॥
vāpī-kūpa-taḍāga-ādeḥ prasādasya ca kalpanā .. kṛcchram cāṃdrāyaṇam yajñaḥ su tīrthāni āśramāḥ punar .. 17 ..
धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् ॥ सुधर्मः परमो व्यासः शिवभक्तेश्च कारणम् ॥ १८॥
धर्म-स्थानानि च एतानि सुख-दानि मनीषिणाम् ॥ सुधर्मः परमः व्यासः शिव-भक्तेः च कारणम् ॥ १८॥
dharma-sthānāni ca etāni sukha-dāni manīṣiṇām .. sudharmaḥ paramaḥ vyāsaḥ śiva-bhakteḥ ca kāraṇam .. 18..
संक्रातिविषुवद्योगो नादमुक्ते नियुज्यताम्॥ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा ॥ १९॥
संक्राति-विषुवत्-योगः नाद-मुक्ते नियुज्यताम्॥ध्यानम् त्रिकालिकम् ज्योतिः-उन्मनीभाव-धारणा ॥ १९॥
saṃkrāti-viṣuvat-yogaḥ nāda-mukte niyujyatām..dhyānam trikālikam jyotiḥ-unmanībhāva-dhāraṇā .. 19..
रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः ॥ नाडीसंचारविज्ञानं प्रत्याहारनिरोधनम् ॥ 5.20.२०॥
रेचकः पूरकः कुम्भः प्राणायामः त्रिधा स्मृतः ॥ नाडी-संचार-विज्ञानम् प्रत्याहार-निरोधनम् ॥ ५।२०।२०॥
recakaḥ pūrakaḥ kumbhaḥ prāṇāyāmaḥ tridhā smṛtaḥ .. nāḍī-saṃcāra-vijñānam pratyāhāra-nirodhanam .. 5.20.20..
तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम्॥पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम्॥२१॥
तुरीयम् तद्-अधस् बुद्धि-रणिम-आदि-अष्ट-संयुतम्॥पूर्व-उत्तमम् समुद्दिष्टम् पर-ज्ञान-प्रसाधनम्॥२१॥
turīyam tad-adhas buddhi-raṇima-ādi-aṣṭa-saṃyutam..pūrva-uttamam samuddiṣṭam para-jñāna-prasādhanam..21..
काष्ठावस्था मृतावस्था हरितावेति कीर्तिताः॥नानोपलब्धयो ह्येतास्सर्वपापप्रणाशनाः ॥ २२॥
इति॥नाना उपलब्धयः हि एताः सर्व-पाप-प्रणाशनाः ॥ २२॥
iti..nānā upalabdhayaḥ hi etāḥ sarva-pāpa-praṇāśanāḥ .. 22..
नारी शय्या तथा पानं वस्त्रधूपविलेपनम्॥ताम्बूलभक्षणं पंच राजैश्वर्य्यविभूतयः ॥ २३॥
नारी शय्या तथा पानम् वस्त्र-धूप-विलेपनम्॥ताम्बूल-भक्षणम् पंच राज-ऐश्वर्य्य-विभूतयः ॥ २३॥
nārī śayyā tathā pānam vastra-dhūpa-vilepanam..tāmbūla-bhakṣaṇam paṃca rāja-aiśvaryya-vibhūtayaḥ .. 23..
हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः॥पांडित्यं वेदशास्त्राणां गीतनृत्यविभूषणम्।ा२४॥
हेम-भारः तथा ताम्रम् गृहाः च रत्न-धेनवः॥पांडित्यम् वेद-शास्त्राणाम् गीत-नृत्य-विभूषणम्।॥
hema-bhāraḥ tathā tāmram gṛhāḥ ca ratna-dhenavaḥ..pāṃḍityam veda-śāstrāṇām gīta-nṛtya-vibhūṣaṇam...
शंखवीणामृदंगाश्च गजेन्द्रश्छत्रचामरे॥भोगरूपाणि चैतानि एभिश्शक्तोऽनुरज्यते ॥ २५ ॥
शंख-वीणा-मृदंगाः च गज-इन्द्रः छत्र-चामरे॥भोग-रूपाणि च एतानि एभिः शक्तः अनुरज्यते ॥ २५ ॥
śaṃkha-vīṇā-mṛdaṃgāḥ ca gaja-indraḥ chatra-cāmare..bhoga-rūpāṇi ca etāni ebhiḥ śaktaḥ anurajyate .. 25 ..
आदर्शवन्मुनेस्नेहैस्तिलवत्स निपीड्यते॥अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः॥२६॥
आदर्श-वत् मुने-स्नेहैः तिल-वत् स निपीड्यते॥अरम् गच्छ इति च अपि एनम् कुरुते ज्ञान-मोहितः॥२६॥
ādarśa-vat mune-snehaiḥ tila-vat sa nipīḍyate..aram gaccha iti ca api enam kurute jñāna-mohitaḥ..26..
जानन्नपीह संसारे भ्रमते घटियंत्रवत्॥सर्वयोनिषु दुःखार्तस्स्थावरेषु चरेषु च॥२७॥
जानन् अपि इह संसारे भ्रमते घटियंत्र-वत्॥सर्व-योनिषु दुःख-आर्तः स्थावरेषु चरेषु च॥२७॥
jānan api iha saṃsāre bhramate ghaṭiyaṃtra-vat..sarva-yoniṣu duḥkha-ārtaḥ sthāvareṣu careṣu ca..27..
एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त॥कालांतरवशाद्याति मानुष्यमतिदुर्लभम् ॥ २८ ॥
एवम् योनिषु सर्वासु प्रतिक्रम्य भ्रमेण॥काल-अन्तर-वशात् याति मानुष्य-मति-दुर्लभम् ॥ २८ ॥
evam yoniṣu sarvāsu pratikramya bhrameṇa..kāla-antara-vaśāt yāti mānuṣya-mati-durlabham .. 28 ..
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ॥ विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात्॥२९॥
व्युत्क्रमेण अपि मानुष्यम् प्राप्यते पुण्य-गौरवात् ॥ विचित्राः गतयः प्रोक्ताः कर्मणाम् गुरुलाघवात्॥२९॥
vyutkrameṇa api mānuṣyam prāpyate puṇya-gauravāt .. vicitrāḥ gatayaḥ proktāḥ karmaṇām gurulāghavāt..29..
मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् ॥ नाचरत्यात्मनः श्रेयस्स मृतश्शोचते चिरम् ॥ 5.20.३०॥
मानुष्यम् च समासाद्य स्वर्ग-मोक्ष-प्रसाधनम् ॥ न आचरति आत्मनः श्रेयः स मृतः शोचते चिरम् ॥ ५।२०।३०॥
mānuṣyam ca samāsādya svarga-mokṣa-prasādhanam .. na ācarati ātmanaḥ śreyaḥ sa mṛtaḥ śocate ciram .. 5.20.30..
देवासुराणां सर्वेषां मानुष्यं चाति दुर्लभं ॥ तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥ ३१ ॥
देव-असुराणाम् सर्वेषाम् मानुष्यम् च अति दुर्लभम् ॥ तत् संप्राप्य तथा कुर्यात् न गच्छेत् नरकम् यथा ॥ ३१ ॥
deva-asurāṇām sarveṣām mānuṣyam ca ati durlabham .. tat saṃprāpya tathā kuryāt na gacchet narakam yathā .. 31 ..
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः ॥ दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम् ॥ ३२ ॥
स्वर्ग-अपवर्ग-लाभाय यदि ना अस्ति समुद्यमः ॥ दुर्लभम् प्राप्य मानुष्यम् वृथा तत् जन्म कीर्तितम् ॥ ३२ ॥
svarga-apavarga-lābhāya yadi nā asti samudyamaḥ .. durlabham prāpya mānuṣyam vṛthā tat janma kīrtitam .. 32 ..
सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् ॥ संप्राप्य धर्मतो व्यास तद्यत्तादनुपालयेत्॥३३॥
सर्वस्य मूलम् मानुष्यम् चतुर्वर्गस्य कीर्तितम् ॥ संप्राप्य धर्मतः व्यास तत् यत्तात् अनुपालयेत्॥३३॥
sarvasya mūlam mānuṣyam caturvargasya kīrtitam .. saṃprāpya dharmataḥ vyāsa tat yattāt anupālayet..33..
धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् ॥ यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः ॥ ३४॥
धर्म-मूलम् हि मानुष्यम् लब्ध्वा सर्व-अर्थ-साधकम् ॥ यदि लाभाय यत्नः स्यात् मूलम् रक्षेत् स्वयम् ततस् ॥ ३४॥
dharma-mūlam hi mānuṣyam labdhvā sarva-artha-sādhakam .. yadi lābhāya yatnaḥ syāt mūlam rakṣet svayam tatas .. 34..
मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् ॥ नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः ॥ ३५ ॥
मानुष्ये अपि च विप्र-त्वम् यः प्राप्य खलु दुर्लभम् ॥ न आचरति आत्मनः श्रेयः कः अन्यः तस्मात् अचेतनः ॥ ३५ ॥
mānuṣye api ca vipra-tvam yaḥ prāpya khalu durlabham .. na ācarati ātmanaḥ śreyaḥ kaḥ anyaḥ tasmāt acetanaḥ .. 35 ..
द्वीपानामेव सर्वेषां कर्मभूमिरियमुच्यते ॥ इतस्स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः ॥ ३६ ॥
द्वीपानाम् एव सर्वेषाम् कर्म-भूमिः इयम् उच्यते ॥ इतस् स्वर्गः च मोक्षः च प्राप्यते समुपार्जितः ॥ ३६ ॥
dvīpānām eva sarveṣām karma-bhūmiḥ iyam ucyate .. itas svargaḥ ca mokṣaḥ ca prāpyate samupārjitaḥ .. 36 ..
देशेऽस्मिन्भारते वर्षे प्राप्य मानुष्यमध्रुवम् ॥ न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वंचितः॥३७॥
देशे अस्मिन् भारते वर्षे प्राप्य मानुष्यम् अध्रुवम् ॥ न कुर्यात् आत्मनः श्रेयः तेन आत्मा खलु वंचितः॥३७॥
deśe asmin bhārate varṣe prāpya mānuṣyam adhruvam .. na kuryāt ātmanaḥ śreyaḥ tena ātmā khalu vaṃcitaḥ..37..
कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता ॥ इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते॥३८॥
कर्म-भूमिः इयम् विप्र फल-भूमिः असौ स्मृता ॥ इह यत् क्रियते कर्म स्वर्गे तत् अनुभुज्यते॥३८॥
karma-bhūmiḥ iyam vipra phala-bhūmiḥ asau smṛtā .. iha yat kriyate karma svarge tat anubhujyate..38..
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत्॥अस्वस्थश्चोदितोऽप्यन्यैर्न किंचित्कर्तुमुत्सहेत् ॥ ३९ ॥
यावत् स्वास्थ्यम् शरीरस्य तावत् धर्मम् समाचरेत्॥अस्वस्थः चोदितः अपि अन्यैः न किंचिद् कर्तुम् उत्सहेत् ॥ ३९ ॥
yāvat svāsthyam śarīrasya tāvat dharmam samācaret..asvasthaḥ coditaḥ api anyaiḥ na kiṃcid kartum utsahet .. 39 ..
अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् ॥ ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ॥ 5.20.४० ॥
अध्रुवेण शरीरेण ध्रुवम् यः न प्रसाधयेत् ॥ ध्रुवम् तस्य परिभ्रष्टम् अध्रुवम् नष्टम् एव च ॥ ५।२०।४० ॥
adhruveṇa śarīreṇa dhruvam yaḥ na prasādhayet .. dhruvam tasya paribhraṣṭam adhruvam naṣṭam eva ca .. 5.20.40 ..
आयुषः खंडखंडानि निपतंति तदग्रतः ॥ अहोरात्रोपदेशेन किमर्थं नावबुध्यते ॥ ४१ ॥
आयुषः खंड-खंडानि निपतंति तद्-अग्रतस् ॥ अहोरात्र-उपदेशेन किमर्थम् न अवबुध्यते ॥ ४१ ॥
āyuṣaḥ khaṃḍa-khaṃḍāni nipataṃti tad-agratas .. ahorātra-upadeśena kimartham na avabudhyate .. 41 ..
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ॥ आकस्मिके हि मरणे धृतिं विंदति कस्तथा ॥ ४२ ॥
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ॥ आकस्मिके हि मरणे धृतिम् विंदति कः तथा ॥ ४२ ॥
yadā na jñāyate mṛtyuḥ kadā kasya bhaviṣyati .. ākasmike hi maraṇe dhṛtim viṃdati kaḥ tathā .. 42 ..
परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् ॥ न ददाति कदा कस्मात्पाथेयार्थमिदं धनम् ॥ ४३ ॥
परित्यज्य यदा सर्वम् एकाकी यास्यति ध्रुवम् ॥ न ददाति कदा कस्मात् पाथेय-अर्थम् इदम् धनम् ॥ ४३ ॥
parityajya yadā sarvam ekākī yāsyati dhruvam .. na dadāti kadā kasmāt pātheya-artham idam dhanam .. 43 ..
गृहीतदानपाथेयः सुखं याति यमालयम् ॥ अन्यथा क्लिश्यते जंतुः पाथेयरहिते पथि ॥ ४४॥
गृहीत-दान-पाथेयः सुखम् याति यम-आलयम् ॥ अन्यथा क्लिश्यते जंतुः पाथेय-रहिते पथि ॥ ४४॥
gṛhīta-dāna-pātheyaḥ sukham yāti yama-ālayam .. anyathā kliśyate jaṃtuḥ pātheya-rahite pathi .. 44..
येषां कालेय पुण्यानि परिपूर्णानि सर्वतः॥गच्छतां स्वर्गदेशं हि तेषां लाभः पदेपदे ॥ ४५॥
येषाम् कालेय पुण्यानि परिपूर्णानि सर्वतस्॥गच्छताम् स्वर्ग-देशम् हि तेषाम् लाभः पदे पदे ॥ ४५॥
yeṣām kāleya puṇyāni paripūrṇāni sarvatas..gacchatām svarga-deśam hi teṣām lābhaḥ pade pade .. 45..
इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ॥ पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत् ॥ ४६ ॥
इति ज्ञात्वा नरः पुण्यम् कुर्यात् पापम् विवर्जयेत् ॥ पुण्येन याति देव-त्वम् अपुण्यः नरकम् व्रजेत् ॥ ४६ ॥
iti jñātvā naraḥ puṇyam kuryāt pāpam vivarjayet .. puṇyena yāti deva-tvam apuṇyaḥ narakam vrajet .. 46 ..
ये मनागपि देवेशं प्रपन्नाश्शरणं शिवम् ॥ तेऽपि घोरं न पश्यंति यमं न नरकं तथा॥४७॥
ये मनाक् अपि देवेशम् प्रपन्नाः शरणम् शिवम् ॥ ते अपि घोरम् न पश्यंति यमम् न नरकम् तथा॥४७॥
ye manāk api deveśam prapannāḥ śaraṇam śivam .. te api ghoram na paśyaṃti yamam na narakam tathā..47..
किंतु पापैर्महामोहैः किंचित्काले शिवाज्ञया ॥ वसंति तत्र मानुष्यास्ततो यांति शिवास्पदम् ॥ ४८॥
किंतु पापैः महा-मोहैः किंचिद् काले शिव-आज्ञया ॥ वसंति तत्र मानुष्याः ततस् यांति शिव-आस्पदम् ॥ ४८॥
kiṃtu pāpaiḥ mahā-mohaiḥ kiṃcid kāle śiva-ājñayā .. vasaṃti tatra mānuṣyāḥ tatas yāṃti śiva-āspadam .. 48..
ये पुनस्सर्वभावेन प्रतिपन्ना महेश्वरम् ॥ न ते लिम्पंति पापेन पद्मपत्रमिवाम्भसा ॥ ४९ ॥
ये पुनर् सर्व-भावेन प्रतिपन्नाः महेश्वरम् ॥ न ते लिम्पंति पापेन पद्म-पत्रम् इव अम्भसा ॥ ४९ ॥
ye punar sarva-bhāvena pratipannāḥ maheśvaram .. na te limpaṃti pāpena padma-patram iva ambhasā .. 49 ..
उक्तं शिवेति यैर्नाम तथा हरहरेति च॥न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम ॥ 5.20.५०॥
उक्तम् शिव-इति यैः नाम तथा हर-हर-इति च॥न तेषाम् नरकात् भीतिः यमात् हि मुनि-सत्तम ॥ ५।२०।५०॥
uktam śiva-iti yaiḥ nāma tathā hara-hara-iti ca..na teṣām narakāt bhītiḥ yamāt hi muni-sattama .. 5.20.50..
परलोकस्य पाथेयं मोक्षोपायमनामयम् ॥ पुण्यसंघैकनिलयं शिव इत्यक्षरद्वयम् ॥ ५१ ॥
पर-लोकस्य पाथेयम् मोक्ष-उपायम् अनामयम् ॥ पुण्य-संघ-एक-निलयम् शिवः इति अक्षर-द्वयम् ॥ ५१ ॥
para-lokasya pātheyam mokṣa-upāyam anāmayam .. puṇya-saṃgha-eka-nilayam śivaḥ iti akṣara-dvayam .. 51 ..
शिवनामैव संसारमहारोगेकशामकम् ॥ नान्यत्संसाररोगस्य शामकं दृश्यते मया ॥ ५२ ॥
एव ॥ न अन्यत् संसार-रोगस्य शामकम् दृश्यते मया ॥ ५२ ॥
eva .. na anyat saṃsāra-rogasya śāmakam dṛśyate mayā .. 52 ..
ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः ॥ शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ॥ ५३ ॥
ब्रह्महत्या-सहस्राणि पुरा कृत्वा तु पुल्कसः ॥ शिवा इति नाम विमलम् श्रुत्वा मोक्षम् गतः पुरा ॥ ५३ ॥
brahmahatyā-sahasrāṇi purā kṛtvā tu pulkasaḥ .. śivā iti nāma vimalam śrutvā mokṣam gataḥ purā .. 53 ..
तस्माद्विवर्द्धयेद्भक्तिमीश्वरे सततं बुधः॥शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विंदति॥५४॥
तस्मात् विवर्द्धयेत् भक्तिम् ईश्वरे सततम् बुधः॥शिव-भक्त्या महा-प्राज्ञ भुक्तिम् मुक्तिम् च विंदति॥५४॥
tasmāt vivarddhayet bhaktim īśvare satatam budhaḥ..śiva-bhaktyā mahā-prājña bhuktim muktim ca viṃdati..54..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् मनुविशेषकथनम् नाम विंशः अध्यायः ॥ २० ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām manuviśeṣakathanam nāma viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In