| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।।
ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद्ब्राह्मणो भवेत् ॥ ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः ॥ १ ॥
ब्राह्मण-त्वम् हि दुष्प्राप्यम् निसर्गात् ब्राह्मणः भवेत् ॥ ईश्वरस्य मुखात् क्षत्रम् बाहुभ्याम् ऊरुतः विशः ॥ १ ॥
brāhmaṇa-tvam hi duṣprāpyam nisargāt brāhmaṇaḥ bhavet .. īśvarasya mukhāt kṣatram bāhubhyām ūrutaḥ viśaḥ .. 1 ..
पद्भ्यां शूद्रस्समुत्पन्न इति तस्य मुखाच्छ्रुतिः ॥ किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद ॥ २ ॥
पद्भ्याम् शूद्रः समुत्पन्नः इति तस्य मुखात् श्रुतिः ॥ किमु स्थितिम् अधस् स्थानात् आप्नुवन्ति हि अतस् वद ॥ २ ॥
padbhyām śūdraḥ samutpannaḥ iti tasya mukhāt śrutiḥ .. kimu sthitim adhas sthānāt āpnuvanti hi atas vada .. 2 ..
सनत्कुमार उवाच ।।
दुष्कृतेन तु कालेय स्थानाद्भ्रश्यन्ति मानवाः ॥ श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥ ३ ॥
दुष्कृतेन तु कालेय स्थानात् भ्रश्यन्ति मानवाः ॥ श्रेष्ठम् स्थानम् समासाद्य तस्मात् रक्षेत पण्डितः ॥ ३ ॥
duṣkṛtena tu kāleya sthānāt bhraśyanti mānavāḥ .. śreṣṭham sthānam samāsādya tasmāt rakṣeta paṇḍitaḥ .. 3 ..
यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते ॥ ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते ॥ ४॥
यः तु विप्र-त्वम् उत्सृज्य क्षत्र-योन्याम् प्रसूयते ॥ ब्राह्मण्यात् स परिभ्रष्टः क्षत्रिय-त्वम् निषेवते ॥ ४॥
yaḥ tu vipra-tvam utsṛjya kṣatra-yonyām prasūyate .. brāhmaṇyāt sa paribhraṣṭaḥ kṣatriya-tvam niṣevate .. 4..
अधर्मसेवनान्मूढस्तथैव परिवर्तते ॥ जन्मान्तरसहस्राणि तमस्याविशते यतः ॥ ५॥
अधर्म-सेवनात् मूढः तथा एव परिवर्तते ॥ जन्म-अन्तर-सहस्राणि तमसि आविशते यतस् ॥ ५॥
adharma-sevanāt mūḍhaḥ tathā eva parivartate .. janma-antara-sahasrāṇi tamasi āviśate yatas .. 5..
तस्मात्प्राप्य परं स्थानं प्रमाद्यन्न तु नाशयेत् ॥ स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः ॥ ६ ॥
तस्मात् प्राप्य परम् स्थानम् प्रमाद्यन् न तु नाशयेत् ॥ स्व-स्थानम् सर्वदा रक्षेत् प्राप्य अपि विपदः नरः ॥ ६ ॥
tasmāt prāpya param sthānam pramādyan na tu nāśayet .. sva-sthānam sarvadā rakṣet prāpya api vipadaḥ naraḥ .. 6 ..
ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते ॥ भोज्याभोज्यं न जानाति स पुमान्क्षत्रियो भवेत् ॥ ७ ॥
ब्राह्मण-त्वम् शुभम् प्राप्य ब्राह्मण्यम् यः अवमन्यते ॥ भोज्य-अभोज्यम् न जानाति स पुमान् क्षत्रियः भवेत् ॥ ७ ॥
brāhmaṇa-tvam śubham prāpya brāhmaṇyam yaḥ avamanyate .. bhojya-abhojyam na jānāti sa pumān kṣatriyaḥ bhavet .. 7 ..
कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते ॥ तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥ ८ ॥
कर्मणा येन मेधावी शूद्रः वैश्यः हि जायते ॥ तत् ते वक्ष्यामि निखिलम् येन वर्ण-उत्तमः भवेत् ॥ ८ ॥
karmaṇā yena medhāvī śūdraḥ vaiśyaḥ hi jāyate .. tat te vakṣyāmi nikhilam yena varṇa-uttamaḥ bhavet .. 8 ..
शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् ॥ यथावत्परिचर्य्यां तु त्रिषु वर्णेषु नित्यदा ॥ ९ ॥
शूद्र-कर्म यथा उद्दिष्टम् शूद्रः भूत्वा समाचरेत् ॥ यथावत् परिचर्य्याम् तु त्रिषु वर्णेषु नित्यदा ॥ ९ ॥
śūdra-karma yathā uddiṣṭam śūdraḥ bhūtvā samācaret .. yathāvat paricaryyām tu triṣu varṇeṣu nityadā .. 9 ..
कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् ॥ यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि ॥ 5.21.१० ॥
कुरुते कामयानः तु शूद्रः अपि वैश्य-ताम् व्रजेत् ॥ यः योजयेत् धनैः वैश्यः जुह्वानः च यथाविधि ॥ ५।२१।१० ॥
kurute kāmayānaḥ tu śūdraḥ api vaiśya-tām vrajet .. yaḥ yojayet dhanaiḥ vaiśyaḥ juhvānaḥ ca yathāvidhi .. 5.21.10 ..
अग्निहोत्रमुपादाय शेषान्न कृतभोजनः ॥ स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥ ११ ॥ ।
अग्निहोत्रम् उपादाय शेषान् न कृत-भोजनः ॥ स वैश्यः क्षत्रिय-कुले जायते न अत्र संशयः ॥ ११ ॥ ।
agnihotram upādāya śeṣān na kṛta-bhojanaḥ .. sa vaiśyaḥ kṣatriya-kule jāyate na atra saṃśayaḥ .. 11 .. .
क्षत्त्रियो जायते यज्ञैसंस्कृतैरात्तदक्षिणैः ॥ अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा ॥ १२ ॥
क्षत्त्रियः जायते यज्ञैः संस्कृतैः आत्त-दक्षिणैः ॥ अधीते स्वर्गम् अन्विच्छन् त्रेताग्नि-शरणम् सदा ॥ १२ ॥
kṣattriyaḥ jāyate yajñaiḥ saṃskṛtaiḥ ātta-dakṣiṇaiḥ .. adhīte svargam anvicchan tretāgni-śaraṇam sadā .. 12 ..
आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् ॥ ऋतुकालाभिगामी च स्वभार्य्याधर्मतत्परः॥१३॥
आर्द्र-हस्त-पदः नित्यम् क्षितिम् धर्मेण पालयेत् ॥ ऋतु-काल-अभिगामी च स्व-भार्य्या-धर्म-तत्परः॥१३॥
ārdra-hasta-padaḥ nityam kṣitim dharmeṇa pālayet .. ṛtu-kāla-abhigāmī ca sva-bhāryyā-dharma-tatparaḥ..13..
सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति ॥ गोब्राह्मणात्मनोऽर्थं हि संग्रामाभिहतो भवेत् ॥ १४॥
सर्व-आतिथ्यम् त्रिवर्गस्य भूतेभ्यः दीयताम् इति ॥ गो-ब्राह्मण-आत्मनः अर्थम् हि संग्राम-अभिहतः भवेत् ॥ १४॥
sarva-ātithyam trivargasya bhūtebhyaḥ dīyatām iti .. go-brāhmaṇa-ātmanaḥ artham hi saṃgrāma-abhihataḥ bhavet .. 14..
तेनाग्निमन्त्रपूतात्मा क्षत्त्रियो ब्राह्मणो भवेत् ॥ विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ॥ १५ ।
तेन अग्नि-मन्त्र-पूत-आत्मा क्षत्त्रियः ब्राह्मणः भवेत् ॥ विधितः ब्राह्मणः भूत्वा याजकः तु प्रजायते ॥ १५ ।
tena agni-mantra-pūta-ātmā kṣattriyaḥ brāhmaṇaḥ bhavet .. vidhitaḥ brāhmaṇaḥ bhūtvā yājakaḥ tu prajāyate .. 15 .
स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः॥प्राप्यते विपुलस्स्वर्गो देवानामपि वल्लभः॥१६॥
स्व-कर्म-निरतः नित्यम् सत्य-वादी जित-इन्द्रियः॥प्राप्यते विपुलः स्वर्गः देवानाम् अपि वल्लभः॥१६॥
sva-karma-nirataḥ nityam satya-vādī jita-indriyaḥ..prāpyate vipulaḥ svargaḥ devānām api vallabhaḥ..16..
ब्रह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ॥ ब्राह्मण्यात्सकलं प्राप्य मोक्षश्चापि मुनीश्वर ॥ १७ ॥
ब्रह्मण-त्वम् हि दुष्प्राप्यम् कृच्छ्रेण साध्यते नरैः ॥ ब्राह्मण्यात् सकलम् प्राप्य मोक्षः च अपि मुनि-ईश्वर ॥ १७ ॥
brahmaṇa-tvam hi duṣprāpyam kṛcchreṇa sādhyate naraiḥ .. brāhmaṇyāt sakalam prāpya mokṣaḥ ca api muni-īśvara .. 17 ..
तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः ॥ साधनं सर्ववर्गस्य रक्षेद्ब्राह्मण्यमुत्तमम् ॥ १८ ॥
तस्मात् सर्व-प्रयत्नेन ब्राह्मणः धर्म-तत्परः ॥ साधनम् सर्व-वर्गस्य रक्षेत् ब्राह्मण्यम् उत्तमम् ॥ १८ ॥
tasmāt sarva-prayatnena brāhmaṇaḥ dharma-tatparaḥ .. sādhanam sarva-vargasya rakṣet brāhmaṇyam uttamam .. 18 ..
व्यास उवाच ।।
संग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम ॥ एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर ॥ १९ ॥
संग्रामस्य इह माहात्म्यम् त्वया उक्तम् मुनि-सत्तम ॥ एतत् इच्छामि अहम् श्रोतुम् ब्रूहि त्वम् वदताम् वर ॥ १९ ॥
saṃgrāmasya iha māhātmyam tvayā uktam muni-sattama .. etat icchāmi aham śrotum brūhi tvam vadatām vara .. 19 ..
सनत्कुमार उवाच ।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ॥ न तत्फलमवाप्नोति संग्रामे यदवाप्नुयात् ॥ 5.21.२० ॥
अग्निष्टोम-आदिभिः यज्ञैः इष्ट्वा विपुल-दक्षिणैः ॥ न तत् फलम् अवाप्नोति संग्रामे यत् अवाप्नुयात् ॥ ५।२१।२० ॥
agniṣṭoma-ādibhiḥ yajñaiḥ iṣṭvā vipula-dakṣiṇaiḥ .. na tat phalam avāpnoti saṃgrāme yat avāpnuyāt .. 5.21.20 ..
इति तत्त्वविदः प्राहुर्यज्ञकर्मविदस्सदा ॥ तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम्॥२१॥
इति तत्त्व-विदः प्राहुः यज्ञ-कर्म-विदः सदा ॥ तस्मात् तत् ते प्रवक्ष्यामि यत् फलम् शस्त्र-जीविनाम्॥२१॥
iti tattva-vidaḥ prāhuḥ yajña-karma-vidaḥ sadā .. tasmāt tat te pravakṣyāmi yat phalam śastra-jīvinām..21..
धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ॥ यश्शूरो वांछते युद्धं विमृन्दन्परवाहिनीम् ॥ २२ ॥
धर्म-लाभः अर्थ-लाभः च यशः-लाभः तथा एव च ॥ यः शूरः वांछते युद्धम् विमृन्दन् पर-वाहिनीम् ॥ २२ ॥
dharma-lābhaḥ artha-lābhaḥ ca yaśaḥ-lābhaḥ tathā eva ca .. yaḥ śūraḥ vāṃchate yuddham vimṛndan para-vāhinīm .. 22 ..
तस्य धर्मार्थ कामाश्च यज्ञश्चैव सदक्षिणः ॥ परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति ॥ २३ ॥
तस्य धर्म-अर्थ-कामाः च यज्ञः च एव स दक्षिणः ॥ परम् हि अभिमुखम् दत्त्वा तत् यानम् यः अधिरोहति ॥ २३ ॥
tasya dharma-artha-kāmāḥ ca yajñaḥ ca eva sa dakṣiṇaḥ .. param hi abhimukham dattvā tat yānam yaḥ adhirohati .. 23 ..
विष्णुलोके स जायेत यश्च युद्धेऽपराजितः ॥ अश्वमेधानवाप्नोति चतुरो न मृतस्स चेत्॥ २४ ॥
विष्णु-लोके स जायेत यः च युद्धे अपराजितः ॥ अश्वमेधान् अवाप्नोति चतुरः न मृतः स चेद्॥ २४ ॥
viṣṇu-loke sa jāyeta yaḥ ca yuddhe aparājitaḥ .. aśvamedhān avāpnoti caturaḥ na mṛtaḥ sa ced.. 24 ..
यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनी मुखे ॥ सम्मुखो वर्तते शूरस्स स्वर्गान्न निवर्तते ॥ २५ ॥
यः तु शस्त्रम् अन् उत्सृज्य म्रियते वाहिनी मुखे ॥ सम्मुखः वर्तते शूरः स स्वर्गात् न निवर्तते ॥ २५ ॥
yaḥ tu śastram an utsṛjya mriyate vāhinī mukhe .. sammukhaḥ vartate śūraḥ sa svargāt na nivartate .. 25 ..
राजा वा राजपुत्रो वा सेनापतिरथापि वा ॥ हतक्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत् ॥ २६ ॥
राजा वा राज-पुत्रः वा सेनापतिः अथ अपि वा ॥ हत-क्षात्रेण यः शूरः तस्य लोकः अक्षयः भवेत् ॥ २६ ॥
rājā vā rāja-putraḥ vā senāpatiḥ atha api vā .. hata-kṣātreṇa yaḥ śūraḥ tasya lokaḥ akṣayaḥ bhavet .. 26 ..
यावंति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे ॥ तावतो लभते लोकान्सर्वकामदुघाऽक्षयान् ॥ २७॥
यावंति तस्य रोमाणि भिद्यन्ते अस्त्रैः महा-आहवे ॥ तावतः लभते लोकान् सर्व-कामदुघा-अक्षयान् ॥ २७॥
yāvaṃti tasya romāṇi bhidyante astraiḥ mahā-āhave .. tāvataḥ labhate lokān sarva-kāmadughā-akṣayān .. 27..
वीरासनं वीरशय्या वीरस्थानस्थितिस्स्थिरा ॥ सर्वदा भवति व्यास इह लोके परत्र च ॥ २८ ॥ ।
वीरासनम् वीरशय्या वीरस्थान-स्थितिः स्थिरा ॥ सर्वदा भवति व्यासः इह लोके परत्र च ॥ २८ ॥ ।
vīrāsanam vīraśayyā vīrasthāna-sthitiḥ sthirā .. sarvadā bhavati vyāsaḥ iha loke paratra ca .. 28 .. .
गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च ॥ ये मृतास्ते सुखं यांति यथा सुकृतिनस्तथा ॥ २९ ॥
गवा-अर्थे ब्राह्मण-अर्थे च स्थान-स्वामि-अर्थम् एव च ॥ ये मृताः ते सुखम् यांति यथा सुकृतिनः तथा ॥ २९ ॥
gavā-arthe brāhmaṇa-arthe ca sthāna-svāmi-artham eva ca .. ye mṛtāḥ te sukham yāṃti yathā sukṛtinaḥ tathā .. 29 ..
यः कश्चिद्ब्राह्मणं हत्वा पश्चात्प्राणान्परित्यजेत् ॥ तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते॥5.21.३०॥
यः कश्चिद् ब्राह्मणम् हत्वा पश्चात् प्राणान् परित्यजेत् ॥ तत्र असौ स्व-पतेः युद्धे स स्वर्गात् न निवर्तते॥५।२१।३०॥
yaḥ kaścid brāhmaṇam hatvā paścāt prāṇān parityajet .. tatra asau sva-pateḥ yuddhe sa svargāt na nivartate..5.21.30..
क्रव्यादैर्दतिभिश्चैव हतस्य गतिरुत्तमा ॥ द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया॥३१॥
क्रव्यादैः दतिभिः च एव हतस्य गतिः उत्तमा ॥ द्विज-गो-स्वामिनाम् अर्थे भवेत् विपुल-दाक्षया॥३१॥
kravyādaiḥ datibhiḥ ca eva hatasya gatiḥ uttamā .. dvija-go-svāminām arthe bhavet vipula-dākṣayā..31..
शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि॥आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः .॥३२॥
शक्नोतु इह समर्थः च यष्टुम् क्रतु-शतैः अपि॥आत्म-देह-परित्यागः कर्तुम् युधि सु दुष्करः ।॥३२॥
śaknotu iha samarthaḥ ca yaṣṭum kratu-śataiḥ api..ātma-deha-parityāgaḥ kartum yudhi su duṣkaraḥ ...32..
युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् ॥ सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥ ३३॥
युद्धम् पुण्यतमम् स्वर्ग्यम् रूप-ज्ञम् सर्वतोमुखम् ॥ सर्वेषाम् एव वर्णानाम् क्षत्रियस्य विशेषतः ॥ ३३॥
yuddham puṇyatamam svargyam rūpa-jñam sarvatomukham .. sarveṣām eva varṇānām kṣatriyasya viśeṣataḥ .. 33..
भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् ॥ यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत्॥३४॥
भृशम् च एव प्रवक्ष्यामि युद्ध-धर्मम् सनातनम् ॥ यादृशाय प्रहर्तव्यम् यादृशम् परिवर्जयेत्॥३४॥
bhṛśam ca eva pravakṣyāmi yuddha-dharmam sanātanam .. yādṛśāya prahartavyam yādṛśam parivarjayet..34..
आततायिनमायांतमपि वेदांतगं द्विजम्॥जिघांसंतं जिघांसेत्तु न तेन ब्रह्महा भवेत्॥३५॥
आततायिनम् आयांतम् अपि वेदांत-गम् द्विजम्॥जिघांसंतम् जिघांसेत् तु न तेन ब्रह्म-हा भवेत्॥३५॥
ātatāyinam āyāṃtam api vedāṃta-gam dvijam..jighāṃsaṃtam jighāṃset tu na tena brahma-hā bhavet..35..
हंतव्योऽपि न हंतव्यः पानीयं यश्च याचते॥रणे हत्वातुरान्व्यास स नरो ब्रह्महा भवेत् ॥ ३६॥
हंतव्यः अपि न हंतव्यः पानीयम् यः च याचते॥रणे हत्वा आतुरान् व्यास स नरः ब्रह्म-हा भवेत् ॥ ३६॥
haṃtavyaḥ api na haṃtavyaḥ pānīyam yaḥ ca yācate..raṇe hatvā āturān vyāsa sa naraḥ brahma-hā bhavet .. 36..
व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम्॥धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत् ॥ ३७॥
व्याधितम् दुर्बलम् बालम् स्त्री-अनाथौ कृपणम् ध्रुवम्॥धनुः-भग्नम् छिन्न-गुणम् हत्वा वै ब्रह्म-हा भवेत् ॥ ३७॥
vyādhitam durbalam bālam strī-anāthau kṛpaṇam dhruvam..dhanuḥ-bhagnam chinna-guṇam hatvā vai brahma-hā bhavet .. 37..
एवं विचार्य्य सद्धीमान्भवेत्प्रीत्याः रणप्रियः॥सजन्मनः फलं प्राप्य परत्रेह प्रमोदते॥३८॥
एवम् विचार्य सत्-धीमान् भवेत् प्रीत्याः रणप्रियः॥स जन्मनः फलम् प्राप्य परत्र इह प्रमोदते॥३८॥
evam vicārya sat-dhīmān bhavet prītyāḥ raṇapriyaḥ..sa janmanaḥ phalam prāpya paratra iha pramodate..38..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ॥ २१॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् रणफलवर्णनम् नाम एकविंशः अध्यायः ॥ २१॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām raṇaphalavarṇanam nāma ekaviṃśaḥ adhyāyaḥ .. 21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In