| |
|

This overlay will guide you through the buttons:

व्यास उवाच।।
कुत्सितं योषिदर्थं यत्संप्रोक्तं पंचचूडया॥तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने॥ १ ॥
कुत्सितम् योषित्-अर्थम् यत् संप्रोक्तम् पंचचूडया॥तत् मे ब्रूहि समासेन यदि तुष्टः असि मे मुने॥ १ ॥
kutsitam yoṣit-artham yat saṃproktam paṃcacūḍayā..tat me brūhi samāsena yadi tuṣṭaḥ asi me mune.. 1 ..
सनत्कुमार उवाच ।।
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ॥ यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ॥ २ ॥
स्त्रीणाम् स्वभावम् वक्ष्यामि शृणु विप्र यथातथम् ॥ यस्य श्रवण-मात्रेण भवेत् वैराग्यम् उत्तमम् ॥ २ ॥
strīṇām svabhāvam vakṣyāmi śṛṇu vipra yathātatham .. yasya śravaṇa-mātreṇa bhavet vairāgyam uttamam .. 2 ..
स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने॥तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ॥ ३ ॥
स्त्रियः मूलम् हि दोषाणाम् लघु-चित्ताः सदा मुने॥तद्-आसक्तिः न कर्तव्या मोक्ष-ईप्सुभिः अतन्द्रितैः ॥ ३ ॥
striyaḥ mūlam hi doṣāṇām laghu-cittāḥ sadā mune..tad-āsaktiḥ na kartavyā mokṣa-īpsubhiḥ atandritaiḥ .. 3 ..
अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥ नारदस्य च संवादं पुंश्चल्या पंचचूडया ॥ ४ ॥
अत्रा अपि उदाहरंति इमम् इतिहासम् पुरातनम् ॥ नारदस्य च संवादम् पुंश्चल्या पंचचूडया ॥ ४ ॥
atrā api udāharaṃti imam itihāsam purātanam .. nāradasya ca saṃvādam puṃścalyā paṃcacūḍayā .. 4 ..
लोकान्परिचरन्धीमान्देवर्षिर्नारदः पुरा ॥ ददर्शाप्सरसं बालां पंचचूडामनुत्तमाम्॥५॥
लोकान् परिचरन् धीमान् देवर्षिः नारदः पुरा ॥ ददर्श अप्सरसम् बालाम् पंचचूडाम् अनुत्तमाम्॥५॥
lokān paricaran dhīmān devarṣiḥ nāradaḥ purā .. dadarśa apsarasam bālām paṃcacūḍām anuttamām..5..
पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः॥संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे॥६॥
पप्रच्छ अप्सरसम् सुभ्रूम् नारदः मुनि-सत्तमः॥संशयः हृदि मे कश्चिद् तत् मे ब्रूहि सुमध्यमे॥६॥
papraccha apsarasam subhrūm nāradaḥ muni-sattamaḥ..saṃśayaḥ hṛdi me kaścid tat me brūhi sumadhyame..6..
एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा॥विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ॥ ७ ॥
एवम् उक्ता तु सा विप्रम् प्रत्युवाच वर-अप्सरा॥विषये सति वक्ष्यामि समर्थाम् मन्यसे अथ माम् ॥ ७ ॥
evam uktā tu sā vipram pratyuvāca vara-apsarā..viṣaye sati vakṣyāmi samarthām manyase atha mām .. 7 ..
नारद उवाच ।।
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ॥ स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ॥ ८॥
न त्वाम् अविषये भद्रे नियोक्ष्यामि कथंचन ॥ स्त्रीणाम् स्वभावम् इच्छामि त्वत्तः श्रोतुम् सुमध्यमे ॥ ८॥
na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana .. strīṇām svabhāvam icchāmi tvattaḥ śrotum sumadhyame .. 8..
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ॥ प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ॥ ९ ॥
एतत् श्रुत्वा वचः तस्य देवर्षेः अप्सरः-उत्तमा ॥ प्रत्युवाच मुनि-ईशम् तम् देवर्षिम् मुनि-सत्तमम् ॥ ९ ॥
etat śrutvā vacaḥ tasya devarṣeḥ apsaraḥ-uttamā .. pratyuvāca muni-īśam tam devarṣim muni-sattamam .. 9 ..
पंचचूडोवाच ।।
मुने शृणु न शक्या स्त्री सती वै निंदितुं स्त्रिया ॥ विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ॥ 5.24.१०॥
मुने शृणु न शक्या स्त्री सती वै निंदितुम् स्त्रिया ॥ विदिताः ते स्त्रियः याः च यादृश्यः च स्वभावतः ॥ ५।२४।१०॥
mune śṛṇu na śakyā strī satī vai niṃditum striyā .. viditāḥ te striyaḥ yāḥ ca yādṛśyaḥ ca svabhāvataḥ .. 5.24.10..
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ॥ इत्युक्त्वा साऽभवत्तूष्णीं पंचचूडाप्सरोवरा ॥ ११ ॥
न माम् अर्हसि देव-ऋषे नियोक्तुम् प्रश्नम् ईदृशम् ॥ इति उक्त्वा सा अभवत् तूष्णीम् पंचचूडा-अप्सरोवरा ॥ ११ ॥
na mām arhasi deva-ṛṣe niyoktum praśnam īdṛśam .. iti uktvā sā abhavat tūṣṇīm paṃcacūḍā-apsarovarā .. 11 ..
अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ॥ प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ॥ १२ ॥
अथ देव-ऋषि-वर्यः हि श्रुत्वा तत् वाक्यम् उत्तमम् ॥ प्रत्युवाच पुनर् ताम् वै लोकानाम् हित-काम्यया ॥ १२ ॥
atha deva-ṛṣi-varyaḥ hi śrutvā tat vākyam uttamam .. pratyuvāca punar tām vai lokānām hita-kāmyayā .. 12 ..
नारद उवाच ।।
मृषावादे भवेद्दोषस्सत्ये दोषो न विद्यते ॥ इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ॥ १३ ॥
मृषावादे भवेत् दोषः सत्ये दोषः न विद्यते ॥ इति जानीहि सत्यम् त्वम् वद अतस् तत् सुमध्यमे ॥ १३ ॥
mṛṣāvāde bhavet doṣaḥ satye doṣaḥ na vidyate .. iti jānīhi satyam tvam vada atas tat sumadhyame .. 13 ..
सनत्कुमार उवाच ।।
इत्युक्ता सा कृतमती रभसा चारुहासिनी ॥ स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ॥ १४ ॥
इति उक्ता सा कृत-मती रभसा चारु-हासिनी ॥ स्त्री-दोषान् शाश्वतान् सत्यान् भाषितुम् संप्रचक्रमे ॥ १४ ॥
iti uktā sā kṛta-matī rabhasā cāru-hāsinī .. strī-doṣān śāśvatān satyān bhāṣitum saṃpracakrame .. 14 ..
पञ्चचूडोवाच ।।
कुलीना नाथवंत्यश्च रूपवंत्यश्च योषितः ॥ मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद ॥ १५ ॥
कुलीनाः नाथवंत्यः च रूपवंत्यः च योषितः ॥ मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद ॥ १५ ॥
kulīnāḥ nāthavaṃtyaḥ ca rūpavaṃtyaḥ ca yoṣitaḥ .. maryādāsu na tiṣṭhaṃti sa doṣaḥ strīṣu nārada .. 15 ..
न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति हि ॥ स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ॥ १६॥
न स्त्रीभ्यः किंचिद् अन्यत् वै पापीयस्तरम् अस्ति हि ॥ स्त्रियः मूलम् हि पापानाम् तथा त्वम् अपि वेत्थ ह ॥ १६॥
na strībhyaḥ kiṃcid anyat vai pāpīyastaram asti hi .. striyaḥ mūlam hi pāpānām tathā tvam api vettha ha .. 16..
समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ॥ यतीनन्तरमासाद्य नालं नार्य्यः प्रतीक्षितुम् ॥ १७॥
समाज्ञातान् अर्थवतः प्रतिरूपान् यथा ईप्सितान् ॥ यतीन् अन्तरम् आसाद्य न अलम् नार्य्यः प्रतीक्षितुम् ॥ १७॥
samājñātān arthavataḥ pratirūpān yathā īpsitān .. yatīn antaram āsādya na alam nāryyaḥ pratīkṣitum .. 17..
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो॥पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥ १८ ॥
असत्-धर्मः तु अयम् स्त्रीणाम् अस्माकम् भवति प्रभो॥पापीयसः नरान् यत् वै लज्जाम् त्यक्त्वा भजामहे ॥ १८ ॥
asat-dharmaḥ tu ayam strīṇām asmākam bhavati prabho..pāpīyasaḥ narān yat vai lajjām tyaktvā bhajāmahe .. 18 ..
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ॥ ईषच्च कुरुते सेवां तमेवेच्छति योषितः ॥ १९ ॥
स्त्रियम् च यः प्रार्थयते सन्निकर्षम् च गच्छति ॥ ईषत् च कुरुते सेवाम् तम् एवा इच्छति योषितः ॥ १९ ॥
striyam ca yaḥ prārthayate sannikarṣam ca gacchati .. īṣat ca kurute sevām tam evā icchati yoṣitaḥ .. 19 ..
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ॥ मर्यादायाममर्यादाः स्त्रियस्तिष्ठंति भर्तृषु ॥ 5.24.२० ॥
अन् अर्थि-त्वात् मनुष्याणाम् भयात् पति-जनस्य च ॥ मर्यादायाम् अमर्यादाः स्त्रियः तिष्ठन्ति भर्तृषु ॥ ५।२४।२० ॥
an arthi-tvāt manuṣyāṇām bhayāt pati-janasya ca .. maryādāyām amaryādāḥ striyaḥ tiṣṭhanti bhartṛṣu .. 5.24.20 ..
नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ॥ सुरूपं वा कुरूपं वा पुमांसमुपभुंजते ॥ २१ ॥
न आसाम् कश्चिद् अमान्यः अस्ति न आसाम् वयसि निश्चयः ॥ सुरूपम् वा कुरूपम् वा पुमांसम् उपभुंजते ॥ २१ ॥
na āsām kaścid amānyaḥ asti na āsām vayasi niścayaḥ .. surūpam vā kurūpam vā pumāṃsam upabhuṃjate .. 21 ..
न भयादथ वाक्रोशान्नार्थहेतोः कथंचन ॥ न ज्ञातिकुलसम्बन्धास्त्रियस्तिष्ठंति भर्तृषु ॥ २२॥
न भयात् अथ वा आक्रोशात् ना अर्थ-हेतोः कथंचन ॥ न ज्ञाति-कुल-सम्बन्ध-अस्त्रियः तिष्ठन्ति भर्तृषु ॥ २२॥
na bhayāt atha vā ākrośāt nā artha-hetoḥ kathaṃcana .. na jñāti-kula-sambandha-astriyaḥ tiṣṭhanti bhartṛṣu .. 22..
यौवने वर्तमानानामिष्टाभरणवाससाम् ॥ नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ २३॥
यौवने वर्तमानानाम् इष्ट-आभरण-वाससाम् ॥ नारीणाम् स्वैर-वृत्तीनाम् स्पृहयन्ति कुलस्त्रियः ॥ २३॥
yauvane vartamānānām iṣṭa-ābharaṇa-vāsasām .. nārīṇām svaira-vṛttīnām spṛhayanti kulastriyaḥ .. 23..
या हि शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ॥ अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ॥ २४॥
याः हि शश्वत् बहु-मताः रक्ष्यन्ते दयिताः स्त्रियः ॥ अपि ताः सम्प्रसज्जन्ते कुब्ज-अन्ध-जड-वामने ॥ २४॥
yāḥ hi śaśvat bahu-matāḥ rakṣyante dayitāḥ striyaḥ .. api tāḥ samprasajjante kubja-andha-jaḍa-vāmane .. 24..
पंगुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः॥स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ॥ २५ ॥
पंगुषु अपि च देव-ऋषे ये च अन्ये कुत्सिताः नराः॥स्त्रीणाम् अगम्यः लोकेषु ना अस्ति कश्चिद् महा-मुने ॥ २५ ॥
paṃguṣu api ca deva-ṛṣe ye ca anye kutsitāḥ narāḥ..strīṇām agamyaḥ lokeṣu nā asti kaścid mahā-mune .. 25 ..
यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ॥ अप्यन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥ २६ ॥
यदि पुंसाम् गतिः ब्रह्मन् कथंचिद् ना उपपद्यते ॥ अपि अन्योन्यम् प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥ २६ ॥
yadi puṃsām gatiḥ brahman kathaṃcid nā upapadyate .. api anyonyam pravartante na ca tiṣṭhanti bhartṛṣu .. 26 ..
अलाभात्पुरुषाणां च भयात्परिजनस्य च ॥ वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ॥ २७॥
अलाभात् पुरुषाणाम् च भयात् परिजनस्य च ॥ वध-बन्ध-भयात् च एव ताः भग्न-आशाः हि योषितः ॥ २७॥
alābhāt puruṣāṇām ca bhayāt parijanasya ca .. vadha-bandha-bhayāt ca eva tāḥ bhagna-āśāḥ hi yoṣitaḥ .. 27..
चलस्वभाव दुश्चेष्टा दुर्गाह्या भवतस्तथा॥प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात् ॥ २८॥
चल-स्वभाव दुश्चेष्टाः दुर्गाह्याः भवतः तथा॥प्राज्ञस्य पुरुषस्य इह यथा रति-परिग्रहात् ॥ २८॥
cala-svabhāva duśceṣṭāḥ durgāhyāḥ bhavataḥ tathā..prājñasya puruṣasya iha yathā rati-parigrahāt .. 28..
नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि ॥ नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ॥ २९ ॥
न अग्निः तुष्यति काष्ठानाम् ना आपगानाम् महा-उदधि ॥ न अन्तकः सर्व-भूतानाम् न पुंसाम् वामलोचनाः ॥ २९ ॥
na agniḥ tuṣyati kāṣṭhānām nā āpagānām mahā-udadhi .. na antakaḥ sarva-bhūtānām na puṃsām vāmalocanāḥ .. 29 ..
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ॥ दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः ॥ 5.24.३०॥
इदम् अन्यत् च देव-ऋषे रहस्यम् सर्व-योषिताम् ॥ दृष्ट्वा एव पुरुषम् सद्यस् योनिः प्रक्लिद्यते स्त्रियाः ॥ ५।२४।३०॥
idam anyat ca deva-ṛṣe rahasyam sarva-yoṣitām .. dṛṣṭvā eva puruṣam sadyas yoniḥ praklidyate striyāḥ .. 5.24.30..
सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् ॥ योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम्॥३१॥
सु स्नातम् पुरुषम् दृष्ट्वा सु गन्धम् मल-वर्जितम् ॥ योनिः प्रक्लिद्यते स्त्रीणाम् दृतेः पात्रात् इव उदकम्॥३१॥
su snātam puruṣam dṛṣṭvā su gandham mala-varjitam .. yoniḥ praklidyate strīṇām dṛteḥ pātrāt iva udakam..31..
कायानामपि दातारं कर्त्तारं मानसांत्वयोः ॥ रक्षितारं न मृष्यंति भर्तारं परमं स्त्रियः ॥ ३२॥
कायानाम् अपि दातारम् कर्त्तारम् मान-सांत्वयोः ॥ रक्षितारम् न मृष्यंति भर्तारम् परमम् स्त्रियः ॥ ३२॥
kāyānām api dātāram karttāram māna-sāṃtvayoḥ .. rakṣitāram na mṛṣyaṃti bhartāram paramam striyaḥ .. 32..
न कामभोगात्परमान्नालंकारार्थसंचयात् ॥ तथा हितं न मन्यन्ते यथा रतिपरिग्रहात् ॥ ३३ ॥
न काम-भोगात् परमात् न अलंकार-अर्थ-संचयात् ॥ तथा हितम् न मन्यन्ते यथा रति-परिग्रहात् ॥ ३३ ॥
na kāma-bhogāt paramāt na alaṃkāra-artha-saṃcayāt .. tathā hitam na manyante yathā rati-parigrahāt .. 33 ..
अन्तकश्शमनो मृत्युः पातालं वडवामुखम् ॥ क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ ३४॥
अन्तकः शमनः मृत्युः पातालम् वडवामुखम् ॥ क्षुर-धारा विषम् सर्पः वह्निः इति एकतस् स्त्रियः ॥ ३४॥
antakaḥ śamanaḥ mṛtyuḥ pātālam vaḍavāmukham .. kṣura-dhārā viṣam sarpaḥ vahniḥ iti ekatas striyaḥ .. 34..
यतश्च भूतानि महांति पंच यतश्च लोको विहितो विधात्रा ॥ यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद ॥ ३५ ॥
यतस् च भूतानि महान्ति पंच यतस् च लोकः विहितः विधात्रा ॥ यतस् पुमांसः प्रमदाः च निर्मिताः सदा एव दोषः प्रमदासु नारद ॥ ३५ ॥
yatas ca bhūtāni mahānti paṃca yatas ca lokaḥ vihitaḥ vidhātrā .. yatas pumāṃsaḥ pramadāḥ ca nirmitāḥ sadā eva doṣaḥ pramadāsu nārada .. 35 ..
सनत्कुमार उवाच।।
इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः॥तथ्यं मत्वा ततस्तद्वै विरक्तोभूद्धि तासु च ॥ ३६ ॥
इति श्रुत्वा वचः तस्याः नारदः तुष्ट-मानसः॥तथ्यम् मत्वा ततस् तत् वै विरक्तः भूत् हि तासु च ॥ ३६ ॥
iti śrutvā vacaḥ tasyāḥ nāradaḥ tuṣṭa-mānasaḥ..tathyam matvā tatas tat vai viraktaḥ bhūt hi tāsu ca .. 36 ..
इत्युक्तः स्त्री स्वभावस्ते पंचचूडोक्त आदरात् ॥ वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि ॥ ३७ ॥
इति उक्तः स्त्री स्वभावः ते पंचचूड-उक्तः आदरात् ॥ वैराग्य-कारणम् व्यास किम् अन्यत् श्रोतुम् अर्हसि ॥ ३७ ॥
iti uktaḥ strī svabhāvaḥ te paṃcacūḍa-uktaḥ ādarāt .. vairāgya-kāraṇam vyāsa kim anyat śrotum arhasi .. 37 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् स्त्रीस्वभाववर्णनम् नाम चतुर्विंशः अध्यायः ॥ २४॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām strīsvabhāvavarṇanam nāma caturviṃśaḥ adhyāyaḥ .. 24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In