| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ॥ तस्य भार्याऽभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ॥ १ ॥
विवस्वान् कश्यपात् जज्ञे दाक्षायण्याम् महा-ऋषेः ॥ तस्य भार्या अभवत् संज्ञा त्वाष्ट्री देवी सुरेणुका ॥ १ ॥
vivasvān kaśyapāt jajñe dākṣāyaṇyām mahā-ṛṣeḥ .. tasya bhāryā abhavat saṃjñā tvāṣṭrī devī sureṇukā .. 1 ..
मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ॥ भर्तृरूपेण नातुष्यद्रूप यौवनशालिनी ॥ २ ॥
मुने असहिष्णुना तेन तेजसा दुस्सहेन च ॥ भर्तृ-रूपेण यौवन-शालिनी ॥ २ ॥
mune asahiṣṇunā tena tejasā dussahena ca .. bhartṛ-rūpeṇa yauvana-śālinī .. 2 ..
आदित्यस्य हि तद्रूपमसहिष्णुस्तु तेजसः ॥ दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ॥ ३ ॥
आदित्यस्य हि तत् रूपम् असहिष्णुः तु तेजसः ॥ दह्यमाना तदा उद्वेगम् अकरोत् वरवर्णिनी ॥ ३ ॥
ādityasya hi tat rūpam asahiṣṇuḥ tu tejasaḥ .. dahyamānā tadā udvegam akarot varavarṇinī .. 3 ..
ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ॥ संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ॥ ४ ॥
ऋषे अस्याम् त्रीणि अपत्यानि जनयामास भास्करः ॥ संज्ञायाम् तु मनुः पूर्वम् श्राद्धदेवः प्रजापतिः ॥ ४ ॥
ṛṣe asyām trīṇi apatyāni janayāmāsa bhāskaraḥ .. saṃjñāyām tu manuḥ pūrvam śrāddhadevaḥ prajāpatiḥ .. 4 ..
यमश्च यमुना चैव यमलौ संबभूवतुः ॥ एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्य्यतः ॥ ५ ॥
यमः च यमुना च एव यमलौ संबभूवतुः ॥ एवम् हि त्रीणि अपत्यानि तस्याम् जातानि सूर्य्यतः ॥ ५ ॥
yamaḥ ca yamunā ca eva yamalau saṃbabhūvatuḥ .. evam hi trīṇi apatyāni tasyām jātāni sūryyataḥ .. 5 ..
संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ॥ असहंती ततश्छायामात्मनस्साऽ सृजच्छुभाम् ॥ ६ ॥
संवर्तुलम् तु तत् रूपम् दृष्ट्वा संज्ञाः विवस्वतः ॥ अ सहंती ततस् छायाम् आत्मनः सा सृजत् शुभाम् ॥ ६ ॥
saṃvartulam tu tat rūpam dṛṣṭvā saṃjñāḥ vivasvataḥ .. a sahaṃtī tatas chāyām ātmanaḥ sā sṛjat śubhām .. 6 ..
मायामयी तु सा संज्ञामवोचद्भक्तितश्शुभे ॥ किं करोमीह कार्य्यं ते कथयस्व शुचिस्मिते ॥ ७ ॥
माया-मयी तु सा संज्ञाम् अवोचत् भक्तितः शुभे ॥ किम् करोमि इह कार्य्यम् ते कथयस्व शुचि-स्मिते ॥ ७ ॥
māyā-mayī tu sā saṃjñām avocat bhaktitaḥ śubhe .. kim karomi iha kāryyam te kathayasva śuci-smite .. 7 ..
संज्ञोवाच ।।
अहं यास्यामि भद्रं ते ममैव भवनं पितुः ॥ त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ॥ ८ ॥
अहम् यास्यामि भद्रम् ते मम एव भवनम् पितुः ॥ त्वया एतत् भवने सत्यम् वस्तव्यम् निर्विकारतः ॥ ८ ॥
aham yāsyāmi bhadram te mama eva bhavanam pituḥ .. tvayā etat bhavane satyam vastavyam nirvikārataḥ .. 8 ..
इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ॥ पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम्॥ ९ ॥
इमौ मे बालकौ साधू कन्या च इयम् सुमध्यमा ॥ पालनीयाः सुखेन एव मम चेद् इच्छसि प्रियम्॥ ९ ॥
imau me bālakau sādhū kanyā ca iyam sumadhyamā .. pālanīyāḥ sukhena eva mama ced icchasi priyam.. 9 ..
छायोवाच ।।
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ॥ नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥ 5.35.१० ॥
आ केश-ग्रहणात् देवि सहिष्ये अहम् सु दुष्कृतम् ॥ न आख्यास्यामि मतम् तुभ्यम् गच्छ देवि यथासुखम् ॥ ५।३५।१० ॥
ā keśa-grahaṇāt devi sahiṣye aham su duṣkṛtam .. na ākhyāsyāmi matam tubhyam gaccha devi yathāsukham .. 5.35.10 ..
सूत उवाच ।।
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ॥ पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ॥ ११॥
इति उक्ता सा अगमत् देवी व्रीडिता सन्निधौ पितुः ॥ पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनर् पुनर् ॥ ११॥
iti uktā sā agamat devī vrīḍitā sannidhau pituḥ .. pitrā nirbhartsitā tatra niyuktā sā punar punar .. 11..
अगच्छद्वडवा भूत्वाऽऽच्छाद्यरूपं ततस्त्वकम् ॥ कुरुंस्तदोत्तरान्प्राप्य नृणां मध्ये चचार ह ॥ १२ ॥
अगच्छत् वडवा भूत्वा आच्छाद्य-रूपम् ततस् त्वकम् ॥ कुरुन् तदा उत्तरान् प्राप्य नृणाम् मध्ये चचार ह ॥ १२ ॥
agacchat vaḍavā bhūtvā ācchādya-rūpam tatas tvakam .. kurun tadā uttarān prāpya nṛṇām madhye cacāra ha .. 12 ..
संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ॥ जनयामास सावर्णिं मनुं वै सविता किल ॥ १३ ॥
संज्ञाम् ताम् तु रविः मत्वा छायायाम् सु सुतम् तदा ॥ जनयामास सावर्णिम् मनुम् वै सविता किल ॥ १३ ॥
saṃjñām tām tu raviḥ matvā chāyāyām su sutam tadā .. janayāmāsa sāvarṇim manum vai savitā kila .. 13 ..
संज्ञाऽनु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ॥ चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ॥ १४ ॥
संज्ञा-अनु प्रार्थिता छाया सा स्व-पुत्रे अपि नित्यशस् ॥ चकार अभ्यधिकम् स्नेहम् न तथा पूर्वजे सुते ॥ १४ ॥
saṃjñā-anu prārthitā chāyā sā sva-putre api nityaśas .. cakāra abhyadhikam sneham na tathā pūrvaje sute .. 14 ..
अनुजश्चाक्षमस्तत्तु यमस्तं नैव चक्षमे ॥ स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ॥ १५ ॥
अनुजः च अक्षमः तत् तु यमः तम् ना एव चक्षमे ॥ स स रोषः तु बाल्यात् च भाविनः अर्थस्य गौरवात् ॥ १५ ॥
anujaḥ ca akṣamaḥ tat tu yamaḥ tam nā eva cakṣame .. sa sa roṣaḥ tu bālyāt ca bhāvinaḥ arthasya gauravāt .. 15 ..
छायां संतर्जयामास यदा वैवस्वतो यमः ॥ तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ॥ १६ ॥
छायाम् संतर्जयामास यदा वैवस्वतः यमः ॥ तम् शशाप ततस् क्रोधात् छाया तु कलुषीकृता ॥ १६ ॥
chāyām saṃtarjayāmāsa yadā vaivasvataḥ yamaḥ .. tam śaśāpa tatas krodhāt chāyā tu kaluṣīkṛtā .. 16 ..
चरणः पततामेष तवेति भृशरोषितः ॥ यमस्ततः पितुस्सर्वं प्रांजलिः प्रत्यवेदयत् ॥ १७ ॥
चरणः पतताम् एष तव इति भृश-रोषितः ॥ यमः ततस् पितुः सर्वम् प्रांजलिः प्रत्यवेदयत् ॥ १७ ॥
caraṇaḥ patatām eṣa tava iti bhṛśa-roṣitaḥ .. yamaḥ tatas pituḥ sarvam prāṃjaliḥ pratyavedayat .. 17 ..
भृशं शाप भयोद्विग्नस्संज्ञावाक्यैर्विचेष्टितः ॥ मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ १८॥
भृशम् शाप भय-उद्विग्नः संज्ञा-वाक्यैः विचेष्टितः ॥ मात्रा स्नेहेन सर्वेषु वर्तितव्यम् सुतेषु वै ॥ १८॥
bhṛśam śāpa bhaya-udvignaḥ saṃjñā-vākyaiḥ viceṣṭitaḥ .. mātrā snehena sarveṣu vartitavyam suteṣu vai .. 18..
स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा॥तस्मान्मयोद्यतः पादस्तद्भवान् क्षंतुमर्हति ॥ १९॥
स्नेहम् अस्मासु अपाकृत्य कनीयांसम् बिभर्ति सा॥तस्मात् मया उद्यतः पादः तत् भवान् क्षंतुम् अर्हति ॥ १९॥
sneham asmāsu apākṛtya kanīyāṃsam bibharti sā..tasmāt mayā udyataḥ pādaḥ tat bhavān kṣaṃtum arhati .. 19..
शप्तोहमस्मि देवेश जनन्या तपतांवर ॥ तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ 5.35.२० ॥
शप्तः उहम् अस्मि देवेश जनन्या तपताम् वर ॥ तव प्रसादात् चरणः न पतेत् मम गोपते ॥ ५।३५।२० ॥
śaptaḥ uham asmi deveśa jananyā tapatām vara .. tava prasādāt caraṇaḥ na patet mama gopate .. 5.35.20 ..
सवितोवाच ।।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ २१ ॥
असंशयम् पुत्र महत् भविष्यति अत्र कारणम् ॥ येन त्वाम् आविशत् क्रोधः धर्म-ज्ञम् सत्य-वादिनम् ॥ २१ ॥
asaṃśayam putra mahat bhaviṣyati atra kāraṇam .. yena tvām āviśat krodhaḥ dharma-jñam satya-vādinam .. 21 ..
न शक्यते तन्मिथ्या वै कर्त्तुं मातृवचस्तव ॥ कृमयो मांसमादाय गमिष्यंति महीतले ॥ २२॥
न शक्यते तत् मिथ्या वै कर्त्तुम् मातृ-वचः तव ॥ कृमयः मांसम् आदाय गमिष्यंति मही-तले ॥ २२॥
na śakyate tat mithyā vai karttum mātṛ-vacaḥ tava .. kṛmayaḥ māṃsam ādāya gamiṣyaṃti mahī-tale .. 22..
तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ॥ कुरु तात न संदेहं मनश्चाश्वास्य स्वं प्रभो ॥ २३ ॥
तत् वाक्यम् भविता सत्यम् त्वम् च त्रातौ भविष्यसि ॥ कुरु तात न संदेहम् मनः च आश्वास्य स्वम् प्रभो ॥ २३ ॥
tat vākyam bhavitā satyam tvam ca trātau bhaviṣyasi .. kuru tāta na saṃdeham manaḥ ca āśvāsya svam prabho .. 23 ..
सूत उवाच ।।
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ॥ आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ॥ २४॥
इति उक्त्वा तनयम् सूर्यः यम-संज्ञम् मुनि-ईश्वर ॥ आदित्यः च अब्रवीत् तान् तु छायाम् क्रोध-समन्वितः ॥ २४॥
iti uktvā tanayam sūryaḥ yama-saṃjñam muni-īśvara .. ādityaḥ ca abravīt tān tu chāyām krodha-samanvitaḥ .. 24..
सूर्य उवाच ।।
हे प्रिये कुमते चंडि किं त्वयाऽऽचरितं किल॥किं तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ॥ २५॥
हे प्रिये कुमते चंडि किम् त्वया आचरितम् किल॥किम् तु मे अभ्यधिकः स्नेहः एतत् आख्यातुम् अर्हसि ॥ २५॥
he priye kumate caṃḍi kim tvayā ācaritam kila..kim tu me abhyadhikaḥ snehaḥ etat ākhyātum arhasi .. 25..
सूत उवाच ।।
सा रवेर्वचनं श्रुत्वा यथा तथ्यं न्यवेदयत् ॥ निर्दग्धा कामरविणा सांत्वयामास वै तदा ॥ २६ ॥
सा रवेः वचनम् श्रुत्वा यथा तथ्यम् न्यवेदयत् ॥ निर्दग्धा काम-रविणा सांत्वयामास वै तदा ॥ २६ ॥
sā raveḥ vacanam śrutvā yathā tathyam nyavedayat .. nirdagdhā kāma-raviṇā sāṃtvayāmāsa vai tadā .. 26 ..
छायोवाच।।
तवातितेजसा दग्धा इदं रूपं न शोभते ॥ असहंती च तत्संज्ञा वने वसति शाद्वले ॥ २७॥
तव अति तेजसा दग्धा इदम् रूपम् न शोभते ॥ अ सहंती च तद्-संज्ञा वने वसति शाद्वले ॥ २७॥
tava ati tejasā dagdhā idam rūpam na śobhate .. a sahaṃtī ca tad-saṃjñā vane vasati śādvale .. 27..
श्लाघ्या योगबलोपेता योगमासाद्य गोपते ॥ अनुकूलस्तु देवेश संदिश्यात्ममयं मतम् ॥ २८ ॥
श्लाघ्याः योग-बल-उपेताः योगम् आसाद्य गोपते ॥ अनुकूलः तु देवेश संदिश्य आत्म-मयम् मतम् ॥ २८ ॥
ślāghyāḥ yoga-bala-upetāḥ yogam āsādya gopate .. anukūlaḥ tu deveśa saṃdiśya ātma-mayam matam .. 28 ..
रूपं निवर्तयाम्यद्य तव कांतं करोम्यहम् ॥
रूपम् निवर्तयामि अद्य तव कांतम् करोमि अहम् ॥
rūpam nivartayāmi adya tava kāṃtam karomi aham ..
सूत उवाच ।।
तच्छ्रुत्वाऽपगतः क्रोधो मार्तण्डस्य विवस्वतः ॥ २९॥
तत् श्रुत्वा अपगतः क्रोधः मार्तण्डस्य विवस्वतः ॥ २९॥
tat śrutvā apagataḥ krodhaḥ mārtaṇḍasya vivasvataḥ .. 29..
भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः ॥ ततो विभ्राजितं रूप तेजसा संवृतेन च ॥ 5.35.३० ॥
भ्रमिम् आरोप्य तत् तेजः शातयामास वै मुनिः ॥ ततस् विभ्राजितम् तेजसा संवृतेन च ॥ ५।३५।३० ॥
bhramim āropya tat tejaḥ śātayāmāsa vai muniḥ .. tatas vibhrājitam tejasā saṃvṛtena ca .. 5.35.30 ..
कृतं कांततरं रूपं त्वष्ट्रा तच्छुशुभे तदा ॥ ततोभियोगमास्थाय स्वां भार्य्यां हि ददर्श ह ॥ ३१॥
कृतम् कांततरम् रूपम् त्वष्ट्रा तत् शुशुभे तदा ॥ ततस् अभियोगम् आस्थाय स्वाम् भार्य्याम् हि ददर्श ह ॥ ३१॥
kṛtam kāṃtataram rūpam tvaṣṭrā tat śuśubhe tadā .. tatas abhiyogam āsthāya svām bhāryyām hi dadarśa ha .. 31..
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥ सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया॥३२॥
अधृष्याम् सर्व-भूतानाम् तेजसा नियमेन च ॥ सः अश्व-रूपम् समास्थाय गत्वा ताम् मैथुन-इच्छया॥३२॥
adhṛṣyām sarva-bhūtānām tejasā niyamena ca .. saḥ aśva-rūpam samāsthāya gatvā tām maithuna-icchayā..32..
मैथुनाय विचेष्टंतीं परपुंसोभिशंकया ॥ मुखतो नासिकायां तु शुक्रं तत् व्यदधान्मुने ॥ ३३॥
मैथुनाय विचेष्टंतीम् ॥ मुखतः नासिकायाम् तु शुक्रम् तत् व्यदधात् मुने ॥ ३३॥
maithunāya viceṣṭaṃtīm .. mukhataḥ nāsikāyām tu śukram tat vyadadhāt mune .. 33..
देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ ॥ नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि ॥ ३४॥
देवौ ततस् प्रजायेताम् अश्विनौ भिषजाम् वरौ ॥ नासत्यौ तौ च दस्रौ च स्मृतौ द्वौ अश्विनौ अपि ॥ ३४॥
devau tatas prajāyetām aśvinau bhiṣajām varau .. nāsatyau tau ca dasrau ca smṛtau dvau aśvinau api .. 34..
तौ तु कांतेन रूपेण दर्शयामास भास्करः ॥ आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात् ॥ ३५ ॥
तौ तु कांतेन रूपेण दर्शयामास भास्करः ॥ आत्मानम् सा तु तम् दृष्ट्वा प्रहृष्टा पतिम् आदरात् ॥ ३५ ॥
tau tu kāṃtena rūpeṇa darśayāmāsa bhāskaraḥ .. ātmānam sā tu tam dṛṣṭvā prahṛṣṭā patim ādarāt .. 35 ..
पत्या तेन गृहं प्रायात्स्वं सती मुदितानना ॥ मुमुदातेऽथ तौ प्रीत्या दंपतो पूर्वतोधिकम् ॥ ३६ ॥
पत्या तेन गृहम् प्रायात् स्वम् सती मुदित-आनना ॥ मुमुदाते अथ तौ प्रीत्या दंपतो पूर्वतस् अधिकम् ॥ ३६ ॥
patyā tena gṛham prāyāt svam satī mudita-ānanā .. mumudāte atha tau prītyā daṃpato pūrvatas adhikam .. 36 ..
यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥ धर्मेण रंजयामास धर्मराज इमा प्रजाः ॥ ३७ ॥
यमः तु कर्मणा तेन भृशम् पीडित-मानसः ॥ धर्मेण रंजयामास धर्मराजः इमाः प्रजाः ॥ ३७ ॥
yamaḥ tu karmaṇā tena bhṛśam pīḍita-mānasaḥ .. dharmeṇa raṃjayāmāsa dharmarājaḥ imāḥ prajāḥ .. 37 ..
लेभे स कर्मणा तेन धर्मराजो महाद्युतिः ॥ पितॄणामाधिपत्यं च लोकपालत्वमेव च ॥ ३८॥
लेभे स कर्मणा तेन धर्मराजः महा-द्युतिः ॥ पितॄणाम् आधिपत्यम् च लोकपाल-त्वम् एव च ॥ ३८॥
lebhe sa karmaṇā tena dharmarājaḥ mahā-dyutiḥ .. pitṝṇām ādhipatyam ca lokapāla-tvam eva ca .. 38..
मनुः प्रजापतिस्त्वासीत्सावर्णिस्स तपोधनः ॥ भाव्यः स कर्मणा तेन मनोस्सावर्णिकेंतरे ॥ ३९ ॥
मनुः प्रजापतिः तु आसीत् सावर्णिः स तपोधनः ॥ भाव्यः स कर्मणा तेन मनोः सावर्णिक-इंतरे ॥ ३९ ॥
manuḥ prajāpatiḥ tu āsīt sāvarṇiḥ sa tapodhanaḥ .. bhāvyaḥ sa karmaṇā tena manoḥ sāvarṇika-iṃtare .. 39 ..
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ॥ यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥ 5.35.४० ॥
मेरु-पृष्ठे तपः घोरम् अद्य अपि चरते प्रभुः ॥ यवीयसी तयोः या तु यमी कन्या यशस्विनी ॥ ५।३५।४० ॥
meru-pṛṣṭhe tapaḥ ghoram adya api carate prabhuḥ .. yavīyasī tayoḥ yā tu yamī kanyā yaśasvinī .. 5.35.40 ..
अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी ॥ मनुरित्युच्यते लोके सावर्णिरिति चोच्यते ॥ ४१ ॥
अभवत् सा सरित् श्रेष्ठा यमुना लोकपाः वनी ॥ मनुः इति उच्यते लोके सावर्णिः इति च उच्यते ॥ ४१ ॥
abhavat sā sarit śreṣṭhā yamunā lokapāḥ vanī .. manuḥ iti ucyate loke sāvarṇiḥ iti ca ucyate .. 41 ..
य इदं जन्म देवानां शृणुयाद्धारयेत्तु वा ॥ आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः ॥ ४२॥
यः इदम् जन्म देवानाम् शृणुयात् धारयेत् तु वा ॥ आपदम् प्राप्य मुच्येत प्राप्नुयात् सु महत् यशः ॥ ४२॥
yaḥ idam janma devānām śṛṇuyāt dhārayet tu vā .. āpadam prāpya mucyeta prāpnuyāt su mahat yaśaḥ .. 42..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः॥३५॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् मन्वन्तरकीर्तने वैवस्वतवर्णनम् नाम पचत्रिंशः अध्यायः॥३५॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām manvantarakīrtane vaivasvatavarṇanam nāma pacatriṃśaḥ adhyāyaḥ..35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In