| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ॥ महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ॥ १॥
शृणु व्यास महाबुद्धे देहस्य अशुचि-ताम् मुने ॥ महत्त्वम् च स्वभावस्य समासात् कथयामि अहम् ॥ १॥
śṛṇu vyāsa mahābuddhe dehasya aśuci-tām mune .. mahattvam ca svabhāvasya samāsāt kathayāmi aham .. 1..
शुक्रशोणितसंयोगाद्देहस्संजायते यतः॥नित्यं विण्मूत्रसंपूर्णस्तेनायमशुचिस्स्मृतः॥२॥
शुक्र-शोणित-संयोगात् देहः संजायते यतस्॥नित्यम् विष्-मूत्र-संपूर्णः तेन अयम् अशुचिः स्मृतः॥२॥
śukra-śoṇita-saṃyogāt dehaḥ saṃjāyate yatas..nityam viṣ-mūtra-saṃpūrṇaḥ tena ayam aśuciḥ smṛtaḥ..2..
यथांतर्विष्ठया पूर्णश्शुचिमान्न बहिर्घटः ॥ शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ॥ ३ ॥
यथा अंतर् विष्ठया पूर्णः शुचिमान् न बहिस् घटः ॥ शोध्यमानः हि देहः अयम् तेन अयम् अशुचिः ततस् ॥ ३ ॥
yathā aṃtar viṣṭhayā pūrṇaḥ śucimān na bahis ghaṭaḥ .. śodhyamānaḥ hi dehaḥ ayam tena ayam aśuciḥ tatas .. 3 ..
संप्राप्यातिपवित्राणि पंचगव्यहवींषि चा।अशुचित्वं क्षणाद्यांति किमन्यदशुचिस्ततः ॥ ४॥
संप्राप्य अतिपवित्राणि पंचगव्य-हवींषि च।अशुचि-त्वम् क्षणात् यान्ति किम् अन्यत् अशुचिः ततस् ॥ ४॥
saṃprāpya atipavitrāṇi paṃcagavya-havīṃṣi ca.aśuci-tvam kṣaṇāt yānti kim anyat aśuciḥ tatas .. 4..
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ॥ अशुचित्वं प्रयांत्याशु किमन्यदशुचिस्ततः ॥ ५॥
हृद्यानि अपि अन्न-पानानि यम् प्राप्य सुरभीणि च ॥ अशुचि-त्वम् प्रयांति आशु किम् अन्यत् अशुचिः ततस् ॥ ५॥
hṛdyāni api anna-pānāni yam prāpya surabhīṇi ca .. aśuci-tvam prayāṃti āśu kim anyat aśuciḥ tatas .. 5..
हे जनाः किन्न पश्यंति यन्निर्याति दिनेदिने ॥ स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ॥ ६ ॥
हे जनाः किन्न पश्यंति यत् निर्याति दिने दिने ॥ स्व-देहात् कश्मलम् पूतिः तद्-आधारः कथम् शुचिः ॥ ६ ॥
he janāḥ kinna paśyaṃti yat niryāti dine dine .. sva-dehāt kaśmalam pūtiḥ tad-ādhāraḥ katham śuciḥ .. 6 ..
देहस्संशोध्यमानोऽपि पंचगव्यकुशांबुभिः ॥ घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ॥ ७ ॥
देहः संशोध्यमानः अपि पंचगव्य-कुश-अंबुभिः ॥ घृष्यमाणः इव अंगारः निर्मल-त्वम् न गच्छति ॥ ७ ॥
dehaḥ saṃśodhyamānaḥ api paṃcagavya-kuśa-aṃbubhiḥ .. ghṛṣyamāṇaḥ iva aṃgāraḥ nirmala-tvam na gacchati .. 7 ..
स्रोतांसि यस्य सततं प्रभवंति गिरेरिव ॥ कफमूत्रपुरीषाद्यैस्स देहश्शुध्यते कथम् ॥ ८॥
स्रोतांसि यस्य सततम् प्रभवन्ति गिरेः इव ॥ कफ-मूत्र-पुरीष-आद्यैः स देहः शुध्यते कथम् ॥ ८॥
srotāṃsi yasya satatam prabhavanti gireḥ iva .. kapha-mūtra-purīṣa-ādyaiḥ sa dehaḥ śudhyate katham .. 8..
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ॥ शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ॥ ९ ॥
सर्व-अशुचि-निधानस्य शरीरस्य न विद्यते ॥ शुचिः एकः प्रदेशः अपि विष्-मूत्रस्य दृतेः इव ॥ ९ ॥
sarva-aśuci-nidhānasya śarīrasya na vidyate .. śuciḥ ekaḥ pradeśaḥ api viṣ-mūtrasya dṛteḥ iva .. 9 ..
सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ॥ तथाप्यशुचिभांडस्य न विभ्रश्यति किं करः ॥ 5.23.१० ॥
सृष्ट्वा आत्म-देह-स्रोतांसि मृद्-तोयैः शोध्यते करः ॥ तथा अपि अशुचि-भांडस्य न विभ्रश्यति किम् करः ॥ ५।२३।१० ॥
sṛṣṭvā ātma-deha-srotāṃsi mṛd-toyaiḥ śodhyate karaḥ .. tathā api aśuci-bhāṃḍasya na vibhraśyati kim karaḥ .. 5.23.10 ..
कायस्सुगंधधूपाद्यैर्य न्नेनापि सुसंस्कृतः ॥ न जहाति स्वभावं स श्वपुच्छमिव नामितम्॥११॥
कायः सु गंध-धूप-आद्यैः य न्नेन अपि सुसंस्कृतः ॥ न जहाति स्वभावम् स श्व-पुच्छम् इव नामितम्॥११॥
kāyaḥ su gaṃdha-dhūpa-ādyaiḥ ya nnena api susaṃskṛtaḥ .. na jahāti svabhāvam sa śva-puccham iva nāmitam..11..
यथा जात्यैव कृष्णोर्थः शुक्लस्स्यान्न ह्युपायतः॥संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ॥ १२ ॥
यथा जात्या एव कृष्णः ऋथः शुक्लः स्यात् न हि उपायतः॥संशोद्ध्यमाना अपि तथा भवेत् मूर्तिः न निर्मला ॥ १२ ॥
yathā jātyā eva kṛṣṇaḥ ṛthaḥ śuklaḥ syāt na hi upāyataḥ..saṃśoddhyamānā api tathā bhavet mūrtiḥ na nirmalā .. 12 ..
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि स्वकं मलम् ॥ न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ॥ १३॥
जिघ्रन् अपि स्व-दुर्गंधम् पश्यन् अपि स्वकम् मलम् ॥ न विरज्येत लोकः अयम् पीडयन् अपि नासिकाम् ॥ १३॥
jighran api sva-durgaṃdham paśyan api svakam malam .. na virajyeta lokaḥ ayam pīḍayan api nāsikām .. 13..
अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ॥ शीघ्रं पश्यन्स्वकं दोषं कायस्य न विरज्यते ॥ १४॥
अहो मोहस्य माहात्म्यम् येन इदम् छादितम् जगत् ॥ शीघ्रम् पश्यन् स्वकम् दोषम् कायस्य न विरज्यते ॥ १४॥
aho mohasya māhātmyam yena idam chāditam jagat .. śīghram paśyan svakam doṣam kāyasya na virajyate .. 14..
स्वदेहस्य विगंधेन न विरज्येत यो नरः ॥ विरागकारणं तस्य किमेतदुपदिश्यते ॥ १५ ॥
स्व-देहस्य विगंधेन न विरज्येत यः नरः ॥ विराग-कारणम् तस्य किम् एतत् उपदिश्यते ॥ १५ ॥
sva-dehasya vigaṃdhena na virajyeta yaḥ naraḥ .. virāga-kāraṇam tasya kim etat upadiśyate .. 15 ..
सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ॥ तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ १६ ॥
सर्वस्य एव जगत्-मध्ये देहः एवा अशुचिः भवेत् ॥ तद्-मल-अवयव-स्पर्शात् शुचिः अपि अशुचिः भवेत् ॥ १६ ॥
sarvasya eva jagat-madhye dehaḥ evā aśuciḥ bhavet .. tad-mala-avayava-sparśāt śuciḥ api aśuciḥ bhavet .. 16 ..
गंधलेपापनोदार्थ शौचं देहस्य कीर्तितम् ॥ द्वयस्यापगमाच्छुद्धिश्शुद्धस्पर्शाद्विशुध्यति ॥ १७॥
गंध-लेप-अपनोद-अर्थ शौचम् देहस्य कीर्तितम् ॥ द्वयस्य अपगमात् शुद्धिः शुद्ध-स्पर्शात् विशुध्यति ॥ १७॥
gaṃdha-lepa-apanoda-artha śaucam dehasya kīrtitam .. dvayasya apagamāt śuddhiḥ śuddha-sparśāt viśudhyati .. 17..
गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ॥ आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ॥ १८ ॥
गंगा-तोयेन सर्वेण मृद्-भारैः पर्वत-उपमैः ॥ आ मृत्योः आचरेत् शौचम् भाव-दुष्टः न शुध्यति ॥ १८ ॥
gaṃgā-toyena sarveṇa mṛd-bhāraiḥ parvata-upamaiḥ .. ā mṛtyoḥ ācaret śaucam bhāva-duṣṭaḥ na śudhyati .. 18 ..
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ॥ श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ॥ १९ ॥
तीर्थ-स्नानैः तपोभिः वा दुष्ट-आत्मा ना एव शुध्यति ॥ श्व-दृतिः क्षालिता तीर्थे किम् शुद्धिम् अधिगच्छति ॥ १९ ॥
tīrtha-snānaiḥ tapobhiḥ vā duṣṭa-ātmā nā eva śudhyati .. śva-dṛtiḥ kṣālitā tīrthe kim śuddhim adhigacchati .. 19 ..
अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ॥ न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ॥ 5.23.२०॥
अन्तर्भाव-प्रदुष्टस्य विशतः अपि हुताशनम् ॥ न स्वर्गः ना अपवर्गः च देह-निर्दहनम् परम् ॥ ५।२३।२०॥
antarbhāva-praduṣṭasya viśataḥ api hutāśanam .. na svargaḥ nā apavargaḥ ca deha-nirdahanam param .. 5.23.20..
सर्वेण गांगेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ॥ आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः ॥ २१ ॥
सर्वेण गांगेन जलेन सम्यक् मृद्-पर्वतेन अपि अथ भाव-दुष्टः ॥ आजन्मनः स्नान-परः मनुष्यः न शुध्यति इति एव वयम् वदामः ॥ २१ ॥
sarveṇa gāṃgena jalena samyak mṛd-parvatena api atha bhāva-duṣṭaḥ .. ājanmanaḥ snāna-paraḥ manuṣyaḥ na śudhyati iti eva vayam vadāmaḥ .. 21 ..
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महांतम् ॥ प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत ॥ २२ ॥
प्रज्वाल्य वह्निम् घृत-तैल-सिक्तम् प्रदक्षिण-आवर्त-शिखम् महांतम् ॥ प्रविश्य दग्धः तु अपि भाव-दुष्टः न धर्मम् आप्नोति फलम् न ॥ २२ ॥
prajvālya vahnim ghṛta-taila-siktam pradakṣiṇa-āvarta-śikham mahāṃtam .. praviśya dagdhaḥ tu api bhāva-duṣṭaḥ na dharmam āpnoti phalam na .. 22 ..
गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च नित्यम् ॥ भावोज्झितास्ते न फलं लभंते तीर्थावगाहाच्च तथैव दानात् ॥ २३ ॥
गंगा-आदि-तीर्थेषु वसंति मत्स्याः देवालये पक्षि-गणाः च नित्यम् ॥ भाव-उज्झिताः ते न फलम् लभंते तीर्थ-अवगाहात् च तथा एव दानात् ॥ २३ ॥
gaṃgā-ādi-tīrtheṣu vasaṃti matsyāḥ devālaye pakṣi-gaṇāḥ ca nityam .. bhāva-ujjhitāḥ te na phalam labhaṃte tīrtha-avagāhāt ca tathā eva dānāt .. 23 ..
भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ॥ अन्यथाऽऽलिंग्यते कांता भावेन दुहितान्यथा ॥ २४ ॥
भाव-शुद्धिः परम् शौचम् प्रमाणे सर्व-कर्मसु ॥ अन्यथा आलिंग्यते कांता भावेन दुहिता अन्यथा ॥ २४ ॥
bhāva-śuddhiḥ param śaucam pramāṇe sarva-karmasu .. anyathā āliṃgyate kāṃtā bhāvena duhitā anyathā .. 24 ..
मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥ अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ॥ २५ ॥
मनसः भिद्यते वृत्तिः अभिन्नेषु अपि वस्तुषु ॥ अन्यथा एव सुतम् नारी चिन्तयति अन्यथा पतिम् ॥ २५ ॥
manasaḥ bhidyate vṛttiḥ abhinneṣu api vastuṣu .. anyathā eva sutam nārī cintayati anyathā patim .. 25 ..
पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ॥ परिष्वक्तोपि यन्नार्य्या भावहीनं न कामयेत् ॥ २६ ॥
पश्यध्वम् अस्य भावस्य महाभाग्यम् अशेषतस् ॥ परिष्वक्तः अपि यत् नार्या भाव-हीनम् न कामयेत् ॥ २६ ॥
paśyadhvam asya bhāvasya mahābhāgyam aśeṣatas .. pariṣvaktaḥ api yat nāryā bhāva-hīnam na kāmayet .. 26 ..
नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ॥ यदि चिंतां समाधत्ते चित्ते कामादिषु त्रिषु ॥ २७ ॥
न अद्यात् विविधम् अन्नाद्यम् भक्ष्याणि सुरभीणि च ॥ यदि चिंताम् समाधत्ते चित्ते काम-आदिषु त्रिषु ॥ २७ ॥
na adyāt vividham annādyam bhakṣyāṇi surabhīṇi ca .. yadi ciṃtām samādhatte citte kāma-ādiṣu triṣu .. 27 ..
गृह्यते तेन भावेन नरो भावाद्विमुच्यते ॥ भावतश्शुचि शुद्धात्मा स्वर्गं मोक्षं च विंदति ॥ २८ ॥
गृह्यते तेन भावेन नरः भावात् विमुच्यते ॥ भावतः शुचि शुद्ध-आत्मा स्वर्गम् मोक्षम् च विंदति ॥ २८ ॥
gṛhyate tena bhāvena naraḥ bhāvāt vimucyate .. bhāvataḥ śuci śuddha-ātmā svargam mokṣam ca viṃdati .. 28 ..
भावेनैकात्मशुद्धात्मा दहञ्जुह्वन्स्तुवन्मृतः ॥ ज्ञानावाप्तेरवाप्याशु लोकान्सुबहुयाजिनाम् ॥ २९ ॥
भावेन एक-आत्म-शुद्ध-आत्मा दहन् जुह्वन् स्तुवन् मृतः ॥ ज्ञान-अवाप्तेः अवाप्य आशु लोकान् सु बहु-याजिनाम् ॥ २९ ॥
bhāvena eka-ātma-śuddha-ātmā dahan juhvan stuvan mṛtaḥ .. jñāna-avāpteḥ avāpya āśu lokān su bahu-yājinām .. 29 ..
ज्ञानामलांभसा पुंसां सद्वैराग्यमृदा पुनः ॥ अविद्यारागविण्मूत्रलेपगंधविशोधनम् ॥ 5.23.३० ॥
ज्ञान-अमल-अंभसा पुंसाम् सत्-वैराग्य-मृदा पुनर् ॥ अविद्या-राग-विष्-मूत्र-लेप-गंध-विशोधनम् ॥ ५।२३।३० ॥
jñāna-amala-aṃbhasā puṃsām sat-vairāgya-mṛdā punar .. avidyā-rāga-viṣ-mūtra-lepa-gaṃdha-viśodhanam .. 5.23.30 ..
एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ॥ त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम् ॥ ३१ ॥
एवम् एतत् शरीरम् हि निसर्गात् अशुचि स्मृतम् ॥ त्वच्-मात्र-सारम् निःसारम् कदली-सार-सन्निभम् ॥ ३१ ॥
evam etat śarīram hi nisargāt aśuci smṛtam .. tvac-mātra-sāram niḥsāram kadalī-sāra-sannibham .. 31 ..
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञश्शिथिलो भवेत् ॥ देह भोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः ॥ ३२ ॥
ज्ञात्वा एवम् दोषवत्-देहम् यः प्राज्ञः शिथिलः भवेत् ॥ देह भोग-उद्भवात् भावात् शम-चित्तः प्रसन्न-धीः ॥ ३२ ॥
jñātvā evam doṣavat-deham yaḥ prājñaḥ śithilaḥ bhavet .. deha bhoga-udbhavāt bhāvāt śama-cittaḥ prasanna-dhīḥ .. 32 ..
सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ॥ संसारं कदलीसारदृढग्राह्यवतिष्ठते ॥ ॥ ३३ ॥
सः अतिक्रामति संसारम् जीवन्मुक्तः प्रजायते ॥ संसारम् कदली-सार-दृढ-ग्राही अवतिष्ठते ॥ ॥ ३३ ॥
saḥ atikrāmati saṃsāram jīvanmuktaḥ prajāyate .. saṃsāram kadalī-sāra-dṛḍha-grāhī avatiṣṭhate .. .. 33 ..
एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ॥ पुंसामज्ञानदोषेण नानाकार्मवशेन च ॥ ३४ ॥
एवम् एतत् महा-कष्टम् जन्म दुःखम् प्रकीर्तितम् ॥ पुंसाम् अज्ञान-दोषेण नाना कार्म-वशेन च ॥ ३४ ॥
evam etat mahā-kaṣṭam janma duḥkham prakīrtitam .. puṃsām ajñāna-doṣeṇa nānā kārma-vaśena ca .. 34 ..
श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥ ममेति परमं दुःखं न ममेति परं सुखम् ॥ ३५ ॥
श्लोक-अर्धेन तु वक्ष्यामि यत् उक्तम् ग्रन्थ-कोटिभिः ॥ मम इति परमम् दुःखम् न मम इति परम् सुखम् ॥ ३५ ॥
śloka-ardhena tu vakṣyāmi yat uktam grantha-koṭibhiḥ .. mama iti paramam duḥkham na mama iti param sukham .. 35 ..
बहवोपीह राजानः परं लोक मितो गताः ॥ निर्ममत्वसमेतास्तु बद्धाश्शतसहस्रशः ॥ ३६॥
बहवः अपि इह राजानः परम् लोक मितस् गताः ॥ निर्ममत्व-समेताः तु बद्धाः शत-सहस्रशस् ॥ ३६॥
bahavaḥ api iha rājānaḥ param loka mitas gatāḥ .. nirmamatva-sametāḥ tu baddhāḥ śata-sahasraśas .. 36..
गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ॥ संमूर्छितेन दुःखेन योनियन्त्रनिपीडनात् ॥ ३७॥
गर्भ-स्थस्य स्मृतिः या आसीत् सा च तस्य प्रणश्यति ॥ संमूर्छितेन दुःखेन योनि-यन्त्र-निपीडनात् ॥ ३७॥
garbha-sthasya smṛtiḥ yā āsīt sā ca tasya praṇaśyati .. saṃmūrchitena duḥkhena yoni-yantra-nipīḍanāt .. 37..
बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ॥ स्पृष्टमात्रेण घोरेण ज्वरस्समुपजायते ॥ ३८॥
बाह्येन वायुना वा अस्य मोह-सङ्गेन देहिनः ॥ स्पृष्ट-मात्रेण घोरेण ज्वरः समुपजायते ॥ ३८॥
bāhyena vāyunā vā asya moha-saṅgena dehinaḥ .. spṛṣṭa-mātreṇa ghoreṇa jvaraḥ samupajāyate .. 38..
तेन ज्वारेण महता सम्मोहश्च प्रजायते ॥ सम्मूढस्य स्मृतिभ्रंशश्शीघ्रं संजायते पुनः ॥ ३९ ॥
तेन ज्वारेण महता सम्मोहः च प्रजायते ॥ सम्मूढस्य स्मृति-भ्रंशः शीघ्रम् संजायते पुनर् ॥ ३९ ॥
tena jvāreṇa mahatā sammohaḥ ca prajāyate .. sammūḍhasya smṛti-bhraṃśaḥ śīghram saṃjāyate punar .. 39 ..
स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नोऽपूर्वकर्मणः॥रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥ 5.23.४० ॥
स्मृति-भ्रंशात् ततस् तस्य स्मृतिः न् ओ अपूर्व-कर्मणः॥रतिः संजायते तूर्णम् जन्तोः तत्र एव जन्मनि ॥ ५।२३।४० ॥
smṛti-bhraṃśāt tatas tasya smṛtiḥ n o apūrva-karmaṇaḥ..ratiḥ saṃjāyate tūrṇam jantoḥ tatra eva janmani .. 5.23.40 ..
रक्तो मूढश्च लोकोऽयं न कार्य्ये सम्प्रवर्तते ॥ न चात्मानं विजानाति न परं न च दैवतम् ॥ ४१ ॥
रक्तः मूढः च लोकः अयम् न कार्य्ये सम्प्रवर्तते ॥ न च आत्मानम् विजानाति न परम् न च दैवतम् ॥ ४१ ॥
raktaḥ mūḍhaḥ ca lokaḥ ayam na kāryye sampravartate .. na ca ātmānam vijānāti na param na ca daivatam .. 41 ..
न शृणोति परं श्रेयस्सति कर्णेऽपि सन्मुने ॥ न पश्यति परं श्रेयस्सति चक्षुषि तत्क्षमे ॥ ४२ ॥
न शृणोति परम् श्रेयः सति कर्णे अपि सत्-मुने ॥ न पश्यति परम् श्रेयः सति चक्षुषि तद्-क्षमे ॥ ४२ ॥
na śṛṇoti param śreyaḥ sati karṇe api sat-mune .. na paśyati param śreyaḥ sati cakṣuṣi tad-kṣame .. 42 ..
समे पथि शनैर्गच्छन् स्खलतीव पदेपदे ॥ सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥ ४३ ॥
समे पथि शनैस् गच्छन् स्खलति इव पदे पदे ॥ सत्याम् बुद्धौ न जानाति बोध्यमानः बुधैः अपि ॥ ४३ ॥
same pathi śanais gacchan skhalati iva pade pade .. satyām buddhau na jānāti bodhyamānaḥ budhaiḥ api .. 43 ..
संसारे क्लिश्यते तेन गर्भलोभवशानुगः ॥ गर्भस्मृतेन पापेन समुज्झितमतिः पुमान् ॥ ४४॥
संसारे क्लिश्यते तेन गर्भ-लोभ-वश-अनुगः ॥ गर्भ-स्मृतेन पापेन समुज्झित-मतिः पुमान् ॥ ४४॥
saṃsāre kliśyate tena garbha-lobha-vaśa-anugaḥ .. garbha-smṛtena pāpena samujjhita-matiḥ pumān .. 44..
इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ॥ तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम् ॥ ४५ ॥
इत्थम् महत् परम् दिव्यम् शास्त्रम् उक्तम् शिवेन तु ॥ तपसः कथन-अर्थाय स्वर्ग-मोक्ष-प्रसाधनम् ॥ ४५ ॥
ittham mahat param divyam śāstram uktam śivena tu .. tapasaḥ kathana-arthāya svarga-mokṣa-prasādhanam .. 45 ..
ये सत्यस्मिच्छिवे ज्ञाने सर्वकामार्थ साधने ॥ न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ ४६॥
ये सत्यस्मिन् शिवे ज्ञाने सर्व-काम-अर्थ साधने ॥ न कुर्वन्ति आत्मनः श्रेयः तत् अत्र महत् अद्भुतम् ॥ ४६॥
ye satyasmin śive jñāne sarva-kāma-artha sādhane .. na kurvanti ātmanaḥ śreyaḥ tat atra mahat adbhutam .. 46..
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ॥ इच्छन्नपि न शक्नोति वक्तुं कर्त्तुं प्रतिक्रियाम् ॥ ४७ ॥
अव्यक्त-इन्द्रिय-वृत्ति-त्वात् बाल्ये दुःखम् महत् पुनर् ॥ इच्छन् अपि न शक्नोति वक्तुम् कर्त्तुम् प्रतिक्रियाम् ॥ ४७ ॥
avyakta-indriya-vṛtti-tvāt bālye duḥkham mahat punar .. icchan api na śaknoti vaktum karttum pratikriyām .. 47 ..
दंतोत्थाने महद्दुःखमल्पेन व्याधिना तथा ॥ ।बालरोगैश्च विविधै पीडा बालग्रहैरपि ॥ ४८ ॥
दंत-उत्थाने महत् दुःखम् अल्पेन व्याधिना तथा ॥ ।बाल-रोगैः च विविधैः पीडाः बालग्रहैः अपि ॥ ४८ ॥
daṃta-utthāne mahat duḥkham alpena vyādhinā tathā .. .bāla-rogaiḥ ca vividhaiḥ pīḍāḥ bālagrahaiḥ api .. 48 ..
क्वचित्क्षुत्तृट्परीतांगः क्वचित्तिष्ठति संरटन् ॥ विण्मूत्रभक्षणाद्यं च मोहाद्बालस्समाचरेत् ॥ ४९॥
क्वचिद् क्षुध्-तृष्-परीत-अंगः क्वचिद् तिष्ठति संरटन् ॥ विष्-मूत्र-भक्षण-आद्यम् च मोहात् बालः समाचरेत् ॥ ४९॥
kvacid kṣudh-tṛṣ-parīta-aṃgaḥ kvacid tiṣṭhati saṃraṭan .. viṣ-mūtra-bhakṣaṇa-ādyam ca mohāt bālaḥ samācaret .. 49..
कौमारे कर्णपीडायां मातापित्रोश्च साधनः ॥ अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते ॥ 5.23.५०॥
कौमारे कर्ण-पीडायाम् माता-पित्रोः च साधनः ॥ अक्षर-अध्ययन-आद्यैः च नाना दुःखम् प्रवर्तते ॥ ५।२३।५०॥
kaumāre karṇa-pīḍāyām mātā-pitroḥ ca sādhanaḥ .. akṣara-adhyayana-ādyaiḥ ca nānā duḥkham pravartate .. 5.23.50..
बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः॥न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ ५१ ॥
बाल्ये दुःखम् अतीत्य एव पश्यन् अपि विमूढ-धीः॥न कुर्वीत आत्मनः श्रेयः तत् अत्र महत् अद्भुतम् ॥ ५१ ॥
bālye duḥkham atītya eva paśyan api vimūḍha-dhīḥ..na kurvīta ātmanaḥ śreyaḥ tat atra mahat adbhutam .. 51 ..
प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात्॥तदप्राप्ते तु सततं कुतस्सौख्यं तु यौवने ॥ ५२ ॥
प्रवृत्त-इन्द्रिय-वृत्ति-त्वात् काम-रोग-प्रपीडनात्॥तद्-अप्राप्ते तु सततम् कुतस् सौख्यम् तु यौवने ॥ ५२ ॥
pravṛtta-indriya-vṛtti-tvāt kāma-roga-prapīḍanāt..tad-aprāpte tu satatam kutas saukhyam tu yauvane .. 52 ..
ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ॥ नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम् ॥ ५३ ॥
ईर्ष्यया च महत् दुःखम् मोहात् रक्तस्य तस्य च ॥ नेत्रस्य कुपितस्य इव त्यागी दुःखाय केवलम् ॥ ५३ ॥
īrṣyayā ca mahat duḥkham mohāt raktasya tasya ca .. netrasya kupitasya iva tyāgī duḥkhāya kevalam .. 53 ..
न रात्रौ विंदते निद्रां कामाग्निपरिवेदितः ॥ दिवापि च कुतस्सौख्यमर्थोपार्जनचिंतया ॥ ५४ ॥
न रात्रौ विंदते निद्राम् काम-अग्नि-परिवेदितः ॥ दिवा अपि च कुतस् सौख्यम् अर्थ-उपार्जन-चिंतया ॥ ५४ ॥
na rātrau viṃdate nidrām kāma-agni-pariveditaḥ .. divā api ca kutas saukhyam artha-upārjana-ciṃtayā .. 54 ..
स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ॥ ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ॥ ५५ ॥
स्त्रीषु अध्यासित-चित्तस्य ये पुंसः शुक्र-बिन्दवः ॥ ते सुखाय न मन्यन्ते स्वेद-जाः इव ते तथा ॥ ५५ ॥
strīṣu adhyāsita-cittasya ye puṃsaḥ śukra-bindavaḥ .. te sukhāya na manyante sveda-jāḥ iva te tathā .. 55 ..
कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ॥ कंडूयनाभितापेन यद्भवेत्स्त्रिषु तद्विदः ॥ ५६ ॥
कृमिभिः तुद्यमानस्य कुष्ठिनः वानरस्य च ॥ कंडूयन-अभितापेन यत् भवेत् स्त्रिषु तद्-विदः ॥ ५६ ॥
kṛmibhiḥ tudyamānasya kuṣṭhinaḥ vānarasya ca .. kaṃḍūyana-abhitāpena yat bhavet striṣu tad-vidaḥ .. 56 ..
यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ॥ तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ॥ ५७ ॥
यादृशम् मन्यते सौख्यम् गंडे पूति-विनिर्गमात् ॥ तादृशम् स्त्रीषु मन्तव्यम् न अधिकम् तासु विद्यते ॥ ५७ ॥
yādṛśam manyate saukhyam gaṃḍe pūti-vinirgamāt .. tādṛśam strīṣu mantavyam na adhikam tāsu vidyate .. 57 ..
विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम्॥तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा ॥ ५८॥
विष्-मूत्रस्य समुत्सर्गात् सुखम् भवति यादृशम्॥तादृशम् स्त्रीषु विज्ञेयम् मूढैः कल्पितम् अन्यथा ॥ ५८॥
viṣ-mūtrasya samutsargāt sukham bhavati yādṛśam..tādṛśam strīṣu vijñeyam mūḍhaiḥ kalpitam anyathā .. 58..
नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु वा।नाणुमात्रं सुखं तासु कथितं पंचचूडया ॥ ५९ ॥
नारीषु अवस्तु-भूतासु सर्व-दोष-आश्रयासु वा।न अणु-मात्रम् सुखम् तासु कथितम् पंचचूडया ॥ ५९ ॥
nārīṣu avastu-bhūtāsu sarva-doṣa-āśrayāsu vā.na aṇu-mātram sukham tāsu kathitam paṃcacūḍayā .. 59 ..
सम्माननावमानाभ्यां वियोगेनेष्टसंगमात् ॥ यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्॥5.23.६०॥
सम्मानन-अवमानाभ्याम् वियोगेन इष्ट-संगमात् ॥ यौवनम् जरया ग्रस्तम् क्व सौख्यम् अनुपद्रवम्॥५।२३।६०॥
sammānana-avamānābhyām viyogena iṣṭa-saṃgamāt .. yauvanam jarayā grastam kva saukhyam anupadravam..5.23.60..
वलीपलितखालित्यैश्शिथिलिकृतविग्रहम्॥सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम्॥६१॥
वली-पलित-खालित्यैः शिथिलि-कृत-विग्रहम्॥सर्व-क्रियासु अशक्तिम् च जरया जर्जरीकृतम्॥६१॥
valī-palita-khālityaiḥ śithili-kṛta-vigraham..sarva-kriyāsu aśaktim ca jarayā jarjarīkṛtam..61..
स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा॥तदेव जरयाग्रस्तमनयोरपि न प्रियम्॥६२॥
स्त्रीपुंस-यौवनम् हृद्यम् अन्यः अन्यस्य प्रियम् पुरा॥तत् एव जरया अ ग्रस्तम् अनयोः अपि न प्रियम्॥६२॥
strīpuṃsa-yauvanam hṛdyam anyaḥ anyasya priyam purā..tat eva jarayā a grastam anayoḥ api na priyam..62..
अपूर्ववत्स्वमात्मानं जरया परिवर्तितम्॥यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः॥६३॥
अपूर्व-वत् स्वम् आत्मानम् जरया परिवर्तितम्॥यः पश्यन् अपि रज्येत कः अन्यः तस्मात् अचेतनः॥६३॥
apūrva-vat svam ātmānam jarayā parivartitam..yaḥ paśyan api rajyeta kaḥ anyaḥ tasmāt acetanaḥ..63..
जराभिभूतः पुरुषः पुत्रीपुत्रादिबांधवैः॥आसक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते॥६४॥
जरा-अभिभूतः पुरुषः पुत्री-पुत्र-आदि-बांधवैः॥आसक्त-त्वात् दुराधर्षैः भृत्यैः च परिभूयते॥६४॥
jarā-abhibhūtaḥ puruṣaḥ putrī-putra-ādi-bāṃdhavaiḥ..āsakta-tvāt durādharṣaiḥ bhṛtyaiḥ ca paribhūyate..64..
धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः॥अशक्तस्साधितुं तस्माद्युवा धर्मं समाचरेत्॥६५॥
धर्मम् अर्थम् च कामम् वा मोक्षम् वा अति जरा-आतुरः॥अशक्तः साधितुम् तस्मात् युवा धर्मम् समाचरेत्॥६५॥
dharmam artham ca kāmam vā mokṣam vā ati jarā-āturaḥ..aśaktaḥ sādhitum tasmāt yuvā dharmam samācaret..65..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहा शुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः॥२३॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् संसारचिकित्सायाम् देहा-शुचित्वबाल्याद्यवस्थादुःखवर्णनम् नाम त्रयोविंशः अध्यायः॥२३॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām saṃsāracikitsāyām dehā-śucitvabālyādyavasthāduḥkhavarṇanam nāma trayoviṃśaḥ adhyāyaḥ..23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In