| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने॥स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ॥ १ ॥
सनत्कुमार सर्वज्ञ त्वद्-सकाशात् मया मुने॥स्त्री-स्वभावः श्रुतः प्रीत्या काल-ज्ञानम् वदस्व मे ॥ १ ॥
sanatkumāra sarvajña tvad-sakāśāt mayā mune..strī-svabhāvaḥ śrutaḥ prītyā kāla-jñānam vadasva me .. 1 ..
सनत्कुमार उवाच ।।
इदमेव पुराऽपृच्छत्पार्वती परमेश्वरम् ॥ श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ॥ २ ॥
इदम् एव पुरा अपृच्छत् पार्वती परमेश्वरम् ॥ श्रुत्वा नाना कथाम् दिव्याम् प्रसन्ना सु प्रणम्य तम् ॥ २ ॥
idam eva purā apṛcchat pārvatī parameśvaram .. śrutvā nānā kathām divyām prasannā su praṇamya tam .. 2 ..
पार्वत्युवाच ।।
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ॥ यथार्चनं तु ते देव यैर्मंत्रैश्च यथाविधि ॥ ॥ ३ ॥
भगवन् त्वद्-प्रसादेन ज्ञातम् मे सकलम् मतम् ॥ यथा अर्चनम् तु ते देव यैः मंत्रैः च यथाविधि ॥ ॥ ३ ॥
bhagavan tvad-prasādena jñātam me sakalam matam .. yathā arcanam tu te deva yaiḥ maṃtraiḥ ca yathāvidhi .. .. 3 ..
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ॥ मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ॥ ४॥
अद्य अपि संशयः तु एकः कालचक्रम् प्रति प्रभो ॥ मृत्यु-चिह्नम् यथा देव किम् प्रमाणम् यथा आयुषः ॥ ४॥
adya api saṃśayaḥ tu ekaḥ kālacakram prati prabho .. mṛtyu-cihnam yathā deva kim pramāṇam yathā āyuṣaḥ .. 4..
तथा कथय मे नाथ यद्यहं तव वल्लभा ॥ इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ॥ ५॥
तथा कथय मे नाथ यदि अहम् तव वल्लभा ॥ इति पृष्टः तया देव्या प्रत्युवाच महेश्वरः ॥ ५॥
tathā kathaya me nātha yadi aham tava vallabhā .. iti pṛṣṭaḥ tayā devyā pratyuvāca maheśvaraḥ .. 5..
।। ईश्वर उवाच ।।
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ॥ येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥ ६॥
सत्यम् ते कथयिष्यामि शास्त्रम् सर्व-उत्तमम् प्रिये ॥ येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥ ६॥
satyam te kathayiṣyāmi śāstram sarva-uttamam priye .. yena śāstreṇa deveśi naraiḥ kālaḥ prabudhyate .. 6..
अहः पक्षं तथा मासमृतुं चायनवत्सरौ॥स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरंतर्गतैस्तथा ॥ ७ ॥
अहर् पक्षम् तथा मासम् ऋतुम् च अयन-वत्सरौ॥स्थूल-सूक्ष्म-गतैः चिह्नैः बहिस् अंतर्गतैः तथा ॥ ७ ॥
ahar pakṣam tathā māsam ṛtum ca ayana-vatsarau..sthūla-sūkṣma-gataiḥ cihnaiḥ bahis aṃtargataiḥ tathā .. 7 ..
तत्तेहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥ लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ॥ ८ ॥
सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥ लोकानाम् उपकार-अर्थम् वैराग्य-अर्थम् उमे अधुना ॥ ८ ॥
sampravakṣyāmi śṛṇu tattvena sundari .. lokānām upakāra-artham vairāgya-artham ume adhunā .. 8 ..
अकस्मात्पांडुरं देहमूर्द्ध्वरागं समंततः ॥ तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ ९॥
अकस्मात् पांडुरम् देहम् ऊर्द्ध्व-रागम् समंततः ॥ तदा मृत्युम् विजानीयात् षष्-मास-अभ्यन्तरे प्रिये ॥ ९॥
akasmāt pāṃḍuram deham ūrddhva-rāgam samaṃtataḥ .. tadā mṛtyum vijānīyāt ṣaṣ-māsa-abhyantare priye .. 9..
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत्॥तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये॥5.25.१०॥
मुखम् कर्णौ तथा चक्षुः जिह्वा-स्तम्भः यदा भवेत्॥तदा मृत्युम् विजानीयात् षष्-मास-अभ्यन्तरे प्रिये॥५।२५।१०॥
mukham karṇau tathā cakṣuḥ jihvā-stambhaḥ yadā bhavet..tadā mṛtyum vijānīyāt ṣaṣ-māsa-abhyantare priye..5.25.10..
रौरवानुगतं भद्र ध्वनिं नाकर्णयेद्द्रुतम्॥षण्मासाभ्यंतरे मृत्युर्ज्ञातव्यः कालवेदिभिः ॥ ११॥
रौरव-अनुगतम् भद्र ध्वनिम् ना आकर्णयेत् द्रुतम्॥षष्-मास-अभ्यंतरे मृत्युः ज्ञातव्यः काल-वेदिभिः ॥ ११॥
raurava-anugatam bhadra dhvanim nā ākarṇayet drutam..ṣaṣ-māsa-abhyaṃtare mṛtyuḥ jñātavyaḥ kāla-vedibhiḥ .. 11..
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ॥ कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ॥ १२ ॥
रवि-सोम-अग्नि-संयोगात् यदा उद्योतम् न पश्यति ॥ कृष्णम् सर्वम् समस्तम् च षष्-मासम् जीवितम् तथा ॥ १२ ॥
ravi-soma-agni-saṃyogāt yadā udyotam na paśyati .. kṛṣṇam sarvam samastam ca ṣaṣ-māsam jīvitam tathā .. 12 ..
वामहस्तो यदा देवि सप्ताहं स्पंदते प्रिये ॥ जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १३ ॥
वाम-हस्तः यदा देवि सप्त-अहम् स्पंदते प्रिये ॥ जीवितम् तु तदा तस्य मासम् एकम् न संशयः ॥ १३ ॥
vāma-hastaḥ yadā devi sapta-aham spaṃdate priye .. jīvitam tu tadā tasya māsam ekam na saṃśayaḥ .. 13 ..
उन्मीलयति गात्राणि तालुकं शुष्यते यदा॥जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १४ ॥
उन्मीलयति गात्राणि तालुकम् शुष्यते यदा॥जीवितम् तु तदा तस्य मासम् एकम् न संशयः ॥ १४ ॥
unmīlayati gātrāṇi tālukam śuṣyate yadā..jīvitam tu tadā tasya māsam ekam na saṃśayaḥ .. 14 ..
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ॥ वक्त्रं कंठं च शुष्येत षण्मासांते गतायुषः ॥ १५॥
नासा तु स्रवते यस्य त्रिदोषे पक्ष-जीवितम् ॥ वक्त्रम् कंठम् च शुष्येत षष्-मास-अंते गत-आयुषः ॥ १५॥
nāsā tu sravate yasya tridoṣe pakṣa-jīvitam .. vaktram kaṃṭham ca śuṣyeta ṣaṣ-māsa-aṃte gata-āyuṣaḥ .. 15..
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यंति भामिनि ॥ षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत्॥१६॥
स्थूल-जिह्वा भवेत् यस्य द्विजाः क्लिद्यंति भामिनि ॥ षष्-मासात् जायते मृत्युः चिह्नैः तैः उपलक्षयेत्॥१६॥
sthūla-jihvā bhavet yasya dvijāḥ klidyaṃti bhāmini .. ṣaṣ-māsāt jāyate mṛtyuḥ cihnaiḥ taiḥ upalakṣayet..16..
अंबुतैलघृतस्थं तु दर्पणे वरवर्णिनि ॥ न पश्यति यदात्मानं विकृतं पलमेव च ॥ १७ ॥
अंबु-तैल-घृत-स्थम् तु दर्पणे वरवर्णिनि ॥ न पश्यति यदा आत्मानम् विकृतम् पलम् एव च ॥ १७ ॥
aṃbu-taila-ghṛta-stham tu darpaṇe varavarṇini .. na paśyati yadā ātmānam vikṛtam palam eva ca .. 17 ..
षण्मासायुस्स विज्ञेयः कालचक्रं विजानता ॥ अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते॥१८॥
षष्-मास-आयुः स विज्ञेयः कालचक्रम् विजानता ॥ अन्यत् च शृणु देवेशि येन मृत्युः विबुद्ध्यते॥१८॥
ṣaṣ-māsa-āyuḥ sa vijñeyaḥ kālacakram vijānatā .. anyat ca śṛṇu deveśi yena mṛtyuḥ vibuddhyate..18..
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ॥ अथवा छायया हीनं मासमेकं न जीवति॥१९॥
शिरः-हीनाम् यदा छायाम् स्वकीयाम् उपलक्षयेत् ॥ अथवा छायया हीनम् मासम् एकम् न जीवति॥१९॥
śiraḥ-hīnām yadā chāyām svakīyām upalakṣayet .. athavā chāyayā hīnam māsam ekam na jīvati..19..
आंगिकानि मयोक्तानि मृत्युचिह्नानि पार्वति॥बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम्॥5.25.२०॥
आंगिकानि मया उक्तानि मृत्यु-चिह्नानि पार्वति॥बाह्य-स्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम्॥५।२५।२०॥
āṃgikāni mayā uktāni mṛtyu-cihnāni pārvati..bāhya-sthāni bruve bhadre cihnāni śṛṇu sāṃpratam..5.25.20..
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम्॥दृश्यते पाटलाकारं मासार्दे्धेन विपद्यते॥२१॥
रश्मि-हीनम् यदा देवि भवेत् सोम-अर्क-मण्डलम्॥दृश्यते पाटला-आकारम् मास-अर्ध-एधेन विपद्यते॥२१॥
raśmi-hīnam yadā devi bhavet soma-arka-maṇḍalam..dṛśyate pāṭalā-ākāram māsa-ardha-edhena vipadyate..21..
अरुंधती महायानमिंदुलक्षणवर्जितम्॥अदृष्टतारको योऽसौ मासमेकं स जीवति॥२२॥
अरुंधती महायानम् इंदु-लक्षण-वर्जितम्॥अदृष्ट-तारकः यः असौ मासम् एकम् स जीवति॥२२॥
aruṃdhatī mahāyānam iṃdu-lakṣaṇa-varjitam..adṛṣṭa-tārakaḥ yaḥ asau māsam ekam sa jīvati..22..
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम्॥उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम्॥२३॥
दृष्टे ग्रहे च दिश्-मोहः षष्-मासात् जायते ध्रुवम्॥उतथ्यम् न ध्रुवम् पश्येत् यदि वा रवि-मण्डलम्॥२३॥
dṛṣṭe grahe ca diś-mohaḥ ṣaṣ-māsāt jāyate dhruvam..utathyam na dhruvam paśyet yadi vā ravi-maṇḍalam..23..
रात्रौ धनुर्यदापश्येन्मध्याह्ने चोल्कपातनम्॥वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः॥२४॥
रात्रौ धनुः यदा पश्येत् मध्याह्ने च उल्का-पातनम्॥वेष्ट्यते गृध्र-काकैः च षष्-मास-आयुः न संशयः॥२४॥
rātrau dhanuḥ yadā paśyet madhyāhne ca ulkā-pātanam..veṣṭyate gṛdhra-kākaiḥ ca ṣaṣ-māsa-āyuḥ na saṃśayaḥ..24..
ऋषयस्स्वर्गपंथाश्च दृश्यंते नैव चाम्बरे॥षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ॥ ।२५॥
ऋषयः स्वर्ग-पंथाः च दृश्यंते ना एव च अम्बरे॥षष्-मास-आयुः विजनीयात् पुरुषैः काल-वेदिभिः ॥ ।२५॥
ṛṣayaḥ svarga-paṃthāḥ ca dṛśyaṃte nā eva ca ambare..ṣaṣ-māsa-āyuḥ vijanīyāt puruṣaiḥ kāla-vedibhiḥ .. .25..
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ॥ दिक्चक्रं भ्रांतवत्पश्येत्षण्मासान्म्रियते स्फुटम् ॥ २६॥
अकस्मात् राहुणा ग्रस्तम् सूर्यम् वा सोमम् एव च ॥ दिश्-चक्रम् भ्रान्त-वत् पश्येत् षष्-मासात् म्रियते स्फुटम् ॥ २६॥
akasmāt rāhuṇā grastam sūryam vā somam eva ca .. diś-cakram bhrānta-vat paśyet ṣaṣ-māsāt mriyate sphuṭam .. 26..
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद्वेष्ट्यते पुमान् ॥ मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ॥ ॥ २७॥
नीलाभिः मक्षिकाभिः च हि अकस्मात् वेष्ट्यते पुमान् ॥ मासम् एकम् हि तस्य आयुः ज्ञातव्यम् परमार्थतः ॥ ॥ २७॥
nīlābhiḥ makṣikābhiḥ ca hi akasmāt veṣṭyate pumān .. māsam ekam hi tasya āyuḥ jñātavyam paramārthataḥ .. .. 27..
गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ॥ शीघ्रं तु म्रियते जंतुर्मासैकेन न संशयः ॥ २८ ॥
गृध्रः काकः कपोतः च शिरः च आक्रम्य तिष्ठति ॥ शीघ्रम् तु म्रियते जंतुः मास-एकेन न संशयः ॥ २८ ॥
gṛdhraḥ kākaḥ kapotaḥ ca śiraḥ ca ākramya tiṣṭhati .. śīghram tu mriyate jaṃtuḥ māsa-ekena na saṃśayaḥ .. 28 ..
एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ॥ मानुषाणां हितार्थाय संक्षेपेण वदाम्यहम् ॥ २९ ॥
एवम् च अरिष्ट-भेदः तु बाह्य-स्थः समुदाहृतः ॥ मानुषाणाम् हित-अर्थाय संक्षेपेण वदामि अहम् ॥ २९ ॥
evam ca ariṣṭa-bhedaḥ tu bāhya-sthaḥ samudāhṛtaḥ .. mānuṣāṇām hita-arthāya saṃkṣepeṇa vadāmi aham .. 29 ..
हस्तयोरुभयोर्देवि यथा कालं विजानते ॥ वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ॥ 5.25.३०॥
हस्तयोः उभयोः देवि यथा कालम् विजानते ॥ वाम-दक्षिणयोः मध्ये प्रत्यक्षम् च इति उदाहृतम् ॥ ५।२५।३०॥
hastayoḥ ubhayoḥ devi yathā kālam vijānate .. vāma-dakṣiṇayoḥ madhye pratyakṣam ca iti udāhṛtam .. 5.25.30..
एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुंदरि ॥ शुचिर्भूत्वा स्मरन्देवं सुस्नातस्संयतेन्द्रियः ॥ ॥ ३१ ॥
एवम् पक्षौ स्थितौ द्वौ तु समासात् सुरसुंदरि ॥ शुचिः भूत्वा स्मरन् देवम् सु स्नातः संयत-इन्द्रियः ॥ ॥ ३१ ॥
evam pakṣau sthitau dvau tu samāsāt surasuṃdari .. śuciḥ bhūtvā smaran devam su snātaḥ saṃyata-indriyaḥ .. .. 31 ..
हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ॥ गंधैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ॥ ३२॥
हस्तौ प्रक्षाल्य दुग्धेन अलक्तकेन विमर्दयेत् ॥ गंधैः पुष्पैः करौ कृत्वा मृगयेत् च शुभ-अशुभम् ॥ ३२॥
hastau prakṣālya dugdhena alaktakena vimardayet .. gaṃdhaiḥ puṣpaiḥ karau kṛtvā mṛgayet ca śubha-aśubham .. 32..
कनिष्ठामादितः कृत्वा यावदंगुष्ठकं प्रिये ॥ पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ॥ ३३॥
कनिष्ठाम् आदितस् कृत्वा यावत् अंगुष्ठकम् प्रिये ॥ पर्व-त्रय-क्रमेण एव हस्तयोः उभयोः अपि ॥ ३३॥
kaniṣṭhām āditas kṛtvā yāvat aṃguṣṭhakam priye .. parva-traya-krameṇa eva hastayoḥ ubhayoḥ api .. 33..
प्रतिपदादिविन्यस्य तिथिं प्रतिपदादितः ॥ ॥ संपुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ॥ ३४ ॥
प्रतिपद्-आदि-विन्यस्य तिथिम् प्रतिपद्-आदितः ॥ ॥ संपुट-आकार-हस्तौ तु पूर्व-दिङ्मुख-संस्थितः ॥ ३४ ॥
pratipad-ādi-vinyasya tithim pratipad-āditaḥ .. .. saṃpuṭa-ākāra-hastau tu pūrva-diṅmukha-saṃsthitaḥ .. 34 ..
स्मरेन्नवात्मकं मंत्रं यावदष्टोत्तरं शतम् ॥ निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ॥ ३५ ॥
स्मरेत् नव-आत्मकम् मंत्रम् यावत् अष्ट-उत्तरम् शतम् ॥ निरीक्षयेत् ततस् हस्तौ प्रतिपर्वणि यत्नतः ॥ ३५ ॥
smaret nava-ātmakam maṃtram yāvat aṣṭa-uttaram śatam .. nirīkṣayet tatas hastau pratiparvaṇi yatnataḥ .. 35 ..
तस्मिन्पर्वणि सा रेखा दृश्यते भृंगसन्निभा ॥ तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ॥ ३६ ॥
तस्मिन् पर्वणि सा रेखा दृश्यते भृंग-सन्निभा ॥ तद्-तिथौ हि मृतिः ज्ञेया कृष्णे शुक्ले तथा प्रिये ॥ ३६ ॥
tasmin parvaṇi sā rekhā dṛśyate bhṛṃga-sannibhā .. tad-tithau hi mṛtiḥ jñeyā kṛṣṇe śukle tathā priye .. 36 ..
अधुना नादजं वक्ष्ये संक्षेपात्काललक्षणम् ॥ गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ॥ ३७ ॥
अधुना नाद-जम् वक्ष्ये संक्षेपात् काल-लक्षणम् ॥ गम-आगमम् विदित्वा तु कर्म कुर्यात् शृणु प्रिये ॥ ३७ ॥
adhunā nāda-jam vakṣye saṃkṣepāt kāla-lakṣaṇam .. gama-āgamam viditvā tu karma kuryāt śṛṇu priye .. 37 ..
आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ॥ क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ॥ ३८ ॥
आत्म-विज्ञानम् सुश्रोणि चारम् ज्ञात्वा तु यत्नतः ॥ क्षणम् त्रुटिः लवम् च एव निमेषम् काष्ठ-कालिकम् ॥ ३८ ॥
ātma-vijñānam suśroṇi cāram jñātvā tu yatnataḥ .. kṣaṇam truṭiḥ lavam ca eva nimeṣam kāṣṭha-kālikam .. 38 ..
मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ॥ अब्दं युगं तथा कल्पं महाकल्पं तथैव च ॥ ३९ ॥
मुहूर्तकम् तु अहोरात्रम् पक्ष-मास-ऋतु-वत्सरम् ॥ अब्दम् युगम् तथा कल्पम् महाकल्पम् तथा एव च ॥ ३९ ॥
muhūrtakam tu ahorātram pakṣa-māsa-ṛtu-vatsaram .. abdam yugam tathā kalpam mahākalpam tathā eva ca .. 39 ..
एवं स हरते कालः परिपाट्या सदाशिवः ॥ वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ॥ 5.25.४०॥
एवम् स हरते कालः परिपाट्या सदाशिवः ॥ वाम-दक्षिण-मध्ये तु पथि त्रयम् इदम् स्मृतम् ॥ ५।२५।४०॥
evam sa harate kālaḥ paripāṭyā sadāśivaḥ .. vāma-dakṣiṇa-madhye tu pathi trayam idam smṛtam .. 5.25.40..
दिनानि पंच चारभ्य पंचविंशद्दिनावधि ॥ वामाचारगतौ नादः प्रमाणं कथितं तव ॥ ४१॥
दिनानि पंच च आरभ्य पंचविंशत्-दिन-अवधि ॥ वाम-आचार-गतौ नादः प्रमाणम् कथितम् तव ॥ ४१॥
dināni paṃca ca ārabhya paṃcaviṃśat-dina-avadhi .. vāma-ācāra-gatau nādaḥ pramāṇam kathitam tava .. 41..
भूतरंध्रदिशश्चैव ध्वजश्च वरवर्णिनि ॥ वामचारगतौ नादः प्रमाणं कालवेदिनः॥४२॥
भूतरंध्र-दिशः च एव ध्वजः च वरवर्णिनि ॥ वामचार-गतौ नादः प्रमाणम् काल-वेदिनः॥४२॥
bhūtaraṃdhra-diśaḥ ca eva dhvajaḥ ca varavarṇini .. vāmacāra-gatau nādaḥ pramāṇam kāla-vedinaḥ..42..
ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ॥ प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ॥ ४३ ॥
ऋतोः विकार-भूताः च गुणाः तत्र एव भामिनि ॥ प्रमाणम् दक्षिणम् प्रोक्तम् ज्ञातव्यम् प्राण-वेदिभिः ॥ ४३ ॥
ṛtoḥ vikāra-bhūtāḥ ca guṇāḥ tatra eva bhāmini .. pramāṇam dakṣiṇam proktam jñātavyam prāṇa-vedibhiḥ .. 43 ..
भूतसंख्या यदा प्राणान्वहंते च इडादयः ॥ वर्षस्याभ्यंतरे तस्य जीवितं हि न संशयः ॥ ४४ ॥
भूत-संख्या यदा च इडा-आदयः ॥ वर्षस्य अभ्यंतरे तस्य जीवितम् हि न संशयः ॥ ४४ ॥
bhūta-saṃkhyā yadā ca iḍā-ādayaḥ .. varṣasya abhyaṃtare tasya jīvitam hi na saṃśayaḥ .. 44 ..
दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ॥ पंचदशप्रवाहेण ह्यब्दमेकं गतायुषम् ॥ ४५॥
दश-घस्र-प्रवाहेण हि अब्द-मानम् स जीवति ॥ पंचदश-प्रवाहेण हि अब्दम् एकम् गत-आयुषम् ॥ ४५॥
daśa-ghasra-pravāheṇa hi abda-mānam sa jīvati .. paṃcadaśa-pravāheṇa hi abdam ekam gata-āyuṣam .. 45..
विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ॥ पंचविंशद्दिनमितं वहते वामनाडिका ॥ ४६॥
विंशत्-दिन-प्रवाहेण षष्-मासम् लक्षयेत् तदा ॥ पंचविंशत्-दिन-मितम् वहते वाम-नाडिका ॥ ४६॥
viṃśat-dina-pravāheṇa ṣaṣ-māsam lakṣayet tadā .. paṃcaviṃśat-dina-mitam vahate vāma-nāḍikā .. 46..
जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ॥ षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ॥ ४७ ॥
जीवितम् तु तदा तस्य त्रि-मासम् हि गत-आयुषः ॥ षड्विंशत्-दिन-मानेन मास-द्वयम् उदाहृतम् ॥ ४७ ॥
jīvitam tu tadā tasya tri-māsam hi gata-āyuṣaḥ .. ṣaḍviṃśat-dina-mānena māsa-dvayam udāhṛtam .. 47 ..
सप्तविंशद्दिनमितं वहतेत्यतिविश्रमा ॥ मासमेकं समाख्यातं जीवितं वामगोचरे॥४८॥
सप्तविंशत्-दिन-मितम् वहत इति अति विश्रमा ॥ मासम् एकम् समाख्यातम् जीवितम् वाम-गोचरे॥४८॥
saptaviṃśat-dina-mitam vahata iti ati viśramā .. māsam ekam samākhyātam jīvitam vāma-gocare..48..
एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ॥ सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ॥ ४९॥
एतत् प्रमाणम् विज्ञेयम् वाम-वायु-प्रमाणतः ॥ सव्येतरे दिनानि एव चत्वारः च अनुपूर्वशस् ॥ ४९॥
etat pramāṇam vijñeyam vāma-vāyu-pramāṇataḥ .. savyetare dināni eva catvāraḥ ca anupūrvaśas .. 49..
चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ॥ तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः॥।5.25.५०।
चतुर्-स्थाने स्थिताः देवि षोडशा एताः प्रकीर्तिताः ॥ तेषाम् प्रमाणम् वक्ष्यामि साम्प्रतम् हि यथार्थतः॥।५।२५।५०।
catur-sthāne sthitāḥ devi ṣoḍaśā etāḥ prakīrtitāḥ .. teṣām pramāṇam vakṣyāmi sāmpratam hi yathārthataḥ...5.25.50.
षड्दिनान्यादितः कृत्वा संख्यायाश्च यथाविधि ॥ एतदंतर्गते चैव वामरंध्रे प्रकाशितम् ॥ ५१॥
षड् दिनानि आदितस् कृत्वा संख्यायाः च यथाविधि ॥ एतत् अंतर्गते च एव वाम-रंध्रे प्रकाशितम् ॥ ५१॥
ṣaḍ dināni āditas kṛtvā saṃkhyāyāḥ ca yathāvidhi .. etat aṃtargate ca eva vāma-raṃdhre prakāśitam .. 51..
षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ॥ मासानष्टौ विजानीयाद्दिनान्यष्ट च तानि तु ॥ ५२ ॥
षष्-दिनानि यदा रूढम् द्वि-वर्षम् च स जीवति ॥ मासान् अष्टौ विजानीयात् दिनानि अष्ट च तानि तु ॥ ५२ ॥
ṣaṣ-dināni yadā rūḍham dvi-varṣam ca sa jīvati .. māsān aṣṭau vijānīyāt dināni aṣṭa ca tāni tu .. 52 ..
प्राणः सप्तदशे चैव विद्धि वर्षं न संशयः ॥ सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ॥ ५३॥
प्राणः सप्तदशे च एव विद्धि वर्षम् न संशयः ॥ सप्त-मासान् विजानीयात् दिनैः षड्भिः न संशयः ॥ ५३॥
prāṇaḥ saptadaśe ca eva viddhi varṣam na saṃśayaḥ .. sapta-māsān vijānīyāt dinaiḥ ṣaḍbhiḥ na saṃśayaḥ .. 53..
अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ॥ चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधिः॥५४॥
अष्ट-घस्र-प्रभेदेन द्वि-वर्षम् हि स जीवति ॥ चतुर्-मासाः हि विज्ञेयाः चतुर्विंशत्-दिन-अवधिः॥५४॥
aṣṭa-ghasra-prabhedena dvi-varṣam hi sa jīvati .. catur-māsāḥ hi vijñeyāḥ caturviṃśat-dina-avadhiḥ..54..
यदा नवदिनं प्राणा वहंत्येव त्रिमासकम्॥मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः॥५५॥
यदा नव-दिनम् प्राणाः वहंति एव त्रि-मासकम्॥मास-द्वयम् च द्वे मासे दिनाः द्वादश कीर्तिताः॥५५॥
yadā nava-dinam prāṇāḥ vahaṃti eva tri-māsakam..māsa-dvayam ca dve māse dināḥ dvādaśa kīrtitāḥ..55..
पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम्॥अवांतरदिना ये तु तेन मासेन कथ्यते ॥ ५६ ॥
पूर्ववत् कथिताः ये तु कालम् तेषाम् तु पूर्वकम्॥अवांतर-दिनाः ये तु तेन मासेन कथ्यते ॥ ५६ ॥
pūrvavat kathitāḥ ye tu kālam teṣām tu pūrvakam..avāṃtara-dināḥ ye tu tena māsena kathyate .. 56 ..
एकादश प्रवाहेण वर्षमेकं स जीवति ॥ मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ॥ ५७॥
एकादश प्रवाहेण वर्षम् एकम् स जीवति ॥ मासाः नव तथा प्रोक्ताः दिनानि अष्ट-मितानि अपि ॥ ५७॥
ekādaśa pravāheṇa varṣam ekam sa jīvati .. māsāḥ nava tathā proktāḥ dināni aṣṭa-mitāni api .. 57..
द्वादशेन प्रवाहेण वर्षमेकं स जीवति ॥ मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ॥ ५८॥
द्वादशेन प्रवाहेण वर्षम् एकम् स जीवति ॥ मासान् सप्त विजानीयात् षष्-घस्रान् च अपि उदाहरेत् ॥ ५८॥
dvādaśena pravāheṇa varṣam ekam sa jīvati .. māsān sapta vijānīyāt ṣaṣ-ghasrān ca api udāharet .. 58..
नाडी यदा च वहति त्रयोदशदिनावधि ॥ सम्वत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ॥ ५९॥
नाडी यदा च वहति त्रयोदश-दिन-अवधि ॥ सम्वत्सरम् भवेत् तस्य चतुर्-मासाः प्रकीर्तिताः ॥ ५९॥
nāḍī yadā ca vahati trayodaśa-dina-avadhi .. samvatsaram bhavet tasya catur-māsāḥ prakīrtitāḥ .. 59..
चतुर्विशद्दिनं शेषं जीवितं च न संशयः ॥ प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ॥ 5.25.६० ॥
चतुर्विशत्-दिनम् शेषम् जीवितम् च न संशयः ॥ प्राणवाहाः यदा वामे चतुर्द्दश-दिनानि तु ॥ ५।२५।६० ॥
caturviśat-dinam śeṣam jīvitam ca na saṃśayaḥ .. prāṇavāhāḥ yadā vāme caturddaśa-dināni tu .. 5.25.60 ..
सम्वत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ॥ चतुर्विंशद्दिनान्येव जीवितं च न संशयः ॥ ६१ ॥
सम्वत्सरम् भवेत् तस्य मासाः षट् च प्रकीर्तिताः ॥ चतुर्विंशत्-दिनानि एव जीवितम् च न संशयः ॥ ६१ ॥
samvatsaram bhavet tasya māsāḥ ṣaṭ ca prakīrtitāḥ .. caturviṃśat-dināni eva jīvitam ca na saṃśayaḥ .. 61 ..
पंचदशप्रवाहेण नव मासान्स जीवति ॥ चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ॥ ६२॥
पंचदश-प्रवाहेण नव मासान् स जीवति ॥ चतुर्विशत्-दिनानि एव कथितम् काल-वेदिभिः ॥ ६२॥
paṃcadaśa-pravāheṇa nava māsān sa jīvati .. caturviśat-dināni eva kathitam kāla-vedibhiḥ .. 62..
षोडशाहप्रवाहेण दशमासान्स जीवति ॥ चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ॥ ६३ ॥
षोडश-अह-प्रवाहेण दश-मासान् स जीवति ॥ चतुर्विशत्-दिन-आधिक्यम् कथितम् काल-वेदिभिः ॥ ६३ ॥
ṣoḍaśa-aha-pravāheṇa daśa-māsān sa jīvati .. caturviśat-dina-ādhikyam kathitam kāla-vedibhiḥ .. 63 ..
सप्तदशप्रवाहेण नवमासैर्गतायुषम् ॥ अष्टादशदिनान्यत्र कथितं साधकेश्वरि ॥ ६४ ॥
सप्तदश-प्रवाहेण नव-मासैः गत-आयुषम् ॥ अष्टादश-दिनानि अत्र कथितम् साधक-ईश्वरि ॥ ६४ ॥
saptadaśa-pravāheṇa nava-māsaiḥ gata-āyuṣam .. aṣṭādaśa-dināni atra kathitam sādhaka-īśvari .. 64 ..
वामचारं यदा देवि ह्यष्टादशदिनावधिः ॥ जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ॥ ६५ ॥
वामचारम् यदा देवि हि अष्टादश-दिन-अवधिः ॥ जीवितम् च अष्ट-मासम् तु घस्राः द्वादश कीर्तिताः ॥ ६५ ॥
vāmacāram yadā devi hi aṣṭādaśa-dina-avadhiḥ .. jīvitam ca aṣṭa-māsam tu ghasrāḥ dvādaśa kīrtitāḥ .. 65 ..
चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ॥ प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ॥ ६६ ॥
चतुर्विंशत्-दिनानि अत्र निश्चयेन अवधारय ॥ प्राणवाहः यदा देवि त्रयोविंशत्-दिन-अवधिः ॥ ६६ ॥
caturviṃśat-dināni atra niścayena avadhāraya .. prāṇavāhaḥ yadā devi trayoviṃśat-dina-avadhiḥ .. 66 ..
चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ॥ चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति॥ ६७ ॥
चत्वारः कथिताः मासाः षड् दिनानि तथा उत्तरे ॥ चतुर्विंश-प्रवाहेण त्रीन् मासान् च स जीवति॥ ६७ ॥
catvāraḥ kathitāḥ māsāḥ ṣaḍ dināni tathā uttare .. caturviṃśa-pravāheṇa trīn māsān ca sa jīvati.. 67 ..
दिनान्यत्र दशाष्टौ च संहरंत्येव चारतः ॥ अवांतरदिने यस्तु संक्षेपात्ते प्रकीर्तितः ॥ ६८ ॥
दिनानि अत्र दश अष्टौ च संहरंति एव चारतः ॥ अवांतर-दिने यः तु संक्षेपात् ते प्रकीर्तितः ॥ ६८ ॥
dināni atra daśa aṣṭau ca saṃharaṃti eva cārataḥ .. avāṃtara-dine yaḥ tu saṃkṣepāt te prakīrtitaḥ .. 68 ..
वामचारः समाख्यातो दक्षिणं शृणु सांप्रतम् ॥ अष्टाविंशप्रवाहेण तिथिमानेन जीवति ॥ ६९ ॥
वामचारः समाख्यातः दक्षिणम् शृणु सांप्रतम् ॥ अष्टाविंश-प्रवाहेण तिथि-मानेन जीवति ॥ ६९ ॥
vāmacāraḥ samākhyātaḥ dakṣiṇam śṛṇu sāṃpratam .. aṣṭāviṃśa-pravāheṇa tithi-mānena jīvati .. 69 ..
प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ॥ त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते॥ 5.25.७० ॥
प्रवाहेण दश-अहेन तद्-संस्थेन विपद्यते ॥ त्रिंशत्-हस्र-प्रवाहेन पञ्च-अहेन विपद्यते॥ ५।२५।७० ॥
pravāheṇa daśa-ahena tad-saṃsthena vipadyate .. triṃśat-hasra-pravāhena pañca-ahena vipadyate.. 5.25.70 ..
एकत्रिंशद्यदा देवि वहते च निरंतरम् ॥ दिनत्रयं तदा तस्य जीवितं हि न संशयः ॥ ७१॥
एकत्रिंशत् यदा देवि वहते च निरंतरम् ॥ दिन-त्रयम् तदा तस्य जीवितम् हि न संशयः ॥ ७१॥
ekatriṃśat yadā devi vahate ca niraṃtaram .. dina-trayam tadā tasya jīvitam hi na saṃśayaḥ .. 71..
द्वात्रिंशत्प्राणसंख्या च यदा हि वहते रविः ॥ तदा तु जीवितं तस्य द्विदिनं हि न संशयः ॥ ७२॥
द्वात्रिंशत्-प्राण-संख्या च यदा हि वहते रविः ॥ तदा तु जीवितम् तस्य द्वि-दिनम् हि न संशयः ॥ ७२॥
dvātriṃśat-prāṇa-saṃkhyā ca yadā hi vahate raviḥ .. tadā tu jīvitam tasya dvi-dinam hi na saṃśayaḥ .. 72..
दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते॥एकभागगतो वायुप्रवाहो मुखमण्डले॥ ७३॥
दक्षिणः कथितः प्राणः मध्यस्थम् कथयामि ते॥एक-भाग-गतः वायु-प्रवाहः मुख-मण्डले॥ ७३॥
dakṣiṇaḥ kathitaḥ prāṇaḥ madhyastham kathayāmi te..eka-bhāga-gataḥ vāyu-pravāhaḥ mukha-maṇḍale.. 73..
धावमानप्रवाहेण दिनमेकं स जीवति ॥ चक्रमे तत्परासोर्हि पुराविद्भिरुदाहृतम् ॥ ७४ ॥
धावमान-प्रवाहेण दिनम् एकम् स जीवति ॥ चक्रमे तत् परासोः हि पुराविद्भिः उदाहृतम् ॥ ७४ ॥
dhāvamāna-pravāheṇa dinam ekam sa jīvati .. cakrame tat parāsoḥ hi purāvidbhiḥ udāhṛtam .. 74 ..
एतत्ते कथितं देवि कालचक्रं गतायुषः ॥ लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ॥ ७५ ॥
एतत् ते कथितम् देवि कालचक्रम् गत-आयुषः ॥ लोकानाम् च हित-अर्थाय किम् अन्यत् श्रोतुम् इच्छसि ॥ ७५ ॥
etat te kathitam devi kālacakram gata-āyuṣaḥ .. lokānām ca hita-arthāya kim anyat śrotum icchasi .. 75 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कालज्ञानवर्णनं नाम पंचविंशोऽध्यायः॥२५॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् कालज्ञानवर्णनम् नाम पंचविंशः अध्यायः॥२५॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām kālajñānavarṇanam nāma paṃcaviṃśaḥ adhyāyaḥ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In