| |
|

This overlay will guide you through the buttons:

शौनक उवाच।।
श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ॥ सनत्कुमारकालेयसंवादं परमार्थदम् ॥ १॥
श्रुतम् मे महत् आख्यानम् यत् त्वया परिकीर्तितम् ॥ सनत्कुमार-कालेय-संवादम् परम-अर्थ-दम् ॥ १॥
śrutam me mahat ākhyānam yat tvayā parikīrtitam .. sanatkumāra-kāleya-saṃvādam parama-artha-dam .. 1..
अतोहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ॥ समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ॥ २॥
अतस् हम् श्रोतुम् इच्छामि यथा सर्गः तु ब्रह्मणः ॥ समुत्पन्नम् तु मे ब्रूहि यथा व्यासात् च ते श्रुतम् ॥ २॥
atas ham śrotum icchāmi yathā sargaḥ tu brahmaṇaḥ .. samutpannam tu me brūhi yathā vyāsāt ca te śrutam .. 2..
सूत उवाच ।।
मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ॥ कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ॥ ३ ॥
मुने शृणु कथाम् दिव्याम् सर्व-पाप-प्रणाशिनीम् ॥ कथ्यमानाम् मया चित्राम् बहु-अर्थाम् श्रुत-विस्तराम् ॥ ३ ॥
mune śṛṇu kathām divyām sarva-pāpa-praṇāśinīm .. kathyamānām mayā citrām bahu-arthām śruta-vistarām .. 3 ..
यश्चैनां पाठयेत्तां च शृणुयाद्वाऽप्यभीक्ष्णशः ॥ स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ ४ ॥
यः च एनाम् पाठयेत् ताम् च शृणुयात् वा अपि अभीक्ष्णशस् ॥ स्व-वंश-धारणम् कृत्वा स्वर्ग-लोके महीयते ॥ ४ ॥
yaḥ ca enām pāṭhayet tām ca śṛṇuyāt vā api abhīkṣṇaśas .. sva-vaṃśa-dhāraṇam kṛtvā svarga-loke mahīyate .. 4 ..
प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ॥ प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ॥ ५ ॥
प्रधानम् पुरुषः यत् तत् नित्यम् सत्-असत्-आत्मकम् ॥ प्रधान-पुरुषः भूत्वा निर्ममे लोक-भावनः ॥ ५ ॥
pradhānam puruṣaḥ yat tat nityam sat-asat-ātmakam .. pradhāna-puruṣaḥ bhūtvā nirmame loka-bhāvanaḥ .. 5 ..
स्रष्टारं सर्वभूतानां नारायणपरायणम् ॥ तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ॥ ६ ॥
स्रष्टारम् सर्व-भूतानाम् नारायण-परायणम् ॥ तम् वै विद्धि मुनि-श्रेष्ठ ब्रह्माणम् अमित-ओजसम् ॥ ६ ॥
sraṣṭāram sarva-bhūtānām nārāyaṇa-parāyaṇam .. tam vai viddhi muni-śreṣṭha brahmāṇam amita-ojasam .. 6 ..
यस्मादकल्पयत्कल्पान्तमग्राश्शुचयो यतः ॥ भवंति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ॥ ७॥
यस्मात् अकल्पयत् कल्प-अन्तम् अग्राः शुचयः यतस् ॥ भवन्ति मुनि-शार्दूल नमः तस्मै स्वयम्भुवे ॥ ७॥
yasmāt akalpayat kalpa-antam agrāḥ śucayaḥ yatas .. bhavanti muni-śārdūla namaḥ tasmai svayambhuve .. 7..
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥ नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ॥ ८॥
तस्मै हिरण्यगर्भाय पुरुषाय ईश्वराय च ॥ नमस्कृत्य प्रवक्ष्यामि भूयस् सर्गम् अनुत्तमम् ॥ ८॥
tasmai hiraṇyagarbhāya puruṣāya īśvarāya ca .. namaskṛtya pravakṣyāmi bhūyas sargam anuttamam .. 8..
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ॥ तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ॥ ९ ॥
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ॥ तस्य सर्गस्य न अन्यः अस्ति काले काले तथा गते ॥ ९ ॥
brahmā sraṣṭā hariḥ pātā saṃhartā ca maheśvaraḥ .. tasya sargasya na anyaḥ asti kāle kāle tathā gate .. 9 ..
सोऽपि स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ॥ अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ 5.29.१०॥
सः अपि स्वयंभूः भगवान् सिसृक्षुः विविधाः प्रजाः ॥ अपः एव ससर्ज आदौ तासु वीर्यम् अवासृजत् ॥ ५।२९।१०॥
saḥ api svayaṃbhūḥ bhagavān sisṛkṣuḥ vividhāḥ prajāḥ .. apaḥ eva sasarja ādau tāsu vīryam avāsṛjat .. 5.29.10..
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ११ ॥
आपः नाराः इति प्रोक्ताः आपः वै नर-सूनवः ॥ अयनम् तस्य ताः पूर्वम् तेन नारायणः स्मृतः ॥ ११ ॥
āpaḥ nārāḥ iti proktāḥ āpaḥ vai nara-sūnavaḥ .. ayanam tasya tāḥ pūrvam tena nārāyaṇaḥ smṛtaḥ .. 11 ..
हिरण्यवर्णमभवत्तदंडमुदकेशयम् ॥ तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति विश्रुतः ॥ १२ ॥
हिरण्य-वर्णम् अभवत् तत् अंडम् उदकेशयम् ॥ तत्र जज्ञे स्वयम् ब्रह्मा स्वयंभूः इति विश्रुतः ॥ १२ ॥
hiraṇya-varṇam abhavat tat aṃḍam udakeśayam .. tatra jajñe svayam brahmā svayaṃbhūḥ iti viśrutaḥ .. 12 ..
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ॥ तदंडमकरोद्द्वैधं दिवं भूमि च निर्ममे ॥ १३ ॥
हिरण्यगर्भः भगवान् उषित्वा परिवत्सरम् ॥ तत् अंडम् अकरोत् द्वैधम् दिवम् भूमि च निर्ममे ॥ १३ ॥
hiraṇyagarbhaḥ bhagavān uṣitvā parivatsaram .. tat aṃḍam akarot dvaidham divam bhūmi ca nirmame .. 13 ..
अधोऽथोर्द्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ॥ तयोश्शकलयोर्मध्य आकाशममृजत्प्रभुः ॥ १४॥
अधस् अथ ऊर्द्ध्वम् प्रयुक्तानि भुवनानि चतुर्द्दश ॥ तयोः शकलयोः मध्ये आकाशम् अमृजत् प्रभुः ॥ १४॥
adhas atha ūrddhvam prayuktāni bhuvanāni caturddaśa .. tayoḥ śakalayoḥ madhye ākāśam amṛjat prabhuḥ .. 14..
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दिवि ॥ तत्र काले मनो वाचं कामक्रोधावथो रतिम्॥१५॥
अप्सु पारिप्लवाम् पृथ्वीम् दिशः च दशधा दिवि ॥ तत्र काले मनः वाचम् काम-क्रोधौ अथो रतिम्॥१५॥
apsu pāriplavām pṛthvīm diśaḥ ca daśadhā divi .. tatra kāle manaḥ vācam kāma-krodhau atho ratim..15..
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम ॥ वसिष्ठं तु महतेजास्सोऽसृजत्सप्त मानसान्॥ १६ ॥
मरीचिम् अत्रि-अंगिरसौ पुलस्त्यम् पुलहम् ॥ वसिष्ठम् तु महा-तेजाः सः असृजत् सप्त मानसान्॥ १६ ॥
marīcim atri-aṃgirasau pulastyam pulaham .. vasiṣṭham tu mahā-tejāḥ saḥ asṛjat sapta mānasān.. 16 ..
सप्त बह्माण इत्येते पुराणे निश्चयं गताः ॥ ततोऽसृजत्पुनर्ब्रह्मा रुद्रान्क्रोधसमुद्भवान् ॥ १७ ॥
सप्त बह्माणः इति एते पुराणे निश्चयम् गताः ॥ ततस् असृजत् पुनर् ब्रह्मा रुद्रान् क्रोध-समुद्भवान् ॥ १७ ॥
sapta bahmāṇaḥ iti ete purāṇe niścayam gatāḥ .. tatas asṛjat punar brahmā rudrān krodha-samudbhavān .. 17 ..
सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् ॥ सप्त चैते प्रजायंते पश्चाद्रुद्राश्च सर्वतः ॥ १८ ॥
सनत्कुमारम् च ऋषिम् सर्वेषाम् अपि पूर्वजम् ॥ सप्त च एते प्रजायंते पश्चात् रुद्राः च सर्वतस् ॥ १८ ॥
sanatkumāram ca ṛṣim sarveṣām api pūrvajam .. sapta ca ete prajāyaṃte paścāt rudrāḥ ca sarvatas .. 18 ..
अतस्सनत्कुमारस्तु तेजस्संक्षिप्य तिष्ठति ॥ तेषां सप्तमहावंशा दिव्या देवर्षिपूजिताः ॥ १९॥
अतस् सनत्कुमारः तु तेजः संक्षिप्य तिष्ठति ॥ तेषाम् सप्त-महा-वंशाः दिव्याः देव-ऋषि-पूजिताः ॥ १९॥
atas sanatkumāraḥ tu tejaḥ saṃkṣipya tiṣṭhati .. teṣām sapta-mahā-vaṃśāḥ divyāḥ deva-ṛṣi-pūjitāḥ .. 19..
प्रजायन्ते क्रियावन्तो महर्षिभिरलंकृताः ॥ विद्युतोऽशनि मेघांश्च रोहितेन्द्रधनूंषि च ॥ 5.29.२०॥
प्रजायन्ते क्रियावन्तः महा-ऋषिभिः अलंकृताः ॥ विद्युतः अशनि मेघान् च रोहित-इन्द्रधनूंषि च ॥ ५।२९।२०॥
prajāyante kriyāvantaḥ mahā-ṛṣibhiḥ alaṃkṛtāḥ .. vidyutaḥ aśani meghān ca rohita-indradhanūṃṣi ca .. 5.29.20..
पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ॥ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ २१ ॥
पयांसि च ससर्ज आदौ पर्जन्यम् च ससर्ज ह ॥ ऋचः यजूंषि सामानि निर्ममे यज्ञ-सिद्धये ॥ २१ ॥
payāṃsi ca sasarja ādau parjanyam ca sasarja ha .. ṛcaḥ yajūṃṣi sāmāni nirmame yajña-siddhaye .. 21 ..
पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम ॥ मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ॥ प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥ २२ ॥
पूज्यान् तैः अयजन् देवान् इति एवम् अनुशुश्रुम ॥ मुखात् देवान् अजनयत् पितॄन् च एव अथ वक्षसः ॥ प्रजनात् च मनुष्यान् वै जघनात् निर्ममे असुरान् ॥ २२ ॥
pūjyān taiḥ ayajan devān iti evam anuśuśruma .. mukhāt devān ajanayat pitṝn ca eva atha vakṣasaḥ .. prajanāt ca manuṣyān vai jaghanāt nirmame asurān .. 22 ..
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ॥ २३॥
उच्चावचानि भूतानि गात्रेभ्यः तस्य जज्ञिरे ॥ आपवस्य प्रजा-सर्गम् सृजतः हि प्रजापतेः ॥ २३॥
uccāvacāni bhūtāni gātrebhyaḥ tasya jajñire .. āpavasya prajā-sargam sṛjataḥ hi prajāpateḥ .. 23..
सृज्यमानाः प्रजाश्चैव नावर्द्धन्त यदा तदा ॥ द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत्॥ २४ ॥
सृज्यमानाः प्रजाः च एव न अवर्द्धन्त यदा तदा ॥ द्विधा कृत्वा आत्मनः देहम् स्त्री च एव पुरुषः अभवत्॥ २४ ॥
sṛjyamānāḥ prajāḥ ca eva na avarddhanta yadā tadā .. dvidhā kṛtvā ātmanaḥ deham strī ca eva puruṣaḥ abhavat.. 24 ..
ससृजेऽथ प्रजास्सर्वा महिम्ना व्याप्य विश्वतः ॥ विराजमसृजद्विष्णुस्स सृष्टः पुरुषो विराट् ॥ २५ ॥
ससृजे अथ प्रजाः सर्वाः महिम्ना व्याप्य विश्वतस् ॥ विराजम् असृजत् विष्णुः स सृष्टः पुरुषः विराज् ॥ २५ ॥
sasṛje atha prajāḥ sarvāḥ mahimnā vyāpya viśvatas .. virājam asṛjat viṣṇuḥ sa sṛṣṭaḥ puruṣaḥ virāj .. 25 ..
द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च ॥ स वैराजः प्रजास्सर्वास्ससर्ज पुरुषः प्रभुः ॥ २६ ॥
द्वितीयम् तम् मनुम् विद्धि मनोः अन्तरम् एव च ॥ स वैराजः प्रजाः सर्वाः ससर्ज पुरुषः प्रभुः ॥ २६ ॥
dvitīyam tam manum viddhi manoḥ antaram eva ca .. sa vairājaḥ prajāḥ sarvāḥ sasarja puruṣaḥ prabhuḥ .. 26 ..
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः ॥ आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः ॥ २७॥
नारायण-विसर्गस्य प्रजाः तस्य अपि अ योनि-जः ॥ आयुष्मान् कीर्तिमान् धन्यः प्रजावान् च अभवत् ततस् ॥ २७॥
nārāyaṇa-visargasya prajāḥ tasya api a yoni-jaḥ .. āyuṣmān kīrtimān dhanyaḥ prajāvān ca abhavat tatas .. 27..
इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम ॥ आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम् ॥ २८ ॥
इति एवमादि-सर्गः ते वर्णितः मुनि-सत्तम ॥ आदिसर्गम् विदित्वा एवम् यथा इष्टाम् प्राप्नुयात् गतिम् ॥ २८ ॥
iti evamādi-sargaḥ te varṇitaḥ muni-sattama .. ādisargam viditvā evam yathā iṣṭām prāpnuyāt gatim .. 28 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामादिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २९॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् आदिसर्गवर्णनम् नाम एकोनत्रिंशः अध्यायः ॥ २९॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām ādisargavarṇanam nāma ekonatriṃśaḥ adhyāyaḥ .. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In