| |
|

This overlay will guide you through the buttons:

।। शौनक उवाच।।
मन्वंतराणि सर्वाणि विस्तरेणानुकीर्तय ॥ यावंतो मनवश्चैव श्रोतुमिच्छामि तानहम्॥१॥
मन्वंतराणि सर्वाणि विस्तरेण अनुकीर्तय ॥ यावंतः मनवः च एव श्रोतुम् इच्छामि तान् अहम्॥१॥
manvaṃtarāṇi sarvāṇi vistareṇa anukīrtaya .. yāvaṃtaḥ manavaḥ ca eva śrotum icchāmi tān aham..1..
सूत उवाच।।
स्वायंभुवो मनुश्चैव ततस्स्त्वारोचिषस्तथा॥उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २॥
स्वायंभुवः मनुः च एव॥उत्तमः तामसः च एव रैवतः चाक्षुषः तथा ॥ २॥
svāyaṃbhuvaḥ manuḥ ca eva..uttamaḥ tāmasaḥ ca eva raivataḥ cākṣuṣaḥ tathā .. 2..
एते च मनवः षट् ते संप्रोक्ता मुनिपुंगव॥वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते ॥ ३॥
एते च मनवः षट् ते संप्रोक्ताः मुनि-पुंगव॥वैवस्वतः मुनि-श्रेष्ठ सांप्रतम् मनुः उच्यते ॥ ३॥
ete ca manavaḥ ṣaṭ te saṃproktāḥ muni-puṃgava..vaivasvataḥ muni-śreṣṭha sāṃpratam manuḥ ucyate .. 3..
सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ॥ तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४॥
सावर्णिः च मनुः च एव ततस् रौच्यः तथा परः ॥ तथा एव ब्रह्मसावर्णिः चत्वारः मनवः तथा ॥ ४॥
sāvarṇiḥ ca manuḥ ca eva tatas raucyaḥ tathā paraḥ .. tathā eva brahmasāvarṇiḥ catvāraḥ manavaḥ tathā .. 4..
तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ॥ देवसावर्णिराख्यातं इंद्रसावर्णिरेव च॥ ५ ॥
तथा एव धर्मसावर्णिः रुद्रसावर्णिः एव च ॥ इंद्रसावर्णिः एव च॥ ५ ॥
tathā eva dharmasāvarṇiḥ rudrasāvarṇiḥ eva ca .. iṃdrasāvarṇiḥ eva ca.. 5 ..
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः॥६॥
अतीताः वर्तमानाः च तथा एव अनागताः च ये ॥ कीर्तिताः मनवः च अपि मया एव एते यथा श्रुताः॥६॥
atītāḥ vartamānāḥ ca tathā eva anāgatāḥ ca ye .. kīrtitāḥ manavaḥ ca api mayā eva ete yathā śrutāḥ..6..
मुने चतुर्दशैतानि त्रिकालानुगतानि ते ॥ प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्य्ययः॥७॥
मुने चतुर्दश एतानि त्रि-काल-अनुगतानि ते ॥ प्रोक्तानि निर्मितः कल्पः युग-साहस्र-पर्य्ययः॥७॥
mune caturdaśa etāni tri-kāla-anugatāni te .. proktāni nirmitaḥ kalpaḥ yuga-sāhasra-paryyayaḥ..7..
ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान्देवगणांस्तथा॥शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ॥ ८॥
ऋषीन् तेषाम् प्रवक्ष्यामि पुत्त्रान् देव-गणान् तथा॥शृणु शौनक सु प्रीत्या क्रमशस् तानि यशस्विनः ॥ ८॥
ṛṣīn teṣām pravakṣyāmi puttrān deva-gaṇān tathā..śṛṇu śaunaka su prītyā kramaśas tāni yaśasvinaḥ .. 8..
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ॥ पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणस्सुताः ॥ ९ ॥
मरीचिः अत्रिः भगवान् अङ्गिराः पुलहः क्रतुः ॥ पुलस्त्यः च वसिष्ठः च सप्त एते ब्रह्मणः सुताः ॥ ९ ॥
marīciḥ atriḥ bhagavān aṅgirāḥ pulahaḥ kratuḥ .. pulastyaḥ ca vasiṣṭhaḥ ca sapta ete brahmaṇaḥ sutāḥ .. 9 ..
उत्तरस्यां दिशि तथा मुने सप्तर्ष यस्तथा ॥ यामा नाम तथा देवा आसन्स्वायंभुवेंतरे ॥ 5.34.१० ॥
उत्तरस्याम् दिशि तथा मुने सप्तर्ष यः तथा ॥ यामाः नाम तथा देवाः आसन् स्वायंभुवेंतरे ॥ ५।३४।१० ॥
uttarasyām diśi tathā mune saptarṣa yaḥ tathā .. yāmāḥ nāma tathā devāḥ āsan svāyaṃbhuveṃtare .. 5.34.10 ..
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ॥ ज्योतिष्मान्धृतिमान्हव्यः सवनश्शुभ्र एव च ॥ ११॥
आग्नीध्रः च अग्निबाहुः च मेधाः मेधातिथिः वसुः ॥ ज्योतिष्मान् धृतिमान् हव्यः सवनः शुभ्रः एव च ॥ ११॥
āgnīdhraḥ ca agnibāhuḥ ca medhāḥ medhātithiḥ vasuḥ .. jyotiṣmān dhṛtimān havyaḥ savanaḥ śubhraḥ eva ca .. 11..
स्वायंभुवस्य पुत्रास्ते मनोर्दश महात्मनः ॥ कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ॥ १२॥
स्वायंभुवस्य पुत्राः ते मनोः दश महात्मनः ॥ कीर्तिताः मुनि-शार्दूल तत्र इन्द्रः यज्ञः उच्यते ॥ १२॥
svāyaṃbhuvasya putrāḥ te manoḥ daśa mahātmanaḥ .. kīrtitāḥ muni-śārdūla tatra indraḥ yajñaḥ ucyate .. 12..
प्रथमं कथितं तात दिव्यं मन्वतरं तथा॥द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ॥ १३॥
प्रथमम् कथितम् तात दिव्यम् तथा॥द्वितीयम् ते प्रवक्ष्यामि तत् निबोध यथातथम् ॥ १३॥
prathamam kathitam tāta divyam tathā..dvitīyam te pravakṣyāmi tat nibodha yathātatham .. 13..
ऊर्जस्तंभः परस्तंभ ऋषभो वसुमां स्तथा ॥ ज्योतिष्मान्द्युतिमांश्चैव रोचिष्मान्सप्तमस्तथा ॥ १४ ॥
ऊर्जस्तंभः परस्तंभः ऋषभः वसुमान् स्तथा ॥ ज्योतिष्मान् द्युतिमान् च एव रोचिष्मान् सप्तमः तथा ॥ १४ ॥
ūrjastaṃbhaḥ parastaṃbhaḥ ṛṣabhaḥ vasumān stathā .. jyotiṣmān dyutimān ca eva rociṣmān saptamaḥ tathā .. 14 ..
एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ॥ देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ॥ १५ ॥
एते महा-ऋषयः ज्ञेयाः तत्र इन्द्रः रोचनः तथा ॥ देवाः च तुषिताः नाम स्मृताः स्वारोचिषेंऽतरे अतरे ॥ १५ ॥
ete mahā-ṛṣayaḥ jñeyāḥ tatra indraḥ rocanaḥ tathā .. devāḥ ca tuṣitāḥ nāma smṛtāḥ svārociṣeṃ'tare atare .. 15 ..
हरिघ्नस्सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ॥ प्रथितश्च मनस्युश्च नभस्सूर्यस्तथैव च ॥ १६ ॥
॥ प्रथितः च मनस्युः च नभस्सूर्यः तथा एव च ॥ १६ ॥
.. prathitaḥ ca manasyuḥ ca nabhassūryaḥ tathā eva ca .. 16 ..
स्वारोचिषस्य पुत्रास्ते मनोर्दशमहात्मनः॥कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ॥ १७॥
स्वारोचिषस्य पुत्राः ते मनोः दश-महात्मनः॥कीर्तिताः मुनि-शार्दूल महा-वीर्य-पराक्रमाः ॥ १७॥
svārociṣasya putrāḥ te manoḥ daśa-mahātmanaḥ..kīrtitāḥ muni-śārdūla mahā-vīrya-parākramāḥ .. 17..
द्वितीयमेतत्कथितं मुने मन्वन्तरं मया॥तृतीयं तव वक्ष्यामि तन्निबोध यथातथम्॥१८॥
द्वितीयम् एतत् कथितम् मुने मन्वन्तरम् मया॥तृतीयम् तव वक्ष्यामि तत् निबोध यथातथम्॥१८॥
dvitīyam etat kathitam mune manvantaram mayā..tṛtīyam tava vakṣyāmi tat nibodha yathātatham..18..
वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः॥हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ॥ १९॥
वसिष्ठ-पुत्राः सप्त आसन् वासिष्ठाः इति विश्रुताः॥हिरण्यगर्भस्य सुताः ऊर्जाः नाम महा-ओजसः ॥ १९॥
vasiṣṭha-putrāḥ sapta āsan vāsiṣṭhāḥ iti viśrutāḥ..hiraṇyagarbhasya sutāḥ ūrjāḥ nāma mahā-ojasaḥ .. 19..
ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे॥औत्तमेया ऋषिश्रेष्ठ दशपुत्रा मनोः स्मृताः।5.34.२०।
ऋषयः अत्र समाख्याताः कीर्त्यमानान् निबोध मे॥औत्तमेयाः ऋषि-श्रेष्ठ दश-पुत्राः मनोः स्मृताः।५।३४।२०।
ṛṣayaḥ atra samākhyātāḥ kīrtyamānān nibodha me..auttameyāḥ ṛṣi-śreṣṭha daśa-putrāḥ manoḥ smṛtāḥ.5.34.20.
इष ऊर्जित ऊर्जश्च मधुर्माधव एव च॥शुचिश्शुक्रवहश्चैव नभसो नभ एव च ॥ २१॥
इषः ऊर्जितः ऊर्जः च मधुः माधवः एव च॥शुचिः शुक्रवहः च एव नभसः नभः एव च ॥ २१॥
iṣaḥ ūrjitaḥ ūrjaḥ ca madhuḥ mādhavaḥ eva ca..śuciḥ śukravahaḥ ca eva nabhasaḥ nabhaḥ eva ca .. 21..
ऋषभस्तत्र देवाश्च सत्यवेद श्रुतादयः ॥ तत्रेन्द्रस्सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ॥ २२ ॥
ऋषभः तत्र देवाः च सत्यवेद श्रुत-आदयः ॥ तत्र इन्द्रः सत्यजित् नाम त्रैलोक्य-अधिपतिः मुने ॥ २२ ॥
ṛṣabhaḥ tatra devāḥ ca satyaveda śruta-ādayaḥ .. tatra indraḥ satyajit nāma trailokya-adhipatiḥ mune .. 22 ..
तृतीयमेतत्परमं मन्वतरमुदाहृतम् ॥ मन्वतरं चतुर्थं ते कथयामि मुने शृणु ॥ २३॥
तृतीयम् एतत् परमम् मन्वतरम् उदाहृतम् ॥ चतुर्थम् ते कथयामि मुने शृणु ॥ २३॥
tṛtīyam etat paramam manvataram udāhṛtam .. caturtham te kathayāmi mune śṛṇu .. 23..
गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ॥ कपीवान्सप्तऋषयः सत्या देवगणास्तथा ॥ २४ ॥
गार्ग्यः पृथुः तथा वाग्मी जयः धाता कपीनकः ॥ कपीवान् सप्त-ऋषयः सत्याः देव-गणाः तथा ॥ २४ ॥
gārgyaḥ pṛthuḥ tathā vāgmī jayaḥ dhātā kapīnakaḥ .. kapīvān sapta-ṛṣayaḥ satyāḥ deva-gaṇāḥ tathā .. 24 ..
तत्रेंद्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ॥ द्यूतिपोतस्सौतपस्यस्तमश्शूलश्च तापनः ॥ २५ ॥
तत्र इंद्रः त्रिशिखः ज्ञेयः मनु-पुत्रान् मुने शृणु ॥ द्यूतिपोतः सौतपस्यः तमश्शूलः च तापनः ॥ २५ ॥
tatra iṃdraḥ triśikhaḥ jñeyaḥ manu-putrān mune śṛṇu .. dyūtipotaḥ sautapasyaḥ tamaśśūlaḥ ca tāpanaḥ .. 25 ..
तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ॥ तामसस्य स्मृता एते दश पुत्रा महाव्रताः ॥ २६॥
तपः-रतिः अकल्माषः धन्वी खड्गी महान् ऋषिः ॥ तामसस्य स्मृताः एते दश पुत्राः महा-व्रताः ॥ २६॥
tapaḥ-ratiḥ akalmāṣaḥ dhanvī khaḍgī mahān ṛṣiḥ .. tāmasasya smṛtāḥ ete daśa putrāḥ mahā-vratāḥ .. 26..
तामसस्यांतरं चैव मनो मे कथितं तव ॥ चतुर्थं पञ्चमं तात शृणु मन्वंतरं परम् ॥ २७ ॥
तामसस्य अंतरम् च एव मनः मे कथितम् तव ॥ चतुर्थम् पञ्चमम् तात शृणु मन्वंतरम् परम् ॥ २७ ॥
tāmasasya aṃtaram ca eva manaḥ me kathitam tava .. caturtham pañcamam tāta śṛṇu manvaṃtaram param .. 27 ..
देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा॥हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ॥ २८॥
देवबाहुः जयः च एव मुनिः वेदशिराः तथा॥हिरण्यरोमा पर्जन्यः ऊर्ध्वबाहुः च सोम-पाः ॥ २८॥
devabāhuḥ jayaḥ ca eva muniḥ vedaśirāḥ tathā..hiraṇyaromā parjanyaḥ ūrdhvabāhuḥ ca soma-pāḥ .. 28..
सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे॥देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ॥ २९॥
सत्यनेत्र-रताः च अन्ये एते सप्तर्षयः अपरे॥देवाः च भूतरजसः तपःप्रकृतयः तथा ॥ २९॥
satyanetra-ratāḥ ca anye ete saptarṣayaḥ apare..devāḥ ca bhūtarajasaḥ tapaḥprakṛtayaḥ tathā .. 29..
तत्रेंद्रो विभुनामा च त्रैलोक्याधिपतिस्तथा ॥ रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ॥ 5.34.३० ॥
तत्र इंद्रः विभु-नामा च त्रैलोक्य-अधिपतिः तथा ॥ रैवत-आख्यः मनुः तत्र ज्ञेयः तामस-सोदरः ॥ ५।३४।३० ॥
tatra iṃdraḥ vibhu-nāmā ca trailokya-adhipatiḥ tathā .. raivata-ākhyaḥ manuḥ tatra jñeyaḥ tāmasa-sodaraḥ .. 5.34.30 ..
अर्जुनः पंक्तिविंध्यो वा दयायास्त नया मुने ॥ महता तपसा युक्ता मेरुपृष्ठे वसंति हि ॥ ३१ ॥
अर्जुनः पंक्तिविंध्यः वा दयायाः त नयाः मुने ॥ महता तपसा युक्ताः मेरु-पृष्ठे वसंति हि ॥ ३१ ॥
arjunaḥ paṃktiviṃdhyaḥ vā dayāyāḥ ta nayāḥ mune .. mahatā tapasā yuktāḥ meru-pṛṣṭhe vasaṃti hi .. 31 ..
रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः ॥ भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ॥ ३२ ॥
रुचेः प्रजापतिः पुत्रः रौच्यः नाम मनुः स्मृतः ॥ भूत्या च उत्पादितः देव्याम् भौत्यः नाम अभवत् सुतः ॥ ३२ ॥
ruceḥ prajāpatiḥ putraḥ raucyaḥ nāma manuḥ smṛtaḥ .. bhūtyā ca utpāditaḥ devyām bhautyaḥ nāma abhavat sutaḥ .. 32 ..
अनागताश्च सप्तैते कल्पेऽस्मिन्मनवस्स्मृताः ॥ अनागताश्च सप्तैव स्मृता दिवि महर्षयः ॥ ३३ ॥
अनागताः च सप्त एते कल्पे अस्मिन् मनवः स्मृताः ॥ अनागताः च सप्त एव स्मृताः दिवि महा-ऋषयः ॥ ३३ ॥
anāgatāḥ ca sapta ete kalpe asmin manavaḥ smṛtāḥ .. anāgatāḥ ca sapta eva smṛtāḥ divi mahā-ṛṣayaḥ .. 33 ..
रामो व्यासस्तथात्रेयो दीप्तिमान्सु बहुश्रुतः॥भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः॥३४॥
रामः व्यासः तथा आत्रेयः दीप्तिमान् सु बहु-श्रुतः॥भरद्वाजः तथा द्रौणिः अश्वत्थामा महा-द्युतिः॥३४॥
rāmaḥ vyāsaḥ tathā ātreyaḥ dīptimān su bahu-śrutaḥ..bharadvājaḥ tathā drauṇiḥ aśvatthāmā mahā-dyutiḥ..34..
गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ॥ कौशिको गालवश्चैव रुरुः कश्यप एव च ॥ ३५॥
गौतमस्य आत्मजः च एव शरद्वान् गौतमः कृपः ॥ कौशिकः गालवः च एव रुरुः कश्यपः एव च ॥ ३५॥
gautamasya ātmajaḥ ca eva śaradvān gautamaḥ kṛpaḥ .. kauśikaḥ gālavaḥ ca eva ruruḥ kaśyapaḥ eva ca .. 35..
एते सप्त महात्मानो भविष्या मुनिसत्तमाः ॥ देवाश्चानागतास्तत्र त्रयः प्रोक्तास्स्वयंभुवा ॥ ३६॥
एते सप्त महात्मानः भविष्याः मुनि-सत्तमाः ॥ देवाः च अनागताः तत्र त्रयः प्रोक्ताः स्वयंभुवा ॥ ३६॥
ete sapta mahātmānaḥ bhaviṣyāḥ muni-sattamāḥ .. devāḥ ca anāgatāḥ tatra trayaḥ proktāḥ svayaṃbhuvā .. 36..
मरीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः ॥ तेषां विरोचनसुतो बलिरिंद्रो भविष्यति॥३७॥
मरीचेः च एव पुत्राः ते कश्यपस्य महात्मनः ॥ तेषाम् विरोचन-सुतः बलिः इंद्रः भविष्यति॥३७॥
marīceḥ ca eva putrāḥ te kaśyapasya mahātmanaḥ .. teṣām virocana-sutaḥ baliḥ iṃdraḥ bhaviṣyati..37..
विषांङ्गश्चावनीवांश्च सुमंतो धृतिमान्वसुः ॥ सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ॥ ३८॥
विषांङ्गः च अवनीवान् च सुमंतः धृतिमान् वसुः ॥ सूरिः सुर-आख्यः विष्णुः च राजा सुमतिः एव च ॥ ३८॥
viṣāṃṅgaḥ ca avanīvān ca sumaṃtaḥ dhṛtimān vasuḥ .. sūriḥ sura-ākhyaḥ viṣṇuḥ ca rājā sumatiḥ eva ca .. 38..
सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक॥इहाष्टमं हि कथितं नवमं चान्तरं शृणु ॥ ३९ ॥
सावर्णेः च मनोः पुत्राः भविष्याः दश शौनक॥इह अष्टमम् हि कथितम् नवमम् च अन्तरम् शृणु ॥ ३९ ॥
sāvarṇeḥ ca manoḥ putrāḥ bhaviṣyāḥ daśa śaunaka..iha aṣṭamam hi kathitam navamam ca antaram śṛṇu .. 39 ..
प्रथमं दक्षसावर्णि प्रवक्ष्यामि मनुं शृणु ॥ मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ॥ 5.34.४० ॥
प्रथमम् दक्षसावर्णि प्रवक्ष्यामि मनुम् शृणु ॥ मेधातिथिः च पौलस्त्यः वसुः कश्यपः एव च ॥ ५।३४।४० ॥
prathamam dakṣasāvarṇi pravakṣyāmi manum śṛṇu .. medhātithiḥ ca paulastyaḥ vasuḥ kaśyapaḥ eva ca .. 5.34.40 ..
ज्योतिष्मान्भार्गवश्चैव धृतिमानंगिरास्तथा ॥ सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ॥ ४१ ॥
ज्योतिष्मान् भार्गवः च एव धृतिमान् अंगिराः तथा ॥ सवनः च एव वासिष्ठः आत्रेयः हव्यः एव च ॥ ४१ ॥
jyotiṣmān bhārgavaḥ ca eva dhṛtimān aṃgirāḥ tathā .. savanaḥ ca eva vāsiṣṭhaḥ ātreyaḥ havyaḥ eva ca .. 41 ..
पुलहस्सप्त इत्येते ऋषयो रौहितेंतरे ॥ देवतानां गणास्तत्र त्रय एव महामुने ॥ ४२ ॥
पुलहः सप्त इति एते ऋषयः रौहितेंतरे ॥ देवतानाम् गणाः तत्र त्रयः एव महा-मुने ॥ ४२ ॥
pulahaḥ sapta iti ete ṛṣayaḥ rauhiteṃtare .. devatānām gaṇāḥ tatra trayaḥ eva mahā-mune .. 42 ..
दीक्षापुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ॥ धृष्टकेतुर्दीप्तकेतुः पंचहस्तो निराकृतिः ॥ ४३ ॥
दीक्षापुत्रस्य पुत्राः ते रोहितस्य प्रजापतेः ॥ धृष्टकेतुः दीप्तकेतुः पंचहस्तः निराकृतिः ॥ ४३ ॥
dīkṣāputrasya putrāḥ te rohitasya prajāpateḥ .. dhṛṣṭaketuḥ dīptaketuḥ paṃcahastaḥ nirākṛtiḥ .. 43 ..
पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः ॥ प्रथमस्य तु सावर्णेर्नव पुत्रा महौजस ॥ ४४ ॥
पृथुश्रवाः भूरिद्युम्नः ऋचीकः बृहतः गयः ॥ प्रथमस्य तु सावर्णेः नव पुत्राः महा-ओजस ॥ ४४ ॥
pṛthuśravāḥ bhūridyumnaḥ ṛcīkaḥ bṛhataḥ gayaḥ .. prathamasya tu sāvarṇeḥ nava putrāḥ mahā-ojasa .. 44 ..
दशमे त्वथ पर्याये द्वितीयस्यांतरे मनोः ॥ हविष्मान्पुलहश्चैव प्रकृतिश्चैव भार्गवः ॥ ४५ ॥
दशमे तु अथ पर्याये द्वितीयस्य अंतरे मनोः ॥ हविष्मान् पुलहः च एव प्रकृतिः च एव भार्गवः ॥ ४५ ॥
daśame tu atha paryāye dvitīyasya aṃtare manoḥ .. haviṣmān pulahaḥ ca eva prakṛtiḥ ca eva bhārgavaḥ .. 45 ..
आयो मुक्तिस्तथात्रेयो वसिष्ठश्चाव्ययस्स्मृतः ॥ पौलस्त्यः प्रयतिश्चैव भामारश्चैव कश्यपः ॥ ४६॥
आयः मुक्तिः तथा आत्रेयः वसिष्ठः च अव्ययः स्मृतः ॥ पौलस्त्यः प्रयतिः च एव भामारः च एव कश्यपः ॥ ४६॥
āyaḥ muktiḥ tathā ātreyaḥ vasiṣṭhaḥ ca avyayaḥ smṛtaḥ .. paulastyaḥ prayatiḥ ca eva bhāmāraḥ ca eva kaśyapaḥ .. 46..
अङ्गिरानेनसस्सत्यः सप्तैते परमर्षयः ॥ देवतानां गणाश्चापि द्विषिमंतश्च ते स्मृताः ॥ ॥ ४७ ॥
सप्त एते परम-ऋषयः ॥ देवतानाम् गणाः च अपि द्विषिमन्तः च ते स्मृताः ॥ ॥ ४७ ॥
sapta ete parama-ṛṣayaḥ .. devatānām gaṇāḥ ca api dviṣimantaḥ ca te smṛtāḥ .. .. 47 ..
तेषामिन्द्रस्स्मृतः शम्भुस्त्वयमेव महेश्वरः ॥ अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ॥ ४८॥
तेषाम् इन्द्रः स्मृतः शम्भुः तु अयम् एव महेश्वरः ॥ अक्षत्वान् उत्तमौजाः च भूरिषेणः च वीर्यवान् ॥ ४८॥
teṣām indraḥ smṛtaḥ śambhuḥ tu ayam eva maheśvaraḥ .. akṣatvān uttamaujāḥ ca bhūriṣeṇaḥ ca vīryavān .. 48..
शतानीको निरामित्रो वृषसेनो जयद्रथः ॥ भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोस्सुताः ॥ ४९ ॥
शतानीकः निरामित्रः वृषसेनः जयद्रथः ॥ भूरिद्युम्नः सुवर्चा अर्चिः दश तु एते मनोः सुताः ॥ ४९ ॥
śatānīkaḥ nirāmitraḥ vṛṣasenaḥ jayadrathaḥ .. bhūridyumnaḥ suvarcā arciḥ daśa tu ete manoḥ sutāḥ .. 49 ..
एकादशे तु पर्याये तृतीयस्यांतरे मनोः ॥ तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ॥ 5.34.५० ॥
एकादशे तु पर्याये तृतीयस्य अंतरे मनोः ॥ तस्य अपि सप्त ऋषयः कीर्त्यमानान् निबोध मे ॥ ५।३४।५० ॥
ekādaśe tu paryāye tṛtīyasya aṃtare manoḥ .. tasya api sapta ṛṣayaḥ kīrtyamānān nibodha me .. 5.34.50 ..
हविष्मान्कश्यपश्चापि वपुष्मांश्चैव वारुणः ॥ अत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वंगिरास्तथा ॥ ५१ ॥
हविष्मान् कश्यपः च अपि वपुष्मान् च एव वारुणः ॥ अत्रेयः अथ वसिष्ठः च हि अनयः तु अंगिराः तथा ॥ ५१ ॥
haviṣmān kaśyapaḥ ca api vapuṣmān ca eva vāruṇaḥ .. atreyaḥ atha vasiṣṭhaḥ ca hi anayaḥ tu aṃgirāḥ tathā .. 51 ..
चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः ॥ सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणास्स्मृताः॥५२॥
चारुधृष्यः च पौलस्त्यः निःस्वरः अग्निः तु तैजसः ॥ सप्त एते ऋषयः प्रोक्ताः त्रयः देव-गणाः स्मृताः॥५२॥
cārudhṛṣyaḥ ca paulastyaḥ niḥsvaraḥ agniḥ tu taijasaḥ .. sapta ete ṛṣayaḥ proktāḥ trayaḥ deva-gaṇāḥ smṛtāḥ..52..
ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः ॥ सर्वगश्च सुशर्म्मा च देवानीकस्तु क्षेमकः ॥ ५३ ॥
ब्रह्मणः तु सुताः ते हि ते इमे वैधृताः स्मृताः ॥ सर्वगः च सुशर्म्मा च देवानीकः तु क्षेमकः ॥ ५३ ॥
brahmaṇaḥ tu sutāḥ te hi te ime vaidhṛtāḥ smṛtāḥ .. sarvagaḥ ca suśarmmā ca devānīkaḥ tu kṣemakaḥ .. 53 ..
दृढेषुः खंडको दर्शः कुहुर्बाहुर्मनोः स्मृताः ॥ सावर्णस्य तु पौत्रा वै तृतीयस्य नव स्मृताः ॥ ५४ ॥
दृढेषुः खंडकः दर्शः कुहुः बाहुः मनोः स्मृताः ॥ सावर्णस्य तु पौत्राः वै तृतीयस्य नव स्मृताः ॥ ५४ ॥
dṛḍheṣuḥ khaṃḍakaḥ darśaḥ kuhuḥ bāhuḥ manoḥ smṛtāḥ .. sāvarṇasya tu pautrāḥ vai tṛtīyasya nava smṛtāḥ .. 54 ..
चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे ॥ द्युतिर्वसिष्ठपुत्रश्च आत्रेयस्सुतपास्तथा ॥ ५५ ॥
चतुर्थस्य तु सावर्णेः ऋषीन् सप्त निबोध मे ॥ द्युतिः वसिष्ठ-पुत्रः च आत्रेयः सुतपाः तथा ॥ ५५ ॥
caturthasya tu sāvarṇeḥ ṛṣīn sapta nibodha me .. dyutiḥ vasiṣṭha-putraḥ ca ātreyaḥ sutapāḥ tathā .. 55 ..
अंगिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा ॥ तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ॥ ५६ ॥
अंगिराः तपसः मूर्तिः तपस्वी कश्यपः तथा ॥ तपोधनः च पौलस्त्यः पुलहः च तपोरतिः ॥ ५६ ॥
aṃgirāḥ tapasaḥ mūrtiḥ tapasvī kaśyapaḥ tathā .. tapodhanaḥ ca paulastyaḥ pulahaḥ ca taporatiḥ .. 56 ..
भार्गवस्सप्तमस्तेषां विज्ञेय तपसो निधिः ॥ पंच देवगणाः प्रोक्ता मानसा ब्रह्मणस्सुताः ॥ ५७ ॥
भार्गवः सप्तमः तेषाम् विज्ञेय तपसः निधिः ॥ पंच देव-गणाः प्रोक्ताः मानसाः ब्रह्मणः सुताः ॥ ५७ ॥
bhārgavaḥ saptamaḥ teṣām vijñeya tapasaḥ nidhiḥ .. paṃca deva-gaṇāḥ proktāḥ mānasāḥ brahmaṇaḥ sutāḥ .. 57 ..
ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी ॥ द्वादशे चैव पर्याये भाव्ये रौच्यांतरे मुने ॥ ५८ ॥
ऋतधामा तत् इन्द्रः हि त्रिलोकी राज्य-कृत् सुखी ॥ द्वादशे च एव पर्याये भाव्ये रौच्य-अंतरे मुने ॥ ५८ ॥
ṛtadhāmā tat indraḥ hi trilokī rājya-kṛt sukhī .. dvādaśe ca eva paryāye bhāvye raucya-aṃtare mune .. 58 ..
अंगिराश्चैव धृतिमान्पौलस्त्यो हव्यवांस्तु यः॥पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ॥ ५९ ॥
अंगिराः च एव धृतिमान् पौलस्त्यः हव्यवान् तु यः॥पौलहः तत्त्वदर्शी च भार्गवः च निरुत्सवः ॥ ५९ ॥
aṃgirāḥ ca eva dhṛtimān paulastyaḥ havyavān tu yaḥ..paulahaḥ tattvadarśī ca bhārgavaḥ ca nirutsavaḥ .. 59 ..
निष्प्रपंचस्तथात्रेयो निर्देहः कश्यपस्तथा ॥ सुतपाश्चैव वासिष्ठस्सप्तैवैते महर्षयः ॥ 5.34.६० ॥
निष्प्रपंचः तथा आत्रेयः निर्देहः कश्यपः तथा ॥ सुतपाः च एव वासिष्ठः सप्त एव एते महा-ऋषयः ॥ ५।३४।६० ॥
niṣprapaṃcaḥ tathā ātreyaḥ nirdehaḥ kaśyapaḥ tathā .. sutapāḥ ca eva vāsiṣṭhaḥ sapta eva ete mahā-ṛṣayaḥ .. 5.34.60 ..
त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ॥ दिवस्पतिस्तमिन्द्रो वै विचित्रश्चित्र एव च ॥ ६१ ॥
त्रयः एव गणाः प्रोक्ताः देवतानाम् स्वयंभुवा ॥ दिवस्पतिः तम् इन्द्रः वै विचित्रः चित्रः एव च ॥ ६१ ॥
trayaḥ eva gaṇāḥ proktāḥ devatānām svayaṃbhuvā .. divaspatiḥ tam indraḥ vai vicitraḥ citraḥ eva ca .. 61 ..
नयो धर्मो धृतोंध्रश्च सुनेत्रः क्षत्रवृद्धकः ॥ निर्भयस्सुतपा द्रोणो मनो रौच्यस्य ते सुताः ॥ ६२ ॥
नयः धर्मः धृत-उंध्रः च सुनेत्रः क्षत्र-वृद्धकः ॥ निर्भयः सुतपाः द्रोणः मनः रौच्यस्य ते सुताः ॥ ६२ ॥
nayaḥ dharmaḥ dhṛta-uṃdhraḥ ca sunetraḥ kṣatra-vṛddhakaḥ .. nirbhayaḥ sutapāḥ droṇaḥ manaḥ raucyasya te sutāḥ .. 62 ..
चतुर्द्दशे तु पर्याये सत्यस्यैवांतरे मनोः ॥ आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥ ६३ ॥
चतुर्द्दशे तु पर्याये सत्यस्य एव अन्तरे मनोः ॥ आग्नीध्रः काश्यपः च एव पौलस्त्यः मागधः च यः ॥ ६३ ॥
caturddaśe tu paryāye satyasya eva antare manoḥ .. āgnīdhraḥ kāśyapaḥ ca eva paulastyaḥ māgadhaḥ ca yaḥ .. 63 ..
भार्गवोऽप्यतिवाह्यश्च शुचिरांगिरसस्तथा ॥ युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च ॥ ६४ ॥
भार्गवः अपि अतिवाह्यः च शुचिः आंगिरसः तथा ॥ युक्तः च एव तथा आत्रेयः पौत्रः वाशिष्ठः एव च ॥ ६४ ॥
bhārgavaḥ api ativāhyaḥ ca śuciḥ āṃgirasaḥ tathā .. yuktaḥ ca eva tathā ātreyaḥ pautraḥ vāśiṣṭhaḥ eva ca .. 64 ..
अजितः पुलहश्चैव ह्यंत्यास्सप्तर्षयश्च ते ॥ पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ॥ ६५ ॥
अजितः पुलहः च एव हि अन्त्याः सप्तर्षयः च ते ॥ पवित्राः चाक्षुषाः देवाः शुचिः इन्द्रः भविष्यति ॥ ६५ ॥
ajitaḥ pulahaḥ ca eva hi antyāḥ saptarṣayaḥ ca te .. pavitrāḥ cākṣuṣāḥ devāḥ śuciḥ indraḥ bhaviṣyati .. 65 ..
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ॥ अतीतानागतानां वै महर्षीणां नरैस्सदा ॥ ६६॥
एतेषाम् कल्ये उत्थाय कीर्तनात् सुखम् एधते ॥ अतीत-अनागतानाम् वै महा-ऋषीणाम् नरैः सदा ॥ ६६॥
eteṣām kalye utthāya kīrtanāt sukham edhate .. atīta-anāgatānām vai mahā-ṛṣīṇām naraiḥ sadā .. 66..
देवतानां गणाः प्रोक्ताश्शृणु पंच महामुने ॥ तुरंगभीरुर्बुध्नश्च तनुग्रोऽनूग्र एव च ॥ ६७ ॥
देवतानाम् गणाः प्रोक्ताः शृणु पंच महा-मुने ॥ तुरंगभीरुः बुध्नः च तनुग्रः अनूग्रः एव च ॥ ६७ ॥
devatānām gaṇāḥ proktāḥ śṛṇu paṃca mahā-mune .. turaṃgabhīruḥ budhnaḥ ca tanugraḥ anūgraḥ eva ca .. 67 ..
अतिमानी प्रवीणश्च विष्णुस्संक्रंदनस्तथा ॥ तेजस्वी सबलश्चैव सत्यस्त्वेते मनोस्सुता ॥ ६८ ॥
अतिमानी प्रवीणः च विष्णुः संक्रंदनः तथा ॥ तेजस्वी सबलः च एव सत्यः तु एते मनोः सुता ॥ ६८ ॥
atimānī pravīṇaḥ ca viṣṇuḥ saṃkraṃdanaḥ tathā .. tejasvī sabalaḥ ca eva satyaḥ tu ete manoḥ sutā .. 68 ..
भौमस्यैवाधिकारे वै पूर्वकल्पस्तु पूर्यते ॥ इत्येतेऽनागताऽतीता मनवः कीर्तिता मया ॥ ६९ ॥
भौमस्य एव अधिकारे वै पूर्व-कल्पः तु पूर्यते ॥ इति एते अनागत-अतीताः मनवः कीर्तिताः मया ॥ ६९ ॥
bhaumasya eva adhikāre vai pūrva-kalpaḥ tu pūryate .. iti ete anāgata-atītāḥ manavaḥ kīrtitāḥ mayā .. 69 ..
उक्तास्सनत्कुमारेण व्यासायामिततेजसा ॥ पूर्णे युगसहस्रांते परिपाल्यः स्वधर्मतः ॥ 5.34.७०॥
उक्ताः सनत्कुमारेण व्यासाय अमित-तेजसा ॥ पूर्णे युग-सहस्र-अंते परिपाल्यः स्वधर्मतः ॥ ५।३४।७०॥
uktāḥ sanatkumāreṇa vyāsāya amita-tejasā .. pūrṇe yuga-sahasra-aṃte paripālyaḥ svadharmataḥ .. 5.34.70..
प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजंति ते ॥ युगानि सप्रतिस्त्वेकं साग्राण्यंतरमुच्यते ॥ ७१ ॥
प्रजाभिः तपसा युक्ताः ब्रह्म-लोकम् व्रजंति ते ॥ युगानि स प्रतिः तु एकम् साग्राणि अंतरम् उच्यते ॥ ७१ ॥
prajābhiḥ tapasā yuktāḥ brahma-lokam vrajaṃti te .. yugāni sa pratiḥ tu ekam sāgrāṇi aṃtaram ucyate .. 71 ..
चतुर्दशैते मनवः कीर्तिता कीर्तिवर्धनाः ॥ मन्वंतरेषु सर्वेषु संहारांते पुनर्भवः ॥ ७२ ॥
चतुर्दशा एते मनवः कीर्तिता कीर्ति-वर्धनाः ॥ मन्वंतरेषु सर्वेषु संहार-अंते पुनर्भवः ॥ ७२ ॥
caturdaśā ete manavaḥ kīrtitā kīrti-vardhanāḥ .. manvaṃtareṣu sarveṣu saṃhāra-aṃte punarbhavaḥ .. 72 ..
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥ पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ॥ ७३ ॥ ७४ ॥
न शक्यम् अन्तरम् तेषाम् वक्तुम् वर्ष-शतैः अपि ॥ पूर्णे शत-सहस्रे तु कल्पः निःशेषः उच्यते ॥ ७३ ॥ ७४ ॥
na śakyam antaram teṣām vaktum varṣa-śataiḥ api .. pūrṇe śata-sahasre tu kalpaḥ niḥśeṣaḥ ucyate .. 73 .. 74 ..
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ॥ ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ।७५॥
तत्र सर्वाणि भूतानि दग्धानि आदित्य-रश्मिभिः ॥ ब्रह्माणम् अग्रतस् कृत्वा सत्-आदित्य-गणैः मुने ।७५॥
tatra sarvāṇi bhūtāni dagdhāni āditya-raśmibhiḥ .. brahmāṇam agratas kṛtvā sat-āditya-gaṇaiḥ mune .75..
प्रविशंति सुरश्रेष्ठ हरिं नारायणं परम्॥स्रष्टारं सर्व भूतानां कल्पांतेषु पुनःपुनः ॥ ७६ ॥
प्रविशन्ति सुरश्रेष्ठ हरिम् नारायणम् परम्॥स्रष्टारम् सर्व-भूतानाम् कल्प-अन्तेषु पुनर् पुनर् ॥ ७६ ॥
praviśanti suraśreṣṭha harim nārāyaṇam param..sraṣṭāram sarva-bhūtānām kalpa-anteṣu punar punar .. 76 ..
भूयोपि भगवान् रुद्रस्संहर्ता काल एव हि ॥ कल्पांते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ॥ ७७ ॥
भूयस् अपि भगवान् रुद्रः संहर्ता कालः एव हि ॥ कल्प-अंते तत् प्रवक्ष्यामि मनोः वैवस्वतस्य वै ॥ ७७ ॥
bhūyas api bhagavān rudraḥ saṃhartā kālaḥ eva hi .. kalpa-aṃte tat pravakṣyāmi manoḥ vaivasvatasya vai .. 77 ..
इति ते कथितं सर्वं मन्वंतरसमुद्भवम् ॥ विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ॥ ७८ ॥
इति ते कथितम् सर्वम् मन्वंतर-समुद्भवम् ॥ विसर्गम् पुण्यम् आख्यानम् धन्यम् कुल-विवर्द्धनम् ॥ ७८ ॥
iti te kathitam sarvam manvaṃtara-samudbhavam .. visargam puṇyam ākhyānam dhanyam kula-vivarddhanam .. 78 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् नाम चतुस्त्रिंशः अध्यायः ॥ ३४॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām nāma catustriṃśaḥ adhyāyaḥ .. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In