| |
|

This overlay will guide you through the buttons:

देव्युवाच ।।
देवदेव महादेव कथितं कालवंचनम्॥शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम्॥१॥
देवदेव महादेव कथितम् काल-वंचनम्॥शब्दब्रह्म-स्वरूपम् च योग-लक्षणम् उत्तमम्॥१॥
devadeva mahādeva kathitam kāla-vaṃcanam..śabdabrahma-svarūpam ca yoga-lakṣaṇam uttamam..1..
कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम्॥विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥ २ ॥
कथितम् ते समासेन छायिकम् ज्ञानम् उत्तमम्॥विस्तरेण समाख्याहि योगिनाम् हित-काम्यया ॥ २ ॥
kathitam te samāsena chāyikam jñānam uttamam..vistareṇa samākhyāhi yoginām hita-kāmyayā .. 2 ..
।। शंकर उवाच ।।
शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ॥ यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ॥ ३॥
शृणु देवि प्रवक्ष्यामि छायापुरुष-लक्षणम् ॥ यत् ज्ञात्वा पुरुषः सम्यक् सर्व-पापैः प्रमुच्यते ॥ ३॥
śṛṇu devi pravakṣyāmi chāyāpuruṣa-lakṣaṇam .. yat jñātvā puruṣaḥ samyak sarva-pāpaiḥ pramucyate .. 3..
सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ॥ शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः ॥ ४॥
सूर्य्यम् हि पृष्ठतस् कृत्वा सोमम् वा वरवर्णिनि ॥ शुक्ल-अम्बर-धरः स्रग्वी गंध-धूप-आदि-वासितः ॥ ४॥
sūryyam hi pṛṣṭhatas kṛtvā somam vā varavarṇini .. śukla-ambara-dharaḥ sragvī gaṃdha-dhūpa-ādi-vāsitaḥ .. 4..
संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम्॥नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत् ॥ ५ ॥
संस्मरेत् मे महामंत्रम् सर्व-काम-फल-प्रदम्॥नव-आत्मकम् पिंड-भूतम् स्वाम् छायाम् संनिरीक्षयेत् ॥ ५ ॥
saṃsmaret me mahāmaṃtram sarva-kāma-phala-pradam..nava-ātmakam piṃḍa-bhūtam svām chāyām saṃnirīkṣayet .. 5 ..
दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ॥ स पश्यत्येकभावस्तु शिवं परमकारणम्॥६॥
दृष्ट्वा ताम् पुनर् आकाशे श्वेत-वर्ण-स्वरूपिणीम् ॥ स पश्यति एक-भावः तु शिवम् परम-कारणम्॥६॥
dṛṣṭvā tām punar ākāśe śveta-varṇa-svarūpiṇīm .. sa paśyati eka-bhāvaḥ tu śivam parama-kāraṇam..6..
ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ॥ ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७॥
ब्रह्म-प्राप्तिः भवेत् तस्य काल-विद्भिः इति ईरितम् ॥ ब्रह्महत्या-आदिकैः पापैः मुच्यते न अत्र संशयः ॥ ७॥
brahma-prāptiḥ bhavet tasya kāla-vidbhiḥ iti īritam .. brahmahatyā-ādikaiḥ pāpaiḥ mucyate na atra saṃśayaḥ .. 7..
शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः॥समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा॥८॥
शिरः-हीनम् यदा पश्येत् षड्भिः मासैः भवेत् क्षयः॥समस्तम् वाच्-मयम् तस्य योगिनः तु यथा तथा॥८॥
śiraḥ-hīnam yadā paśyet ṣaḍbhiḥ māsaiḥ bhavet kṣayaḥ..samastam vāc-mayam tasya yoginaḥ tu yathā tathā..8..
शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत्॥रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत्॥९॥
शुक्ले धर्मम् विजानीयात् कृष्णे पापम् विनिर्दिशेत्॥रक्ते बंधम् विजानीयात् पीते विद्विषम् आदिशेत्॥९॥
śukle dharmam vijānīyāt kṛṣṇe pāpam vinirdiśet..rakte baṃdham vijānīyāt pīte vidviṣam ādiśet..9..
विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ॥ विकटौ नश्यते भार्य्या विजंघे धनमेव हि ॥ 5.28.१०॥
विवाहः बंधु-नाशः स्यात् द्वि-तुंडे च एव क्षुध्-भयम् ॥ विकटौ नश्यते भार्य्या विजंघे धनम् एव हि ॥ ५।२८।१०॥
vivāhaḥ baṃdhu-nāśaḥ syāt dvi-tuṃḍe ca eva kṣudh-bhayam .. vikaṭau naśyate bhāryyā vijaṃghe dhanam eva hi .. 5.28.10..
पादाभावे विदेशस्स्यादित्येतत्कथितं मया ॥ तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि ॥ ११ ॥
पाद-अभावे विदेशः स्यात् इति एतत् कथितम् मया ॥ तत् विचार्य्यम् प्रयत्त्नेन पुरुषेण महेश्वरि ॥ ११ ॥
pāda-abhāve videśaḥ syāt iti etat kathitam mayā .. tat vicāryyam prayattnena puruṣeṇa maheśvari .. 11 ..
सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ॥ जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि ॥ १२ ॥
सम्यक् तम् पुरुषम् दृष्ट्वा संनिवेश्य आत्मना आत्मनि ॥ जपेत् नव-आत्मकम् मंत्रम् हृदयम् मे महेश्वरि ॥ १२ ॥
samyak tam puruṣam dṛṣṭvā saṃniveśya ātmanā ātmani .. japet nava-ātmakam maṃtram hṛdayam me maheśvari .. 12 ..
वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ॥ अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ॥ १३॥
वत्सरे विगते मंत्री तत् ना अस्ति यत् न साधयेत् ॥ अणिम-आदि-गुणान् अष्टौ खेचर-त्वम् प्रपद्यते ॥ १३॥
vatsare vigate maṃtrī tat nā asti yat na sādhayet .. aṇima-ādi-guṇān aṣṭau khecara-tvam prapadyate .. 13..
पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ॥ प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ॥ १४॥
पुनर् अन्यत् प्रवक्ष्यामि शक्तिम् ज्ञातुम् दुरासदाम् ॥ प्रत्यक्षम् दृश्यते लोके ज्ञानिनाम् अग्रतस् स्थितम् ॥ १४॥
punar anyat pravakṣyāmi śaktim jñātum durāsadām .. pratyakṣam dṛśyate loke jñāninām agratas sthitam .. 14..
अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ॥ सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ॥ १५॥
अज्ञेया लिख्यते लोके या सर्पी-कृत-कुण्डली ॥ सा मात्रा यान-संस्था अपि दृश्यते न च पठ्यते ॥ १५॥
ajñeyā likhyate loke yā sarpī-kṛta-kuṇḍalī .. sā mātrā yāna-saṃsthā api dṛśyate na ca paṭhyate .. 15..
ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ॥ जननी सर्वविद्यानां गुप्तविद्येति गीयते ॥ १६ ॥
ब्रह्माण्ड-मूर्ध्निगा या च स्तुता वेदैः तु नित्यशस् ॥ जननी सर्व-विद्यानाम् गुप्तविद्या इति गीयते ॥ १६ ॥
brahmāṇḍa-mūrdhnigā yā ca stutā vedaiḥ tu nityaśas .. jananī sarva-vidyānām guptavidyā iti gīyate .. 16 ..
खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ॥ दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ॥ १७ ॥
खेचरी सा विनिर्दिष्टा सर्व-प्राणिषु संस्थिता ॥ दृश्य-अदृश्य-अचला नित्या व्यक्ता अव्यक्ता सनातनी ॥ १७ ॥
khecarī sā vinirdiṣṭā sarva-prāṇiṣu saṃsthitā .. dṛśya-adṛśya-acalā nityā vyaktā avyaktā sanātanī .. 17 ..
अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ॥ तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ॥ १८॥
अवर्णा वर्ण-संयुक्ता प्रोच्यते बिंदुमालिनी ॥ ताम् पश्यन् सर्वदा योगी कृतकृत्यः अभिजायते ॥ १८॥
avarṇā varṇa-saṃyuktā procyate biṃdumālinī .. tām paśyan sarvadā yogī kṛtakṛtyaḥ abhijāyate .. 18..
सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम्॥सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा॥१९॥
सर्व-तीर्थ-कृत-स्नानात् भवेत् दानस्य यत् फलम्॥सर्व-यज्ञ-फलम् यत् च मालिन्याः दर्शनात् तदा॥१९॥
sarva-tīrtha-kṛta-snānāt bhavet dānasya yat phalam..sarva-yajña-phalam yat ca mālinyāḥ darśanāt tadā..19..
प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ॥ सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ॥ 5.28.२०॥
प्राप्नोति अत्र न संदेहः सत्यम् वै कथितम् मया ॥ सर्व-तीर्थेषु यत् स्नात्वा दत्त्वा दानानि सर्वशस् ॥ ५।२८।२०॥
prāpnoti atra na saṃdehaḥ satyam vai kathitam mayā .. sarva-tīrtheṣu yat snātvā dattvā dānāni sarvaśas .. 5.28.20..
सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान्॥किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते॥२१॥
सर्वेषाम् देवि यज्ञानाम् यत् फलम् तत् लभेत् पुमान्॥किम् बहु-उक्त्या महेशानि सर्वान् कामान् समश्नुते॥२१॥
sarveṣām devi yajñānām yat phalam tat labhet pumān..kim bahu-uktyā maheśāni sarvān kāmān samaśnute..21..
तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः॥अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते॥२२॥
तस्मात् ज्ञानम् यथायोगम् अभ्यसेत् सततम् बुधः॥अभ्यासात् जायते सिद्धिः योगः अभ्यासात् प्रवर्धते॥२२॥
tasmāt jñānam yathāyogam abhyaset satatam budhaḥ..abhyāsāt jāyate siddhiḥ yogaḥ abhyāsāt pravardhate..22..
संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते॥अभ्यासस्सततं कार्यो धीमता मोक्षकारणम्॥२३॥
संवित्तिः लभ्यते अभ्यासात् अभ्यासात् मोक्षम् अश्नुते॥अभ्यासः सततम् कार्यः धीमता मोक्ष-कारणम्॥२३॥
saṃvittiḥ labhyate abhyāsāt abhyāsāt mokṣam aśnute..abhyāsaḥ satatam kāryaḥ dhīmatā mokṣa-kāraṇam..23..
इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम्॥किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते॥२४॥
इति एतत् कथितम् देवि भुक्ति-मुक्ति-फल-प्रदम्॥किम् अन्यत् पृच्छ्यते तत्त्वम् वद सत्यम् ब्रवीमि ते॥२४॥
iti etat kathitam devi bhukti-mukti-phala-pradam..kim anyat pṛcchyate tattvam vada satyam bravīmi te..24..
सूत उवाच।।
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम्॥प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः॥२५॥
इति श्रुत्वा ब्रह्म-पुत्र-वचनम् परम-अर्थ-दम्॥प्रसन्नः अभूत् अति व्यासः पाराशर्यः मुनि-ईश्वराः॥२५॥
iti śrutvā brahma-putra-vacanam parama-artha-dam..prasannaḥ abhūt ati vyāsaḥ pārāśaryaḥ muni-īśvarāḥ..25..
सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम्॥व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष।२६।
सनत्कुमारम् सर्वज्ञम् ब्रह्म-पुत्रम् कृपा-निधिम्॥व्यासः परम-संतुष्टः प्रणनाम मुहुर् मुहुर् स।२६।
sanatkumāram sarvajñam brahma-putram kṛpā-nidhim..vyāsaḥ parama-saṃtuṣṭaḥ praṇanāma muhur muhur sa.26.
ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः॥सनत्कुमारं मुनयः सुरविज्ञानसागरम्॥२७॥
ततस् तुष्टाव तम् व्यासः कालेयः स मुनि-ईश्वरः॥सनत्कुमारम् मुनयः सुर-विज्ञान-सागरम्॥२७॥
tatas tuṣṭāva tam vyāsaḥ kāleyaḥ sa muni-īśvaraḥ..sanatkumāram munayaḥ sura-vijñāna-sāgaram..27..
व्यास उवाच ।।
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ॥ नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः ॥ २८ ॥
कृतार्थः अहम् मुनि-श्रेष्ठ ब्रह्मत्वम् मे त्वया कृतम् ॥ नमः ते अस्तु नमः ते अतु धन्यः त्वम् ब्रह्म-वित्तमः ॥ २८ ॥
kṛtārthaḥ aham muni-śreṣṭha brahmatvam me tvayā kṛtam .. namaḥ te astu namaḥ te atu dhanyaḥ tvam brahma-vittamaḥ .. 28 ..
सूत उवाच ।।
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ॥ तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः ॥ २९॥
इति स्तुत्वा स कालेयः ब्रह्म-पुत्रम् महा-मुनिम् ॥ तूष्णीम् बभूव सु प्रीतः परम-आनंद-निर्भरः ॥ २९॥
iti stutvā sa kāleyaḥ brahma-putram mahā-munim .. tūṣṇīm babhūva su prītaḥ parama-ānaṃda-nirbharaḥ .. 29..
ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ॥ ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ॥ 5.28.३० ॥
ब्रह्म-पुत्रः तम् आमंत्र्य पूजितः तेन शौनकः ॥ ययौ स्व-धाम सु प्रीतः व्यासः अपि प्रीत-मानसः ॥ ५।२८।३० ॥
brahma-putraḥ tam āmaṃtrya pūjitaḥ tena śaunakaḥ .. yayau sva-dhāma su prītaḥ vyāsaḥ api prīta-mānasaḥ .. 5.28.30 ..
इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ॥ सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः ॥ ३१॥
इति मे वर्णितः विप्राः सुख-दः परम-अर्थ-युज् ॥ सनत्कुमार-कालेय-संवादः ज्ञान-वर्द्धनः ॥ ३१॥
iti me varṇitaḥ viprāḥ sukha-daḥ parama-artha-yuj .. sanatkumāra-kāleya-saṃvādaḥ jñāna-varddhanaḥ .. 31..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् छायापुरुषदर्शनवर्णनम् नाम अष्टाविंशः अध्यायः ॥ २८॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām chāyāpuruṣadarśanavarṇanam nāma aṣṭāviṃśaḥ adhyāyaḥ .. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In