| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य सोब्रवीत्तं महामुनिम्॥विस्मयं परमं गत्वोपमन्युं शांतमानसम् ॥ १ ॥
एतत् श्रुत्वा वचः तस्य सः ब्रवीत् तम् महा-मुनिम्॥विस्मयम् परमम् गत्वा उपमन्युम् शांत-मानसम् ॥ १ ॥
etat śrutvā vacaḥ tasya saḥ bravīt tam mahā-munim..vismayam paramam gatvā upamanyum śāṃta-mānasam .. 1 ..
वासुदेव उवाच ।।
धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती ॥ यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ॥ २ ॥
धन्यः त्वम् असि विप्र-इन्द्र कः त्वाम् स्तोतुम् अलम् कृती ॥ यस्य देव-आदिदेवः ते सान्निध्यम् कुरुते श्रमे ॥ २ ॥
dhanyaḥ tvam asi vipra-indra kaḥ tvām stotum alam kṛtī .. yasya deva-ādidevaḥ te sānnidhyam kurute śrame .. 2 ..
दर्शनं मुनिशार्दूल दद्यात्स भगवाञ्छिवः ॥ अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ । ३ ॥
दर्शनम् मुनि-शार्दूल दद्यात् स भगवान् शिवः ॥ अपि तावत् मम अपि एवम् प्रसादम् वा करोतु असौ । ३ ॥
darśanam muni-śārdūla dadyāt sa bhagavān śivaḥ .. api tāvat mama api evam prasādam vā karotu asau . 3 ..
उपमन्युरुवाच ।।
अचिरेणैव कालेन महादेवं न संशयः ॥ तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ॥ ४ ॥
अचिरेण एव कालेन महादेवम् न संशयः ॥ तस्य एव कृपया त्वम् वै द्रक्ष्यसे पुरुषोत्तम ॥ ४ ॥
acireṇa eva kālena mahādevam na saṃśayaḥ .. tasya eva kṛpayā tvam vai drakṣyase puruṣottama .. 4 ..
षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् ॥ सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ॥ ५॥
षोडशे मासि सुवरान् प्राप्स्यसि त्वम् महेश्वरात् ॥ सपत्नीकात् कथम् नः दास्यते देवः वरान् हरे ॥ ५॥
ṣoḍaśe māsi suvarān prāpsyasi tvam maheśvarāt .. sapatnīkāt katham naḥ dāsyate devaḥ varān hare .. 5..
पूज्योसि दैवतैस्सर्वैः श्लाघनीयस्सदा गुणैः ॥ जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ॥ ६ ॥
पूज्यः असि दैवतैः सर्वैः श्लाघनीयः सदा गुणैः ॥ जाप्यम् ते अहम् प्रवक्ष्यामि श्रद्दधानाय च अच्युत ॥ ६ ॥
pūjyaḥ asi daivataiḥ sarvaiḥ ślāghanīyaḥ sadā guṇaiḥ .. jāpyam te aham pravakṣyāmi śraddadhānāya ca acyuta .. 6 ..
तेन जपप्रभावेण सत्यं द्रक्ष्यसि शंकरम् ॥ आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ॥ ७ ॥
तेन जप-प्रभावेण सत्यम् द्रक्ष्यसि शंकरम् ॥ आत्म-तुल्य-बलम् पुत्रम् लभिष्यसि महेश्वरात् ॥ ७ ॥
tena japa-prabhāveṇa satyam drakṣyasi śaṃkaram .. ātma-tulya-balam putram labhiṣyasi maheśvarāt .. 7 ..
जपो नमश्शिवायेति मंत्रराजमिमं हरे ॥ सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ॥ ८ ॥
जपः नमः शिवाय इति मंत्र-राजम् इमम् हरे ॥ सर्व ॥ ८ ॥
japaḥ namaḥ śivāya iti maṃtra-rājam imam hare .. sarva .. 8 ..
।। सनत्कुमार उवाच ।।
एवं कथयतस्तस्य महादेवाश्रिताः कथाः ॥ दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ॥ ९॥
एवम् कथयतः तस्य महादेव-आश्रिताः कथाः ॥ दिनानि अष्टौ प्रयातानि मुहूर्तम् इव तापस ॥ ९॥
evam kathayataḥ tasya mahādeva-āśritāḥ kathāḥ .. dināni aṣṭau prayātāni muhūrtam iva tāpasa .. 9..
नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ॥ मंत्रमध्यापितं शार्वमाथर्वशिरसं महत् ॥ 5.3.१० ॥
नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ॥ मंत्रम् अध्यापितम् शार्वम् आथर्वशिरसम् महत् ॥ ५।३।१० ॥
navame tu dine prāpte muninā sa ca dīkṣitaḥ .. maṃtram adhyāpitam śārvam ātharvaśirasam mahat .. 5.3.10 ..
जटी मुण्डी च सद्योऽसौ बभूव सुसमाहितः ॥ पादांगुष्ठोद्धृततनुस्तेपे चोर्द्ध्वभुजस्तथा ॥ ११ ॥
जटी मुण्डी च सद्यस् असौ बभूव सु समाहितः ॥ पाद-अंगुष्ठ-उद्धृत-तनुः तेपे च ऊर्द्ध्व-भुजः तथा ॥ ११ ॥
jaṭī muṇḍī ca sadyas asau babhūva su samāhitaḥ .. pāda-aṃguṣṭha-uddhṛta-tanuḥ tepe ca ūrddhva-bhujaḥ tathā .. 11 ..
संप्राप्ते षोडशे मासि संतुष्टः परमेश्वरः ॥ पार्वत्या सहितश्शंभुर्ददौ कृष्णाय दर्शनम् ॥ १२ ॥
संप्राप्ते षोडशे मासि संतुष्टः परमेश्वरः ॥ पार्वत्या सहितः शंभुः ददौ कृष्णाय दर्शनम् ॥ १२ ॥
saṃprāpte ṣoḍaśe māsi saṃtuṣṭaḥ parameśvaraḥ .. pārvatyā sahitaḥ śaṃbhuḥ dadau kṛṣṇāya darśanam .. 12 ..
पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् ॥ ब्रह्माद्यैस्स्तूयमानं तु पूजितं सिद्धकोटिभिः ॥ १३ ॥
पार्वत्या सहितम् देवम् त्रिनेत्रम् चन्द्रशेखरम् ॥ ब्रह्म-आद्यैः स्तूयमानम् तु पूजितम् सिद्ध-कोटिभिः ॥ १३ ॥
pārvatyā sahitam devam trinetram candraśekharam .. brahma-ādyaiḥ stūyamānam tu pūjitam siddha-koṭibhiḥ .. 13 ..
दिव्यमाल्याम्बरधरं भक्तिनम्रैस्सुरासुरैः ॥ प्रणतं च विशेषेण नानाभूषणभूषितम् ॥ १४ ॥
दिव्य-माल्य-अम्बर-धरम् भक्ति-नम्रैः सुर-असुरैः ॥ प्रणतम् च विशेषेण नाना भूषण-भूषितम् ॥ १४ ॥
divya-mālya-ambara-dharam bhakti-namraiḥ sura-asuraiḥ .. praṇatam ca viśeṣeṇa nānā bhūṣaṇa-bhūṣitam .. 14 ..
सर्वाश्चर्यमयं कांतं महेशमजमव्ययम् ॥ नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ॥ १५ ॥
सर्व-आश्चर्य-मयम् कान्तम् महेशम् अजम् अव्ययम् ॥ नाना गण-अन्वितम् तुष्टम् पुत्राभ्याम् संयुतम् प्रभुम् ॥ १५ ॥
sarva-āścarya-mayam kāntam maheśam ajam avyayam .. nānā gaṇa-anvitam tuṣṭam putrābhyām saṃyutam prabhum .. 15 ..
श्रीकृष्णः प्रांजलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥ ईदृशं शंकरं प्रीतः प्रणनाम महोत्सवः ॥ १६ ॥
श्री-कृष्णः प्रांजलिः दृष्ट्वा विस्मय-उत्फुल्ल-लोचनः ॥ ईदृशम् शंकरम् प्रीतः प्रणनाम महा-उत्सवः ॥ १६ ॥
śrī-kṛṣṇaḥ prāṃjaliḥ dṛṣṭvā vismaya-utphulla-locanaḥ .. īdṛśam śaṃkaram prītaḥ praṇanāma mahā-utsavaḥ .. 16 ..
नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा ॥ सहस्रनाम्ना देवेशं तुष्टाव नतकंधरः ॥ १७ ॥
नानाविधैः स्तुति-पदैः वाच्-मयेन अर्चयत् तदा ॥ सहस्र-नाम्ना देवेशम् तुष्टाव नत-कंधरः ॥ १७ ॥
nānāvidhaiḥ stuti-padaiḥ vāc-mayena arcayat tadā .. sahasra-nāmnā deveśam tuṣṭāva nata-kaṃdharaḥ .. 17 ..
ततो देवास्सगंधर्वा विद्याधरमहोरगाः ॥ मुमुचुः पुष्पवृष्टिं च साधुवादान्मनोनुगान् ॥ १८ ॥
ततस् देवाः स गंधर्वाः विद्याधर-महा-उरगाः ॥ मुमुचुः पुष्प-वृष्टिम् च साधुवादान् मनोनुगान् ॥ १८ ॥
tatas devāḥ sa gaṃdharvāḥ vidyādhara-mahā-uragāḥ .. mumucuḥ puṣpa-vṛṣṭim ca sādhuvādān manonugān .. 18 ..
पार्वत्याश्च मुखं दृष्ट्वा भगवान्भक्तवत्सलः ॥ उवाच केशवं तुष्टो रुद्रश्चाथ बिडौजसा ॥ १९ ॥
पार्वत्याः च मुखम् दृष्ट्वा भगवान् भक्त-वत्सलः ॥ उवाच केशवम् तुष्टः रुद्रः च अथ बिडौजसा ॥ १९ ॥
pārvatyāḥ ca mukham dṛṣṭvā bhagavān bhakta-vatsalaḥ .. uvāca keśavam tuṣṭaḥ rudraḥ ca atha biḍaujasā .. 19 ..
श्रीमहादेव उवाच ।।
कृष्णं जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् ॥ वृणीष्व त्वं वरान्मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ॥ 5.3.२० ॥
कृष्णम् जानामि भक्तम् त्वाम् मयि नित्यम् दृढ-व्रतम् ॥ वृणीष्व त्वम् वरान् मत्तः पुण्यान् त्रैलोक्य-दुर्लभान् ॥ ५।३।२० ॥
kṛṣṇam jānāmi bhaktam tvām mayi nityam dṛḍha-vratam .. vṛṇīṣva tvam varān mattaḥ puṇyān trailokya-durlabhān .. 5.3.20 ..
।। सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा कृष्णः प्रांजलिरादरात् ॥ प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ॥ २१ ॥
तस्य तत् वचनम् श्रुत्वा कृष्णः प्रांजलिः आदरात् ॥ प्राह सर्व-ईश्वरम् शम्भुम् सु प्रणम्य पुनर् पुनर् ॥ २१ ॥
tasya tat vacanam śrutvā kṛṣṇaḥ prāṃjaliḥ ādarāt .. prāha sarva-īśvaram śambhum su praṇamya punar punar .. 21 ..
।। कृष्ण उवाच ।।
देवदेव महादेव याचेऽहं ह्युत्तमान्वरान् ॥ त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान्महेश्वर ॥ २२ ॥
देवदेव महादेव याचे अहम् हि उत्तमान् वरान् ॥ त्वत्तः अष्ट-प्रमितात् नाथ त्वया उद्दिष्टात् महेश्वर ॥ २२ ॥
devadeva mahādeva yāce aham hi uttamān varān .. tvattaḥ aṣṭa-pramitāt nātha tvayā uddiṣṭāt maheśvara .. 22 ..
तव धर्म्मे मतिर्नित्यं यशश्चाप्रचलं महत् ॥ त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ॥ २३ ॥
तव धर्म्मे मतिः नित्यम् यशः च अप्रचलम् महत् ॥ त्वद्-सामीप्यम् स्थिरा भक्तिः त्वयि नित्यम् मम अस्तु इति ॥ २३ ॥
tava dharmme matiḥ nityam yaśaḥ ca apracalam mahat .. tvad-sāmīpyam sthirā bhaktiḥ tvayi nityam mama astu iti .. 23 ..
पुत्राणि च दशाद्यानां पुत्राणां मम संतु वै ॥ वध्याश्च रिपवस्सर्वे संग्रामे बलदर्पिताः ॥ २४ ॥
पुत्राणि च दश आद्यानाम् पुत्राणाम् मम संतु वै ॥ वध्याः च रिपवः सर्वे संग्रामे बल-दर्पिताः ॥ २४ ॥
putrāṇi ca daśa ādyānām putrāṇām mama saṃtu vai .. vadhyāḥ ca ripavaḥ sarve saṃgrāme bala-darpitāḥ .. 24 ..
अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो ॥ योगिनामपि सर्वेषां भवेयमतिवल्लभः ॥ २५॥
अपमानः भवेत् ना एव क्वचिद् मे शत्रुतः प्रभो ॥ योगिनाम् अपि सर्वेषाम् भवेयम् अति वल्लभः ॥ २५॥
apamānaḥ bhavet nā eva kvacid me śatrutaḥ prabho .. yoginām api sarveṣām bhaveyam ati vallabhaḥ .. 25..
इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते ॥ सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ॥ २६ ॥
इति अष्टौ सुवरान् देहि देवदेव नमः अस्तु ते ॥ सर्व-ईश्वरः त्वम् एव असि मद्-प्रभुः च विशेषतः ॥ २६ ॥
iti aṣṭau suvarān dehi devadeva namaḥ astu te .. sarva-īśvaraḥ tvam eva asi mad-prabhuḥ ca viśeṣataḥ .. 26 ..
सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा तमाह भगवान्भवः ॥ सर्वं भविष्यतीत्येवं पुनस्स प्राह शूलधृक् ॥ २७ ॥
तस्य तत् वचनम् श्रुत्वा तम् आह भगवान् भवः ॥ सर्वम् भविष्यति इति एवम् पुनर् स प्राह शूलधृक् ॥ २७ ॥
tasya tat vacanam śrutvā tam āha bhagavān bhavaḥ .. sarvam bhaviṣyati iti evam punar sa prāha śūladhṛk .. 27 ..
साम्बो नाम महावीर्यः पुत्रस्ते भविता बली॥घोरसंवर्तकादित्यश्शप्तो मुनिभिरेव च ॥ २८॥
साम्बः नाम महा-वीर्यः पुत्रः ते भविता बली॥घोर-संवर्तक-आदित्यः शप्तः मुनिभिः एव च ॥ २८॥
sāmbaḥ nāma mahā-vīryaḥ putraḥ te bhavitā balī..ghora-saṃvartaka-ādityaḥ śaptaḥ munibhiḥ eva ca .. 28..
मानुषो भवितासीति स ते पुत्रो भवि ष्यति ॥ यद्यच्च प्रार्थितं किंचित्तत्सर्वं च लभस्व वै ॥ २९ ॥
मानुषः भवितासि इति स ते पुत्रः भवि स्यति ॥ यत् यत् च प्रार्थितम् किंचिद् तत् सर्वम् च लभस्व वै ॥ २९ ॥
mānuṣaḥ bhavitāsi iti sa te putraḥ bhavi syati .. yat yat ca prārthitam kiṃcid tat sarvam ca labhasva vai .. 29 ..
सनत्कुमार उवाच ।।
एवं लब्ध्वा वरान्सर्वाञ्छ्रीकृष्णः परमेश्वरात् ॥ नानाविधाभिर्बह्वीभिस्स्तुतिभिस्समतोषयत् ॥ 5.3.३०॥
एवम् लब्ध्वा वरान् सर्वान् श्री-कृष्णः परमेश्वरात् ॥ नानाविधाभिः बह्वीभिः स्तुतिभिः समतोषयत् ॥ ५।३।३०॥
evam labdhvā varān sarvān śrī-kṛṣṇaḥ parameśvarāt .. nānāvidhābhiḥ bahvībhiḥ stutibhiḥ samatoṣayat .. 5.3.30..
तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला॥वासुदेवं महात्मानं शंभुभक्तं तपस्विनम् ॥ ३१ ॥
तम् आह अथ शिवा तुष्टा पार्वती भक्त-वत्सला॥वासुदेवम् महात्मानम् शंभु-भक्तम् तपस्विनम् ॥ ३१ ॥
tam āha atha śivā tuṣṭā pārvatī bhakta-vatsalā..vāsudevam mahātmānam śaṃbhu-bhaktam tapasvinam .. 31 ..
।। पार्वत्युवाच ।।
वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ ॥ गृहाण मत्तश्च वरान्मनोज्ञान्भुवि दुर्लभान् ॥ ३२॥
वासुदेव महाबुद्धे कृष्ण तुष्टा अस्मि ते अनघ ॥ गृहाण मत्तः च वरान् मनोज्ञान् भुवि दुर्लभान् ॥ ३२॥
vāsudeva mahābuddhe kṛṣṇa tuṣṭā asmi te anagha .. gṛhāṇa mattaḥ ca varān manojñān bhuvi durlabhān .. 32..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्याः पार्वत्यास्स यदूद्वहः ॥ उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा ॥ ३३ ॥
इति आकर्ण्य वचः तस्याः पार्वत्याः स यदु-उद्वहः ॥ उवाच सु प्रसन्न-आत्मा भक्ति-युक्तेन चेतसा ॥ ३३ ॥
iti ākarṇya vacaḥ tasyāḥ pārvatyāḥ sa yadu-udvahaḥ .. uvāca su prasanna-ātmā bhakti-yuktena cetasā .. 33 ..
श्रीकृष्ण उवाच ।।
देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे ॥ तपसाऽनेन सत्येन ब्राह्मणान्प्रति मास्मभूत् ॥ ३४॥
देवि त्वम् परितुष्टा असि चेद् ददासि वरान् हि मे ॥ तपसा अनेन सत्येन ब्राह्मणान् प्रति मा अस्मभूत् ॥ ३४॥
devi tvam parituṣṭā asi ced dadāsi varān hi me .. tapasā anena satyena brāhmaṇān prati mā asmabhūt .. 34..
द्वेषः कदाचिद्भद्रं पूजयेयं द्विजान्सदा ॥ तुष्टौ च मातापितरौ भवेतां मम सर्वदा ॥ ३५॥
द्वेषः कदाचिद् भद्रम् पूजयेयम् द्विजान् सदा ॥ तुष्टौ च माता-पितरौ भवेताम् मम सर्वदा ॥ ३५॥
dveṣaḥ kadācid bhadram pūjayeyam dvijān sadā .. tuṣṭau ca mātā-pitarau bhavetām mama sarvadā .. 35..
सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः॥कुले प्रभृति रुचिता ममास्तु तव दर्शनात् ॥ ३६॥
सर्व-भूतेषु आनुकूल्यम् भजेयम् यत्र तत्रगः॥कुले प्रभृति रुचिता मम अस्तु तव दर्शनात् ॥ ३६॥
sarva-bhūteṣu ānukūlyam bhajeyam yatra tatragaḥ..kule prabhṛti rucitā mama astu tava darśanāt .. 36..
तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु ॥ यतीनामतिथीनां च सहस्राण्यथ सर्वदा ॥ ३७ ॥ ।
तर्पयेयम् सुर-इन्द्र-आदीन् देवान् यज्ञ-शतेन तु ॥ यतीनाम् अतिथीनाम् च सहस्राणि अथ सर्वदा ॥ ३७ ॥ ।
tarpayeyam sura-indra-ādīn devān yajña-śatena tu .. yatīnām atithīnām ca sahasrāṇi atha sarvadā .. 37 .. .
भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् ॥ बांधवैस्सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः ॥ ३८ ॥
भोजयेयम् सदा गेहे श्रद्धा-पूतम् तु भोजनम् ॥ बांधवैः सह प्रीतिः तु नित्यम् अस्तु सु निर्वृतिः ॥ ३८ ॥
bhojayeyam sadā gehe śraddhā-pūtam tu bhojanam .. bāṃdhavaiḥ saha prītiḥ tu nityam astu su nirvṛtiḥ .. 38 ..
देवि भार्य्यासहस्राणां भवेयं प्राणवल्लभः ॥ अक्षीणा काम्यता तासु प्रसादात्तव शांकरि ॥ ३९ ॥
देवि भार्य्या-सहस्राणाम् भवेयम् प्राण-वल्लभः ॥ अक्षीणा काम्य-ता तासु प्रसादात् तव शांकरि ॥ ३९ ॥
devi bhāryyā-sahasrāṇām bhaveyam prāṇa-vallabhaḥ .. akṣīṇā kāmya-tā tāsu prasādāt tava śāṃkari .. 39 ..
आसां च पितरो लोके भवेयुः सत्यावादिनः ॥ इत्याद्याः सुवरास्संतु प्रसादात्तव पार्वति ॥ 5.3.४० ॥
आसाम् च पितरः लोके भवेयुः सत्या-वादिनः ॥ इत्याद्याः सुवराः संतु प्रसादात् तव पार्वति ॥ ५।३।४० ॥
āsām ca pitaraḥ loke bhaveyuḥ satyā-vādinaḥ .. ityādyāḥ suvarāḥ saṃtu prasādāt tava pārvati .. 5.3.40 ..
।। सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता ॥ एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा ॥ ४१ ॥
तस्य तत् वचनम् श्रुत्वा देवी तम् च आह विस्मिता ॥ एवम् अस्तु इति भद्रम् ते शाश्वती सर्व-काम-दा ॥ ४१ ॥
tasya tat vacanam śrutvā devī tam ca āha vismitā .. evam astu iti bhadram te śāśvatī sarva-kāma-dā .. 41 ..
तस्मिंस्तांश्च वरान्दत्त्वा पार्वतीपरमेश्वरौ ॥ तत्रैवांतश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ॥ ४२ ॥
तस्मिन् तान् च वरान् दत्त्वा पार्वती-परमेश्वरौ ॥ तत्र एव अन्तर् च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ॥ ४२ ॥
tasmin tān ca varān dattvā pārvatī-parameśvarau .. tatra eva antar ca dadhatuḥ kṛtvā kṛṣṇasya satkṛpām .. 42 ..
कृष्णः कृतार्थमात्मानममन्यत मुनीश्वरः ॥ उपमन्योर्मुनराशु प्रापाश्रममनुत्तमम् ॥ ४३ ॥
कृष्णः कृतार्थम् आत्मानम् अमन्यत मुनि-ईश्वरः ॥ उपमन्योः मुनर् आशु प्राप आश्रमम् अनुत्तमम् ॥ ४३ ॥
kṛṣṇaḥ kṛtārtham ātmānam amanyata muni-īśvaraḥ .. upamanyoḥ munar āśu prāpa āśramam anuttamam .. 43 ..
प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः ॥ तया वृत्तं च तस्मै तत्समाचष्टोपमन्यवे ॥ ४४॥
प्रणम्य शिरसा तत्र तम् मुनिम् केशि-हा ततस् ॥ तया वृत्तम् च तस्मै तत् समाचष्ट उपमन्यवे ॥ ४४॥
praṇamya śirasā tatra tam munim keśi-hā tatas .. tayā vṛttam ca tasmai tat samācaṣṭa upamanyave .. 44..
स च तं प्राह कोऽन्यस्स्याच्छर्वाद्देवाज्जनार्द्दन ॥ महादानपतिर्लोके क्रोधे वाऽतीव दुस्सहः । ४५ ॥
स च तम् प्राह कः अन्यः स्यात् शर्वात् देवात् जनार्द्दन ॥ महा-दानपतिः लोके क्रोधे वा अतीव दुस्सहः । ४५ ॥
sa ca tam prāha kaḥ anyaḥ syāt śarvāt devāt janārddana .. mahā-dānapatiḥ loke krodhe vā atīva dussahaḥ . 45 ..
ज्ञाने तपसि वा शौर्य्ये स्थैर्य्ये वा पद एव च ॥ शृणु शंभोस्तु गोविन्द देवैश्वर्य्यं महायशाः ॥ ४६ ॥
ज्ञाने तपसि वा शौर्य्ये स्थैर्ये वा पदे एव च ॥ शृणु शंभोः तु गोविन्द देव-ऐश्वर्य्यम् महा-यशाः ॥ ४६ ॥
jñāne tapasi vā śauryye sthairye vā pade eva ca .. śṛṇu śaṃbhoḥ tu govinda deva-aiśvaryyam mahā-yaśāḥ .. 46 ..
तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छंभोस्तु भक्तिमान् ॥ पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः ॥ ४७ ॥
तत् श्रुत्वा श्रद्धया युक्तः अभवत् शंभोः तु भक्तिमान् ॥ पप्रच्छ शिव-माहात्म्यम् स तम् प्राह मुनि-ईश्वरः ॥ ४७ ॥
tat śrutvā śraddhayā yuktaḥ abhavat śaṃbhoḥ tu bhaktimān .. papraccha śiva-māhātmyam sa tam prāha muni-īśvaraḥ .. 47 ..
उपमन्युरुवाच ।।
भगवाञ्शंकरः पूर्वं ब्रह्मलोके महात्मना ॥ स्तुतो नामसहस्रेण दण्डिना ब्रह्मयोगिना ॥ ४८ ॥
भगवान् शंकरः पूर्वम् ब्रह्म-लोके महात्मना ॥ स्तुतः नाम-सहस्रेण दण्डिना ब्रह्मयोगिना ॥ ४८ ॥
bhagavān śaṃkaraḥ pūrvam brahma-loke mahātmanā .. stutaḥ nāma-sahasreṇa daṇḍinā brahmayoginā .. 48 ..
सांख्याः पठंति तद्गीतं विस्तीर्णं च निघंटवत्॥दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम् ॥ ४९॥
सांख्याः पठंति तत् गीतम् विस्तीर्णम् च निघंट-वत्॥दुर्ज्ञानम् मानुषाणाम् तु स्तोत्रम् तत् सर्व-काम-दम् ॥ ४९॥
sāṃkhyāḥ paṭhaṃti tat gītam vistīrṇam ca nighaṃṭa-vat..durjñānam mānuṣāṇām tu stotram tat sarva-kāma-dam .. 49..
स्मरन्नित्यं शंकरं त्वं गच्छ कृष्ण गृहं सुखी ॥ भविष्यसि सदा तात शिवभक्तगणाग्रणीः ॥ 5.3.५० ॥
स्मरन् नित्यम् शंकरम् त्वम् गच्छ कृष्ण गृहम् सुखी ॥ भविष्यसि सदा तात शिव-भक्त-गणाग्रणीः ॥ ५।३।५० ॥
smaran nityam śaṃkaram tvam gaccha kṛṣṇa gṛham sukhī .. bhaviṣyasi sadā tāta śiva-bhakta-gaṇāgraṇīḥ .. 5.3.50 ..
इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् ॥ मनसा संस्मरञ्शंभुं केशवो द्वारकां ययौ ॥ ५१ ॥
इति उक्तः तम् नमस्कृत्य वासुदेवः मुनि-ईश्वरम् ॥ मनसा संस्मरन् शंभुम् केशवः द्वारकाम् ययौ ॥ ५१ ॥
iti uktaḥ tam namaskṛtya vāsudevaḥ muni-īśvaram .. manasā saṃsmaran śaṃbhum keśavaḥ dvārakām yayau .. 51 ..
सनत्कुमार उवाच ।।
एवं कृष्णस्समाराध्य शंकरं लोकशंकरम् ॥ कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा ॥ ५२ ॥
एवम् कृष्णः समाराध्य शंकरम् लोक-शंकरम् ॥ कृतार्थः अभूत् मुनि-श्रेष्ठ सर्व-अजेयः अभवत् तथा ॥ ५२ ॥
evam kṛṣṇaḥ samārādhya śaṃkaram loka-śaṃkaram .. kṛtārthaḥ abhūt muni-śreṣṭha sarva-ajeyaḥ abhavat tathā .. 52 ..
तथा दाशरथी रामश्शिवमाराध्य भक्तितः ॥ कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत् ॥ ५३ ॥
तथा दाशरथिः रामः शिवम् आराध्य भक्तितः ॥ कृतार्थः अभूत् मुनि-श्रेष्ठ विजयी सर्वतस् अभवत् ॥ ५३ ॥
tathā dāśarathiḥ rāmaḥ śivam ārādhya bhaktitaḥ .. kṛtārthaḥ abhūt muni-śreṣṭha vijayī sarvatas abhavat .. 53 ..
तपस्तप्त्वाऽतिविपुलं पुरा रामो गिरौ मुने॥शिवाद्धनुश्शरं चापं ज्ञानं वै परमुत्तमम् ॥ ५४॥
तपः तप्त्वा अति विपुलम् पुरा रामः गिरौ मुने॥शिवात् धनुः शरम् चापम् ज्ञानम् वै परम् उत्तमम् ॥ ५४॥
tapaḥ taptvā ati vipulam purā rāmaḥ girau mune..śivāt dhanuḥ śaram cāpam jñānam vai param uttamam .. 54..
रावणं सगणं हत्वा सेतुं बद्ध्वांभसांनिधौ॥सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम्॥५५॥
रावणम् स गणम् हत्वा सेतुम् बद्ध्वा अंभसांनिधौ॥सीताम् प्राप्य गृहम् यातः बुभुजे निखिलाम् महीम्॥५५॥
rāvaṇam sa gaṇam hatvā setum baddhvā aṃbhasāṃnidhau..sītām prāpya gṛham yātaḥ bubhuje nikhilām mahīm..55..
तथा च भार्गवो रामो ह्याराध्य तपसा विभुम्॥निरीक्ष्य दुःखितश्शर्वात्पितरं क्षत्रियैर्हतम् ॥ ५६ ॥
तथा च भार्गवः रामः हि आराध्य तपसा विभुम्॥निरीक्ष्य दुःखितः शर्वात् पितरम् क्षत्रियैः हतम् ॥ ५६ ॥
tathā ca bhārgavaḥ rāmaḥ hi ārādhya tapasā vibhum..nirīkṣya duḥkhitaḥ śarvāt pitaram kṣatriyaiḥ hatam .. 56 ..
तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् ॥ त्रिस्सप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात् ॥ ५७॥
तीक्ष्णम् स परशुम् लेभे निर्ददाह च तेन तान् ॥ त्रिस् सप्त-कृत्वस् क्षत्रान् च प्रसन्नात् परमेश्वरात् ॥ ५७॥
tīkṣṇam sa paraśum lebhe nirdadāha ca tena tān .. tris sapta-kṛtvas kṣatrān ca prasannāt parameśvarāt .. 57..
अजेयश्चामरश्चैव सोऽद्यापि तपसांनिधिः ॥ लिंगार्चनरतो नित्यं दृश्यते सिद्धचारणैः ॥ ५८ ॥
अजेयः च अमरः च एव सः अद्य अपि तपसांनिधिः ॥ लिंग-अर्चन-रतः नित्यम् दृश्यते सिद्ध-चारणैः ॥ ५८ ॥
ajeyaḥ ca amaraḥ ca eva saḥ adya api tapasāṃnidhiḥ .. liṃga-arcana-rataḥ nityam dṛśyate siddha-cāraṇaiḥ .. 58 ..
महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति ॥ कल्पांते पुनरेवासावृषिस्थानमवाप्स्यति ॥ ५९॥
महेन्द्र-पर्वते रामः स्थितः तपसि तिष्ठति ॥ कल्प-अन्ते पुनर् एव असौ ऋषि-स्थानम् अवाप्स्यति ॥ ५९॥
mahendra-parvate rāmaḥ sthitaḥ tapasi tiṣṭhati .. kalpa-ante punar eva asau ṛṣi-sthānam avāpsyati .. 59..
असितस्यानुजः पूर्वं पीडया कृतवांस्तपः ॥ मूलग्राहेण विश्वस्य देवलो नाम तापसः ॥ 5.3.६० ॥
असितस्य अनुजः पूर्वम् पीडया कृतवान् तपः ॥ मूलग्राहेण विश्वस्य देवलः नाम तापसः ॥ ५।३।६० ॥
asitasya anujaḥ pūrvam pīḍayā kṛtavān tapaḥ .. mūlagrāheṇa viśvasya devalaḥ nāma tāpasaḥ .. 5.3.60 ..
पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् ॥ अधर्म्यं धर्ममल मल्लिंगमारध्य कामदम् ॥ ६१ ॥
पुरन्दरेण शप्तः तु तपस्वी यः च सुस्थिरम् ॥ अधर्म्यम् धर्म-मल मद्-लिंगम् आरध्य काम-दम् ॥ ६१ ॥
purandareṇa śaptaḥ tu tapasvī yaḥ ca susthiram .. adharmyam dharma-mala mad-liṃgam āradhya kāma-dam .. 61 ..
चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले ॥ वसिष्ठशापाद्गृत्समदो दण्डकारण्य एकलः ॥ ६२॥
चाक्षुषस्य मनोः पुत्रः मृगः अभूत् तु मरु-स्थले ॥ वसिष्ठ-शापात् गृत्समदः दण्डक-अरण्ये एकलः ॥ ६२॥
cākṣuṣasya manoḥ putraḥ mṛgaḥ abhūt tu maru-sthale .. vasiṣṭha-śāpāt gṛtsamadaḥ daṇḍaka-araṇye ekalaḥ .. 62..
हृदये संस्मन्भक्त्या प्रवणेन युतं शिवम् ॥ तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत् ॥ ६३ ॥
हृदये संस्मन् भक्त्या प्रवणेन युतम् शिवम् ॥ तस्मात् मृत्यु-मुख-आकारः गणः मृगमुखः अभवत् ॥ ६३ ॥
hṛdaye saṃsman bhaktyā pravaṇena yutam śivam .. tasmāt mṛtyu-mukha-ākāraḥ gaṇaḥ mṛgamukhaḥ abhavat .. 63 ..
अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः ॥ शंकरेण कृतः प्रीत्या नित्यं लम्बोदरानुगः ॥ ६४ ॥
अजर-अमर-ताम् नीतः तीर्त्वा शापम् पुनर् च सः ॥ शंकरेण कृतः प्रीत्या नित्यम् लम्ब-उदर-अनुगः ॥ ६४ ॥
ajara-amara-tām nītaḥ tīrtvā śāpam punar ca saḥ .. śaṃkareṇa kṛtaḥ prītyā nityam lamba-udara-anugaḥ .. 64 ..
गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् ॥ कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत्॥६५॥
गार्ग्याय प्रददौ शर्वः मोक्षम् च भुवि दुर्लभम् ॥ कामचारी महा-क्षेत्रम् काल-ज्ञानम् महा-ऋद्धिमत्॥६५॥
gārgyāya pradadau śarvaḥ mokṣam ca bhuvi durlabham .. kāmacārī mahā-kṣetram kāla-jñānam mahā-ṛddhimat..65..
चतुष्पादं सरस्वत्याः पारंगत्वं च शाश्वतम् ॥ न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः ॥ ६६॥
चतुष्पादम् सरस्वत्याः पारंग-त्वम् च शाश्वतम् ॥ न तुल्यम् च सहस्रम् तु पुत्राणाम् प्रददौ शिवः ॥ ६६॥
catuṣpādam sarasvatyāḥ pāraṃga-tvam ca śāśvatam .. na tulyam ca sahasram tu putrāṇām pradadau śivaḥ .. 66..
वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाक धृक् ॥ पराशराय च ददौ जरामृत्युविवर्जितम् ॥ ६७॥
वेदव्यासम् तु योगि-इन्द्रम् पुत्रम् तुष्टः पिनाक धृक् ॥ पराशराय च ददौ जरा-मृत्यु-विवर्जितम् ॥ ६७॥
vedavyāsam tu yogi-indram putram tuṣṭaḥ pināka dhṛk .. parāśarāya ca dadau jarā-mṛtyu-vivarjitam .. 67..
मांडव्यश्शंकरणैव जीवं दत्त्वा विसर्जितः॥वर्षाणां दश लक्षाणि शूलाग्रा दवरोपितः ॥ ६८ ॥
मांडव्यः शंकरणा एव जीवम् दत्त्वा विसर्जितः॥वर्षाणाम् दश लक्षाणि शूल-अग्राः दवरोपितः ॥ ६८ ॥
māṃḍavyaḥ śaṃkaraṇā eva jīvam dattvā visarjitaḥ..varṣāṇām daśa lakṣāṇi śūla-agrāḥ davaropitaḥ .. 68 ..
दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि ॥ पुत्रं तु गालवं यश्च पूर्वमासीद्गृहाश्रमी ॥ ६९ ॥
दरिद्रः ब्राह्मणः कश्चिद् निक्षिप्य गुरु-वेश्मनि ॥ पुत्रम् तु गालवम् यः च पूर्वम् आसीत् गृहाश्रमी ॥ ६९ ॥
daridraḥ brāhmaṇaḥ kaścid nikṣipya guru-veśmani .. putram tu gālavam yaḥ ca pūrvam āsīt gṛhāśramī .. 69 ..
गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् ॥ भार्य्यामुवाच यः कश्चिदवश्यं निर्धनो यतः॥5.3.७०॥
गुप्तः वा मुनि-शालायाम् भिक्षुः आयाति तद्-गृहम् ॥ भार्य्याम् उवाच यः कश्चिद् अवश्यम् निर्धनः यतस्॥५।३।७०॥
guptaḥ vā muni-śālāyām bhikṣuḥ āyāti tad-gṛham .. bhāryyām uvāca yaḥ kaścid avaśyam nirdhanaḥ yatas..5.3.70..
स तु वाच्यो भवत्या च न दृश्यंत इति प्रियः ॥ अतिथेरागतस्यापि किं दास्यामि गृहे वसन् ॥ ७१ ॥
स तु वाच्यः भवत्या च न प्रियः ॥ अतिथेः आगतस्य अपि किम् दास्यामि गृहे वसन् ॥ ७१ ॥
sa tu vācyaḥ bhavatyā ca na priyaḥ .. atitheḥ āgatasya api kim dāsyāmi gṛhe vasan .. 71 ..
कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः ॥ तामुवाच स भर्ता ते क्व गतश्चेति तं च सा ॥ ७२ ॥
कदाचिद् अतिथिः कश्चिद् क्षुध्-तृषा-क्षाम-तर्षितः ॥ ताम् उवाच स भर्ता ते क्व गतः च इति तम् च सा ॥ ७२ ॥
kadācid atithiḥ kaścid kṣudh-tṛṣā-kṣāma-tarṣitaḥ .. tām uvāca sa bhartā te kva gataḥ ca iti tam ca sā .. 72 ..
प्राह भर्ता मदीयस्तु सांप्रतं न च दृश्यते ॥ स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा ॥ ७३ ॥
प्राह भर्ता मदीयः तु सांप्रतम् न च दृश्यते ॥ सः ऋषिः ताम् उवाच इदम् ज्ञात्वा दिव्येन चक्षुषा ॥ ७३ ॥
prāha bhartā madīyaḥ tu sāṃpratam na ca dṛśyate .. saḥ ṛṣiḥ tām uvāca idam jñātvā divyena cakṣuṣā .. 73 ..
गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः ॥ विश्वामित्रस्यनुज्ञातस्तत्पुत्रो गालवस्तथा ॥ ७४ ॥
गृह-स्थितः प्रतिच्छन्नः तत्र एव स मृतः द्विजः ॥ विश्वामित्रस्य अनुज्ञातः तद्-पुत्रः गालवः तथा ॥ ७४ ॥
gṛha-sthitaḥ praticchannaḥ tatra eva sa mṛtaḥ dvijaḥ .. viśvāmitrasya anujñātaḥ tad-putraḥ gālavaḥ tathā .. 74 ..
गृहमागत्य मातुस्स श्रुत्वा शापं सुदारुणम् ॥ आराध्य शंकरं देवं पूजां कृत्वा तु शांभवीम् ॥ ७५ ॥
गृहम् आगत्य मातुः स श्रुत्वा शापम् सु दारुणम् ॥ आराध्य शंकरम् देवम् पूजाम् कृत्वा तु शांभवीम् ॥ ७५ ॥
gṛham āgatya mātuḥ sa śrutvā śāpam su dāruṇam .. ārādhya śaṃkaram devam pūjām kṛtvā tu śāṃbhavīm .. 75 ..
गृहादसौ विनिष्क्रांतस्संस्मरञ्शंकरं हृदा॥अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम् ॥ ७६ ॥
गृहात् असौ विनिष्क्रांतः संस्मरन् शंकरम् हृदा॥अथ तम् तनयम् दृष्ट्वा पिता तम् प्राह स अञ्जलिम् ॥ ७६ ॥
gṛhāt asau viniṣkrāṃtaḥ saṃsmaran śaṃkaram hṛdā..atha tam tanayam dṛṣṭvā pitā tam prāha sa añjalim .. 76 ..
महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः ॥ धनवान्पुत्रवांश्चैव मृतोऽहं जीवितः पुनः ॥ ७७ ॥
महादेव-प्रसादात् च कृतकृत्यः अस्मि कृत्यतः ॥ धनवान् पुत्रवान् च एव मृतः अहम् जीवितः पुनर् ॥ ७७ ॥
mahādeva-prasādāt ca kṛtakṛtyaḥ asmi kṛtyataḥ .. dhanavān putravān ca eva mṛtaḥ aham jīvitaḥ punar .. 77 ..
इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् ॥ वक्तुं शंभोश्च गुणाञ्शेषस्यापि न मुखानि स्युः ॥ ७८॥
इति वः कथितम् अशेषम् न अहम् शक्तः समासतस् व्यासात् ॥ वक्तुम् शंभोः च गुणान् शेषस्य अपि न मुखानि स्युः ॥ ७८॥
iti vaḥ kathitam aśeṣam na aham śaktaḥ samāsatas vyāsāt .. vaktum śaṃbhoḥ ca guṇān śeṣasya api na mukhāni syuḥ .. 78..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् कृष्ण-आदि-शिव-भक्त-उद्धारण-शिव-माहात्म्य-वर्णनम् नाम तृतीयः अध्यायः ॥ ३ ॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām kṛṣṇa-ādi-śiva-bhakta-uddhāraṇa-śiva-māhātmya-varṇanam nāma tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In