| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ॥ लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम्॥ १ ॥
संसृष्टासु प्रजासु एव आपवः अथ प्रजाप्रतिः ॥ लेभे वै पुरुषः पत्नीम् शतरूपाम् अयः निजाम्॥ १ ॥
saṃsṛṣṭāsu prajāsu eva āpavaḥ atha prajāpratiḥ .. lebhe vai puruṣaḥ patnīm śatarūpām ayaḥ nijām.. 1 ..
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ॥ धर्मेणैव महात्मा स शतरूपाप्यजायत ॥ २ ॥
आपवस्य महिम्ना तु दिवम् आवृत्य तिष्ठतः ॥ धर्मेण एव महात्मा स शतरूपा अपि अजायत ॥ २ ॥
āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ .. dharmeṇa eva mahātmā sa śatarūpā api ajāyata .. 2 ..
सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ॥ भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३ ॥
सा तु वर्ष-शतम् तप्त्वा तपः परम-दुश्चरम् ॥ भर्तारम् दीप्त-तपसम् पुरुषम् प्रत्यपद्यत ॥ ३ ॥
sā tu varṣa-śatam taptvā tapaḥ parama-duścaram .. bhartāram dīpta-tapasam puruṣam pratyapadyata .. 3 ..
स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ॥ तस्यैकसप्ततियुगं मन्वंतरमिहोच्यते ॥ ४ ॥
स वै स्वायंभुवः जज्ञे पुरुषः मनुः उच्यते ॥ तस्य एकसप्तति-युगम् मन्वंतरम् इह उच्यते ॥ ४ ॥
sa vai svāyaṃbhuvaḥ jajñe puruṣaḥ manuḥ ucyate .. tasya ekasaptati-yugam manvaṃtaram iha ucyate .. 4 ..
वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ॥ प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥ ५॥
वैराजात् पुरुषात् वीरा शतरूपा व्यजायत ॥ प्रियव्रत-उत्तानपादौ वीरकायाम् अजायताम् ॥ ५॥
vairājāt puruṣāt vīrā śatarūpā vyajāyata .. priyavrata-uttānapādau vīrakāyām ajāyatām .. 5..
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ॥ काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः ॥ ६॥
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ॥ काम्या-पुत्राः त्रयः तु आसन् सम्राज्-साक्षिः रविष्-प्रभुः ॥ ६॥
kāmyā nāma mahābhāgā kardamasya prajāpateḥ .. kāmyā-putrāḥ trayaḥ tu āsan samrāj-sākṣiḥ raviṣ-prabhuḥ .. 6..
उत्तानपादोऽजनयत्पुत्राञ्छक्रसमान्प्रभुः ॥ ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम्॥ ७ ॥
उत्तानपादः अजनयत् पुत्रान् शक्र-समान् प्रभुः ॥ ध्रुवम् च तनयम् दिव्यम् आत्म-आनंद-सु वर्चसम्॥ ७ ॥
uttānapādaḥ ajanayat putrān śakra-samān prabhuḥ .. dhruvam ca tanayam divyam ātma-ānaṃda-su varcasam.. 7 ..
धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ॥ उत्पन्ना चापि धर्म्मेण धुवस्य जननी तथा ॥ ८ ॥
धर्मस्य कन्या सु श्रोणी सुनीतिः नाम विश्रुता ॥ उत्पन्ना च अपि धर्म्मेण धुवस्य जननी तथा ॥ ८ ॥
dharmasya kanyā su śroṇī sunītiḥ nāma viśrutā .. utpannā ca api dharmmeṇa dhuvasya jananī tathā .. 8 ..
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ॥ तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥ ९ ॥
ध्रुवः वर्ष-सहस्राणि त्रीणि दिव्यानि कानने ॥ तपः तेपे स बालः तु प्रार्थयन् स्थानम् अव्ययम् ॥ ९ ॥
dhruvaḥ varṣa-sahasrāṇi trīṇi divyāni kānane .. tapaḥ tepe sa bālaḥ tu prārthayan sthānam avyayam .. 9 ..
तस्मै ब्रह्मा ददौ प्रीतस्स्थानमात्मसमं प्रभुः ॥ अचलं चैव पुरतस्सप्तर्षीणां प्रजापतिः ॥ 5.30.१०॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्म-समम् प्रभुः ॥ अचलम् च एव पुरतस् सप्तर्षीणाम् प्रजापतिः ॥ ५।३०।१०॥
tasmai brahmā dadau prītaḥ sthānam ātma-samam prabhuḥ .. acalam ca eva puratas saptarṣīṇām prajāpatiḥ .. 5.30.10..
तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ॥ पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥ ११॥
तस्मात् पुष्टिः च धान्यः च ध्रुवात् पुत्रौ व्यजायताम् ॥ पुष्टिः एवम् समुत्थायाः पञ्च-पुत्रान् अकल्मषान् ॥ ११॥
tasmāt puṣṭiḥ ca dhānyaḥ ca dhruvāt putrau vyajāyatām .. puṣṭiḥ evam samutthāyāḥ pañca-putrān akalmaṣān .. 11..
रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ॥ रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥ १२॥
रिपुम् रिपुंजयम् विप्रम् वृकलम् वृषतेजसम् ॥ रिपोः एवम् च महिषी चाक्षुषम् सर्वतोदिशम् ॥ १२॥
ripum ripuṃjayam vipram vṛkalam vṛṣatejasam .. ripoḥ evam ca mahiṣī cākṣuṣam sarvatodiśam .. 12..
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ॥ मनोरजायन्त दश नड्वलायां महौजसः॥१३॥
अजीजनत् पुष्करिण्याम् वरुणम् चाक्षुषः मनुः ॥ मनोः अजायन्त दश नड्वलायाम् महा-ओजसः॥१३॥
ajījanat puṣkariṇyām varuṇam cākṣuṣaḥ manuḥ .. manoḥ ajāyanta daśa naḍvalāyām mahā-ojasaḥ..13..
कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः॥पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥ १४॥
कन्यायाम् हि मुनि-श्रेष्ठ वैश्य-जन्म प्रजायतेः॥पुरुः मासः शतद्युम्नः तपस्वी सत्य-विद् कविः ॥ १४॥
kanyāyām hi muni-śreṣṭha vaiśya-janma prajāyateḥ..puruḥ māsaḥ śatadyumnaḥ tapasvī satya-vid kaviḥ .. 14..
अग्निष्टोमोऽतिरात्रश्चातिमन्युस्सुयशा दश॥पूरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ १५॥
अग्निष्टोमः अतिरात्रः च अतिमन्युः सुयशाः दश॥पूरोः अजनयत् पुत्रान् षट् आग्नेयी महा-प्रभान् ॥ १५॥
agniṣṭomaḥ atirātraḥ ca atimanyuḥ suyaśāḥ daśa..pūroḥ ajanayat putrān ṣaṭ āgneyī mahā-prabhān .. 15..
अङ्गं सुमनसं ख्यातिं सृतिमंगिरसं गयम्॥अङ्गात्सुनीथा भार्य्या वै वेनमेकमसूयत॥१६॥
अङ्गम् सुमनसम् ख्यातिम् सृतिम् अंगिरसम् गयम्॥अङ्गात् सुनीथा भार्य्या वै वेनम् एकम् असूयत॥१६॥
aṅgam sumanasam khyātim sṛtim aṃgirasam gayam..aṅgāt sunīthā bhāryyā vai venam ekam asūyata..16..
अपचारेण वेनस्य कोपस्तेषां महानभूत्॥हुंकारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः॥१७॥
अपचारेण वेनस्य कोपः तेषाम् महान् अभूत्॥हुंकारेण एव तम् जघ्नुः मुनयः धर्म-तत्पराः॥१७॥
apacāreṇa venasya kopaḥ teṣām mahān abhūt..huṃkāreṇa eva tam jaghnuḥ munayaḥ dharma-tatparāḥ..17..
अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया॥सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम्॥१८॥
अथ प्रजा-अर्थम् ऋषयः प्रार्थिताः च सुनीथया॥सारस्वताः तदा तस्य ममंथुः दक्षिणम् करम्॥१८॥
atha prajā-artham ṛṣayaḥ prārthitāḥ ca sunīthayā..sārasvatāḥ tadā tasya mamaṃthuḥ dakṣiṇam karam..18..
वेनस्य पाणौ मथिते संबभूव ततः पृथुः ॥ स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥ १९ ॥
वेनस्य पाणौ मथिते संबभूव ततस् पृथुः ॥ स धन्वी कवची जातः तेजसा आदित्य-सन्निभः ॥ १९ ॥
venasya pāṇau mathite saṃbabhūva tatas pṛthuḥ .. sa dhanvī kavacī jātaḥ tejasā āditya-sannibhaḥ .. 19 ..
अवतारस्य विष्णोर्हि प्रजापालनहे तवे ॥ धर्मसंरक्षणार्थाय दुष्टानां दंडहेतवे ॥ 5.30.२०॥
अवतारस्य विष्णोः हि प्रजा-पालन-हे तवे ॥ धर्म-संरक्षण-अर्थाय दुष्टानाम् दंड-हेतवे ॥ ५।३०।२०॥
avatārasya viṣṇoḥ hi prajā-pālana-he tave .. dharma-saṃrakṣaṇa-arthāya duṣṭānām daṃḍa-hetave .. 5.30.20..
पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ॥ राजसूयाभिषिक्तानामाद्यस्स वसुधापतिः ॥ २१॥
पृथुः वैन्यः तदा पृध्वीम् अरक्षत् क्षत्र-पूर्वजः ॥ राजसूय-अभिषिक्तानाम् आद्यः स वसुधा-पतिः ॥ २१॥
pṛthuḥ vainyaḥ tadā pṛdhvīm arakṣat kṣatra-pūrvajaḥ .. rājasūya-abhiṣiktānām ādyaḥ sa vasudhā-patiḥ .. 21..
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥ तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥ २२ ॥
तस्मात् च एव समुत्पन्नौ निपुणौ सूत-मागधौ ॥ तेन इयम् गौः मुनि-श्रेष्ठ दुग्धा सर्व-हिताय वै ॥ २२ ॥
tasmāt ca eva samutpannau nipuṇau sūta-māgadhau .. tena iyam gauḥ muni-śreṣṭha dugdhā sarva-hitāya vai .. 22 ..
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ॥ मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥ २३ ॥
सर्वेषाम् वृत्ति-दः च अभूत् देव-ऋषि-सुर रक्षसाम् ॥ मनुष्याणाम् विशेषेण शत-यज्ञ-करः नृपः ॥ २३ ॥
sarveṣām vṛtti-daḥ ca abhūt deva-ṛṣi-sura rakṣasām .. manuṣyāṇām viśeṣeṇa śata-yajña-karaḥ nṛpaḥ .. 23 ..
पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ॥ विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥ २४॥
पृथोः पुत्रौ तु जज्ञाते धर्म-ज्ञौ भुवि पार्थिवौ ॥ विजिताश्वः च हर्यक्षः महा-वीरौ सु विश्रुतौ ॥ २४॥
pṛthoḥ putrau tu jajñāte dharma-jñau bhuvi pārthivau .. vijitāśvaḥ ca haryakṣaḥ mahā-vīrau su viśrutau .. 24..
शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ॥ प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः।२५॥
शिखंडिनी च अजनयत् पुत्रम् प्राचीनबर्हिषम् ॥ प्राचीन-अग्राः कुशाः तस्य पृथिवी-तल-चारिणः।२५॥
śikhaṃḍinī ca ajanayat putram prācīnabarhiṣam .. prācīna-agrāḥ kuśāḥ tasya pṛthivī-tala-cāriṇaḥ.25..
समुद्रतनया तेन धर्मतस्सुविवाहिता॥रेजेऽधिकतरं राजा कृतदारो महाप्रभुः॥२६॥
समुद्र-तनया तेन धर्मतः सु विवाहिता॥रेजे अधिकतरम् राजा कृतदारः महा-प्रभुः॥२६॥
samudra-tanayā tena dharmataḥ su vivāhitā..reje adhikataram rājā kṛtadāraḥ mahā-prabhuḥ..26..
समुद्रतनयायास्तु दश प्राचीनबर्हिषः॥बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥ २७ ॥
समुद्र-तनयायाः तु दश प्राचीनबर्हिषः॥बभूवुः तनयाः दिव्याः बहु-यज्ञ-करस्य वै ॥ २७ ॥
samudra-tanayāyāḥ tu daśa prācīnabarhiṣaḥ..babhūvuḥ tanayāḥ divyāḥ bahu-yajña-karasya vai .. 27 ..
सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ॥ अपृथग्धर्माचरणास्तेऽतप्यंत महत्तपः ॥ २८ ॥
सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ॥ अपृथक् धर्म-आचरणाः ते अतप्यंत महत् तपः ॥ २८ ॥
sarve prācetasā nāmnā dhanurvedasya pāragāḥ .. apṛthak dharma-ācaraṇāḥ te atapyaṃta mahat tapaḥ .. 28 ..
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ रुद्रगीतं जपंतश्च शिवध्यानपरायणाः ॥ २९ ॥
दश-वर्ष-सहस्राणि समुद्रसलिलेशयाः ॥ रुद्रगीतम् जपंतः च शिव-ध्यान-परायणाः ॥ २९ ॥
daśa-varṣa-sahasrāṇi samudrasalileśayāḥ .. rudragītam japaṃtaḥ ca śiva-dhyāna-parāyaṇāḥ .. 29 ..
तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ॥ अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ॥ 5.30.३० ॥
तपः चरत्सु पृथिव्याम् अभवन् च महीरुहाः ॥ अरक्ष्यमाणायाम् पृथ्व्याम् बभूव अथ प्रजा-क्षयः ॥ ५।३०।३० ॥
tapaḥ caratsu pṛthivyām abhavan ca mahīruhāḥ .. arakṣyamāṇāyām pṛthvyām babhūva atha prajā-kṣayaḥ .. 5.30.30 ..
तान्दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ॥ चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः ॥ ३१ ॥
तान् दृष्ट्वा तु निवृत्ताः ते तपसः लब्ध-सत्-वराः ॥ चुक्रुधुः मुनि-शार्दूल दग्धु-कामाः स्तपः-बलाः ॥ ३१ ॥
tān dṛṣṭvā tu nivṛttāḥ te tapasaḥ labdha-sat-varāḥ .. cukrudhuḥ muni-śārdūla dagdhu-kāmāḥ stapaḥ-balāḥ .. 31 ..
प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ॥ वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ॥ ३२ ॥
प्राचेतसाः मुखेभ्यः ते प्रासृजन् अग्नि-मारुतौ ॥ वृक्षान् उन्मूल्य वायुः तान् अदहत् हव्यवाहनः ॥ ३२ ॥
prācetasāḥ mukhebhyaḥ te prāsṛjan agni-mārutau .. vṛkṣān unmūlya vāyuḥ tān adahat havyavāhanaḥ .. 32 ..
वृक्षक्षयं ततो दृष्ट्वा किंचिच्छेषेषु शाखिषु ॥ उपगम्याब्रवीदेतान्राजा सोमः प्रतापवान् ॥ ३३ ॥
वृक्ष-क्षयम् ततस् दृष्ट्वा किंचिद् शेषेषु शाखिषु ॥ उपगम्य अब्रवीत् एतान् राजा सोमः प्रतापवान् ॥ ३३ ॥
vṛkṣa-kṣayam tatas dṛṣṭvā kiṃcid śeṣeṣu śākhiṣu .. upagamya abravīt etān rājā somaḥ pratāpavān .. 33 ..
सोम उवाच ।।
कोपं यच्छत राजानस्सर्वे प्राचीनबर्हिषः ॥ अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ॥ ३४ ॥
कोपम् यच्छत राजानः सर्वे प्राचीनबर्हिषः ॥ अनुभूतानुकन्या इयम् वृक्षाणाम् वरवर्णिनी ॥ ३४ ॥
kopam yacchata rājānaḥ sarve prācīnabarhiṣaḥ .. anubhūtānukanyā iyam vṛkṣāṇām varavarṇinī .. 34 ..
भविष्यं जानता सा तु धृता गर्भेण वै मया ॥ भार्य्या वोऽस्तु महाभागास्सोमवंशविवर्द्धिनी ॥ ३५ ॥
भविष्यम् जानता सा तु धृता गर्भेण वै मया ॥ भार्य्या वः अस्तु महाभागाः सोम-वंश-विवर्द्धिनी ॥ ३५ ॥
bhaviṣyam jānatā sā tu dhṛtā garbheṇa vai mayā .. bhāryyā vaḥ astu mahābhāgāḥ soma-vaṃśa-vivarddhinī .. 35 ..
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः॥। ॥ ३६॥
अस्याम् उत्पत्स्यते विद्वान् दक्षः नाम प्रजापतिः ॥ सृष्टि-कर्ता महा-तेजाः ब्रह्म-पुत्रः पुरातनः॥। ॥ ३६॥
asyām utpatsyate vidvān dakṣaḥ nāma prajāpatiḥ .. sṛṣṭi-kartā mahā-tejāḥ brahma-putraḥ purātanaḥ... .. 36..
युष्माकं तेजसार्द्धेन मम चानेन तेजसा ॥ ब्रह्मतेजोमयो भूपः प्रजा संवर्द्धयिष्यति ॥ ३७ ॥
युष्माकम् तेजसा अर्द्धेन मम च अनेन तेजसा ॥ ब्रह्म-तेजः-मयः भूपः प्रजाः संवर्द्धयिष्यति ॥ ३७ ॥
yuṣmākam tejasā arddhena mama ca anena tejasā .. brahma-tejaḥ-mayaḥ bhūpaḥ prajāḥ saṃvarddhayiṣyati .. 37 ..
ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ॥ भार्य्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ॥ ३८॥
ततस् सोमस्य वचनात् जगृहुः ते प्रचेतसः ॥ भार्य्याम् धर्मेण ताम् प्रीत्या वृक्षजाम् वरवर्णिनीम् ॥ ३८॥
tatas somasya vacanāt jagṛhuḥ te pracetasaḥ .. bhāryyām dharmeṇa tām prītyā vṛkṣajām varavarṇinīm .. 38..
तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ॥ सोऽपि जज्ञे महातेजास्सोमस्यांशेन वै मुने ॥ ३९ ॥
तेभ्यः तस्याः तु संजज्ञे दक्षः नाम प्रजापतिः ॥ सः अपि जज्ञे महा-तेजाः सोमस्य अंशेन वै मुने ॥ ३९ ॥
tebhyaḥ tasyāḥ tu saṃjajñe dakṣaḥ nāma prajāpatiḥ .. saḥ api jajñe mahā-tejāḥ somasya aṃśena vai mune .. 39 ..
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ॥ संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ॥ 5.30.४० ॥
अचरान् च चरान् च एव द्विपदः अथ चतुष्पदः ॥ संसृज्य मनसा दक्षः मैथुनीम् सृष्टिम् आरभत् ॥ ५।३०।४० ॥
acarān ca carān ca eva dvipadaḥ atha catuṣpadaḥ .. saṃsṛjya manasā dakṣaḥ maithunīm sṛṣṭim ārabhat .. 5.30.40 ..
वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ॥ उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥ ४१ ॥
वीरणस्य सुताम् नाम्ना वीरणीम् स प्रजापतेः ॥ उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ॥ ४१ ॥
vīraṇasya sutām nāmnā vīraṇīm sa prajāpateḥ .. upayeme suvidhinā sudharmeṇa pativratām .. 41 ..
हर्य्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ॥ ते विरक्ता बभूवुश्च नारदस्योपदेशतः ॥ ४२ ॥
हर्य्यश्वान् अयुतम् तस्याम् सुतान् पुण्यान् अजीजनत् ॥ ते विरक्ताः बभूवुः च नारदस्य उपदेशतः ॥ ४२ ॥
haryyaśvān ayutam tasyām sutān puṇyān ajījanat .. te viraktāḥ babhūvuḥ ca nāradasya upadeśataḥ .. 42 ..
तच्छुत्वा स पुनर्दक्षस्सुबलाश्वानजीजनत् ॥ नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया ॥ ४३॥
तत् शुत्वा स पुनर् दक्षः सुबल-अश्वान् अजीजनत् ॥ नामतः तनयान् तस्याम् सहस्र-परिसंख्यया ॥ ४३॥
tat śutvā sa punar dakṣaḥ subala-aśvān ajījanat .. nāmataḥ tanayān tasyām sahasra-parisaṃkhyayā .. 43..
तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ॥ नागमन्पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ॥ ४४॥
ते अपि भ्रातृ-पथा याताः तद्-मुनेः उपदेशतः ॥ न अगमन् पितृ-सान्निध्यम् विरक्ताः भिक्षु-मार्गिणः ॥ ४४॥
te api bhrātṛ-pathā yātāḥ tad-muneḥ upadeśataḥ .. na agaman pitṛ-sānnidhyam viraktāḥ bhikṣu-mārgiṇaḥ .. 44..
तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुस्सहं ददौ ॥ कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ ४५ ॥
तत् श्रुत्वा शापम् आक्रुद्धः मुनये दुस्सहम् ददौ ॥ कुत्रचिद् न लभस्व इति संस्थितिम् कलहप्रिय ॥ ४५ ॥
tat śrutvā śāpam ākruddhaḥ munaye dussaham dadau .. kutracid na labhasva iti saṃsthitim kalahapriya .. 45 ..
सांत्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ॥ महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ॥ ४६ ॥
सांत्वितः अथ विधात्रा हि स पश्चात् असृजत् स्त्रियः ॥ महा-ज्वाला-स्वरूपेण गुणैः च अपि मुनि-ईश्वरः ॥ ४६ ॥
sāṃtvitaḥ atha vidhātrā hi sa paścāt asṛjat striyaḥ .. mahā-jvālā-svarūpeṇa guṇaiḥ ca api muni-īśvaraḥ .. 46 ..
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ ४७ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ द्वे च एवम् ब्रह्म-पुत्राय द्वे च एव अङ्गिरसे तदा ॥ ४७ ॥
dadau sa daśa dharmāya kaśyapāya trayodaśa .. dve ca evam brahma-putrāya dve ca eva aṅgirase tadā .. 47 ..
द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ॥ शिष्टास्सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ॥ ४८ ॥
द्वे कृशाश्वाय विदुषे मुनये मुनि-सत्तम ॥ शिष्टाः सोमाय दक्षः अपि नक्षत्र-आख्याः ददौ प्रभुः ॥ ४८ ॥
dve kṛśāśvāya viduṣe munaye muni-sattama .. śiṣṭāḥ somāya dakṣaḥ api nakṣatra-ākhyāḥ dadau prabhuḥ .. 48 ..
ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ॥ बहवस्तनया ख्यातास्तैस्सर्वैः पूरितं जगत् ॥ ४९॥
ताभ्यः दक्षस्य पुत्रीभ्यः जाताः देव-असुर-आदयः ॥ बहवः तनया ख्याताः तैः सर्वैः पूरितम् जगत् ॥ ४९॥
tābhyaḥ dakṣasya putrībhyaḥ jātāḥ deva-asura-ādayaḥ .. bahavaḥ tanayā khyātāḥ taiḥ sarvaiḥ pūritam jagat .. 49..
ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ॥ संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ 5.30.५०॥
ततस् प्रभृति विप्र-इन्द्र प्रजाः मैथुन-संभवाः ॥ संकल्पात् दर्शनात् स्पर्शात् पूर्वेषाम् सृष्टिः उच्यते ॥ ५।३०।५०॥
tatas prabhṛti vipra-indra prajāḥ maithuna-saṃbhavāḥ .. saṃkalpāt darśanāt sparśāt pūrveṣām sṛṣṭiḥ ucyate .. 5.30.50..
अंगुष्ठाद्ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा॥कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ॥ ५१ ॥
अंगुष्ठात् ब्रह्मणः जज्ञे दक्षः च उक्तः त्वया पुरा॥कथम् प्राचेतस-त्वम् हि पुनर् लेभे महा-तपाः ॥ ५१ ॥
aṃguṣṭhāt brahmaṇaḥ jajñe dakṣaḥ ca uktaḥ tvayā purā..katham prācetasa-tvam hi punar lebhe mahā-tapāḥ .. 51 ..
एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ॥ चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ॥ ५२ ॥
एतम् मे संशयम् सूत प्रत्याख्यातुम् त्वम् अर्हसि ॥ चित्रम् एतत् स सोमस्य कथम् श्वशुर-ताम् गतः ॥ ५२ ॥
etam me saṃśayam sūta pratyākhyātum tvam arhasi .. citram etat sa somasya katham śvaśura-tām gataḥ .. 52 ..
।। सूत उवाच ।।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ॥ कल्पेकल्पे भवंत्येते सर्वे दक्षादयो मुने ॥ ५३ ॥
उत्पत्तिः च निरोधः च नित्यम् भूतेषु वर्तते ॥ कल्पे कल्पे भवन्ति एते सर्वे दक्ष-आदयः मुने ॥ ५३ ॥
utpattiḥ ca nirodhaḥ ca nityam bhūteṣu vartate .. kalpe kalpe bhavanti ete sarve dakṣa-ādayaḥ mune .. 53 ..
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ॥ प्रजावानायुषा पूर्णस्स्वर्गलोके महीयते ॥ ५४॥
इमाम् विसृष्टिम् दक्षस्य यः विद्यात् सचराचराम् ॥ प्रजावान् आयुषा पूर्णः स्वर्ग-लोके महीयते ॥ ५४॥
imām visṛṣṭim dakṣasya yaḥ vidyāt sacarācarām .. prajāvān āyuṣā pūrṇaḥ svarga-loke mahīyate .. 54..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् सर्गवर्णनम् नाम त्रिंशः अध्यायः ॥ ३० ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām sargavarṇanam nāma triṃśaḥ adhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In