| |
|

This overlay will guide you through the buttons:

शौनक उवाच ।।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ॥ सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ॥ १॥
देवानाम् दानवानाम् च गन्धर्व-उरग-रक्षसाम् ॥ सृष्टिम् तु विस्तरेण इमाम् सूत-पुत्र वद आशु मे ॥ १॥
devānām dānavānām ca gandharva-uraga-rakṣasām .. sṛṣṭim tu vistareṇa imām sūta-putra vada āśu me .. 1..
सूत उवाच ।।
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ॥ सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ॥ २ ॥
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ॥ सुताम् सु तपसा युक्ताम् आह्वयत् सर्ग-कारणात् ॥ २ ॥
yadā na vavṛdhe sā tu vīraṇasya prajāpatiḥ .. sutām su tapasā yuktām āhvayat sarga-kāraṇāt .. 2 ..
स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ॥ ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः ॥ ३ ॥
स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ॥ ताः शृणु त्वम् महा-प्राज्ञ कथयामि समासतस् ॥ ३ ॥
sa maithunena dharmeṇa sasarja vividhāḥ prajāḥ .. tāḥ śṛṇu tvam mahā-prājña kathayāmi samāsatas .. 3 ..
तस्यां पुत्रसहस्राणि वीरिण्यां पंच वीर्यवान्॥आश्रित्य जनयामास दक्ष एव प्रजापतिः ॥ ४॥
तस्याम् पुत्र-सहस्राणि वीरिण्याम् पंच वीर्यवान्॥आश्रित्य जनयामास दक्षः एव प्रजापतिः ॥ ४॥
tasyām putra-sahasrāṇi vīriṇyām paṃca vīryavān..āśritya janayāmāsa dakṣaḥ eva prajāpatiḥ .. 4..
एतान्सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः ॥ सर्वं स तु समुत्पन्नो नारदः परमेष्ठिनः ॥ ५॥
एतान् सृष्टान् तु तान् दृष्ट्वा नारदः प्राह वै मुनिः ॥ सर्वम् स तु समुत्पन्नः नारदः परमेष्ठिनः ॥ ५॥
etān sṛṣṭān tu tān dṛṣṭvā nāradaḥ prāha vai muniḥ .. sarvam sa tu samutpannaḥ nāradaḥ parameṣṭhinaḥ .. 5..
श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ॥ दक्षस्येव दुहितृषु तस्मात्तानब्रवीत्तु सः ॥ ६ ॥
श्रुतवान् वा कश्यपात् वै पुंसाम् सृष्टिः भविष्यति ॥ दक्षस्य इव दुहितृषु तस्मात् तान् अब्रवीत् तु सः ॥ ६ ॥
śrutavān vā kaśyapāt vai puṃsām sṛṣṭiḥ bhaviṣyati .. dakṣasya iva duhitṛṣu tasmāt tān abravīt tu saḥ .. 6 ..
अजानतः कथं सृष्टिं बालिशा वै करिष्यथ ॥ दिशं कांचिदजानंतस्तस्माद्विज्ञाय तां भुवम् ॥ ७ ॥
अ जानतः कथम् सृष्टिम् बालिशाः वै करिष्यथ ॥ दिशम् कांचिद् अ जानन्तः तस्मात् विज्ञाय ताम् भुवम् ॥ ७ ॥
a jānataḥ katham sṛṣṭim bāliśāḥ vai kariṣyatha .. diśam kāṃcid a jānantaḥ tasmāt vijñāya tām bhuvam .. 7 ..
इत्युक्ताः प्रययुस्सर्वे आशां विज्ञातुमोजसा ॥ तदंतं न हि संप्राप्य न निवृत्ताः पितुर्गृहम् ॥ ८॥
इति उक्ताः प्रययुः सर्वे आशाम् विज्ञातुम् ओजसा ॥ तद्-अन्तम् न हि संप्राप्य न निवृत्ताः पितुः गृहम् ॥ ८॥
iti uktāḥ prayayuḥ sarve āśām vijñātum ojasā .. tad-antam na hi saṃprāpya na nivṛttāḥ pituḥ gṛham .. 8..
तज्ज्ञात्वा जनयामास पुनः पंचशतान्सुतान्॥तानुवाच पुनस्सोऽपि नारदस्सर्वदर्शनः॥ ९ ॥
तत् ज्ञात्वा जनयामास पुनर् पंचशतान् सुतान्॥तान् उवाच पुनर् सः अपि नारदः सर्व-दर्शनः॥ ९ ॥
tat jñātvā janayāmāsa punar paṃcaśatān sutān..tān uvāca punar saḥ api nāradaḥ sarva-darśanaḥ.. 9 ..
नारद उवाच ।।
भुवो मानमजानंतः कथं सृष्टिं करिष्यथ ॥ सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ॥ 5.31.१० ॥
भुवः मानम् अ जानन्तः कथम् सृष्टिम् करिष्यथ ॥ सर्वे हि बालिशाः किम् हि सृष्टि-कर्तुम् समुद्यताः ॥ ५।३१।१० ॥
bhuvaḥ mānam a jānantaḥ katham sṛṣṭim kariṣyatha .. sarve hi bāliśāḥ kim hi sṛṣṭi-kartum samudyatāḥ .. 5.31.10 ..
सूत उवाच।।
तेऽपि तद्वचनं श्रुत्वा निर्यातास्सर्वतोदिशम् ॥ सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ॥ ११ ॥
ते अपि तद्-वचनम् श्रुत्वा निर्याताः सर्वतोदिशम् ॥ सुबलाश्वाः दक्ष-सुताः हर्यश्वाः इव ते पुरा ॥ ११ ॥
te api tad-vacanam śrutvā niryātāḥ sarvatodiśam .. subalāśvāḥ dakṣa-sutāḥ haryaśvāḥ iva te purā .. 11 ..
अनंतं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ॥ अद्यापि न निवर्तंते समुद्रेभ्य इवापगाः ॥ १२ ॥
अनंतम् पुष्करम् प्राप्य गताः ते अपि पराभवम् ॥ अद्य अपि न निवर्तन्ते समुद्रेभ्यः इव आपगाः ॥ १२ ॥
anaṃtam puṣkaram prāpya gatāḥ te api parābhavam .. adya api na nivartante samudrebhyaḥ iva āpagāḥ .. 12 ..
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ॥ प्रयातो नश्यति मुने तन्न कार्य्यं विपश्चिता ॥ १३॥
तदा प्रभृति वै भ्राता भ्रातुः अन्वेषणे रतः ॥ प्रयातः नश्यति मुने तत् न कार्य्यम् विपश्चिता ॥ १३॥
tadā prabhṛti vai bhrātā bhrātuḥ anveṣaṇe rataḥ .. prayātaḥ naśyati mune tat na kāryyam vipaścitā .. 13..
तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः ॥ स च क्रोधा द्ददौ शापं नारदाय महात्मने॥१४॥
तान् च अपि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ॥ स च क्रोधा द्ददौ शापम् नारदाय महात्मने॥१४॥
tān ca api naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ .. sa ca krodhā ddadau śāpam nāradāya mahātmane..14..
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥ तव सान्निध्यतो लोके भवेच्च कलहस्सदा ॥ १५ ॥
कुत्रचिद् न लभस्व इति संस्थितिम् कलहप्रिय ॥ तव सान्निध्यतः लोके भवेत् च कलहः सदा ॥ १५ ॥
kutracid na labhasva iti saṃsthitim kalahapriya .. tava sānnidhyataḥ loke bhavet ca kalahaḥ sadā .. 15 ..
सांत्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः॥कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम्॥१६॥
सांत्वितः अथ विधात्रा हि स दक्षः तु प्रजापतिः॥कन्याः षष्टी असृजत् पश्चात् वीरिण्याम् इति नः श्रुतम्॥१६॥
sāṃtvitaḥ atha vidhātrā hi sa dakṣaḥ tu prajāpatiḥ..kanyāḥ ṣaṣṭī asṛjat paścāt vīriṇyām iti naḥ śrutam..16..
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १७ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ सप्तविंशति सोमाय चतस्रः अरिष्टनेमिने ॥ १७ ॥
dadau sa daśa dharmāya kaśyapāya trayodaśa .. saptaviṃśati somāya catasraḥ ariṣṭanemine .. 17 ..
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥ द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १८॥
द्वे च एवम् ब्रह्म-पुत्राय द्वे च एव अङ्गिरसे तदा ॥ द्वे कृशाश्वाय विदुषे तासाम् नामानि मे शृणु ॥ १८॥
dve ca evam brahma-putrāya dve ca eva aṅgirase tadā .. dve kṛśāśvāya viduṣe tāsām nāmāni me śṛṇu .. 18..
अरुंधती वसुर्य्यामिर्लम्बा भानुर्मरुत्वती ॥ संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ॥ १९ ॥
अरुंधती वसुः य्यामिः लम्बा भानुः मरुत्वती ॥ संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ॥ १९ ॥
aruṃdhatī vasuḥ yyāmiḥ lambā bhānuḥ marutvatī .. saṃkalpā ca muhūrtā ca saṃdhyā viśvā ca vai mune .. 19 ..
धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ॥ विश्वेदेवास्तु विश्वायास्साध्यान्साध्या व्यजायत ॥ 5.31.२०॥
धर्मपत्न्यः मुने तु एताः तासु अपत्यानि मे शृणु ॥ विश्वेदेवाः तु विश्वायाः साध्यान् साध्या व्यजायत ॥ ५।३१।२०॥
dharmapatnyaḥ mune tu etāḥ tāsu apatyāni me śṛṇu .. viśvedevāḥ tu viśvāyāḥ sādhyān sādhyā vyajāyata .. 5.31.20..
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥ भानोस्तु भानवस्सर्वे मुहूर्तायां मुहूर्तजाः॥२१॥
मरुत्वत्याम् मरुत्वन्तः वसोः तु वसवः तथा ॥ भानोः तु भानवः सर्वे मुहूर्तायाम् मुहूर्तजाः॥२१॥
marutvatyām marutvantaḥ vasoḥ tu vasavaḥ tathā .. bhānoḥ tu bhānavaḥ sarve muhūrtāyām muhūrtajāḥ..21..
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ॥ पृथिवी विषमस्तस्यामरुन्धत्यामजायत ॥ २२॥
लम्बायाः च एव घोषः अथ नागवीथी च यामि-जा ॥ पृथिवी विषमः तस्याम् अरुन्धत्याम् अजायत ॥ २२॥
lambāyāḥ ca eva ghoṣaḥ atha nāgavīthī ca yāmi-jā .. pṛthivī viṣamaḥ tasyām arundhatyām ajāyata .. 22..
संकल्पायास्तु सत्यात्मा जज्ञे संकल्प एव हि॥अयादया वसोः पुत्रा अष्टौ ताञ्छृणु शौनक ॥ २३ ।
संकल्पायाः तु सत्य-आत्मा जज्ञे संकल्पः एव हि॥अयादयाः वसोः पुत्राः अष्टौ तान् शृणु शौनक ॥ २३ ।
saṃkalpāyāḥ tu satya-ātmā jajñe saṃkalpaḥ eva hi..ayādayāḥ vasoḥ putrāḥ aṣṭau tān śṛṇu śaunaka .. 23 .
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥ प्रत्यूषश्च प्रभासश्च वसवाऽष्टा च नामतः ॥ २४ ॥
अयः धुवः च सोमः च धरः च एव अनिलः अनलः ॥ प्रत्यूषः च प्रभासः च वसवा अष्टा च नामतः ॥ २४ ॥
ayaḥ dhuvaḥ ca somaḥ ca dharaḥ ca eva anilaḥ analaḥ .. pratyūṣaḥ ca prabhāsaḥ ca vasavā aṣṭā ca nāmataḥ .. 24 ..
अयस्य पुत्रो वैतण्डः श्रमः शांतो मुनिस्तथा ॥ ध्रुवस्य पुत्रो भगवान्कालो लोकभावनः ॥ २५॥
अयस्य पुत्रः वैतण्डः श्रमः शांतः मुनिः तथा ॥ ध्रुवस्य पुत्रः भगवान् कालः लोक-भावनः ॥ २५॥
ayasya putraḥ vaitaṇḍaḥ śramaḥ śāṃtaḥ muniḥ tathā .. dhruvasya putraḥ bhagavān kālaḥ loka-bhāvanaḥ .. 25..
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ॥ धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ॥ २६ ॥
सोमस्य भगवान् वर्चाः वर्चस्वी येन जायते ॥ धरस्य पुत्रः द्रविणः हुतहव्यवहः तथा ॥ २६ ॥
somasya bhagavān varcāḥ varcasvī yena jāyate .. dharasya putraḥ draviṇaḥ hutahavyavahaḥ tathā .. 26 ..
मनोहरायाश्शिशिरः प्राणोऽथ रमणस्तथा ॥ अनिलस्य शिवा भार्य्या यस्याः पुत्राः पुरोजवः ॥ २७॥
मनोहरायाः शिशिरः प्राणः अथ रमणः तथा ॥ अनिलस्य शिवा भार्य्या यस्याः पुत्राः पुरोजवः ॥ २७॥
manoharāyāḥ śiśiraḥ prāṇaḥ atha ramaṇaḥ tathā .. anilasya śivā bhāryyā yasyāḥ putrāḥ purojavaḥ .. 27..
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु॥अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते॥२८॥
अविज्ञातगतिः च एव द्वौ पुत्रौ अनिलस्य तु॥अग्नि-पुत्रः कुमारः तु शर-स्तम्बे श्रिया आवृते॥२८॥
avijñātagatiḥ ca eva dvau putrau anilasya tu..agni-putraḥ kumāraḥ tu śara-stambe śriyā āvṛte..28..
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः॥अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः॥२९॥
तस्य शाखः विशाखः च नैगमेयः च पृष्ठतस्॥अपत्यम् कृत्तिकानाम् तु कार्तिकेयः इति स्मृतः॥२९॥
tasya śākhaḥ viśākhaḥ ca naigameyaḥ ca pṛṣṭhatas..apatyam kṛttikānām tu kārtikeyaḥ iti smṛtaḥ..29..
प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः॥द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ॥5.31.३०॥
प्रत्यूषस्य तु अभूत् पुत्रः ऋषिः नाम्ना तु देवलः॥द्वौ पुत्रौ देवलस्य अपि प्रजावन्तौ मनीषिणौ॥५।३१।३०॥
pratyūṣasya tu abhūt putraḥ ṛṣiḥ nāmnā tu devalaḥ..dvau putrau devalasya api prajāvantau manīṣiṇau..5.31.30..
बृहस्पते तु भगिनी वरस्त्री ब्रह्मचारिणी ॥ योगसिद्धा जगत्कृत्स्नं समंताद्व्यचरत्तदा ॥ ३१॥
बृहस्पते तु भगिनी वर-स्त्री ब्रह्मचारिणी ॥ योगसिद्धा जगत् कृत्स्नम् समंतात् व्यचरत् तदा ॥ ३१॥
bṛhaspate tu bhaginī vara-strī brahmacāriṇī .. yogasiddhā jagat kṛtsnam samaṃtāt vyacarat tadā .. 31..
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च॥विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः॥३२॥
प्रभासस्य तु सा भार्य्या वसूनाम् अष्टमस्य च॥विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः॥३२॥
prabhāsasya tu sā bhāryyā vasūnām aṣṭamasya ca..viśvakarmā mahābhāga tasya jajñe prajāpatiḥ..32..
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः॥भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥ ३३ ॥
कर्ता शिल्प-सहस्राणाम् त्रिदशानाम् च वार्द्धकिः॥भूषणानाम् च सर्वेषाम् कर्ता शिल्पवताम् वरः ॥ ३३ ॥
kartā śilpa-sahasrāṇām tridaśānām ca vārddhakiḥ..bhūṣaṇānām ca sarveṣām kartā śilpavatām varaḥ .. 33 ..
यस्सर्वासां विमानानि देवतानां चकार ह ॥ मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ ३४ ॥
यः सर्वासाम् विमानानि देवतानाम् चकार ह ॥ मनुष्याः च उपजीवन्ति यस्य शिल्पम् महात्मनः ॥ ३४ ॥
yaḥ sarvāsām vimānāni devatānām cakāra ha .. manuṣyāḥ ca upajīvanti yasya śilpam mahātmanaḥ .. 34 ..
मतांतरमाह ।।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ॥ ३५ ॥
रैवतः अजः भवः भीमः वामः उग्रः वृषाकपिः ॥ अज-एक-पाद् अहिर्बुध्न्यः बहु-रूपः महान् इति ॥ ३५ ॥
raivataḥ ajaḥ bhavaḥ bhīmaḥ vāmaḥ ugraḥ vṛṣākapiḥ .. aja-eka-pād ahirbudhnyaḥ bahu-rūpaḥ mahān iti .. 35 ..
सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः ॥ तत्रैकादशमुख्यास्तु तन्नामानि मुने शृणु ॥ ३६॥
सरूपायाम् प्रसूतस्य स्त्रियाम् रुद्रः च कोटिशस् ॥ तत्र एकादश-मुख्याः तु तद्-नामानि मुने शृणु ॥ ३६॥
sarūpāyām prasūtasya striyām rudraḥ ca koṭiśas .. tatra ekādaśa-mukhyāḥ tu tad-nāmāni mune śṛṇu .. 36..
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान्॥हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥ ३७ ॥
अजैकपाद् अहिर्बुध्न्यः त्वष्टा रुद्रः च वीर्यवान्॥हरः च बहुरूपः च त्र्यम्बकः च अपराजितः ॥ ३७ ॥
ajaikapād ahirbudhnyaḥ tvaṣṭā rudraḥ ca vīryavān..haraḥ ca bahurūpaḥ ca tryambakaḥ ca aparājitaḥ .. 37 ..
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ३८ ॥
वृषाकपिः च शम्भुः च कपर्दी रैवतः तथा ॥ एकादशा एते कथिताः रुद्राः त्रिभुवन-ईश्वराः ॥ ३८ ॥
vṛṣākapiḥ ca śambhuḥ ca kapardī raivataḥ tathā .. ekādaśā ete kathitāḥ rudrāḥ tribhuvana-īśvarāḥ .. 38 ..
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम्॥शृणु कश्यपपत्नीनां नामानि मुनिसत्तम॥३९॥
शतम् तु एवम् समाख्यातम् रुद्राणाम् अमित-ओजसाम्॥शृणु कश्यप-पत्नीनाम् नामानि मुनि-सत्तम॥३९॥
śatam tu evam samākhyātam rudrāṇām amita-ojasām..śṛṇu kaśyapa-patnīnām nāmāni muni-sattama..39..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकऽत्रिंशोध्यायः ॥ ३१ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् सर्गवर्णनम् नाम एकऽत्रिंशः उध्यायः ॥ ३१ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām sargavarṇanam nāma eka'triṃśaḥ udhyāyaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In