| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
एष मन्वन्तरे तात सर्गस्स्वारोचिषे स्मृतः ॥ वैवस्वते तु महति वारुणे वितते क्रतौ ॥ १ ॥
एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ॥ वैवस्वते तु महति वारुणे वितते क्रतौ ॥ १ ॥
eṣa manvantare tāta sargaḥ svārociṣe smṛtaḥ .. vaivasvate tu mahati vāruṇe vitate kratau .. 1 ..
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥ पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् ॥ २ ॥
जुह्वानस्य ब्रह्मणः वै प्रजा-सर्गः इह उच्यते ॥ पूर्वम् यान् अथ ब्रह्मर्षीन् उत्पन्नान् सप्त मानसान् ॥ २ ॥
juhvānasya brahmaṇaḥ vai prajā-sargaḥ iha ucyate .. pūrvam yān atha brahmarṣīn utpannān sapta mānasān .. 2 ..
पुत्रान्वै कल्पयामास स्वयमेव पितामहः ॥ तेषां विरोधो देवानां दानवानां महानृषे ॥ ३ ॥
पुत्रान् वै कल्पयामास स्वयम् एव पितामहः ॥ तेषाम् विरोधः देवानाम् दानवानाम् महान् ऋषे ॥ ३ ॥
putrān vai kalpayāmāsa svayam eva pitāmahaḥ .. teṣām virodhaḥ devānām dānavānām mahān ṛṣe .. 3 ..
दिति विनष्टपुत्रा तु कश्यपं समुपस्थिता ॥ स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ॥ ४॥
दिति विनष्ट-पुत्रा तु कश्यपम् समुपस्थिता ॥ स कश्यपः प्रसन्न-आत्मा सम्गय-गाराधितः तया ॥ ४॥
diti vinaṣṭa-putrā tu kaśyapam samupasthitā .. sa kaśyapaḥ prasanna-ātmā samgaya-gārādhitaḥ tayā .. 4..
वरेणच्छंदयामास सा च वव्रे वरं तदा॥पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ५ ॥
वरेण छंदयामास सा च वव्रे वरम् तदा॥पुत्रम् इन्द्र-वध-अर्थाय समर्थम् अमित-ओजसम् ॥ ५ ॥
vareṇa chaṃdayāmāsa sā ca vavre varam tadā..putram indra-vadha-arthāya samartham amita-ojasam .. 5 ..
स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ॥ ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ॥ ६ ॥
स तस्यै च वरम् प्रादात् प्रार्थितम् सु महा-तपाः ॥ ब्रह्मचर्य्य-आदि-नियमम् प्राह च एव शतम् समाः ॥ ६ ॥
sa tasyai ca varam prādāt prārthitam su mahā-tapāḥ .. brahmacaryya-ādi-niyamam prāha ca eva śatam samāḥ .. 6 ..
धारयामास गर्भं तु शुचिस्सा वरवर्णिनी ॥ ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ॥ ७ ॥
धारयामास गर्भम् तु शुचिः सा वरवर्णिनी ॥ ब्रह्मचर्य-आदि-नियमम् दितिः दध्रे तथा एव वै ॥ ७ ॥
dhārayāmāsa garbham tu śuciḥ sā varavarṇinī .. brahmacarya-ādi-niyamam ditiḥ dadhre tathā eva vai .. 7 ..
ततस्त्वाधाय सोऽदित्यां गर्भं तं शंसितव्रतः ॥ जगाम कश्यपस्तप्तुं तपस्संहृष्टमानसः ॥ ८ ॥
ततस् तु आधाय सः अदित्याम् गर्भम् तम् शंसित-व्रतः ॥ जगाम कश्यपः तप्तुम् तपः संहृष्ट-मानसः ॥ ८ ॥
tatas tu ādhāya saḥ adityām garbham tam śaṃsita-vrataḥ .. jagāma kaśyapaḥ taptum tapaḥ saṃhṛṣṭa-mānasaḥ .. 8 ..
तस्याश्चैवांतरं प्रेप्सुस्सोऽभवत्पाकशासनः ॥ ऊनवर्षे शते चास्या ददर्शान्तरमेव सः॥९॥
तस्याः च एव अन्तरम् प्रेप्सुः सः अभवत् पाकशासनः ॥ ऊन-वर्षे शते च अस्याः ददर्श अन्तरम् एव सः॥९॥
tasyāḥ ca eva antaram prepsuḥ saḥ abhavat pākaśāsanaḥ .. ūna-varṣe śate ca asyāḥ dadarśa antaram eva saḥ..9..
अकृत्वा पादयोः शौचं दितिरर्वाक्शिरास्तदा ॥ निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ॥ 5.33.१० ॥
अ कृत्वा पादयोः शौचम् दितिः अर्वाक्शिराः तदा ॥ निद्राम् आहारयामास भाविनः अर्थस्य गौरवात् ॥ ५।३३।१० ॥
a kṛtvā pādayoḥ śaucam ditiḥ arvākśirāḥ tadā .. nidrām āhārayāmāsa bhāvinaḥ arthasya gauravāt .. 5.33.10 ..
एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥ ११ ॥
एतस्मिन् अन्तरे शक्रः तस्याः कुक्षिम् प्रविश्य सः ।वज्रपाणिः तु तम् गर्भम् सप्तधा हि न्यकृन्तत ॥ ११ ॥
etasmin antare śakraḥ tasyāḥ kukṣim praviśya saḥ .vajrapāṇiḥ tu tam garbham saptadhā hi nyakṛntata .. 11 ..
स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ॥ रुदन्तं सप्तधैकैकं मारोदीरिति तान्पुनः ॥ चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ॥ १२ ॥
स पाट्यमानः गर्भः अथ वज्रेण प्ररुरोद ह ॥ रुदन्तम् सप्तधा एकैकम् मा अरोदीः इति तान् पुनर् ॥ चकर्त वज्रपाणिः तान् ना इव मम्रुः तथा अपि ते ॥ १२ ॥
sa pāṭyamānaḥ garbhaḥ atha vajreṇa praruroda ha .. rudantam saptadhā ekaikam mā arodīḥ iti tān punar .. cakarta vajrapāṇiḥ tān nā iva mamruḥ tathā api te .. 12 ..
ते तमूचुः पात्यमानास्सर्वे प्रांजलयो मुने ॥ नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ॥ १३ ॥
ते तम् ऊचुः पात्यमानाः सर्वे प्रांजलयः मुने ॥ नः जिघांससि किम् शक्र भ्रातरः मरुतः तव ॥ १३ ॥
te tam ūcuḥ pātyamānāḥ sarve prāṃjalayaḥ mune .. naḥ jighāṃsasi kim śakra bhrātaraḥ marutaḥ tava .. 13 ..
इंद्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ॥ । ।तत्यजुर्द्दैत्यभावं ते विप्रर्षे शंकरेच्छया॥१४॥
इंद्रेण स्वीकृताः ते हि भ्रातृ-त्वे सर्वे एव च ॥ । ।तत्यजुः द्दैत्य-भावम् ते विप्रर्षे शंकर-इच्छया॥१४॥
iṃdreṇa svīkṛtāḥ te hi bhrātṛ-tve sarve eva ca .. . .tatyajuḥ ddaitya-bhāvam te viprarṣe śaṃkara-icchayā..14..
मरुतो नाम ते देवा बभूवुस्तु महाबलाः॥खगा एकोनपंचाशत्सहाया वज्रपाणिनः॥१५॥। ।
मरुतः नाम ते देवाः बभूवुः तु महा-बलाः॥खगाः एकोनपंचाशत्-सहायाः वज्रपाणिनः॥१५॥। ।
marutaḥ nāma te devāḥ babhūvuḥ tu mahā-balāḥ..khagāḥ ekonapaṃcāśat-sahāyāḥ vajrapāṇinaḥ..15... .
तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ॥ क्रमशस्तानि राज्यानि पृथुपूर्वं शृणुष्व तत् ॥ १६ ॥
तेषाम् एव प्रवृद्धानाम् हरिः प्रादात् प्रजापतिः ॥ क्रमशस् तानि राज्यानि पृथु-पूर्वम् शृणुष्व तत् ॥ १६ ॥
teṣām eva pravṛddhānām hariḥ prādāt prajāpatiḥ .. kramaśas tāni rājyāni pṛthu-pūrvam śṛṇuṣva tat .. 16 ..
अरिष्टपुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ॥ पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ॥ १७॥
अरिष्ट-पुरुषः वीरः कृष्णः जिष्णुः प्रजापतिः ॥ पर्जन्यः तु धनाध्यक्षः तस्य सर्वम् इदम् जगत् ॥ १७॥
ariṣṭa-puruṣaḥ vīraḥ kṛṣṇaḥ jiṣṇuḥ prajāpatiḥ .. parjanyaḥ tu dhanādhyakṣaḥ tasya sarvam idam jagat .. 17..
भूतसर्गमिमं सम्यगवोचं ते महामुने ॥ विभागं शृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ॥ १८ ॥
भूत-सर्गम् इमम् सम्यक् अवोचम् ते महा-मुने ॥ विभागम् शृणु राज्यानाम् क्रमशस् तम् ब्रुवे अधुना ॥ १८ ॥
bhūta-sargam imam samyak avocam te mahā-mune .. vibhāgam śṛṇu rājyānām kramaśas tam bruve adhunā .. 18 ..
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ॥ ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १९ ॥
अभिषिच्य अधिराज्ये तु पृथुम् वैन्यम् पितामहः ॥ ततस् क्रमेण राज्यानि व्यादेष्टुम् उपचक्रमे ॥ १९ ॥
abhiṣicya adhirājye tu pṛthum vainyam pitāmahaḥ .. tatas krameṇa rājyāni vyādeṣṭum upacakrame .. 19 ..
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ॥ यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्॥5.33.२०॥
द्विजानाम् वीरुधाम् च एव नक्षत्र-ग्रहयोः तथा ॥ यज्ञानाम् तपसाम् च एव सोमम् राज्ये अभ्यषेचयत्॥५।३३।२०॥
dvijānām vīrudhām ca eva nakṣatra-grahayoḥ tathā .. yajñānām tapasām ca eva somam rājye abhyaṣecayat..5.33.20..
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम्॥आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ २१॥
अपाम् तु वरुणम् राज्ये राज्ञाम् वैश्रवणम् प्रभुम्॥आदित्यानाम् तथा विष्णुम् वसूनाम् अथ पावकम् ॥ २१॥
apām tu varuṇam rājye rājñām vaiśravaṇam prabhum..ādityānām tathā viṣṇum vasūnām atha pāvakam .. 21..
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ॥ दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ २२॥
प्रजापतीनाम् दक्षम् तु मरुताम् अथ वासवम् ॥ दैत्यानाम् दानवानाम् च प्रह्लादम् अमित-ओजसम् ॥ २२॥
prajāpatīnām dakṣam tu marutām atha vāsavam .. daityānām dānavānām ca prahlādam amita-ojasam .. 22..
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ॥ मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ २३ ॥
वैवस्वतम् पितॄणाम् च यमम् राज्ये अभ्यषेचयत् ॥ मातॄणाम् च व्रतानाम् च मन्त्राणाम् च तथा गवाम् ॥ २३ ॥
vaivasvatam pitṝṇām ca yamam rājye abhyaṣecayat .. mātṝṇām ca vratānām ca mantrāṇām ca tathā gavām .. 23 ..
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ २४॥
यक्षाणाम् राक्षसानाम् च पार्थिवानाम् तथा एव च ॥ सर्व-भूत-पिशाचानाम् गिरिशम् शूलपाणिनम् ॥ २४॥
yakṣāṇām rākṣasānām ca pārthivānām tathā eva ca .. sarva-bhūta-piśācānām giriśam śūlapāṇinam .. 24..
शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥ २५॥
शैलानाम् हिमवन्तम् च नदीनाम् अथ सागरम् ॥ मृगाणाम् अथ शार्दूलम् गोवृषम् तु गवाम् अपि ॥ २५॥
śailānām himavantam ca nadīnām atha sāgaram .. mṛgāṇām atha śārdūlam govṛṣam tu gavām api .. 25..
वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ॥ इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ॥ २६ ॥ ।
वनस्पतीनाम् वृक्षाणाम् वटम् राज्ये अभ्यषेचयत् ॥ इति दत्तम् प्रजा-ईशेन राज्यम् सर्वत्र वै क्रमात् ॥ २६ ॥ ।
vanaspatīnām vṛkṣāṇām vaṭam rājye abhyaṣecayat .. iti dattam prajā-īśena rājyam sarvatra vai kramāt .. 26 .. .
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ॥ स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ॥ २७॥
पूर्वस्याम् दिशि पुत्रम् तु वैराजस्य प्रजापतेः ॥ स्थापयामास सर्व-आत्मा राज्ये विश्वपतिः विभुः ॥ २७॥
pūrvasyām diśi putram tu vairājasya prajāpateḥ .. sthāpayāmāsa sarva-ātmā rājye viśvapatiḥ vibhuḥ .. 27..
तथैव मुनिशार्दूल कर्दमस्य प्रजापतेः ॥ दक्षिणस्यां तथा पुत्रं सुधन्वानमचीक्लृपत् ॥ २८॥
तथा एव मुनि-शार्दूल कर्दमस्य प्रजापतेः ॥ दक्षिणस्याम् तथा पुत्रम् सुधन्वानम् अचीक्लृपत् ॥ २८॥
tathā eva muni-śārdūla kardamasya prajāpateḥ .. dakṣiṇasyām tathā putram sudhanvānam acīklṛpat .. 28..
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्॥केतुमन्तं महात्मानं राजानं व्यादिशत्प्रभुः ॥ २९ ॥
पश्चिमायाम् दिशि तथा रजसः पुत्रम् अच्युतम्॥केतुमन्तम् महात्मानम् राजानम् व्यादिशत् प्रभुः ॥ २९ ॥
paścimāyām diśi tathā rajasaḥ putram acyutam..ketumantam mahātmānam rājānam vyādiśat prabhuḥ .. 29 ..
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥ उदीच्यां दिशि राजानं दुर्धर्षं सोऽभ्यषेचयत् ॥ 5.33.३० ॥
तथा हिरण्य-रोमाणम् पर्जन्यस्य प्रजापतेः ॥ उदीच्याम् दिशि राजानम् दुर्धर्षम् सः अभ्यषेचयत् ॥ ५।३३।३० ॥
tathā hiraṇya-romāṇam parjanyasya prajāpateḥ .. udīcyām diśi rājānam durdharṣam saḥ abhyaṣecayat .. 5.33.30 ..
तस्य विस्तारमाख्यातं पृथोर्वेन्यस्य शौनक॥महर्ध्ये तदधिष्ठानं पुराणे परिकीर्तितम्॥३१॥
तस्य विस्तारम् आख्यातम् पृथोः वेन्यस्य शौनक॥महर्ध्ये तत् अधिष्ठानम् पुराणे परिकीर्तितम्॥३१॥
tasya vistāram ākhyātam pṛthoḥ venyasya śaunaka..mahardhye tat adhiṣṭhānam purāṇe parikīrtitam..31..
इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
इति श्री-शिवमहापुराणे पञ्चम्याः मुमासंहितायाम् कश्यपवंशवर्णनम् नाम द्वात्रिंशः अध्यायः ॥ ३२ ॥
iti śrī-śivamahāpurāṇe pañcamyāḥ mumāsaṃhitāyām kaśyapavaṃśavarṇanam nāma dvātriṃśaḥ adhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In