| |
|

This overlay will guide you through the buttons:

देव्युवाच ।।
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ॥ तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ॥ १ ॥
वायोः तु पदम् आप्नोति योग-आकाश-समुद्भवम् ॥ तत् मे सर्वम् समाचक्ष्व प्रसन्नः त्वम् यदि प्रभो ॥ १ ॥
vāyoḥ tu padam āpnoti yoga-ākāśa-samudbhavam .. tat me sarvam samācakṣva prasannaḥ tvam yadi prabho .. 1 ..
।। शंकर उवाच ।।
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ॥ कालं जिगाय यस्सम्यग्वायोर्लिंगं यथा भवेत् ॥ २ ॥
पुरा मे सर्वम् आख्यातम् योगिनाम् हित-काम्यया ॥ कालम् जिगाय यः सम्यक् वायोः लिंगम् यथा भवेत् ॥ २ ॥
purā me sarvam ākhyātam yoginām hita-kāmyayā .. kālam jigāya yaḥ samyak vāyoḥ liṃgam yathā bhavet .. 2 ..
तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ॥ स जयत्यागतं कालं मासार्द्धेनैव सुंदरि ॥ । ३ ॥
तेन ज्ञात्वा दिनम् योगी प्राणायाम-परः स्थितः ॥ स जयति आगतम् कालम् मास-अर्द्धेन एव सुंदरि ॥ । ३ ॥
tena jñātvā dinam yogī prāṇāyāma-paraḥ sthitaḥ .. sa jayati āgatam kālam māsa-arddhena eva suṃdari .. . 3 ..
हृत्स्थो वायुस्सदा वह्नेर्दीपकस्सोऽनुपावकः ॥ स बाह्याभ्यंतरो व्यापी वायुस्सर्वगतो महान् ॥ ४ ॥
हृद्-स्थः वायुः सदा वह्नेः दीपकः सः अनुपावकः ॥ स बाह्य-अभ्यंतरः व्यापी वायुः सर्व-गतः महान् ॥ ४ ॥
hṛd-sthaḥ vāyuḥ sadā vahneḥ dīpakaḥ saḥ anupāvakaḥ .. sa bāhya-abhyaṃtaraḥ vyāpī vāyuḥ sarva-gataḥ mahān .. 4 ..
ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ॥ येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ॥ ५ ॥
ज्ञान-विज्ञानम् उत्साहः सर्वम् वायोः प्रवर्तते ॥ येन इह निर्जितः वायुः तेन सर्वम् इदम् जगत् ॥ ५ ॥
jñāna-vijñānam utsāhaḥ sarvam vāyoḥ pravartate .. yena iha nirjitaḥ vāyuḥ tena sarvam idam jagat .. 5 ..
धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ॥ योगी योगरतः सम्यग्धारणाध्यानतत्परः ॥ ६ ॥
धारणायाम् सदा तिष्ठेत् जरा-मृत्यु-जिघांसया ॥ योगी योग-रतः सम्यक् धारणा-ध्यान-तत्परः ॥ ६ ॥
dhāraṇāyām sadā tiṣṭhet jarā-mṛtyu-jighāṃsayā .. yogī yoga-rataḥ samyak dhāraṇā-dhyāna-tatparaḥ .. 6 ..
लोहकारो यथा भस्त्रामापूर्य्य मुखतो मुने ॥ साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ॥ ७ ॥
लोहकारः यथा भस्त्राम् आपूर्य्य मुखतः मुने ॥ साधयेत् वायुना कर्म तद्वत् योगी समभ्यसेत् ॥ ७ ॥
lohakāraḥ yathā bhastrām āpūryya mukhataḥ mune .. sādhayet vāyunā karma tadvat yogī samabhyaset .. 7 ..
देवस्सहस्रके नेत्रपादहस्तसहस्रकः ॥ ग्रंथीन्हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशांगुलम् ॥ ८ ॥
देवः सहस्रके नेत्र-पाद-हस्त-सहस्रकः ॥ ग्रंथीन् हि सर्वम् आवृत्य सः अग्रे तिष्ठेत् दश-अंगुलम् ॥ ८ ॥
devaḥ sahasrake netra-pāda-hasta-sahasrakaḥ .. graṃthīn hi sarvam āvṛtya saḥ agre tiṣṭhet daśa-aṃgulam .. 8 ..
गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकाम् ॥ त्रिवारमायतप्राणाः प्राणायामस्स उच्यते ॥ ९॥
गायत्रीम् शिरसा सार्द्धम् जपेत् व्याहृति-पूर्विकाम् ॥ त्रि-वारम् आयत-प्राणाः प्राणायामः सः उच्यते ॥ ९॥
gāyatrīm śirasā sārddham japet vyāhṛti-pūrvikām .. tri-vāram āyata-prāṇāḥ prāṇāyāmaḥ saḥ ucyate .. 9..
गतागता निवर्तंते चन्द्रसूर्यादयो ग्रहाः ॥ अद्यापि न निवर्तंते योगध्यानपरायणाः ॥ 5.27.१० ॥
गत-आगताः निवर्तन्ते चन्द्र-सूर्य-आदयः ग्रहाः ॥ अद्य अपि न निवर्तंते योग-ध्यान-परायणाः ॥ ५।२७।१० ॥
gata-āgatāḥ nivartante candra-sūrya-ādayaḥ grahāḥ .. adya api na nivartaṃte yoga-dhyāna-parāyaṇāḥ .. 5.27.10 ..
शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद्द्विजः ॥ तदाप्नोति फलं देवि विप्राणां धारणैकया ॥ ११ ॥
शतम् अब्दम् तपः तप्त्वा कुश-अग्र-आपः पिबेत् द्विजः ॥ तत् आप्नोति फलम् देवि विप्राणाम् धारणा-एकया ॥ ११ ॥
śatam abdam tapaḥ taptvā kuśa-agra-āpaḥ pibet dvijaḥ .. tat āpnoti phalam devi viprāṇām dhāraṇā-ekayā .. 11 ..
यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ॥ सर्वं पापं निहंत्याशु ब्रह्मलोकं स गच्छति ॥ १२॥
यः द्विजः कल्यम् उत्थाय प्राणायाम-एकम् आचरेत् ॥ सर्वम् पापम् निहंति आशु ब्रह्म-लोकम् स गच्छति ॥ १२॥
yaḥ dvijaḥ kalyam utthāya prāṇāyāma-ekam ācaret .. sarvam pāpam nihaṃti āśu brahma-lokam sa gacchati .. 12..
योऽतंद्रितस्सदैकांते प्रणायामपरो भवेत् ॥ जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ॥ १३ ॥
यः अतंद्रितः सदा एकान्ते प्रणायाम-परः भवेत् ॥ जराम् मृत्युम् विनिर्जित्य वायु-गः खेचरी इति सः ॥ १३ ॥
yaḥ ataṃdritaḥ sadā ekānte praṇāyāma-paraḥ bhavet .. jarām mṛtyum vinirjitya vāyu-gaḥ khecarī iti saḥ .. 13 ..
सिद्धस्य भजते रूपं कांतिं मेधां पराक्रमम् ॥ शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ॥ १४ ॥
सिद्धस्य भजते रूपम् कांतिम् मेधाम् पराक्रमम् ॥ शौर्यम् वायु-समः गत्या सौख्यम् श्लाघ्यम् परम् सुखम् ॥ १४ ॥
siddhasya bhajate rūpam kāṃtim medhām parākramam .. śauryam vāyu-samaḥ gatyā saukhyam ślāghyam param sukham .. 14 ..
एतत्कथितमशेषं वायोस्सिद्धिं यदाप्नुते योगी ॥ यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ॥ १५ ॥
एतत् कथितम् अशेषम् वायोः सिद्धिम् यत् आप्नुते योगी ॥ यत् तेजसः अपि लभते तत् ते वक्ष्यामि देवेशि ॥ १५ ॥
etat kathitam aśeṣam vāyoḥ siddhim yat āpnute yogī .. yat tejasaḥ api labhate tat te vakṣyāmi deveśi .. 15 ..
स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ॥ शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ॥ १६ ॥
स्थित्वा सुख-आसने स्वे शेते जन-वचन-हीने तु ॥ शशिः अ वियुतया तेजः प्रकाशयन् मध्यमे देशे ॥ १६ ॥
sthitvā sukha-āsane sve śete jana-vacana-hīne tu .. śaśiḥ a viyutayā tejaḥ prakāśayan madhyame deśe .. 16 ..
वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतंद्रितो योगी ॥ दीपहीनध्वांत पश्येन्न्यूनमसंशयं लोके ॥ १७ ॥
वह्नि-गतम् भ्रू-मध्ये प्रकाशते यः तु अतंद्रितः योगी ॥ दीप-हीन-ध्वांत पश्येत् न्यूनम् असंशयम् लोके ॥ १७ ॥
vahni-gatam bhrū-madhye prakāśate yaḥ tu ataṃdritaḥ yogī .. dīpa-hīna-dhvāṃta paśyet nyūnam asaṃśayam loke .. 17 ..
नेत्रे करशाखाभिः किंचित्संपीड्य यत्नतो योगी ॥ तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमेकभावोऽपि ॥ १८ ॥
नेत्रे करशाखाभिः किंचिद् संपीड्य यत्नतः योगी ॥ तारम् पश्यन् ध्यायेत् मुहूर्तम् अर्द्धम् तम् एक-भावः अपि ॥ १८ ॥
netre karaśākhābhiḥ kiṃcid saṃpīḍya yatnataḥ yogī .. tāram paśyan dhyāyet muhūrtam arddham tam eka-bhāvaḥ api .. 18 ..
ततस्तु तमसि ध्यायन्पश्यते ज्योतिरैश्वरम्॥श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ॥ १९॥
ततस् तु तमसि ध्यायन् पश्यते ज्योतिः ऐश्वरम्॥श्वेतम् रक्तम् तथा पीतम् कृष्णम् इन्द्रधनुः-प्रभम् ॥ १९॥
tatas tu tamasi dhyāyan paśyate jyotiḥ aiśvaram..śvetam raktam tathā pītam kṛṣṇam indradhanuḥ-prabham .. 19..
भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम्॥तं विदित्वा तु कामांगी क्रीडते कामरूपधृक् ॥ 5.27.२० ॥
भुवोः मध्ये ललाट-स्थम् बाल-अर्क-सम-तेजसम्॥तम् विदित्वा तु काम-अंगी क्रीडते काम-रूपधृक् ॥ ५।२७।२० ॥
bhuvoḥ madhye lalāṭa-stham bāla-arka-sama-tejasam..tam viditvā tu kāma-aṃgī krīḍate kāma-rūpadhṛk .. 5.27.20 ..
कारणप्रशमावेशं परकायप्रवेशनम् ॥ अणिमादिगुणावाप्तिर्मनसा चावलोकनम्॥२१॥
कारण-प्रशम-आवेशम् परकाय-प्रवेशनम् ॥ अणिम-आदि-गुण-अवाप्तिः मनसा च अवलोकनम्॥२१॥
kāraṇa-praśama-āveśam parakāya-praveśanam .. aṇima-ādi-guṇa-avāptiḥ manasā ca avalokanam..21..
दूरश्रवण विज्ञानमदृश्यं बहुरूपधृक् ॥ सतताभ्यासयोगेन खेचरत्वं प्रजायते ॥ २२ ॥
दूर-श्रवण विज्ञानम् अदृश्यम् बहु-रूपधृक् ॥ सतत-अभ्यास-योगेन खेचर-त्वम् प्रजायते ॥ २२ ॥
dūra-śravaṇa vijñānam adṛśyam bahu-rūpadhṛk .. satata-abhyāsa-yogena khecara-tvam prajāyate .. 22 ..
श्रुताध्ययनसंपन्ना नानाशास्त्रविशारदाः॥ज्ञानिनोऽपि विमुह्यंते पूर्वकर्मवशानुगाः ॥ २३ ॥
श्रुत-अध्ययन-संपन्नाः नाना शास्त्र-विशारदाः॥ज्ञानिनः अपि विमुह्यंते पूर्व-कर्म-वश-अनुगाः ॥ २३ ॥
śruta-adhyayana-saṃpannāḥ nānā śāstra-viśāradāḥ..jñāninaḥ api vimuhyaṃte pūrva-karma-vaśa-anugāḥ .. 23 ..
पश्यंतोऽपि न पश्यंति शृण्वाना बधिरा यथा ॥ यथांधा मानुषा लोके मूढाः पापविमोहिताः ॥ २४ ॥
पश्यंतः अपि न पश्यंति शृण्वानाः बधिराः यथा ॥ यथा अंधाः मानुषाः लोके मूढाः पाप-विमोहिताः ॥ २४ ॥
paśyaṃtaḥ api na paśyaṃti śṛṇvānāḥ badhirāḥ yathā .. yathā aṃdhāḥ mānuṣāḥ loke mūḍhāḥ pāpa-vimohitāḥ .. 24 ..
वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ॥ तमेव विदित्वातिमृत्युमेति नान्यः पंथा विद्यते प्रायणायः ॥ २५ ॥
वेद अहम् एतम् पुरुषम् महांतम् आदित्य-वर्णम् तमसः परस्तात् ॥ तम् एव विदित्वा अतिमृत्युम् एति न अन्यः पंथाः विद्यते प्रायणायः ॥ २५ ॥
veda aham etam puruṣam mahāṃtam āditya-varṇam tamasaḥ parastāt .. tam eva viditvā atimṛtyum eti na anyaḥ paṃthāḥ vidyate prāyaṇāyaḥ .. 25 ..
एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ॥ कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ॥ २६॥
एष ते कथितः सम्यक् तेजसः विधिः उत्तमः ॥ कालम् जित्वा यथा योगी च अमर-त्वम् प्रपद्यते ॥ २६॥
eṣa te kathitaḥ samyak tejasaḥ vidhiḥ uttamaḥ .. kālam jitvā yathā yogī ca amara-tvam prapadyate .. 26..
पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ॥ सावधानतया देवि शृणुष्वैकाग्रमानसा ॥ २७ ॥
पुनर् परतरम् वक्ष्ये यथा मृत्युः न जायते ॥ सावधान-तया देवि शृणुष्व एकाग्र-मानसा ॥ २७ ॥
punar parataram vakṣye yathā mṛtyuḥ na jāyate .. sāvadhāna-tayā devi śṛṇuṣva ekāgra-mānasā .. 27 ..
तुरीया देवि भूतानां योगिनां ध्यानिनां तथा ॥ सुखासने यथास्थानं योगी नियतमानसः ॥ २८॥
तुरीया देवि भूतानाम् योगिनाम् ध्यानिनाम् तथा ॥ सुख-आसने यथास्थानम् योगी नियत-मानसः ॥ २८॥
turīyā devi bhūtānām yoginām dhyāninām tathā .. sukha-āsane yathāsthānam yogī niyata-mānasaḥ .. 28..
समुन्नतशरीरोऽपि स बद्ध्वा करसंपुटम् ॥ चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैश्शनैः ॥ २९॥
समुन्नत-शरीरः अपि स बद्ध्वा कर-संपुटम् ॥ चञ्चु-आकारेण वक्त्रेण पिबन् वायुम् शनैस् शनैस् ॥ २९॥
samunnata-śarīraḥ api sa baddhvā kara-saṃpuṭam .. cañcu-ākāreṇa vaktreṇa piban vāyum śanais śanais .. 29..
प्रस्रवंति क्षणादापस्तालुस्था जीवदायिकाः ॥ ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम् ॥ ३८॥
प्रस्रवन्ति क्षणात् आपः तालु-स्थाः जीव-दायिकाः ॥ ताः जिघ्रेत् वायुना आदाय अमृतम् तत् शीतलम् जलम् ॥ ३८॥
prasravanti kṣaṇāt āpaḥ tālu-sthāḥ jīva-dāyikāḥ .. tāḥ jighret vāyunā ādāya amṛtam tat śītalam jalam .. 38..
पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ॥ दिव्यकायो महातेजाः पिपासा क्षुद्विवर्जितः ॥ ३१ ॥
पिबन् अनुदिनम् योगी न मृत्यु-वशगः भवेत् ॥ दिव्य-कायः महा-तेजाः पिपासा क्षुध्-विवर्जितः ॥ ३१ ॥
piban anudinam yogī na mṛtyu-vaśagaḥ bhavet .. divya-kāyaḥ mahā-tejāḥ pipāsā kṣudh-vivarjitaḥ .. 31 ..
बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णस्सुश्रुतिस्तु दूरात् ॥ आकुंचिताकुंडलिकृष्णकेशो गंधर्वविद्याधरतुल्यवर्णः ॥ ३२॥
बलेन नागः तुरगः जवेन दृष्ट्या सुपर्णः सुश्रुतिः तु दूरात् ॥ आकुंचित-आकुंडलि-कृष्ण-केशः गंधर्व-विद्याधर-तुल्य-वर्णः ॥ ३२॥
balena nāgaḥ turagaḥ javena dṛṣṭyā suparṇaḥ suśrutiḥ tu dūrāt .. ākuṃcita-ākuṃḍali-kṛṣṇa-keśaḥ gaṃdharva-vidyādhara-tulya-varṇaḥ .. 32..
जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम्॥एवं चरन् खेचरतां प्रयाति यथेष्टचारी सुखितस्सदैव ॥ ३३ ॥
जीवेत् नरः वर्ष-शतम् सुराणाम् सुमेधसा वाक्पतिना सम-त्वम्॥एवम् चरन् खेचर-ताम् प्रयाति यथा इष्ट-चारी सुखितः सदा एव ॥ ३३ ॥
jīvet naraḥ varṣa-śatam surāṇām sumedhasā vākpatinā sama-tvam..evam caran khecara-tām prayāti yathā iṣṭa-cārī sukhitaḥ sadā eva .. 33 ..
पुनरन्यत्प्रवक्ष्णमि विधानं यत्सुरैरपि ॥ गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ॥ ३४ ॥
पुनर् अन्यत् विधानम् यत् सुरैः अपि ॥ गोपितम् तु प्रयत्नेन तत् शृणुष्व वरानने ॥ ३४ ॥
punar anyat vidhānam yat suraiḥ api .. gopitam tu prayatnena tat śṛṇuṣva varānane .. 34 ..
समाकुंच्याभ्यसेद्योगी रसनां तालुकं प्रति ॥ किंचित्कालांतरेणैव क्रमात्प्राप्नोति लंबिकाम्॥३५॥
समाकुंच्य अभ्यसेत् योगी रसनाम् तालुकम् प्रति ॥ किंचिद् काल-अंतरेण एव क्रमात् प्राप्नोति लंबिकाम्॥३५॥
samākuṃcya abhyaset yogī rasanām tālukam prati .. kiṃcid kāla-aṃtareṇa eva kramāt prāpnoti laṃbikām..35..
ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ॥ पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ॥ ३६ ॥
ततस् प्रस्रवते सा तु संस्पृष्टा शीतलाम् सुधाम् ॥ पिबन् एव सदा योगी सः अमर-त्वम् हि गच्छति ॥ ३६ ॥
tatas prasravate sā tu saṃspṛṣṭā śītalām sudhām .. piban eva sadā yogī saḥ amara-tvam hi gacchati .. 36 ..
रेफाग्रं लंबकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दोस्तेनाकृष्टा सुधेयं पतति परपदे देवतानंदकारी ॥ सारं संसारतारं कृतकलुषतरं कालतारं सतारं येनेदं प्लावितांगं स भवति न मृतः क्षुत्पिपासाविहीनः॥३७॥
रेफ-अग्रम् लंबक-अग्रम् कर-तल-घटनम् शुभ्र-पद्मस्य बिन्दोः तेन आकृष्टा सुधा इयम् पतति पर-पदे देवता-आनंद-कारी ॥ सारम् संसार-तारम् कृत-कलुषतरम् काल-तारम् स तारम् येन इदम् प्लावित-अंगम् स भवति न मृतः क्षुध्-पिपासा-विहीनः॥३७॥
repha-agram laṃbaka-agram kara-tala-ghaṭanam śubhra-padmasya bindoḥ tena ākṛṣṭā sudhā iyam patati para-pade devatā-ānaṃda-kārī .. sāram saṃsāra-tāram kṛta-kaluṣataram kāla-tāram sa tāram yena idam plāvita-aṃgam sa bhavati na mṛtaḥ kṣudh-pipāsā-vihīnaḥ..37..
एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्य्यान्नित्यं कुतोऽन्तं सकलमपि जगद्यत्सुखप्रापणाय॥स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ॥ ३८ ॥
एभिः युक्ता चतुर्भिः क्षितिधर-तनये योगिभिः वै धरा एषा धैर्यात् नित्यम् कुतस् अन्तम् सकलम् अपि जगत् यत् सुख-प्रापणाय॥स्वप्ने देही विधत्ते सकलम् अपि सदा मानयन् यत् च दुःखम् स्वर्गे हि एवम् धरित्र्याः प्रभवति च ततस् वा स किञ्चिद् चतुर्णाम् ॥ ३८ ॥
ebhiḥ yuktā caturbhiḥ kṣitidhara-tanaye yogibhiḥ vai dharā eṣā dhairyāt nityam kutas antam sakalam api jagat yat sukha-prāpaṇāya..svapne dehī vidhatte sakalam api sadā mānayan yat ca duḥkham svarge hi evam dharitryāḥ prabhavati ca tatas vā sa kiñcid caturṇām .. 38 ..
तस्मान्मंत्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ॥ भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम् ॥ ३९॥
तस्मात् मंत्रैः तपोभिः व्रत-नियम-युतैः औषधैः योग-युक्ता धात्री रक्ता मनुष्यैः नय-विनय-युतैः धर्म-विद्भिः क्रमेण ॥ भूतानाम् आदि देवः न हि भवति चलः संयुतः वै चतुर्णाम् तस्मात् एवम् प्रवक्ष्ये विधिम् अनुगदितम् छायिकम् यत् शिव-आख्यम् ॥ ३९॥
tasmāt maṃtraiḥ tapobhiḥ vrata-niyama-yutaiḥ auṣadhaiḥ yoga-yuktā dhātrī raktā manuṣyaiḥ naya-vinaya-yutaiḥ dharma-vidbhiḥ krameṇa .. bhūtānām ādi devaḥ na hi bhavati calaḥ saṃyutaḥ vai caturṇām tasmāt evam pravakṣye vidhim anugaditam chāyikam yat śiva-ākhyam .. 39..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः॥२७॥
इति श्री-शिवमहापुराणे पञ्चम्याम् उमासंहितायाम् कालवंचनशिवप्राप्तिवर्णनम् नाम सप्तविंशः अध्यायः॥२७॥
iti śrī-śivamahāpurāṇe pañcamyām umāsaṃhitāyām kālavaṃcanaśivaprāptivarṇanam nāma saptaviṃśaḥ adhyāyaḥ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In