| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
विधिं तात वदेदानीं जीव जन्मविधानतः ॥ गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ॥ १ ॥
विधिम् तात वद इदानीम् जीव जन्म-विधानतः ॥ गर्भे स्थितिम् च तस्य अपि वैराग्य-अर्थम् मुनि-ईश्वर ॥ १ ॥
vidhim tāta vada idānīm jīva janma-vidhānataḥ .. garbhe sthitim ca tasya api vairāgya-artham muni-īśvara .. 1 ..
सनत्कुमार उवाच।।
शृणु व्यास समासेन शास्त्रसारमशेषतः ॥ वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत्॥२॥
शृणु व्यास समासेन शास्त्र-सारम् अशेषतस् ॥ वदिष्यामि सुवैराग्यम् मुमुक्षोः भव-बंध-कृत्॥२॥
śṛṇu vyāsa samāsena śāstra-sāram aśeṣatas .. vadiṣyāmi suvairāgyam mumukṣoḥ bhava-baṃdha-kṛt..2..
पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम्॥अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि॥३॥
पाक-पात्रस्य मध्ये तु पृथक् अन्नम् पृथक् जलम्॥अग्नेः ऊर्ध्वम् जलम् स्थाप्यम् तद्-अन्नम् च जल-उपरि॥३॥
pāka-pātrasya madhye tu pṛthak annam pṛthak jalam..agneḥ ūrdhvam jalam sthāpyam tad-annam ca jala-upari..3..
जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ॥ वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम् ॥ ४॥
जलस्य अधस् स च अग्निः हि स्थितः अग्निम् धमते शनैस् ॥ वायुना आधम्यमानः अग्निः अति उष्णम् कुरुते जलम् ॥ ४॥
jalasya adhas sa ca agniḥ hi sthitaḥ agnim dhamate śanais .. vāyunā ādhamyamānaḥ agniḥ ati uṣṇam kurute jalam .. 4..
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः॥द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः॥५॥
तत् अन्नम् उष्ण-तोयेन समन्तात् पच्यते पुनर्॥द्विधा भवति तत् पक्वम् पृथक् किट्टम् पृथक् रसः॥५॥
tat annam uṣṇa-toyena samantāt pacyate punar..dvidhā bhavati tat pakvam pṛthak kiṭṭam pṛthak rasaḥ..5..
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत्॥रसस्तु देहे सरति स पुष्टस्तेन जायते॥६॥
मलैः द्वादशभिः किट्टम् भिन्नम् देहात् बहिस् भवेत्॥रसः तु देहे सरति स पुष्टः तेन जायते॥६॥
malaiḥ dvādaśabhiḥ kiṭṭam bhinnam dehāt bahis bhavet..rasaḥ tu dehe sarati sa puṣṭaḥ tena jāyate..6..
कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ॥ मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ॥ ७ ॥
कर्ण-अक्षि-नासिकाः जिह्वा दन्ताः शिश्नः गुदम् नखाः ॥ मल-आश्रयः कफः स्वेदः विष्-मूत्रम् द्वादश स्मृताः ॥ ७ ॥
karṇa-akṣi-nāsikāḥ jihvā dantāḥ śiśnaḥ gudam nakhāḥ .. mala-āśrayaḥ kaphaḥ svedaḥ viṣ-mūtram dvādaśa smṛtāḥ .. 7 ..
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ॥ ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ॥ ८ ॥
हृद्-पद्मे प्रतिबद्धाः च सर्व-नाड्यः समंततः ॥ ज्ञेयाः रस-प्रवाहिन्यः तद्-प्रकारम् ब्रुवे मुने ॥ ८ ॥
hṛd-padme pratibaddhāḥ ca sarva-nāḍyaḥ samaṃtataḥ .. jñeyāḥ rasa-pravāhinyaḥ tad-prakāram bruve mune .. 8 ..
तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ॥ रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ॥ ९॥
तासाम् मुखेषु तम् सूक्ष्मम् प्राणः स्थापयेत् रसम् ॥ रसेन तेन नाडीः ताः प्राणम् पूरयते पुनर् ॥ ९॥
tāsām mukheṣu tam sūkṣmam prāṇaḥ sthāpayet rasam .. rasena tena nāḍīḥ tāḥ prāṇam pūrayate punar .. 9..
पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ॥ ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः ॥ 5.22.१०॥
पुनर् प्रयांति संपूर्णाः ताः च देहम् समंततः ॥ ततस् स नाडी-मध्य-स्थः शरीरेण आत्मना रसः ॥ ५।२२।१०॥
punar prayāṃti saṃpūrṇāḥ tāḥ ca deham samaṃtataḥ .. tatas sa nāḍī-madhya-sthaḥ śarīreṇa ātmanā rasaḥ .. 5.22.10..
पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ॥ त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते॥११॥
पच्यते पच्यमानात् च भवेत् पाक-द्वयम् पुनर् ॥ त्वच् तया वेष्ट्यते पूर्वम् रुधिरम् च प्रजायते॥११॥
pacyate pacyamānāt ca bhavet pāka-dvayam punar .. tvac tayā veṣṭyate pūrvam rudhiram ca prajāyate..11..
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः॥स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः॥१२॥
रक्तात् लोमानि मांसम् च केशाः स्नायुः च मांसतः॥स्नायुतः च तथा अस्थीनि नखाः मज्ज-अस्थि-संभवाः॥१२॥
raktāt lomāni māṃsam ca keśāḥ snāyuḥ ca māṃsataḥ..snāyutaḥ ca tathā asthīni nakhāḥ majja-asthi-saṃbhavāḥ..12..
मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम्॥इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः॥१३॥
मज्जा-कारण-वैकल्यम् शुक्रम् हि प्रसव-आत्मकम्॥इति द्वादशधा अन्नस्य परिणामः प्रकीर्तिताः॥१३॥
majjā-kāraṇa-vaikalyam śukram hi prasava-ātmakam..iti dvādaśadhā annasya pariṇāmaḥ prakīrtitāḥ..13..
शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः॥ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्॥१४॥
शुक्रः अन्नात् जायते शुक्रात् दिव्य-देहस्य संभवः॥ऋतु-काले यदा शुक्रम् निर्दोषम् योनि-संस्थितम्॥१४॥
śukraḥ annāt jāyate śukrāt divya-dehasya saṃbhavaḥ..ṛtu-kāle yadā śukram nirdoṣam yoni-saṃsthitam..14..
तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥ विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ॥ १५॥
तत् वा तत् वायु-संस्पृष्टम् स्त्री-रक्तेन एक-ताम् व्रजेत् ॥ विसर्ग-काले शुक्रस्य जीवः कारण-संयुतः ॥ १५॥
tat vā tat vāyu-saṃspṛṣṭam strī-raktena eka-tām vrajet .. visarga-kāle śukrasya jīvaḥ kāraṇa-saṃyutaḥ .. 15..
संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ॥ तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ॥ ३१।
संवृतः प्रविशेत् योनिम् कर्मभिः स्वैः नियोजितः ॥ तत् शुक्र-रक्तम् एकस्थम् एक-अहात् कलिलम् भवेत् ॥ ३१।
saṃvṛtaḥ praviśet yonim karmabhiḥ svaiḥ niyojitaḥ .. tat śukra-raktam ekastham eka-ahāt kalilam bhavet .. 31.
पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ॥ बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः॥१७॥
पंच-रात्रेण कलिलम् बुद्बुद-आकार-ताम् व्रजेत् ॥ बुद्बुदः सप्त-रात्रेण मांस-पेशी भवेत् पुनर्॥१७॥
paṃca-rātreṇa kalilam budbuda-ākāra-tām vrajet .. budbudaḥ sapta-rātreṇa māṃsa-peśī bhavet punar..17..
ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम्॥पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च॥१८॥
ग्रीवा शिरः च स्कंधौ च पृष्ठवंशः तथा उदरम्॥पार्श्वे कटिः गात्रम् तथा एव च॥१८॥
grīvā śiraḥ ca skaṃdhau ca pṛṣṭhavaṃśaḥ tathā udaram..pārśve kaṭiḥ gātram tathā eva ca..18..
द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह॥त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः॥१९॥
द्वि-मास-अभ्यन्तरेण एव क्रमशस् संभवेत् इह॥त्रिभिः मासैः प्रजायंते सर्वे हि अंकुर-संधयः॥१९॥
dvi-māsa-abhyantareṇa eva kramaśas saṃbhavet iha..tribhiḥ māsaiḥ prajāyaṃte sarve hi aṃkura-saṃdhayaḥ..19..
मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम्॥मुखं नासा च कर्णौ मासैः पंचभिरेव च॥5.22.२०॥
मासैः चतुर्भिः अंगुल्यः प्रजायंते यथाक्रमम्॥मुखम् नासा च कर्णौ मासैः पंचभिः एव च॥५।२२।२०॥
māsaiḥ caturbhiḥ aṃgulyaḥ prajāyaṃte yathākramam..mukham nāsā ca karṇau māsaiḥ paṃcabhiḥ eva ca..5.22.20..
दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः॥कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु ॥ २१॥
दन्त-पंक्तिः तथा गुह्यम् जायंते च नखाः पुनर्॥कर्णयोः तु भवेत् छिद्रम् षष्-मास-अभ्यन्तरेण तु ॥ २१॥
danta-paṃktiḥ tathā guhyam jāyaṃte ca nakhāḥ punar..karṇayoḥ tu bhavet chidram ṣaṣ-māsa-abhyantareṇa tu .. 21..
पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते॥संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ॥ २२॥
पायुः मेहम् उपस्थम् च नाभिः च अभ्युपजायते॥संधयः ये च गात्रेषु मासैः जायंति सप्तभिः ॥ २२॥
pāyuḥ meham upastham ca nābhiḥ ca abhyupajāyate..saṃdhayaḥ ye ca gātreṣu māsaiḥ jāyaṃti saptabhiḥ .. 22..
अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ॥ उदरे मातुराच्छन्नो जरायौ मुनि सत्तम ॥ २३ ॥
अंग-प्रत्यंग-संपूर्णः परिपक्वः स तिष्ठति ॥ उदरे मातुः आच्छन्नः जरायौ मुनि सत्तम ॥ २३ ॥
aṃga-pratyaṃga-saṃpūrṇaḥ paripakvaḥ sa tiṣṭhati .. udare mātuḥ ācchannaḥ jarāyau muni sattama .. 23 ..
मातुराहारचौर्य्येण षड्विधेन रसेन तु ॥ नाभिनालनिबद्धेन वर्द्धते स दिनेदिने ॥ २४ ॥
मातुः आहार-चौर्येण षड्विधेन रसेन तु ॥ नाभिनाल-निबद्धेन वर्द्धते स दिनेदिने ॥ २४ ॥
mātuḥ āhāra-cauryeṇa ṣaḍvidhena rasena tu .. nābhināla-nibaddhena varddhate sa dinedine .. 24 ..
ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ॥ सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ॥ २५ ॥
ततस् स्मृतिम् लभेत् जीवः संपूर्णे अस्मिन् शरीरके ॥ सुखम् दुःखम् विजानाति निद्रा-स्वप्नम् पुरा कृतम् ॥ २५ ॥
tatas smṛtim labhet jīvaḥ saṃpūrṇe asmin śarīrake .. sukham duḥkham vijānāti nidrā-svapnam purā kṛtam .. 25 ..
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ॥ नानायोनिसहस्राणि मया दृष्टानि जायता ॥ २६ ॥
मृतः च अहम् पुनर् जातः जातः च अहम् पुनर् मृतः ॥ नाना योनि-सहस्राणि मया दृष्टानि जायता ॥ २६ ॥
mṛtaḥ ca aham punar jātaḥ jātaḥ ca aham punar mṛtaḥ .. nānā yoni-sahasrāṇi mayā dṛṣṭāni jāyatā .. 26 ..
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ॥ श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः ॥ २७ ॥
अधुना जात-मात्रः अहम् प्राप्त-संस्कारः एव च ॥ श्रेयः अमुना करिष्यामि येन गर्भे न संभवः ॥ २७ ॥
adhunā jāta-mātraḥ aham prāpta-saṃskāraḥ eva ca .. śreyaḥ amunā kariṣyāmi yena garbhe na saṃbhavaḥ .. 27 ..
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ॥ अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ॥ २८॥
गर्भ-स्थः चिंतयति एवम् अहम् गर्भात् विनिस्सृतः ॥ अन्वेष्यामि शिव-ज्ञानम् संसार-विनिवर्तकम् ॥ २८॥
garbha-sthaḥ ciṃtayati evam aham garbhāt vinissṛtaḥ .. anveṣyāmi śiva-jñānam saṃsāra-vinivartakam .. 28..
एवं स गर्भदुःखेन महता परिपीडितः ॥ जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ॥ २९ ॥
एवम् स गर्भ-दुःखेन महता परिपीडितः ॥ जीवः कर्म-वशात् आस्ते मोक्ष-उपायम् विचिंतयन् ॥ २९ ॥
evam sa garbha-duḥkhena mahatā paripīḍitaḥ .. jīvaḥ karma-vaśāt āste mokṣa-upāyam viciṃtayan .. 29 ..
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ॥ तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥ 5.22.३० ॥
यथा गिरि-वर-आक्रांतः कश्चिद् दुःखेन तिष्ठति ॥ तथा जरायुणा देही दुःखम् तिष्ठति वेष्टितः ॥ ५।२२।३० ॥
yathā giri-vara-ākrāṃtaḥ kaścid duḥkhena tiṣṭhati .. tathā jarāyuṇā dehī duḥkham tiṣṭhati veṣṭitaḥ .. 5.22.30 ..
पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ॥ गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा ॥ ३१ ॥
पतितः सागरे यद्वत् दुःखम् आस्ते समाकुलः ॥ गर्भ-उदकेन सिक्त-अंगः सर्वदा आकुलितः तदा ॥ ३१ ॥
patitaḥ sāgare yadvat duḥkham āste samākulaḥ .. garbha-udakena sikta-aṃgaḥ sarvadā ākulitaḥ tadā .. 31 ..
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ॥ गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना ॥ ३२ ॥
लोह-कुंभे यथा न्यस्तः पच्यते कश्चिद् अग्निना ॥ गर्भकुंभे तथा क्षिप्तः पच्यते जठर-अग्निना ॥ ३२ ॥
loha-kuṃbhe yathā nyastaḥ pacyate kaścid agninā .. garbhakuṃbhe tathā kṣiptaḥ pacyate jaṭhara-agninā .. 32 ..
सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ॥ यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ॥ ३३ ॥
सूचीभिः अग्नि-वर्ण-अभिनिर्भिन्नस्य निरंतरम् ॥ यत् दुःखम् जायते तस्य तत्र संस्थस्य च अधिकम् ॥ ३३ ॥
sūcībhiḥ agni-varṇa-abhinirbhinnasya niraṃtaram .. yat duḥkham jāyate tasya tatra saṃsthasya ca adhikam .. 33 ..
गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ॥ देहिनां दुःखबहुलं सुघोरमतिसंकटम् ॥ ३४ ॥
गर्भावासात् परम् दुःखम् कष्टम् न एव अस्ति कुत्रचिद् ॥ देहिनाम् दुःख-बहुलम् सु घोर-मति-संकटम् ॥ ३४ ॥
garbhāvāsāt param duḥkham kaṣṭam na eva asti kutracid .. dehinām duḥkha-bahulam su ghora-mati-saṃkaṭam .. 34 ..
इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ॥ केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा ॥ ३५॥
इति एतत् सु महत् दुःखम् पापिनाम् परिकीर्तितम् ॥ केवलम् सप्त-मासैः भवः सदा ॥ ३५॥
iti etat su mahat duḥkham pāpinām parikīrtitam .. kevalam sapta-māsaiḥ bhavaḥ sadā .. 35..
गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ॥ भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ॥ । ३६ ॥
गर्भात् सु दुर्लभम् दुःखम् योनि-यंत्र-निपीडनात् ॥ भवेत् पाप-आत्मनाम् व्यास न हि धर्म-युत-आत्मनाम् ॥ । ३६ ॥
garbhāt su durlabham duḥkham yoni-yaṃtra-nipīḍanāt .. bhavet pāpa-ātmanām vyāsa na hi dharma-yuta-ātmanām .. . 36 ..
इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ॥ शिरसा ताड्यमानस्य पाप मुद्गरकेण च ॥ ३७॥
इक्षु-वत् पीड्यमानस्य यंत्रेण एव समंततः ॥ शिरसा ताड्यमानस्य पाप मुद्गरकेण च ॥ ३७॥
ikṣu-vat pīḍyamānasya yaṃtreṇa eva samaṃtataḥ .. śirasā tāḍyamānasya pāpa mudgarakeṇa ca .. 37..
यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ॥ तथा शरीरं निस्सारं योनियंत्रनिपीडनात् ॥ ३८ ॥
यंत्रेण पीडिताः यद्वत् निस्साराः स् तिलाः क्षणात् ॥ तथा शरीरम् निस्सारम् योनि-यंत्र-निपीडनात् ॥ ३८ ॥
yaṃtreṇa pīḍitāḥ yadvat nissārāḥ s tilāḥ kṣaṇāt .. tathā śarīram nissāram yoni-yaṃtra-nipīḍanāt .. 38 ..
अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम्॥रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ॥ ३९ ॥
अस्थि-पाद-तुला-स्तंभम् स्नायु-बन्धेन यंत्रितम्॥रक्त-मांस-मृदा आलिप्तम् विष्-मूत्र-द्रव्य-भाजनम् ॥ ३९ ॥
asthi-pāda-tulā-staṃbham snāyu-bandhena yaṃtritam..rakta-māṃsa-mṛdā āliptam viṣ-mūtra-dravya-bhājanam .. 39 ..
केशरोमनखच्छन्नं रोगायतनमातुरम् ॥ वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ॥ 5.22.४० ॥
केश-रोम-नख-छन्नम् रोग-आयतनम् आतुरम् ॥ वदन-एक-महा-द्वारम् गवाक्ष-अष्टक-भूषितम् ॥ ५।२२।४० ॥
keśa-roma-nakha-channam roga-āyatanam āturam .. vadana-eka-mahā-dvāram gavākṣa-aṣṭaka-bhūṣitam .. 5.22.40 ..
ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम्॥भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्॥४१॥
ओष्ठ-द्वय-कपाटम् च तथा जिह्वा-अर्गल-अन्वितम्॥भोग-तृष्णा-आतुरम् मूढम् राग-द्वेष-वश-अनुगम्॥४१॥
oṣṭha-dvaya-kapāṭam ca tathā jihvā-argala-anvitam..bhoga-tṛṣṇā-āturam mūḍham rāga-dveṣa-vaśa-anugam..41..
संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम्॥संकटेनाविविक्तेन योनिमार्गेण निर्गतम्॥४२॥
संवर्तित-अंग-प्रत्यंगम् जरायु-परिवेष्टितम्॥संकटेन अविविक्तेन योनि-मार्गेण निर्गतम्॥४२॥
saṃvartita-aṃga-pratyaṃgam jarāyu-pariveṣṭitam..saṃkaṭena aviviktena yoni-mārgeṇa nirgatam..42..
विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम्॥अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम्॥४३॥
विष्-मूत्र-रक्त-सिक्त-अङ्गम् विकोशिका-समुद्भवम्॥अस्थि-पञ्जर-विख्यातम् अस्मिन् ज्ञेयम् कलेवरम्॥४३॥
viṣ-mūtra-rakta-sikta-aṅgam vikośikā-samudbhavam..asthi-pañjara-vikhyātam asmin jñeyam kalevaram..43..
शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च॥सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ॥ ४४ ॥
शत-त्रयम् षष्टि-अधिकम् पंच-पेशी-शतानि च॥सार्द्धाभिः तिसृभिः छन्नम् समंतात् रोम-कोटिभिः ॥ ४४ ॥
śata-trayam ṣaṣṭi-adhikam paṃca-peśī-śatāni ca..sārddhābhiḥ tisṛbhiḥ channam samaṃtāt roma-koṭibhiḥ .. 44 ..
शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ॥ एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः॥४५॥
शरीरम् स्थूल-सूक्ष्माभिः दृश्य-अदृश्याः हि ताः स्मृताः ॥ एतावतीभिः नाडीभिः कोटिभिः तत् समंततः॥४५॥
śarīram sthūla-sūkṣmābhiḥ dṛśya-adṛśyāḥ hi tāḥ smṛtāḥ .. etāvatībhiḥ nāḍībhiḥ koṭibhiḥ tat samaṃtataḥ..45..
अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः॥द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ॥ ४६ ॥
अ स्वेद-मधुभिः याभिः अन्तस्थः स्रवते बहिस्॥द्वात्रिंशत् दशनाः प्रोक्ताः विंशतिः च नखाः स्मृताः ॥ ४६ ॥
a sveda-madhubhiḥ yābhiḥ antasthaḥ sravate bahis..dvātriṃśat daśanāḥ proktāḥ viṃśatiḥ ca nakhāḥ smṛtāḥ .. 46 ..
पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ॥ वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ॥ ४७॥
पित्तस्य कुडवम् ज्ञेयम् कफस्य अथ आढकम् स्मृतम् ॥ वसायाः च पलम् विंशत् तद्-अर्धम् कपिलस्य च ॥ ४७॥
pittasya kuḍavam jñeyam kaphasya atha āḍhakam smṛtam .. vasāyāḥ ca palam viṃśat tad-ardham kapilasya ca .. 47..
पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ॥ पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ॥ ४८ ॥
पंच-अर्द्धम् तु तुला ज्ञेया पलानि दश मेदसः ॥ पल-त्रयम् महारक्तम् मज्जायाः च चतुर्गुणम् ॥ ४८ ॥
paṃca-arddham tu tulā jñeyā palāni daśa medasaḥ .. pala-trayam mahāraktam majjāyāḥ ca caturguṇam .. 48 ..
शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ॥ मांसस्य चैकपिंडेन पलसाहस्रमुच्यते ॥ ४९॥
शुक्र-ऊर्द्धम् कुडवम् ज्ञेयम् तद्-बीजम् देहिनाम् बलम् ॥ मांसस्य च एक-पिंडेन पल-साहस्रम् उच्यते ॥ ४९॥
śukra-ūrddham kuḍavam jñeyam tad-bījam dehinām balam .. māṃsasya ca eka-piṃḍena pala-sāhasram ucyate .. 49..
रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत॥अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम॥5.22.५०॥
॥अंजलयः च चत्वारः चत्वारः मुनि-सत्तम॥५।२२।५०॥
..aṃjalayaḥ ca catvāraḥ catvāraḥ muni-sattama..5.22.50..
इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ॥ अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम् ॥ ५१ ॥
इति देहगृहम् हि एतत् नित्यस्य अनित्यम् आत्मनः ॥ अविशुद्धम् विशुद्धस्य कर्म-बंधात् विनिर्मितम् ॥ ५१ ॥
iti dehagṛham hi etat nityasya anityam ātmanaḥ .. aviśuddham viśuddhasya karma-baṃdhāt vinirmitam .. 51 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् देहोत्पत्तिवर्णनम् नाम द्वाविंशः अध्यायः ॥ २२ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām dehotpattivarṇanam nāma dvāviṃśaḥ adhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In