| |
|

This overlay will guide you through the buttons:

देव्युवाच ।।
कथितं तु त्वया देव कालज्ञानं यथार्थतः ॥ कालस्य वंचनं ब्रूहि यथा तत्त्वेन योगिनः ॥ १ ॥
कथितम् तु त्वया देव काल-ज्ञानम् यथार्थतः ॥ कालस्य वंचनम् ब्रूहि यथा तत्त्वेन योगिनः ॥ १ ॥
kathitam tu tvayā deva kāla-jñānam yathārthataḥ .. kālasya vaṃcanam brūhi yathā tattvena yoginaḥ .. 1 ..
कालस्तु सन्निकृष्टो हि वर्तते सर्वजंतुषु ॥ यथा चास्य न मृत्युश्च वंचते कालमागतम् ॥ २ ॥
कालः तु सन्निकृष्टः हि वर्तते सर्व-जंतुषु ॥ यथा च अस्य न मृत्युः च वंचते कालम् आगतम् ॥ २ ॥
kālaḥ tu sannikṛṣṭaḥ hi vartate sarva-jaṃtuṣu .. yathā ca asya na mṛtyuḥ ca vaṃcate kālam āgatam .. 2 ..
तथा कथय मे देव प्रीतिं कृत्वा ममोपरि ॥ योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद ॥ ३ ॥
तथा कथय मे देव प्रीतिम् कृत्वा मम उपरि ॥ योगिनाम् च हिताय त्वम् ब्रूहि सर्व-सुख-प्रद ॥ ३ ॥
tathā kathaya me deva prītim kṛtvā mama upari .. yoginām ca hitāya tvam brūhi sarva-sukha-prada .. 3 ..
।। शंकर उवाच ।।
शृणु देवि प्रवक्ष्यामि पृष्टोहं यत्त्वया शिवे ॥ समासेन च सर्वेषां मानुषाणां हितार्थतः ॥ ४ ॥
शृणु देवि प्रवक्ष्यामि पृष्टः हम् यत् त्वया शिवे ॥ समासेन च सर्वेषाम् मानुषाणाम् हित-अर्थतः ॥ ४ ॥
śṛṇu devi pravakṣyāmi pṛṣṭaḥ ham yat tvayā śive .. samāsena ca sarveṣām mānuṣāṇām hita-arthataḥ .. 4 ..
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ एतेषां हि समायोगः शरीरं पांचभौतिकम् ॥ ५ ॥
पृथिवी अपः तथा तेजः वायुः आकाशम् एव च ॥ एतेषाम् हि समायोगः शरीरम् पांचभौतिकम् ॥ ५ ॥
pṛthivī apaḥ tathā tejaḥ vāyuḥ ākāśam eva ca .. eteṣām hi samāyogaḥ śarīram pāṃcabhautikam .. 5 ..
आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः॥आकाशे तु विलीयंते संभवंति पुनस्ततः ॥ ६ ॥
आकाशः तु ततस् व्यापी सर्वेषाम् सर्व-गः स्थितः॥आकाशे तु विलीयंते संभवंति पुनर् ततस् ॥ ६ ॥
ākāśaḥ tu tatas vyāpī sarveṣām sarva-gaḥ sthitaḥ..ākāśe tu vilīyaṃte saṃbhavaṃti punar tatas .. 6 ..
वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे ॥ तस्या स्थिरता चास्ति सन्निपातस्य सुंदरि ॥ ७ ॥
वियोगे तु सदा कस्य स्वम् धाम प्रतिपेदिरे ॥ स्थिर-ता च अस्ति सन्निपातस्य सुंदरि ॥ ७ ॥
viyoge tu sadā kasya svam dhāma pratipedire .. sthira-tā ca asti sannipātasya suṃdari .. 7 ..
ज्ञानिनोऽपि तथा तत्र तपोमंत्रबलादपि ॥ ते सर्वे सुविजानंति सर्वमेतन्न संशयः ॥ ८॥
ज्ञानिनः अपि तथा तत्र तपः-मंत्र-बलात् अपि ॥ ते सर्वे सु विजानंति सर्वम् एतत् न संशयः ॥ ८॥
jñāninaḥ api tathā tatra tapaḥ-maṃtra-balāt api .. te sarve su vijānaṃti sarvam etat na saṃśayaḥ .. 8..
देव्युवाच ।।
खं तेन यन्नश्यति घोररूपः कालः करालस्त्रिदिवैकनाथः ॥ दग्धस्त्वया त्वं पुनरेव तुष्टः स्तोत्रै स्तुतः स्वां प्रकृतिं स लेभे ॥ ९॥
खम् तेन यत् नश्यति घोर-रूपः कालः करालः त्रिदिव-एक-नाथः ॥ दग्धः त्वया त्वम् पुनर् एव तुष्टः स्तोत्रैः स्तुतः स्वाम् प्रकृतिम् स लेभे ॥ ९॥
kham tena yat naśyati ghora-rūpaḥ kālaḥ karālaḥ tridiva-eka-nāthaḥ .. dagdhaḥ tvayā tvam punar eva tuṣṭaḥ stotraiḥ stutaḥ svām prakṛtim sa lebhe .. 9..
त्वया स चोक्तः कथया जनानामदृष्टरूपः प्रचरिष्यसीति ॥ दृष्टस्त्वया तत्र महाप्रभावः प्रभोर्वरात्ते पुनरुत्थितश्च॥5.26.१०॥
त्वया स च उक्तः कथया जनानाम् अदृष्ट-रूपः प्रचरिष्यसि इति ॥ दृष्टः त्वया तत्र महा-प्रभावः प्रभोः वरात् ते पुनर् उत्थितः च॥५।२६।१०॥
tvayā sa ca uktaḥ kathayā janānām adṛṣṭa-rūpaḥ pracariṣyasi iti .. dṛṣṭaḥ tvayā tatra mahā-prabhāvaḥ prabhoḥ varāt te punar utthitaḥ ca..5.26.10..
तदद्य भोः काल इहास्थि किंचिन्निहन्यते येन वदस्व तन्मे ॥ त्वं योगिवर्यः प्रभुरात्मतंत्रः परोपकारात्ततनुर्महेश ॥ ११ ॥
तत् अद्य भोः काले इह अस्थि किंचिद् निहन्यते येन वदस्व तत् मे ॥ त्वम् योगि-वर्यः प्रभुः आत्मतंत्रः पर-उपकार-आत्त-तनुः महेश ॥ ११ ॥
tat adya bhoḥ kāle iha asthi kiṃcid nihanyate yena vadasva tat me .. tvam yogi-varyaḥ prabhuḥ ātmataṃtraḥ para-upakāra-ātta-tanuḥ maheśa .. 11 ..
शंकर उवाच ।।
न हन्यते देववरैस्तु दैत्यैस्सयक्षरक्षोरगमानुषैश्च ॥ ये योगिनो ध्यानपरास्सदेहा भवंति ते घ्नंति सुखेन कालम् ॥ १२॥
न हन्यते देव-वरैः तु दैत्यैः स यक्ष-रक्ष-उरग-मानुषैः च ॥ ये योगिनः ध्यान-पराः स देहाः भवन्ति ते घ्नंति सुखेन कालम् ॥ १२॥
na hanyate deva-varaiḥ tu daityaiḥ sa yakṣa-rakṣa-uraga-mānuṣaiḥ ca .. ye yoginaḥ dhyāna-parāḥ sa dehāḥ bhavanti te ghnaṃti sukhena kālam .. 12..
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य सत्यं त्वं मे वद कथमसौ हन्यते येन कालः ॥ शम्भुस्तामाह सद्यो हि मकरवदने योगिनो ये क्षिपंति कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ता ॥ १३ ॥
एतत् श्रुत्वा त्रिभुवन-गुरोः प्राह गौरी विहस्य सत्यम् त्वम् मे वद कथम् असौ हन्यते येन कालः ॥ शम्भुः ताम् आह सद्यस् हि मकर-वदने योगिनः ये क्षिपन्ति काल-व्यालम् सकलम् अनघाः तत् शृणुष्व एकचित्ता ॥ १३ ॥
etat śrutvā tribhuvana-guroḥ prāha gaurī vihasya satyam tvam me vada katham asau hanyate yena kālaḥ .. śambhuḥ tām āha sadyas hi makara-vadane yoginaḥ ye kṣipanti kāla-vyālam sakalam anaghāḥ tat śṛṇuṣva ekacittā .. 13 ..
शङ्कर उवाच ।।
पंचभूतात्मको देहस्सदायुक्तस्तु तद्गुणैः ॥ उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः ॥ १४ ॥
पंचभूत-आत्मकः देहः सदा युक्तः तु तद्-गुणैः ॥ उत्पाद्यते वरारोहे तद्-विलीनः हि पार्थिवः ॥ १४ ॥
paṃcabhūta-ātmakaḥ dehaḥ sadā yuktaḥ tu tad-guṇaiḥ .. utpādyate varārohe tad-vilīnaḥ hi pārthivaḥ .. 14 ..
आकाशाज्जायते वायुर्वायोस्तेजश्च जायते ॥ तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत् ॥ १५ ॥
आकाशात् जायते वायुः वायोः तेजः च जायते ॥ तेजसः अम्बु विनिर्द्दिष्टम् तस्मात् हि पृथिवी भवेत् ॥ १५ ॥
ākāśāt jāyate vāyuḥ vāyoḥ tejaḥ ca jāyate .. tejasaḥ ambu vinirddiṣṭam tasmāt hi pṛthivī bhavet .. 15 ..
पृथिव्यादीनि भूतानि गच्छंति क्रमशः परम् ॥ धरा पंचगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः ॥ १६ ॥
पृथिवी-आदीनि भूतानि गच्छन्ति क्रमशस् परम् ॥ धरा पंचगुणा प्रोक्ता हि आपः च एव चतुर्गुणाः ॥ १६ ॥
pṛthivī-ādīni bhūtāni gacchanti kramaśas param .. dharā paṃcaguṇā proktā hi āpaḥ ca eva caturguṇāḥ .. 16 ..
त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च ॥ शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम् ॥ १७ ॥
त्रिगुणम् च तथा तेजः वायुः द्विगुणः एव च ॥ शब्द-एक-गुणम् आकाशम् पृथिवी-आदिषु कीर्तितम् ॥ १७ ॥
triguṇam ca tathā tejaḥ vāyuḥ dviguṇaḥ eva ca .. śabda-eka-guṇam ākāśam pṛthivī-ādiṣu kīrtitam .. 17 ..
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पंचमः ॥ विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते ॥ १८ ॥
शब्दः स्पर्शः च रूपम् च रसः गन्धः च पंचमः ॥ विजहाति गुणम् स्वम् स्वम् तदा भूतम् विपद्यते ॥ १८ ॥
śabdaḥ sparśaḥ ca rūpam ca rasaḥ gandhaḥ ca paṃcamaḥ .. vijahāti guṇam svam svam tadā bhūtam vipadyate .. 18 ..
तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते ॥ एवं जानीहि देवेशि पंचभूतानि तत्त्वतः ॥ १९ ॥
तदा गुणम् विगृह्णाति प्रादुर्भूतम् तत् उच्यते ॥ एवम् जानीहि देवेशि पंचभूतानि तत्त्वतः ॥ १९ ॥
tadā guṇam vigṛhṇāti prādurbhūtam tat ucyate .. evam jānīhi deveśi paṃcabhūtāni tattvataḥ .. 19 ..
तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः ॥ चिंतनीयाः प्रयत्नेन देवि कालजिगीषुणा ॥ 5.26.२०॥
तस्मात् हि योगिना नित्यम् स्व-स्व-काल-इंऽश-जाः गुणाः ॥ चिंतनीयाः प्रयत्नेन देवि काल-जिगीषुणा ॥ ५।२६।२०॥
tasmāt hi yoginā nityam sva-sva-kāla-iṃ'śa-jāḥ guṇāḥ .. ciṃtanīyāḥ prayatnena devi kāla-jigīṣuṇā .. 5.26.20..
देव्युवाच ।।
कथं जेजीय्यते कालो योगिभिर्योगवित्प्रभो ॥ ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे ॥ २३॥।
कथम् कालः योगिभिः योग-विद् प्रभो ॥ ध्यानेन च अथ मन्त्रेण तत् सर्वम् कथयस्व मे ॥ २३॥।
katham kālaḥ yogibhiḥ yoga-vid prabho .. dhyānena ca atha mantreṇa tat sarvam kathayasva me .. 23...
शङ्कर उवाच।।
शृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया ॥ परज्ञानप्रकथनं न देयं यस्य कस्यचित् ॥ २२॥
शृणु देवि प्रवक्ष्यामि योगिनाम् हित-काम्यया ॥ पर-ज्ञान-प्रकथनम् न देयम् यस्य कस्यचिद् ॥ २२॥
śṛṇu devi pravakṣyāmi yoginām hita-kāmyayā .. para-jñāna-prakathanam na deyam yasya kasyacid .. 22..
श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते ॥ अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि ॥ २३॥
श्रद्दधानाय दातव्यम् भक्ति-युक्ताय धीमते ॥ अनास्तिकाय शुद्धाय धर्म-नित्याय भामिनि ॥ २३॥
śraddadhānāya dātavyam bhakti-yuktāya dhīmate .. anāstikāya śuddhāya dharma-nityāya bhāmini .. 23..
सुश्वासेन सुशय्यायां योगं युंजीत योगवित् ॥ दीपं विनांधकारे तु प्रजाः सुप्तेषु धारयेत् ॥ २४॥
सु श्वासेन सु शय्यायाम् योगम् युंजीत योग-विद् ॥ दीपम् विना अंधकारे तु प्रजाः सुप्तेषु धारयेत् ॥ २४॥
su śvāsena su śayyāyām yogam yuṃjīta yoga-vid .. dīpam vinā aṃdhakāre tu prajāḥ supteṣu dhārayet .. 24..
तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम्॥तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः ॥ २५ ॥
तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम्॥तस्मात् संश्रूयते शब्दः तुदन् वह्नि-समुद्भवः ॥ २५ ॥
tarjanyā pihitau karṇau pīḍayitvā muhūrttakam..tasmāt saṃśrūyate śabdaḥ tudan vahni-samudbhavaḥ .. 25 ..
सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि ॥ सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून् ॥ २६ ॥
सन्ध्यातः भुक्तम् एवम् हि च अवसन्नम् क्षणात् अपि ॥ सर्व-रोगान् निहत्य आशु ज्वर-उपद्रवकान् बहून् ॥ २६ ॥
sandhyātaḥ bhuktam evam hi ca avasannam kṣaṇāt api .. sarva-rogān nihatya āśu jvara-upadravakān bahūn .. 26 ..
यश्चोपलक्षयेन्नित्यैराकारं घटिकाद्वयम्॥जित्वा मृत्युं तथा कामं स्वेच्छया पर्य्यटेदिह ॥ २७॥
यः च उपलक्षयेत् नित्यैः आकारम् घटिका-द्वयम्॥जित्वा मृत्युम् तथा कामम् स्व-इच्छया पर्यटेत् इह ॥ २७॥
yaḥ ca upalakṣayet nityaiḥ ākāram ghaṭikā-dvayam..jitvā mṛtyum tathā kāmam sva-icchayā paryaṭet iha .. 27..
सर्वज्ञस्सर्वदर्शी च सर्वसिद्धिमवाप्नुयात्॥यथा नदति खेऽब्दो हि प्रावृडद्भिस्सुसंयतः ॥ २८॥
सर्वज्ञः सर्व-दर्शी च सर्व-सिद्धिम् अवाप्नुयात्॥यथा नदति खे अब्दः हि प्रावृडद्भिः सु संयतः ॥ २८॥
sarvajñaḥ sarva-darśī ca sarva-siddhim avāpnuyāt..yathā nadati khe abdaḥ hi prāvṛḍadbhiḥ su saṃyataḥ .. 28..
तं श्रुत्वा मुच्यते योगी सद्यः संसारबन्धनात्॥ततस्स योगिभिर्न्नित्यं सूक्ष्मात्सूक्ष्मतरो भवेत्॥२९॥
तम् श्रुत्वा मुच्यते योगी सद्यस् संसार-बन्धनात्॥ततस् स योगिभिः न् इत्यम् सूक्ष्मात् सूक्ष्मतरः भवेत्॥२९॥
tam śrutvā mucyate yogī sadyas saṃsāra-bandhanāt..tatas sa yogibhiḥ n ityam sūkṣmāt sūkṣmataraḥ bhavet..29..
एष ते कथितो देवि शब्दब्रह्मविधिक्रमः ॥ पलालमिव धान्यार्थी त्यजेद्बन्धमशेषतः॥5.26.३०॥
एष ते कथितः देवि शब्दब्रह्म-विधि-क्रमः ॥ पलालम् इव धान्य-अर्थी त्यजेत् बन्धम् अशेषतस्॥५।२६।३०॥
eṣa te kathitaḥ devi śabdabrahma-vidhi-kramaḥ .. palālam iva dhānya-arthī tyajet bandham aśeṣatas..5.26.30..
शब्दब्रह्मत्विदं प्राप्य ये केचिदन्यकांक्षिणः ॥ घ्नंति ते मुष्टिनाकाशं कामयंते क्षुधां तृषाम् ॥ ३१॥
शब्दब्रह्म-त्व-इदम् प्राप्य ये केचिद् अन्य-कांक्षिणः ॥ घ्नंति ते मुष्टिना आकाशम् कामयंते क्षुधाम् तृषाम् ॥ ३१॥
śabdabrahma-tva-idam prāpya ye kecid anya-kāṃkṣiṇaḥ .. ghnaṃti te muṣṭinā ākāśam kāmayaṃte kṣudhām tṛṣām .. 31..
ज्ञात्वा परमिदं ब्रह्म सुखदं मुक्तिकारणम्॥अवाह्यमक्षरं चैव सर्वोपाधिविवर्जितम् ॥ ३२ ॥
ज्ञात्वा परम् इदम् ब्रह्म सुख-दम् मुक्ति-कारणम्॥अवाह्यम् अक्षरम् च एव सर्व-उपाधि-विवर्जितम् ॥ ३२ ॥
jñātvā param idam brahma sukha-dam mukti-kāraṇam..avāhyam akṣaram ca eva sarva-upādhi-vivarjitam .. 32 ..
मोहिताः कालपाशेन मृत्युपाशवशंगताः ॥ शब्दब्रह्म न जानंति पापिनस्ते कुबुद्धयः॥३३॥
मोहिताः काल-पाशेन मृत्यु-पाश-वशंगताः ॥ शब्दब्रह्म न जानंति पापिनः ते कु बुद्धयः॥३३॥
mohitāḥ kāla-pāśena mṛtyu-pāśa-vaśaṃgatāḥ .. śabdabrahma na jānaṃti pāpinaḥ te ku buddhayaḥ..33..
तावद्भवंति संसारे यावद्धाम न विंदते ॥ विदिते तु परे तत्त्वे मुच्यते जन्मबन्धनात् ॥ ३४॥
तावत् भवन्ति संसारे यावत् धाम न विंदते ॥ विदिते तु परे तत्त्वे मुच्यते जन्म-बन्धनात् ॥ ३४॥
tāvat bhavanti saṃsāre yāvat dhāma na viṃdate .. vidite tu pare tattve mucyate janma-bandhanāt .. 34..
निद्रालस्यं महा विघ्नं जित्वा शत्रुं प्रयत्नतः॥सुखासने स्थितो नित्यं शब्दब्रह्माभ्यसन्निति ॥ ३५॥
निद्रा-आलस्यम् महा-विघ्नम् जित्वा शत्रुम् प्रयत्नतः॥सुख-आसने स्थितः नित्यम् शब्दब्रह्म अभ्यसन् इति ॥ ३५॥
nidrā-ālasyam mahā-vighnam jitvā śatrum prayatnataḥ..sukha-āsane sthitaḥ nityam śabdabrahma abhyasan iti .. 35..
शतवृद्धः पुमांल्लब्ध्वा यावदायुस्समभ्यसेत् ॥ मृत्युञ्जयवपुस्तम्भ आरोग्यं वायुवर्द्धनम् ॥ ३६॥
शत-वृद्धः पुमान् लब्ध्वा यावदायुस् समभ्यसेत् ॥ मृत्युञ्जय-वपु-स्तम्भः आरोग्यम् वायु-वर्द्धनम् ॥ ३६॥
śata-vṛddhaḥ pumān labdhvā yāvadāyus samabhyaset .. mṛtyuñjaya-vapu-stambhaḥ ārogyam vāyu-varddhanam .. 36..
प्रत्ययो दृश्यते वृद्धे किं पुनस्तरुणे जने॥न चोंकारो न मन्त्रोपि नैव बीजं न चाक्षरम् ॥ ३७॥
प्रत्ययः दृश्यते वृद्धे किम् पुनर् तरुणे जने॥न च ओंकारः न मन्त्रः अपि ना एव बीजम् न च अक्षरम् ॥ ३७॥
pratyayaḥ dṛśyate vṛddhe kim punar taruṇe jane..na ca oṃkāraḥ na mantraḥ api nā eva bījam na ca akṣaram .. 37..
अनाहतमनुच्चार्य्यं शब्दब्रह्म शिवं परम् ॥ ध्यायन्ते देवि सततं सुधिया यत्नतः प्रिये ॥ ३८ ॥
अनाहतम् अनुच्चार्यम् शब्दब्रह्म शिवम् परम् ॥ ध्यायन्ते देवि सततम् सुधिया यत्नतः प्रिये ॥ ३८ ॥
anāhatam anuccāryam śabdabrahma śivam param .. dhyāyante devi satatam sudhiyā yatnataḥ priye .. 38 ..
तस्माच्छब्दा नव प्रोक्ताः प्राणविद्भिस्तु लक्षिताः ॥ तान्प्रवक्ष्यामि यत्नेन नादसिद्धिमनुक्रमात् ॥ ३९॥
तस्मात् शब्दाः नव प्रोक्ताः प्राण-विद्भिः तु लक्षिताः ॥ तान् प्रवक्ष्यामि यत्नेन नाद-सिद्धिम् अनुक्रमात् ॥ ३९॥
tasmāt śabdāḥ nava proktāḥ prāṇa-vidbhiḥ tu lakṣitāḥ .. tān pravakṣyāmi yatnena nāda-siddhim anukramāt .. 39..
घोषं १ कांस्यं २ तथा शृंगं ३ घण्टां ४ वीणा ५ दिवंशजान् ६ ॥ दुन्दुभिं ७ शंखशब्दं ८ तु नवमं मेघगर्जितम् ९ ॥ 5.26.४० ॥
घोषम् कांस्यम् तथा शृंगम् घण्टाम् वीणा-दि-वंश-जान् ॥ दुन्दुभिम् शंख-शब्दम् तु नवमम् मेघ-गर्जितम् ॥ ५।२६।४० ॥
ghoṣam kāṃsyam tathā śṛṃgam ghaṇṭām vīṇā-di-vaṃśa-jān .. dundubhim śaṃkha-śabdam tu navamam megha-garjitam .. 5.26.40 ..
नव शब्दान्परित्यज्य तुंकारं तु समभ्यसेत् ॥ ध्यायन्नेवं सदा योगी पुण्यैः पापैर्न लिप्यते ॥ ४१ ।
नव शब्दान् परित्यज्य तुंकारम् तु समभ्यसेत् ॥ ध्यायन् एवम् सदा योगी पुण्यैः पापैः न लिप्यते ॥ ४१ ।
nava śabdān parityajya tuṃkāram tu samabhyaset .. dhyāyan evam sadā yogī puṇyaiḥ pāpaiḥ na lipyate .. 41 .
न शृणोति यदा शृण्वन्योगाभ्यासेन देविके ॥ म्रियतेभ्यसमानस्तु योगी तिष्ठेद्दिवानिशम् ॥ ४२ ॥
न शृणोति यदा शृण्वन् योग-अभ्यासेन देविके ॥ योगी तिष्ठेत् दिवानिशम् ॥ ४२ ॥
na śṛṇoti yadā śṛṇvan yoga-abhyāsena devike .. yogī tiṣṭhet divāniśam .. 42 ..
तस्मादुत्पद्यते शब्दो मृ त्सप्तभिर्दिनैः ॥ स वै नवविधो देवि तं ब्रवीमि यथार्थतः ॥ ४३ ॥
तस्मात् उत्पद्यते शब्दः मृ सप्तभिः दिनैः ॥ स वै नवविधः देवि तम् ब्रवीमि यथार्थतः ॥ ४३ ॥
tasmāt utpadyate śabdaḥ mṛ saptabhiḥ dinaiḥ .. sa vai navavidhaḥ devi tam bravīmi yathārthataḥ .. 43 ..
प्रथमं नदते घोषमात्मशुद्धिकरं परम् ॥ सर्वव्याधिहरं नादं वश्याकर्षणमुत्तमम् ॥ ४४ ॥
प्रथमम् नदते घोषम् आत्म-शुद्धि-करम् परम् ॥ सर्व-व्याधि-हरम् नादम् वश्या-आकर्षणम् उत्तमम् ॥ ४४ ॥
prathamam nadate ghoṣam ātma-śuddhi-karam param .. sarva-vyādhi-haram nādam vaśyā-ākarṣaṇam uttamam .. 44 ..
द्वितीयं नादते कांस्यस्तम्भयेत्प्राणिनां गतिम् ॥ विषभूतग्रहान्सर्वान्बध्नीयान्नात्र संशयः ॥ ४५ ॥
द्वितीयम् न अदते कांस्य-स्तम्भयेत् प्राणिनाम् गतिम् ॥ विष-भूत-ग्रहान् सर्वान् बध्नीयात् न अत्र संशयः ॥ ४५ ॥
dvitīyam na adate kāṃsya-stambhayet prāṇinām gatim .. viṣa-bhūta-grahān sarvān badhnīyāt na atra saṃśayaḥ .. 45 ..
तृतीयं नादते शृंगमभिचारि नियोजयेत् ॥ विद्विडुच्चाटने शत्रोर्मारणे च प्रयोजयेत्॥४६॥
तृतीयम् न अदते शृंगम् अभिचारि नियोजयेत् ॥ विद्विष्-उच्चाटने शत्रोः मारणे च प्रयोजयेत्॥४६॥
tṛtīyam na adate śṛṃgam abhicāri niyojayet .. vidviṣ-uccāṭane śatroḥ māraṇe ca prayojayet..46..
घंटानादं चतुर्थ तु वदते परमेश्वरः ॥ आकर्षस्सर्वदेवानां किं पुनर्मानुषा भुवि॥४७॥
घंटा-नादम् तु वदते परमेश्वरः ॥ आकर्षः सर्व-देवानाम् किम् पुनर् मानुषाः भुवि॥४७॥
ghaṃṭā-nādam tu vadate parameśvaraḥ .. ākarṣaḥ sarva-devānām kim punar mānuṣāḥ bhuvi..47..
यक्षगन्धर्वकन्याश्च तस्याकृष्टा ददंति हि ॥ यथेप्सितां महासिद्धिं योगिने कामतोऽपि वा ॥ ४८॥
यक्ष-गन्धर्व-कन्याः च तस्य आकृष्टाः ददंति हि ॥ यथा ईप्सिताम् महा-सिद्धिम् योगिने कामतः अपि वा ॥ ४८॥
yakṣa-gandharva-kanyāḥ ca tasya ākṛṣṭāḥ dadaṃti hi .. yathā īpsitām mahā-siddhim yogine kāmataḥ api vā .. 48..
वीणा तु पंचमो नादः श्रूयते योगिभिस्सदा॥तस्मादुत्पद्यते देवि दूरादर्शनमेव हि ॥ ४९ ॥
वीणा तु पंचमः नादः श्रूयते योगिभिः सदा॥तस्मात् उत्पद्यते देवि दूर-अदर्शनम् एव हि ॥ ४९ ॥
vīṇā tu paṃcamaḥ nādaḥ śrūyate yogibhiḥ sadā..tasmāt utpadyate devi dūra-adarśanam eva hi .. 49 ..
ध्यायतो वंशनादं तु सर्वतत्त्वं प्रजायते ॥ दुन्दुभिं ध्यायमानस्तु जरामृत्युविवर्जितः ॥ 5.26.५०॥
ध्यायतः वंश-नादम् तु सर्व-तत्त्वम् प्रजायते ॥ दुन्दुभिम् ध्यायमानः तु जरा-मृत्यु-विवर्जितः ॥ ५।२६।५०॥
dhyāyataḥ vaṃśa-nādam tu sarva-tattvam prajāyate .. dundubhim dhyāyamānaḥ tu jarā-mṛtyu-vivarjitaḥ .. 5.26.50..
शंखशब्देन देवेशि कामरूपं प्रपद्यते ॥ योगिनो मेघनादेन न विपत्संगमो भवेत् ॥ ५१॥
शंख-शब्देन देवेशि कामरूपम् प्रपद्यते ॥ योगिनः मेघनादेन न विपद्-संगमः भवेत् ॥ ५१॥
śaṃkha-śabdena deveśi kāmarūpam prapadyate .. yoginaḥ meghanādena na vipad-saṃgamaḥ bhavet .. 51..
यश्चैकमनसा नित्यं तुंकारं ब्रह्मरूपिणम् ॥ किमसाध्यं न तस्यापि यथामति वरानने ॥ ५२॥
यः च एक-मनसा नित्यम् तुंकारम् ब्रह्म-रूपिणम् ॥ किम् असाध्यम् न तस्य अपि यथामति वरानने ॥ ५२॥
yaḥ ca eka-manasā nityam tuṃkāram brahma-rūpiṇam .. kim asādhyam na tasya api yathāmati varānane .. 52..
सर्वज्ञस्सर्वदर्शी च कामरूपी व्रजत्यसौ ॥ न विकारैः प्रयुज्येत शिव एव न संशयः ॥ ५३ ॥
सर्वज्ञः सर्व-दर्शी च कामरूपी व्रजति असौ ॥ न विकारैः प्रयुज्येत शिवः एव न संशयः ॥ ५३ ॥
sarvajñaḥ sarva-darśī ca kāmarūpī vrajati asau .. na vikāraiḥ prayujyeta śivaḥ eva na saṃśayaḥ .. 53 ..
एतत्ते परमेशानि शब्दब्रह्मस्वरूपकम् ॥ नवधा सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ५४ ॥
एतत् ते परमेशानि शब्दब्रह्म-स्वरूपकम् ॥ नवधा सर्वम् आख्यातम् किम् भूयस् श्रोतुम् इच्छसि ॥ ५४ ॥
etat te parameśāni śabdabrahma-svarūpakam .. navadhā sarvam ākhyātam kim bhūyas śrotum icchasi .. 54 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् कालवंचनवर्णनम् नाम षड्विंशः अध्यायः ॥ २६ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām kālavaṃcanavarṇanam nāma ṣaḍviṃśaḥ adhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In