| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ॥ पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः॥१॥
मनोः वैवस्वतस्य आसन् पुत्राः वै नव तद्-समाः ॥ पश्चात् महा-उन्नताः धीराः क्षत्र-धर्म-परायणाः॥१॥
manoḥ vaivasvatasya āsan putrāḥ vai nava tad-samāḥ .. paścāt mahā-unnatāḥ dhīrāḥ kṣatra-dharma-parāyaṇāḥ..1..
इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ॥ नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः॥२॥
इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिः एव च ॥ नरिष्यन्तः अथ नाभागः करूषः च प्रियव्रतः॥२॥
ikṣvākuḥ śibinābhāgau dhṛṣṭaḥ śaryātiḥ eva ca .. nariṣyantaḥ atha nābhāgaḥ karūṣaḥ ca priyavrataḥ..2..
अकरोत्पुत्त्रकामस्तु मनुरिष्टिं प्रजापति॥अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुंगवः॥३॥
अकरोत् पुत्त्र-कामः तु मनुः इष्टिम् प्रजापति॥अन् उत्पन्नेषु पुत्रेषु तत्र इष्ट्याम् मुनि-पुंगवः॥३॥
akarot puttra-kāmaḥ tu manuḥ iṣṭim prajāpati..an utpanneṣu putreṣu tatra iṣṭyām muni-puṃgavaḥ..3..
सा हि दिव्यांबरधरा दिव्याभरणभूषिता।दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता॥४॥
सा हि दिव्य-अंबर-धरा दिव्य-आभरण-भूषिता।दिव्य-संहनना च एवम् इला जज्ञे हि विश्रुता॥४॥
sā hi divya-aṃbara-dharā divya-ābharaṇa-bhūṣitā.divya-saṃhananā ca evam ilā jajñe hi viśrutā..4..
तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ॥ अनुगच्छत्व मामेति तमिडा प्रत्युवाच ह ॥ ५॥
ताम् इडा इति एव ह उवाच मनुः दण्ड-धरः तथा ॥ अनुगच्छत्व माम् एति तम् इडा प्रत्युवाच ह ॥ ५॥
tām iḍā iti eva ha uvāca manuḥ daṇḍa-dharaḥ tathā .. anugacchatva mām eti tam iḍā pratyuvāca ha .. 5..
इडोवाच ।।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ मित्रावरुणयोरंशैर्जातास्मि वदतां वर ॥ ६ ॥
धर्म-युक्तम् इदम् वाक्यम् पुत्र-कामम् प्रजापतिम् ॥ मित्रावरुणयोः अंशैः जाता अस्मि वदताम् वर ॥ ६ ॥
dharma-yuktam idam vākyam putra-kāmam prajāpatim .. mitrāvaruṇayoḥ aṃśaiḥ jātā asmi vadatām vara .. 6 ..
तयोस्सकाशं यास्यामि न मे धर्मे रुचिर्भवेत् ॥ एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ॥ ७ ॥ ।
तयोः सकाशम् यास्यामि न मे धर्मे रुचिः भवेत् ॥ एवम् उक्त्वा सती सा तु मित्रावरुणयोः ततस् ॥ ७ ॥ ।
tayoḥ sakāśam yāsyāmi na me dharme ruciḥ bhavet .. evam uktvā satī sā tu mitrāvaruṇayoḥ tatas .. 7 .. .
गत्वांतिकं वरारोहा प्रांजलिर्वाक्यमब्रवीत् ॥ अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ॥ ८॥
गत्वा अंतिकम् वरारोहा प्रांजलिः वाक्यम् अब्रवीत् ॥ अंशैः तु युवयोः जाताः मनु-यज्ञे महा-मुनी ॥ ८॥
gatvā aṃtikam varārohā prāṃjaliḥ vākyam abravīt .. aṃśaiḥ tu yuvayoḥ jātāḥ manu-yajñe mahā-munī .. 8..
आगता भवतोरंति ब्रूतं किं करवाणि वाम् ॥ अन्यान्पुत्रान्सृज विभो तैर्वंशस्ते भविष्यति ॥ ९॥
आगता भवतोः अन्ति ब्रूतम् किम् करवाणि वाम् ॥ अन्यान् पुत्रान् सृज विभो तैः वंशः ते भविष्यति ॥ ९॥
āgatā bhavatoḥ anti brūtam kim karavāṇi vām .. anyān putrān sṛja vibho taiḥ vaṃśaḥ te bhaviṣyati .. 9..
सूत उवाच।।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम्॥मित्रावरुणानामानौ मुनी ऊचतुरादरात् ॥ 5.36.१० ॥
ताम् तथावादिनीम् साध्वीम् इडाम् मनु-अध्वर-उद्भवाम्॥मित्रावरुण-नामानौ मुनी ऊचतुः आदरात् ॥ ५।३६।१० ॥
tām tathāvādinīm sādhvīm iḍām manu-adhvara-udbhavām..mitrāvaruṇa-nāmānau munī ūcatuḥ ādarāt .. 5.36.10 ..
मित्रावरुणावूचतुः ।।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ॥ सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ॥ ११ ॥
अनेन तव धर्म-ज्ञे प्रश्रयेण दमेन च ॥ सत्येन च एव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ॥ ११ ॥
anena tava dharma-jñe praśrayeṇa damena ca .. satyena ca eva suśroṇi prītau dvau varavarṇini .. 11 ..
आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ॥ मनोर्वशकरः पुत्रस्त्वमेव च भविष्यसि ॥ १२॥
आवयोः त्वम् महाभागे ख्यातिम् च एव गमिष्यसि ॥ मनोः वश-करः पुत्रः त्वम् एव च भविष्यसि ॥ १२॥
āvayoḥ tvam mahābhāge khyātim ca eva gamiṣyasi .. manoḥ vaśa-karaḥ putraḥ tvam eva ca bhaviṣyasi .. 12..
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ॥ जगत्प्रियो धर्मशीलौ मनुवंशविवर्द्धनः ॥ १३॥
सुद्युम्नः इति विख्यातः त्रिषु लोकेषु विश्रुतः ॥ जगत्-प्रियः धर्म-शीलौ मनु-वंश-विवर्द्धनः ॥ १३॥
sudyumnaḥ iti vikhyātaḥ triṣu lokeṣu viśrutaḥ .. jagat-priyaḥ dharma-śīlau manu-vaṃśa-vivarddhanaḥ .. 13..
सूत उवाच ।।
निवृत्ता सा तु तच्छ्रुत्वा गच्छंती पितुरंतिके ॥ बुधेनांतरमासाद्य मैधुनायोपमंत्रिता ॥ १४॥
निवृत्ता सा तु तत् श्रुत्वा गच्छंती पितुः अंतिके ॥ बुधेन अंतरम् आसाद्य मैधुनाय उपमंत्रिता ॥ १४॥
nivṛttā sā tu tat śrutvā gacchaṃtī pituḥ aṃtike .. budhena aṃtaram āsādya maidhunāya upamaṃtritā .. 14..
सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ॥ पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशी पतिरुन्नतः ॥ १५॥
सोमपुत्रात् ततस् जज्ञे तस्याम् राजा पुरूरवाः ॥ पुत्रः अति सुन्दरः प्राज्ञः उर्वशी पतिः उन्नतः ॥ १५॥
somaputrāt tatas jajñe tasyām rājā purūravāḥ .. putraḥ ati sundaraḥ prājñaḥ urvaśī patiḥ unnataḥ .. 15..
जनयित्वा च सा तत्र पुरूरवसमादरात्॥पुत्रं शिवप्रसादात्तु पुनस्सुद्युम्नतां गतः ॥ १६॥
जनयित्वा च सा तत्र पुरूरवसम् आदरात्॥पुत्रम् शिव-प्रसादात् तु पुनर् सुद्युम्न-ताम् गतः ॥ १६॥
janayitvā ca sā tatra purūravasam ādarāt..putram śiva-prasādāt tu punar sudyumna-tām gataḥ .. 16..
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ॥ १७॥
सुद्युम्नस्य तु दायादाः त्रयः परम-धार्मिकाः ॥ उत्कलः च गयः च अपि विनताश्वः च वीर्यवान् ॥ १७॥
sudyumnasya tu dāyādāḥ trayaḥ parama-dhārmikāḥ .. utkalaḥ ca gayaḥ ca api vinatāśvaḥ ca vīryavān .. 17..
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ दिक्पूर्वा मुनि शार्दूल गयस्य तु गया स्मृताः ॥ १८ ॥
उत्कलस्य उत्कलाः विप्राः विनताश्वस्य पश्चिमाः ॥ दिश्-पूर्वाः मुनि शार्दूल गयस्य तु गया स्मृताः ॥ १८ ॥
utkalasya utkalāḥ viprāḥ vinatāśvasya paścimāḥ .. diś-pūrvāḥ muni śārdūla gayasya tu gayā smṛtāḥ .. 18 ..
प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ॥ दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीं मनुः ॥ १९॥
प्रविष्टे तु मनौ तात दिवाकर-तनुम् तदा ॥ दशधा तत्र तत् क्षेत्रम् अकरोत् पृथिवीम् मनुः ॥ १९॥
praviṣṭe tu manau tāta divākara-tanum tadā .. daśadhā tatra tat kṣetram akarot pṛthivīm manuḥ .. 19..
इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान्॥वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः॥5.36.२०॥
इक्ष्वाकुः श्रेष्ठ-दायादः मध्यदेशम् अवाप्तवान्॥वसिष्ठ-वचनात् आसीत् प्रतिष्ठानम् महात्मनः॥५।३६।२०॥
ikṣvākuḥ śreṣṭha-dāyādaḥ madhyadeśam avāptavān..vasiṣṭha-vacanāt āsīt pratiṣṭhānam mahātmanaḥ..5.36.20..
प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोथ ततो ददौ॥तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः॥२१॥
प्रतिष्ठाम् धर्म-राज्यस्य सुद्युम्ना उथ ततस् ददौ॥तत् पुरूरवसे प्रादात् राज्यम् प्राप्य महा-यशाः॥२१॥
pratiṣṭhām dharma-rājyasya sudyumnā utha tatas dadau..tat purūravase prādāt rājyam prāpya mahā-yaśāḥ..21..
मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ॥ नरिष्यंताच्छकाः पुत्रा नभगस्य सुतो ऽभवत्॥२२॥
मानवः यः मुनि-श्रेष्ठाः स्त्री-पुंसोः लक्षणः प्रभुः ॥ नरिष्यंतात् शकाः पुत्राः नभगस्य सुतः अभवत्॥२२॥
mānavaḥ yaḥ muni-śreṣṭhāḥ strī-puṃsoḥ lakṣaṇaḥ prabhuḥ .. nariṣyaṃtāt śakāḥ putrāḥ nabhagasya sutaḥ abhavat..22..
अंबरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ॥ शर्यातिर्मिथुनं त्वासीदानर्तो नाम विश्रुतः॥२३॥
अंबरीषः तु बाह्लेयः बाह्लकम् क्षेत्राम् आप्तवान् ॥ शर्यातिः मिथुनम् तु आसीत् आनर्तः नाम विश्रुतः॥२३॥
aṃbarīṣaḥ tu bāhleyaḥ bāhlakam kṣetrām āptavān .. śaryātiḥ mithunam tu āsīt ānartaḥ nāma viśrutaḥ..23..
पुत्रस्सुकन्या कन्या च या पत्नी च्यवनस्य हि ॥ आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ॥ २४ ॥
पुत्रः सुकन्या कन्या च या पत्नी च्यवनस्य हि ॥ आनर्तस्य हि दायादः रैभ्यः नाम स रैवतः ॥ २४ ॥
putraḥ sukanyā kanyā ca yā patnī cyavanasya hi .. ānartasya hi dāyādaḥ raibhyaḥ nāma sa raivataḥ .. 24 ..
आनर्तविषये यस्य पुरी नाम कुशस्थली॥महादिव्या सप्तपुरीमध्ये या सप्तमी मता॥२५॥
आनर्त-विषये यस्य पुरी नाम कुशस्थली॥महा-दिव्या सप्त-पुरी-मध्ये या सप्तमी मता॥२५॥
ānarta-viṣaye yasya purī nāma kuśasthalī..mahā-divyā sapta-purī-madhye yā saptamī matā..25..
तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ॥ तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः॥२६॥
तस्य पुत्र-शतम् तु आसीत् ककुद्मी ज्येष्ठः उत्तमः ॥ ॥२६॥
tasya putra-śatam tu āsīt kakudmī jyeṣṭhaḥ uttamaḥ .. ..26..
ककुद्मिनस्तु संजाता रेवती नाम कन्यका॥महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ॥ २७॥
ककुद्मिनः तु संजाता रेवती नाम कन्यका॥महा-लावण्य-संयुक्ता दिव्य-लक्ष्मीः इव अपरा ॥ २७॥
kakudminaḥ tu saṃjātā revatī nāma kanyakā..mahā-lāvaṇya-saṃyuktā divya-lakṣmīḥ iva aparā .. 27..
प्रष्टुं कन्यावरं राजा ककुद्मी कन्यया सह ॥ ब्रह्मलोके विधेस्सम्यक्सर्वाधीशो जगाम ह ॥ २८॥
प्रष्टुम् कन्या-वरम् राजा ककुद्मी कन्यया सह ॥ ब्रह्म-लोके विधेः सम्यक् सर्व-अधीशः जगाम ह ॥ २८॥
praṣṭum kanyā-varam rājā kakudmī kanyayā saha .. brahma-loke vidheḥ samyak sarva-adhīśaḥ jagāma ha .. 28..
आवर्तमाने गांधर्वे स्थितो लब्धक्षणः क्षणम् ॥ शुश्राव तत्र गांधर्वं नर्तने ब्रह्मणोंऽतिके ॥ २९ ॥
आवर्तमाने गांधर्वे स्थितः लब्ध-क्षणः क्षणम् ॥ शुश्राव तत्र गांधर्वम् नर्तने ब्रह्मणः ॐ अतिके ॥ २९ ॥
āvartamāne gāṃdharve sthitaḥ labdha-kṣaṇaḥ kṣaṇam .. śuśrāva tatra gāṃdharvam nartane brahmaṇaḥ oṃ atike .. 29 ..
मुहूर्तभूतं तत्काले गतं बहुयुगं तदा ॥ न किंचिद्बुबुधे राजा ककुद्मी मुनयस्स तु ॥ 5.36.३० ॥
मुहूर्त-भूतम् तद्-काले गतम् बहु-युगम् तदा ॥ न किंचिद् बुबुधे राजा ककुद्मी मुनयः स तु ॥ ५।३६।३० ॥
muhūrta-bhūtam tad-kāle gatam bahu-yugam tadā .. na kiṃcid bubudhe rājā kakudmī munayaḥ sa tu .. 5.36.30 ..
तदासौ विधिमा नम्य स्वाभिप्रायं कृतांजलिः ॥ न्यवेदयद्विनीतात्मा ब्रह्मणे परमात्मने॥३१॥
तदा असौ विधिम् आ नम्य स्व-अभिप्रायम् कृतांजलिः ॥ न्यवेदयत् विनीत-आत्मा ब्रह्मणे परमात्मने॥३१॥
tadā asau vidhim ā namya sva-abhiprāyam kṛtāṃjaliḥ .. nyavedayat vinīta-ātmā brahmaṇe paramātmane..31..
तदभिप्रायमाकर्ण्य स प्रहस्य प्रजापतिः ॥ ककुद्मिनं महाराजं समाभाष्य समब्रवीत् ॥ ३२॥
तद्-अभिप्रायम् आकर्ण्य स प्रहस्य प्रजापतिः ॥ ककुद्मिनम् महा-राजम् समाभाष्य समब्रवीत् ॥ ३२॥
tad-abhiprāyam ākarṇya sa prahasya prajāpatiḥ .. kakudminam mahā-rājam samābhāṣya samabravīt .. 32..
ब्रह्मोवाच ।।
शृणु राजन्रैभ्यसुत ककुद्मिन्पृथिवपिते॥मद्वचः प्रीतितस्सत्यं प्रवक्ष्यामि विशेषतः ॥ ३३ ॥
शृणु राजन् रैभ्य-सुत ककुद्मिन् पृथिव-पिते॥मद्-वचः प्रीतितः सत्यम् प्रवक्ष्यामि विशेषतः ॥ ३३ ॥
śṛṇu rājan raibhya-suta kakudmin pṛthiva-pite..mad-vacaḥ prītitaḥ satyam pravakṣyāmi viśeṣataḥ .. 33 ..
कालेन संहृतास्ते वै वरा ये ते कृता हृदि ॥ न तद्गोत्रं हि तत्रास्ति कालस्सर्वस्य भक्षकः ॥ ३४॥
कालेन संहृताः ते वै वराः ये ते कृताः हृदि ॥ न तद्-गोत्रम् हि तत्र अस्ति कालः सर्वस्य भक्षकः ॥ ३४॥
kālena saṃhṛtāḥ te vai varāḥ ye te kṛtāḥ hṛdi .. na tad-gotram hi tatra asti kālaḥ sarvasya bhakṣakaḥ .. 34..
त्वत्पुर्य्यपि हता पुण्यजनैस्सा राक्षसैर्नृप ॥ अष्टाविंशद्द्वापरेऽद्य कृष्णेन निर्मिता पुनः ॥ ३५॥
त्वद्-पुरी अपि हता पुण्यजनैः सा राक्षसैः नृप ॥ अष्टाविंशत्-द्वापरे अद्य कृष्णेन निर्मिता पुनर् ॥ ३५॥
tvad-purī api hatā puṇyajanaiḥ sā rākṣasaiḥ nṛpa .. aṣṭāviṃśat-dvāpare adya kṛṣṇena nirmitā punar .. 35..
कृता द्वारावती नाम्ना बहुद्वारा मनोरमा ॥ भोजवृष्ण्यंधकैर्गुप्ता वासुदेवपुरोगमैः॥३६॥
कृता द्वारावती नाम्ना बहु-द्वारा मनोरमा ॥ भोज-वृष्णि-अंधकैः गुप्ताः वासुदेव-पुरोगमैः॥३६॥
kṛtā dvārāvatī nāmnā bahu-dvārā manoramā .. bhoja-vṛṣṇi-aṃdhakaiḥ guptāḥ vāsudeva-purogamaiḥ..36..
तद्गच्छ तत्र प्रीतात्मा वासुदेवाय कन्यकाम् ॥ बलदेवाय देहि त्वमिमां स्वतनयां नृप॥३७॥
तत् गच्छ तत्र प्रीत-आत्मा वासुदेवाय कन्यकाम् ॥ बलदेवाय देहि त्वम् इमाम् स्व-तनयाम् नृप॥३७॥
tat gaccha tatra prīta-ātmā vāsudevāya kanyakām .. baladevāya dehi tvam imām sva-tanayām nṛpa..37..
सूत उवाच ।।
इत्यादिष्टो नृपोऽयं तं नत्वा तां च पुरीं गतः ॥ गतान्बहून्युगाञ्ज्ञात्वा विस्मितः कन्यया युतः॥३८॥
इति आदिष्टः नृपः अयम् तम् नत्वा ताम् च पुरीम् गतः ॥ गतान् बहून् युगान् ज्ञात्वा विस्मितः कन्यया युतः॥३८॥
iti ādiṣṭaḥ nṛpaḥ ayam tam natvā tām ca purīm gataḥ .. gatān bahūn yugān jñātvā vismitaḥ kanyayā yutaḥ..38..
ततस्तु युवतीं कन्यां तां च स्वां सुविधानतः ॥ कृष्णभ्रात्रे बलायाशु प्रादात्तत्र स रेवतीम् ॥ ३९ ॥
ततस् तु युवतीम् कन्याम् ताम् च स्वाम् सु विधानतः ॥ कृष्ण-भ्रात्रे बलाय आशु प्रादात् तत्र स रेवतीम् ॥ ३९ ॥
tatas tu yuvatīm kanyām tām ca svām su vidhānataḥ .. kṛṣṇa-bhrātre balāya āśu prādāt tatra sa revatīm .. 39 ..
ततो जगाम शिखरं मेरोर्दिव्यं महाप्रभुः ॥ शिवमाराधयामास स नृपस्तपसि स्थितः ॥ 5.36.४० ॥
ततस् जगाम शिखरम् मेरोः दिव्यम् महा-प्रभुः ॥ शिवम् आराधयामास स नृपः तपसि स्थितः ॥ ५।३६।४० ॥
tatas jagāma śikharam meroḥ divyam mahā-prabhuḥ .. śivam ārādhayāmāsa sa nṛpaḥ tapasi sthitaḥ .. 5.36.40 ..
ऋषय ऊचुः ।।
तत्र स्थितो बहुयुगं ब्रह्मलोके स रेवतः ॥ युवैवागान्मर्त्यलोकमेतन्नः संशयो महान् ॥ ४१॥
तत्र स्थितः बहु-युगम् ब्रह्म-लोके स रेवतः ॥ युवा एवा अगात् मर्त्य-लोकम् एतत् नः संशयः महान् ॥ ४१॥
tatra sthitaḥ bahu-yugam brahma-loke sa revataḥ .. yuvā evā agāt martya-lokam etat naḥ saṃśayaḥ mahān .. 41..
सूत उवाच ।।
न जरा क्षुत्पिपासा वा विकारास्तत्र संति वै ॥ अपमृत्युर्न केषांचिन्मुनयो ब्रह्मणोंऽतिके ॥ ४२ ॥
न जरा क्षुध् पिपासा वा विकाराः तत्र संति वै ॥ अपमृत्युः न केषांचिद् मुनयः ब्रह्मणः ॐ अतिके ॥ ४२ ॥
na jarā kṣudh pipāsā vā vikārāḥ tatra saṃti vai .. apamṛtyuḥ na keṣāṃcid munayaḥ brahmaṇaḥ oṃ atike .. 42 ..
अतो न राजा संप्राप जरां मृत्युं च सा सुता ॥ स युवैवागतस्तत्र संमंत्र्य तनयावरम् ॥ ४३॥
अतस् न राजा संप्राप जराम् मृत्युम् च सा सुता ॥ स युवा एव आगतः तत्र संमंत्र्य तनयावरम् ॥ ४३॥
atas na rājā saṃprāpa jarām mṛtyum ca sā sutā .. sa yuvā eva āgataḥ tatra saṃmaṃtrya tanayāvaram .. 43..
गत्वा द्वारावतीं दिव्यां पुरीं कृष्णविनिर्मिताम् ॥ विवाहं कारयामास कन्यायाः स बलेन हि ॥ ४४॥
गत्वा द्वारावतीम् दिव्याम् पुरीम् कृष्ण-विनिर्मिताम् ॥ विवाहम् कारयामास कन्यायाः स बलेन हि ॥ ४४॥
gatvā dvārāvatīm divyām purīm kṛṣṇa-vinirmitām .. vivāham kārayāmāsa kanyāyāḥ sa balena hi .. 44..
तस्य पुत्रशतं त्वासीद्धार्मिकस्य महाप्रभो ॥ कृष्णस्यापि सुता जाता बहुस्त्रीभ्योऽमितास्ततः ॥ ४५॥
तस्य पुत्र-शतम् तु आसीत् धार्मिकस्य महा-प्रभो ॥ कृष्णस्य अपि सुताः जाताः बहु-स्त्रीभ्यः अमिताः ततस् ॥ ४५॥
tasya putra-śatam tu āsīt dhārmikasya mahā-prabho .. kṛṣṇasya api sutāḥ jātāḥ bahu-strībhyaḥ amitāḥ tatas .. 45..
अन्ववायो महांस्तत्र द्वयोरपि महात्मनोः ॥ क्षत्रिया दिक्षु सर्वासु गता हृष्टास्सुधार्मिकाः ॥ ४६ ॥
अन्ववायः महान् तत्र द्वयोः अपि महात्मनोः ॥ क्षत्रियाः दिक्षु सर्वासु गताः हृष्टाः सु धार्मिकाः ॥ ४६ ॥
anvavāyaḥ mahān tatra dvayoḥ api mahātmanoḥ .. kṣatriyāḥ dikṣu sarvāsu gatāḥ hṛṣṭāḥ su dhārmikāḥ .. 46 ..
इति प्रोक्तो हि शर्यातेर्वंशोऽन्येषां वदाम्यहम् ॥ मानवानां हि संक्षेपाच्छृणुतादरतो द्विजाः ॥ ४७ ॥
इति प्रोक्तः हि शर्यातेः वंशः अन्येषाम् वदामि अहम् ॥ मानवानाम् हि संक्षेपात् शृणुत आदरतः द्विजाः ॥ ४७ ॥
iti proktaḥ hi śaryāteḥ vaṃśaḥ anyeṣām vadāmi aham .. mānavānām hi saṃkṣepāt śṛṇuta ādarataḥ dvijāḥ .. 47 ..
नाभागो दिष्टपुत्रोऽभूत्स तु ब्राह्मणतां गतः ॥ स्वक्षत्रवंशं संस्थाप्य ब्रह्मकर्मभिरावृतः॥४८॥
नाभागः दिष्ट-पुत्रः अभूत् स तु ब्राह्मण-ताम् गतः ॥ स्व-क्षत्र-वंशम् संस्थाप्य ब्रह्म-कर्मभिः आवृतः॥४८॥
nābhāgaḥ diṣṭa-putraḥ abhūt sa tu brāhmaṇa-tām gataḥ .. sva-kṣatra-vaṃśam saṃsthāpya brahma-karmabhiḥ āvṛtaḥ..48..
धृष्टाद्धार्ष्टमभूत्क्षत्रं ब्रह्मभूयं गतं क्षितौ ॥ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ४९॥
धृष्टात् धार्ष्टम् अभूत् क्षत्रम् ब्रह्म-भूयम् गतम् क्षितौ ॥ करूषस्य तु कारूषाः क्षत्रियाः युद्ध-दुर्मदाः ॥ ४९॥
dhṛṣṭāt dhārṣṭam abhūt kṣatram brahma-bhūyam gatam kṣitau .. karūṣasya tu kārūṣāḥ kṣatriyāḥ yuddha-durmadāḥ .. 49..
नृगो यो मनुपुत्रस्तु महादाता विशेषतः ॥ नानावसूनां सुप्रीत्या विप्रेभ्यश्च गवां तथा ॥ 5.36.५०॥
नृगः यः मनु-पुत्रः तु महा-दाता विशेषतः ॥ नाना वसूनाम् सु प्रीत्या विप्रेभ्यः च गवाम् तथा ॥ ५।३६।५०॥
nṛgaḥ yaḥ manu-putraḥ tu mahā-dātā viśeṣataḥ .. nānā vasūnām su prītyā viprebhyaḥ ca gavām tathā .. 5.36.50..
गोदातव्यत्ययाद्यस्तु स्वकुबुद्ध्या स्वपापतः ॥ कृकलासत्वमापन्नः श्रीकृष्णेन समुद्धृतः ॥ ५१॥
गो-दात-व्यत्ययात् यः तु स्व-कु-बुद्ध्या स्व-पापतः ॥ कृकलास-त्वम् आपन्नः श्री-कृष्णेन समुद्धृतः ॥ ५१॥
go-dāta-vyatyayāt yaḥ tu sva-ku-buddhyā sva-pāpataḥ .. kṛkalāsa-tvam āpannaḥ śrī-kṛṣṇena samuddhṛtaḥ .. 51..
तस्येकोभूत्सुतः श्रेष्ठः प्रयातिर्धर्मवित्तथा ॥ इति श्रुतं मया व्यासात्तत्प्रोक्तं हि समासतः ॥ ५२।
तस्य इकः भूत् सुतः श्रेष्ठः प्रयातिः धर्म-विद् तथा ॥ इति श्रुतम् मया व्यासात् तत् प्रोक्तम् हि समासतस् ॥ ५२।
tasya ikaḥ bhūt sutaḥ śreṣṭhaḥ prayātiḥ dharma-vid tathā .. iti śrutam mayā vyāsāt tat proktam hi samāsatas .. 52.
वृषघ्नस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ॥ पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ५३ ॥
वृषघ्नः तु मनोः पुत्रः गोपालः गुरुणा कृतः ॥ पालयामास गाः यत्तः रात्र्याम् वीरासन-व्रतः ॥ ५३ ॥
vṛṣaghnaḥ tu manoḥ putraḥ gopālaḥ guruṇā kṛtaḥ .. pālayāmāsa gāḥ yattaḥ rātryām vīrāsana-vrataḥ .. 53 ..
स एकदाऽऽगतं गोष्ठे व्याघ्रं गा हिंसितुं बली ॥ श्रुत्वा गोकदनं बुद्धो हंतुं तं खड्गधृग्ययौ ॥ ५४॥
सः एकदा आगतम् गोष्ठे व्याघ्रम् गाः हिंसितुम् बली ॥ श्रुत्वा गो-कदनम् बुद्धः हंतुम् तम् खड्ग-धृक् ययौ ॥ ५४॥
saḥ ekadā āgatam goṣṭhe vyāghram gāḥ hiṃsitum balī .. śrutvā go-kadanam buddhaḥ haṃtum tam khaḍga-dhṛk yayau .. 54..
अजानन्नहनद्बभ्रोश्शिरश्शार्दूलशंकया ॥ निश्चक्राम सभीर्व्याघ्रो दृष्ट्वा तं खड्गिनं प्रभुम् ॥ ५५ ॥
अ जानन् अहनत् बभ्रोः शिरः शार्दूल-शंकया ॥ निश्चक्राम स भीः व्याघ्रः दृष्ट्वा तम् खड्गिनम् प्रभुम् ॥ ५५ ॥
a jānan ahanat babhroḥ śiraḥ śārdūla-śaṃkayā .. niścakrāma sa bhīḥ vyāghraḥ dṛṣṭvā tam khaḍginam prabhum .. 55 ..
मन्यमानो हतं व्याघ्रं स्वस्थानं स जगाम ह ॥ रात्र्यां तस्यां भ्रमापन्नो वर्षवातविनष्टधीः ॥ ५६॥
मन्यमानः हतम् व्याघ्रम् स्व-स्थानम् स जगाम ह ॥ रात्र्याम् तस्याम् भ्रम-आपन्नः वर्ष-वात-विनष्ट-धीः ॥ ५६॥
manyamānaḥ hatam vyāghram sva-sthānam sa jagāma ha .. rātryām tasyām bhrama-āpannaḥ varṣa-vāta-vinaṣṭa-dhīḥ .. 56..
व्युष्टायां निशि चोत्थाय प्रगे तत्र गतो हि सः ॥ अद्राक्षीत्स हतां बभ्रुं न व्याघ्रं दुःखितोऽभवत् ॥ ५७॥
व्युष्टायाम् निशि च उत्थाय प्रगे तत्र गतः हि सः ॥ अद्राक्षीत् स हताम् बभ्रुम् न व्याघ्रम् दुःखितः अभवत् ॥ ५७॥
vyuṣṭāyām niśi ca utthāya prage tatra gataḥ hi saḥ .. adrākṣīt sa hatām babhrum na vyāghram duḥkhitaḥ abhavat .. 57..
श्रुत्वा तद्वृत्तमाज्ञाय तं शशाप कृतागसम् ॥ अकामतोविचार्य्येति शूद्रो भव न क्षत्रियः ॥ ५८॥
श्रुत्वा तद्-वृत्तम् आज्ञाय तम् शशाप कृत-आगसम् ॥ अकामतस् विचार्य इति शूद्रः भव न क्षत्रियः ॥ ५८॥
śrutvā tad-vṛttam ājñāya tam śaśāpa kṛta-āgasam .. akāmatas vicārya iti śūdraḥ bhava na kṣatriyaḥ .. 58..
एवं शप्तस्तु गुरुणा कुलाचार्य्येण कोपतः ॥ निस्सृतश्च पृषध्रस्तु जगाम विपिनं महत् ॥ ५९ ॥
एवम् शप्तः तु गुरुणा कुल-आचार्य्येण कोपतः ॥ निस्सृतः च पृषध्रः तु जगाम विपिनम् महत् ॥ ५९ ॥
evam śaptaḥ tu guruṇā kula-ācāryyeṇa kopataḥ .. nissṛtaḥ ca pṛṣadhraḥ tu jagāma vipinam mahat .. 59 ..
निर्विण्णः स तु कष्टेन विरक्तोऽभूत्स योगवान्॥वनाग्नौ दग्धदेहश्च जगाम परमां गतिम्॥5.36.६०॥
निर्विण्णः स तु कष्टेन विरक्तः अभूत् स योगवान्॥वन-अग्नौ दग्ध-देहः च जगाम परमाम् गतिम्॥५।३६।६०॥
nirviṇṇaḥ sa tu kaṣṭena viraktaḥ abhūt sa yogavān..vana-agnau dagdha-dehaḥ ca jagāma paramām gatim..5.36.60..
कविः पुत्रो मनोः प्राज्ञश्शिवानुग्रहतोऽभवत् ॥ भुक्त्वा सुखं दिव्यं मुक्तिं प्राप सुदुर्लभाम्॥६१॥
कविः पुत्रः मनोः प्राज्ञः शिव-अनुग्रहतः अभवत् ॥ भुक्त्वा सुखम् दिव्यम् मुक्तिम् प्राप सु दुर्लभाम्॥६१॥
kaviḥ putraḥ manoḥ prājñaḥ śiva-anugrahataḥ abhavat .. bhuktvā sukham divyam muktim prāpa su durlabhām..61..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुनवपुत्रवंशवर्णनंनाम षट्त्रिंशो ऽध्यायः॥३६॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् मनु-नवपुत्रवंशवर्णनम् नाम षट्त्रिंशः अध्यायः॥३६॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām manu-navaputravaṃśavarṇanam nāma ṣaṭtriṃśaḥ adhyāyaḥ..36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In