| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतस्सुतः॥तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्॥१॥
पूर्वतस् तु मनोः जज्ञे इक्ष्वाकुः घ्राणतः सुतः॥तस्य पुत्र-शतम् तु आसीत् इक्ष्वाकोः भूरि-दक्षिणम्॥१॥
pūrvatas tu manoḥ jajñe ikṣvākuḥ ghrāṇataḥ sutaḥ..tasya putra-śatam tu āsīt ikṣvākoḥ bhūri-dakṣiṇam..1..
तेषां पुरस्तादभवन्नार्य्यावर्ते नृपा द्विजाः॥तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत्॥२॥
तेषाम् पुरस्तात् अभवन् नार्यावर्ते नृपाः द्विजाः॥तेषाम् विकुक्षिः ज्येष्ठः तु सः अयोध्यायाम् नृपः अभवत्॥२॥
teṣām purastāt abhavan nāryāvarte nṛpāḥ dvijāḥ..teṣām vikukṣiḥ jyeṣṭhaḥ tu saḥ ayodhyāyām nṛpaḥ abhavat..2..
तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः।श्राद्धकर्म्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ॥ ३॥
तद्-कर्म शृणु तद्-प्रीत्या यत् जातम् वंशतः विधेः।श्राद्ध-कर्म्मणि च उद्दिष्टः हि अ कृते श्राद्ध-कर्मणि ॥ ३॥
tad-karma śṛṇu tad-prītyā yat jātam vaṃśataḥ vidheḥ.śrāddha-karmmaṇi ca uddiṣṭaḥ hi a kṛte śrāddha-karmaṇi .. 3..
भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः॥इक्ष्वाकुणा परित्यक्तश्शशादो वनमाविशत ॥ ४ ॥
भक्षयित्वा शशम् शीघ्रम् शशाद-त्वम् अतस् गतः॥इक्ष्वाकुणा परित्यक्तः शशादः वनम् आविशत ॥ ४ ॥
bhakṣayitvā śaśam śīghram śaśāda-tvam atas gataḥ..ikṣvākuṇā parityaktaḥ śaśādaḥ vanam āviśata .. 4 ..
इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत्॥शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः॥५॥
इक्ष्वाकौ संस्थिते राजा वसिष्ठ-वचनात् अभूत्॥शकुनि-प्रमुखाः तस्य पुत्राः पञ्चदश स्मृताः॥५॥
ikṣvākau saṃsthite rājā vasiṣṭha-vacanāt abhūt..śakuni-pramukhāḥ tasya putrāḥ pañcadaśa smṛtāḥ..5..
उत्तरापथदेशस्य रक्षितारो महीक्षितः ॥ अयोधस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ॥ ६॥
उत्तरापथ-देशस्य रक्षितारः महीक्षितः ॥ अयोधस्य तु दायादः ककुत्स्थः नाम वीर्य्यवान् ॥ ६॥
uttarāpatha-deśasya rakṣitāraḥ mahīkṣitaḥ .. ayodhasya tu dāyādaḥ kakutsthaḥ nāma vīryyavān .. 6..
अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ॥ विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः ॥ ७॥
अरिनाभः ककुत्स्थस्य पृथुः एतस्य वै सुतः ॥ विष्टराश्वः पृथोः पुत्रः तस्मात् इंद्रः प्रजापतिः ॥ ७॥
arinābhaḥ kakutsthasya pṛthuḥ etasya vai sutaḥ .. viṣṭarāśvaḥ pṛthoḥ putraḥ tasmāt iṃdraḥ prajāpatiḥ .. 7..
इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः॥जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता॥श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ ८ ॥
इंद्रस्य युवनाश्वः तु श्रावस्तस्य प्रजापतिः॥जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता॥श्रावस्तस्य तु दायादः बृहदश्वः महा-यशाः ॥ ८ ॥
iṃdrasya yuvanāśvaḥ tu śrāvastasya prajāpatiḥ..jajñe śrāvastakaḥ prājñaḥ śrāvastī yena nirmitā..śrāvastasya tu dāyādaḥ bṛhadaśvaḥ mahā-yaśāḥ .. 8 ..
युवनाश्वस्सुतस्तस्य कुवलाश्वश्च तत्सुतः ॥ स हि धुंधुवधाद्भूतो धुंधुमारो नृपोत्तमः॥९॥
युवनाश्वः सुतः तस्य कुवलाश्वः च तद्-सुतः ॥ स हि धुंधु-वधात् भूतः धुंधुमारः नृप-उत्तमः॥९॥
yuvanāśvaḥ sutaḥ tasya kuvalāśvaḥ ca tad-sutaḥ .. sa hi dhuṃdhu-vadhāt bhūtaḥ dhuṃdhumāraḥ nṛpa-uttamaḥ..9..
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत् ॥ 5.37.१० ॥
कुवलाश्वस्य पुत्राणाम् शतम् उत्तम-धन्विनाम् ॥ बभूव अत्र पिता राज्ये कुवलाश्वम् न्ययोजयत् ॥ ५।३७।१० ॥
kuvalāśvasya putrāṇām śatam uttama-dhanvinām .. babhūva atra pitā rājye kuvalāśvam nyayojayat .. 5.37.10 ..
पुत्रसंक्रामितश्रीको वनं राजा समाविशत् ॥ तमुत्तंकोऽथ राजर्षि प्रयांतं प्रत्यवारयत् ॥ ११ ॥
पुत्र-संक्रामित-श्रीकः वनम् राजा समाविशत् ॥ तम् उत्तंकः अथ राजर्षि प्रयांतम् प्रत्यवारयत् ॥ ११ ॥
putra-saṃkrāmita-śrīkaḥ vanam rājā samāviśat .. tam uttaṃkaḥ atha rājarṣi prayāṃtam pratyavārayat .. 11 ..
उत्तंक उवाच।।
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु॥त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ॥ १२ ॥
भवता रक्षणम् कार्यम् पृथिव्याः धर्मतः शृणु॥त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना ॥ १२ ॥
bhavatā rakṣaṇam kāryam pṛthivyāḥ dharmataḥ śṛṇu..tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā .. 12 ..
भविष्यति निरुद्विग्ना नारण्यं गंतुमर्हसि ॥ ममाश्रमसमीपे तु हिमेषु मरुधन्वसु ॥ १३ ॥
भविष्यति निरुद्विग्ना न अरण्यम् गंतुम् अर्हसि ॥ मम आश्रम-समीपे तु हिमेषु मरु-धन्वसु ॥ १३ ॥
bhaviṣyati nirudvignā na araṇyam gaṃtum arhasi .. mama āśrama-samīpe tu himeṣu maru-dhanvasu .. 13 ..
समुद्रवालुकापूर्णो दानवो बलदर्पितः ॥ देवतानामवध्यो हि महाकायो महाबलः ॥ १४॥
समुद्र-वालुका-पूर्णः दानवः बल-दर्पितः ॥ देवतानाम् अवध्यः हि महा-कायः महा-बलः ॥ १४॥
samudra-vālukā-pūrṇaḥ dānavaḥ bala-darpitaḥ .. devatānām avadhyaḥ hi mahā-kāyaḥ mahā-balaḥ .. 14..
अंतर्भूभिगतस्तत्र वालुकांतर्हितः स्थितः ॥ राक्षसस्य मधोः पुत्रो धुंधुनामा सुदारुणः ॥ १५ ॥
अंतर् भूभिः गतः तत्र वालुका-अंतर्हितः स्थितः ॥ राक्षसस्य मधोः पुत्रः धुंधु-नामा सु दारुणः ॥ १५ ॥
aṃtar bhūbhiḥ gataḥ tatra vālukā-aṃtarhitaḥ sthitaḥ .. rākṣasasya madhoḥ putraḥ dhuṃdhu-nāmā su dāruṇaḥ .. 15 ..
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ संवत्सरस्य पर्यन्ते स निश्वासं विमुंचति॥१६॥
शेते लोक-विनाशाय तपः आस्थाय दारुणम् ॥ संवत्सरस्य पर्यन्ते स निश्वासम् विमुंचति॥१६॥
śete loka-vināśāya tapaḥ āsthāya dāruṇam .. saṃvatsarasya paryante sa niśvāsam vimuṃcati..16..
यदा तदा भूश्चलति सशैलवनकानना॥सविस्फुलिंगं सांगारं सधूममपि वारुणम्॥१७॥
यदा तदा भूः चलति स शैल-वन-कानना॥स विस्फुलिंगम् स अंगारम् स धूमम् अपि वारुणम्॥१७॥
yadā tadā bhūḥ calati sa śaila-vana-kānanā..sa visphuliṃgam sa aṃgāram sa dhūmam api vāruṇam..17..
तेन रायन्न शक्नोमि तस्मिंस्स्थातुं स्व आश्रमे ॥ तं वारय महाबाहो लोकानां हितकाम्यया ॥ १८ ॥
तेन रायन् न शक्नोमि तस्मिन् स्थातुम् स्वे आश्रमे ॥ तम् वारय महा-बाहो लोकानाम् हित-काम्यया ॥ १८ ॥
tena rāyan na śaknomi tasmin sthātum sve āśrame .. tam vāraya mahā-bāho lokānām hita-kāmyayā .. 18 ..
लोकास्स्वस्था भवंत्वद्य तस्मिन्विनिहते त्वया ॥ त्वं हि तस्य वधायैव समर्थः पृथवीपते ॥ १९॥
लोकाः स्वस्थाः भवन्तु अद्य तस्मिन् विनिहते त्वया ॥ त्वम् हि तस्य वधाय एव समर्थः पृथवीपते ॥ १९॥
lokāḥ svasthāḥ bhavantu adya tasmin vinihate tvayā .. tvam hi tasya vadhāya eva samarthaḥ pṛthavīpate .. 19..
विष्णुना च वरो दत्तो महान्पूर्व युगेऽनघ ॥ तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ॥ 5.37.२० ॥
विष्णुना च वरः दत्तः महान् पूर्वे युगे अनघ ॥ तेजसा स्वेन ते विष्णुः तेजः आप्याययिष्यति ॥ ५।३७।२० ॥
viṣṇunā ca varaḥ dattaḥ mahān pūrve yuge anagha .. tejasā svena te viṣṇuḥ tejaḥ āpyāyayiṣyati .. 5.37.20 ..
पालने हि महाधर्मः प्रजानामिह दृश्यते ॥ न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ॥ २१॥
पालने हि महा-धर्मः प्रजानाम् इह दृश्यते ॥ न तथा दृश्यते अरण्ये मा ते अभूत् बुद्धिः ईदृशी ॥ २१॥
pālane hi mahā-dharmaḥ prajānām iha dṛśyate .. na tathā dṛśyate araṇye mā te abhūt buddhiḥ īdṛśī .. 21..
ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ॥ प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ॥ २२॥
ईदृशः नहि राज-इन्द्र क्वचिद् धर्मः प्रविद्यते ॥ प्रजानाम् पालने यादृश् पुरा राजर्षिभिः कृतः ॥ २२॥
īdṛśaḥ nahi rāja-indra kvacid dharmaḥ pravidyate .. prajānām pālane yādṛś purā rājarṣibhiḥ kṛtaḥ .. 22..
स एवमुक्तो राजर्षिरुत्तंकेन महात्मना ॥ कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे ॥ २३ ॥
सः एवम् उक्तः राजर्षिः उत्तंकेन महात्मना ॥ कुवलाश्वः सुतम् प्रादात् तस्मै धुन्धु-निवारणे ॥ २३ ॥
saḥ evam uktaḥ rājarṣiḥ uttaṃkena mahātmanā .. kuvalāśvaḥ sutam prādāt tasmai dhundhu-nivāraṇe .. 23 ..
भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम ॥ भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २४ ॥
भगवत् न्यस्त-शस्त्र-ऊहम् अयम् तु तनयः मम ॥ भविष्यति द्विजश्रेष्ठ धुन्धु-मारः न संशयः ॥ २४ ॥
bhagavat nyasta-śastra-ūham ayam tu tanayaḥ mama .. bhaviṣyati dvijaśreṣṭha dhundhu-māraḥ na saṃśayaḥ .. 24 ..
इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ॥ कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ॥ २५॥
इति उक्त्वा पुत्रम् आदिश्य ययौ स तपसे नृपः ॥ कुवलाश्वः च स उत्तङ्कः ययौ धुन्धु-विनिग्रहे ॥ २५॥
iti uktvā putram ādiśya yayau sa tapase nṛpaḥ .. kuvalāśvaḥ ca sa uttaṅkaḥ yayau dhundhu-vinigrahe .. 25..
तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ॥ उत्तंकस्य नियोगाद्वै लोकानां हितकाम्यया ॥ २६ ॥
तम् आविशत् तदा विष्णुः भगवान् तेजसा प्रभुः ॥ उत्तंकस्य नियोगात् वै लोकानाम् हित-काम्यया ॥ २६ ॥
tam āviśat tadā viṣṇuḥ bhagavān tejasā prabhuḥ .. uttaṃkasya niyogāt vai lokānām hita-kāmyayā .. 26 ..
तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ॥ एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ २७ ॥
तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दः महान् अभूत् ॥ एष श्रीमान् नृप-सुतः धुन्धुमारः भविष्यति ॥ २७ ॥
tasmin prayāte durddharṣe divi śabdaḥ mahān abhūt .. eṣa śrīmān nṛpa-sutaḥ dhundhumāraḥ bhaviṣyati .. 27 ..
दिव्यैर्माल्यैश्च तं देवास्समंतात्समवारयन् ॥ प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ॥ २८॥
दिव्यैः माल्यैः च तम् देवाः समंतात् समवारयन् ॥ प्रशंसाम् चक्रिरे तस्य जय जीव इति वादिनः ॥ २८॥
divyaiḥ mālyaiḥ ca tam devāḥ samaṃtāt samavārayan .. praśaṃsām cakrire tasya jaya jīva iti vādinaḥ .. 28..
स गत्वा जयतां श्रेष्ठस्तनयैस्सह पार्थिवः ॥ समुद्रं खनयामास वालुकार्णवमध्यतः ॥ २९॥
स गत्वा जयताम् श्रेष्ठः तनयैः सह पार्थिवः ॥ समुद्रम् खनयामास वालुका-अर्णव-मध्यतः ॥ २९॥
sa gatvā jayatām śreṣṭhaḥ tanayaiḥ saha pārthivaḥ .. samudram khanayāmāsa vālukā-arṇava-madhyataḥ .. 29..
नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः॥बभूव सुमहातेजा भूयो बलसमन्वितः॥5.37.३०॥
नारायणस्य विप्रर्षेः तेजसा आप्यायितः तु सः॥बभूव सु महा-तेजाः भूयस् बल-समन्वितः॥५।३७।३०॥
nārāyaṇasya viprarṣeḥ tejasā āpyāyitaḥ tu saḥ..babhūva su mahā-tejāḥ bhūyas bala-samanvitaḥ..5.37.30..
तस्य पुत्रैः खनद्भिस्तु वालुकांतर्गतस्तु सः॥धुन्धुरासादितो ब्रह्मन्दिशमाश्रित्य पश्चि माम् ॥ ३१ ॥
तस्य पुत्रैः खनद्भिः तु वालुका-अंतर्गतः तु सः॥धुन्धुः आसादितः ब्रह्मन् दिशम् आश्रित्य माम् ॥ ३१ ॥
tasya putraiḥ khanadbhiḥ tu vālukā-aṃtargataḥ tu saḥ..dhundhuḥ āsāditaḥ brahman diśam āśritya mām .. 31 ..
मुखजेनाग्निना क्रोधाल्लोकान्संवर्तयन्निव ॥ वारि सुस्राव वेगेन विधोः कधिरिवोदये॥ ३२ ॥
मुख-जेन अग्निना क्रोधात् लोकान् संवर्तयन् इव ॥ वारि सुस्राव वेगेन विधोः कधिः इव उदये॥ ३२ ॥
mukha-jena agninā krodhāt lokān saṃvartayan iva .. vāri susrāva vegena vidhoḥ kadhiḥ iva udaye.. 32 ..
ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ॥ त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ॥ ३३॥
ततस् अनलैः अभिहतम् दग्धम् पुत्र-शतम् हि तत् ॥ त्रयः एवा अवशिष्टाः च तेषु मध्ये मुनि-ईश्वर ॥ ३३॥
tatas analaiḥ abhihatam dagdham putra-śatam hi tat .. trayaḥ evā avaśiṣṭāḥ ca teṣu madhye muni-īśvara .. 33..
ततस्स राजा विप्रेन्द्र राक्षसं तं महाबलम् ॥ आससाद महातेजा धुन्धुं विप्रविनाशनम् ॥ ३४॥
ततस् स राजा विप्र-इन्द्र राक्षसम् तम् महा-बलम् ॥ आससाद महा-तेजाः धुन्धुम् विप्र-विनाशनम् ॥ ३४॥
tatas sa rājā vipra-indra rākṣasam tam mahā-balam .. āsasāda mahā-tejāḥ dhundhum vipra-vināśanam .. 34..
तस्य वारिमयं वेगमापीय स नराधिपः ॥ वह्निबाणेन वह्निं तु शमयामास वारिणा ॥ ३५॥
तस्य वारि-मयम् वेगम् आपीय स नराधिपः ॥ वह्नि-बाणेन वह्निम् तु शमयामास वारिणा ॥ ३५॥
tasya vāri-mayam vegam āpīya sa narādhipaḥ .. vahni-bāṇena vahnim tu śamayāmāsa vāriṇā .. 35..
तं निहत्य महाकायं बलेनोदकराक्षसम्॥उत्तंकस्येक्षयामास कृतं कर्म नराधिपः ॥ ३६॥
तम् निहत्य महा-कायम् बलेन उदक-राक्षसम्॥उत्तंकस्य ईक्षयामास कृतम् कर्म नराधिपः ॥ ३६॥
tam nihatya mahā-kāyam balena udaka-rākṣasam..uttaṃkasya īkṣayāmāsa kṛtam karma narādhipaḥ .. 36..
उत्तंकस्तु वरं प्रादात्तस्मै राज्ञे महामुने॥अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ ३७॥
उत्तंकः तु वरम् प्रादात् तस्मै राज्ञे महा-मुने॥अददत् च अक्षयम् वित्तम् शत्रुभिः च अपराजयम् ॥ ३७॥
uttaṃkaḥ tu varam prādāt tasmai rājñe mahā-mune..adadat ca akṣayam vittam śatrubhiḥ ca aparājayam .. 37..
धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ॥ पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः॥३८॥
धर्मे मतिम् च सततम् स्वर्गे वासम् तथा अक्षयम् ॥ पुत्राणाम् च अक्षयम् लोकम् रक्षसा ये तु संहताः॥३८॥
dharme matim ca satatam svarge vāsam tathā akṣayam .. putrāṇām ca akṣayam lokam rakṣasā ye tu saṃhatāḥ..38..
तस्य पुत्रास्त्रयश्शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ॥ हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ॥३९॥
तस्य पुत्राः त्रयः शिष्टाः दृढाश्वः श्रेष्ठः उच्यते ॥ हंसाश्व-कपिलाश्वौ च कुमारौ तद्-कनीयसौ॥३९॥
tasya putrāḥ trayaḥ śiṣṭāḥ dṛḍhāśvaḥ śreṣṭhaḥ ucyate .. haṃsāśva-kapilāśvau ca kumārau tad-kanīyasau..39..
धौंधुमारिर्दृढाश्वो यो हर्य्यश्वस्तस्य चात्मजः ॥ हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतस्सदा ॥ 5.37.४०॥
धौंधुमारिः दृढाश्वः यः हर्य्यश्वः तस्य च आत्मजः ॥ हर्यश्वस्य निकुंभः भूत् पुत्रः धर्म-रतः सदा ॥ ५।३७।४०॥
dhauṃdhumāriḥ dṛḍhāśvaḥ yaḥ haryyaśvaḥ tasya ca ātmajaḥ .. haryaśvasya nikuṃbhaḥ bhūt putraḥ dharma-rataḥ sadā .. 5.37.40..
संहताश्वो निकुंभस्य पुत्रो रणविशारदः॥अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत॥४१॥
संहताश्वः निकुंभस्य पुत्रः रण-विशारदः॥अक्षाश्वः च कृताश्वः च संहताश्व-सुतः अभवत॥४१॥
saṃhatāśvaḥ nikuṃbhasya putraḥ raṇa-viśāradaḥ..akṣāśvaḥ ca kṛtāśvaḥ ca saṃhatāśva-sutaḥ abhavata..41..
तस्य हैमवती कन्या सतां मान्या वृषद्वती॥विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ४२ ॥
तस्य हैमवती कन्या सताम् मान्या वृषद्वती॥विख्याता त्रिषु लोकेषु पुत्रः तस्याः प्रसेनजित् ॥ ४२ ॥
tasya haimavatī kanyā satām mānyā vṛṣadvatī..vikhyātā triṣu lokeṣu putraḥ tasyāḥ prasenajit .. 42 ..
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ॥ अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ ४३ ॥
लेभे प्रसेनजित्-भार्याम् गौरीम् नाम पतिव्रताम् ॥ अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ ४३ ॥
lebhe prasenajit-bhāryām gaurīm nāma pativratām .. abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā .. 43 ..
तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ॥ मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ॥ ४४ ॥
तस्य पुत्रः महान् आसीत् युवनाश्वः महीपतिः ॥ मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ॥ ४४ ॥
tasya putraḥ mahān āsīt yuvanāśvaḥ mahīpatiḥ .. māṃdhātā yuvanāśvasya triṣu lokeṣu viśrutaḥ .. 44 ..
तस्य चैत्ररथी भार्या शशबिंदुसुता ऽभवत् ॥ पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः ॥ ४५ ॥
तस्य चैत्ररथी भार्या शशबिंदु-सुता अभवत् ॥ पतिव्रता च ज्येष्ठा च भ्रातॄणाम् अयुतम् च सः ॥ ४५ ॥
tasya caitrarathī bhāryā śaśabiṃdu-sutā abhavat .. pativratā ca jyeṣṭhā ca bhrātṝṇām ayutam ca saḥ .. 45 ..
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ॥ पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम् ॥ ४६ ॥
तस्याम् उत्पादयामास मान्धाता द्वौ सुतौ तदा ॥ पुरुकुत्सम् च धर्म-ज्ञम् मुचुकुंदम् च धार्मिकम् ॥ ४६ ॥
tasyām utpādayāmāsa māndhātā dvau sutau tadā .. purukutsam ca dharma-jñam mucukuṃdam ca dhārmikam .. 46 ..
पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ॥ तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ॥ ४७ ॥
पुरुकुत्स-सुतः तु आसीत् विद्वान् त्रय्यारुणिः कविः ॥ तस्य सत्यव्रतः नाम कुमारः अभूत् महा-बली ॥ ४७ ॥
purukutsa-sutaḥ tu āsīt vidvān trayyāruṇiḥ kaviḥ .. tasya satyavrataḥ nāma kumāraḥ abhūt mahā-balī .. 47 ..
पाणिग्रहणमंत्राणां विघ्रं चक्रे महात्मभिः ॥ येन भार्य्या हृता पूर्वं कृतोद्वाहः परस्य वै ॥ ४८ ॥
पाणिग्रहण-मंत्राणाम् विघ्रम् चक्रे महात्मभिः ॥ येन भार्य्या हृता पूर्वम् कृत-उद्वाहः परस्य वै ॥ ४८ ॥
pāṇigrahaṇa-maṃtrāṇām vighram cakre mahātmabhiḥ .. yena bhāryyā hṛtā pūrvam kṛta-udvāhaḥ parasya vai .. 48 ..
बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ॥ जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ॥ ४९ ॥
बलात् कामात् च मोहात् च संहर्षात् च यदा उत्कटात् ॥ जहार कन्याम् कामात् च कस्यचिद् पुर-वासिनः ॥ ४९ ॥
balāt kāmāt ca mohāt ca saṃharṣāt ca yadā utkaṭāt .. jahāra kanyām kāmāt ca kasyacid pura-vāsinaḥ .. 49 ..
अधर्मसंगिनं तं तु राजा त्रय्यारुणिस्त्यजन् ॥ अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ 5.37.५० ॥
अधर्म-संगिनम् तम् तु राजा त्रय्यारुणिः त्यजन् ॥ अपध्वंस-इति बहुशस् अवदत् क्रोध-समन्वितः ॥ ५।३७।५० ॥
adharma-saṃginam tam tu rājā trayyāruṇiḥ tyajan .. apadhvaṃsa-iti bahuśas avadat krodha-samanvitaḥ .. 5.37.50 ..
पितरं सोऽब्रवीन्मुक्तः क्व गच्छामीति वै तदा ॥ वस श्वपाकनिकटे राजा प्राहेति तं तदा ॥ ५१ ॥
पितरम् सः अब्रवीत् मुक्तः क्व गच्छामि इति वै तदा ॥ वस श्वपाक-निकटे राजा प्राह इति तम् तदा ॥ ५१ ॥
pitaram saḥ abravīt muktaḥ kva gacchāmi iti vai tadā .. vasa śvapāka-nikaṭe rājā prāha iti tam tadā .. 51 ..
स हि सत्यव्रतस्तेन श्वपाकवसथांतिके ॥ पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ॥ ५२ ॥
स हि सत्यव्रतः तेन श्वपाक-वसथ-अंतिके ॥ पित्रा त्यक्तः अवसत् वीरः धर्मपालेन भूभुजा ॥ ५२ ॥
sa hi satyavrataḥ tena śvapāka-vasatha-aṃtike .. pitrā tyaktaḥ avasat vīraḥ dharmapālena bhūbhujā .. 52 ..
ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ॥ स शंकरतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ ॥ ५३॥
ततस् त्रय्यारुणिः राजा विरक्तः पुत्र-कर्मणा ॥ स शंकर-तपः कर्त्तुम् सर्वम् त्यक्त्वा वनम् ययौ ॥ ५३॥
tatas trayyāruṇiḥ rājā viraktaḥ putra-karmaṇā .. sa śaṃkara-tapaḥ karttum sarvam tyaktvā vanam yayau .. 53..
ततस्तस्य स्व विषये नावर्षत्पाकशासनः ॥ समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ॥ ५४॥
ततस् तस्य स्व-विषये न अवर्षत् पाकशासनः ॥ समाः द्वादश विप्रर्षे तेन अधर्मेण वै तदा ॥ ५४॥
tatas tasya sva-viṣaye na avarṣat pākaśāsanaḥ .. samāḥ dvādaśa viprarṣe tena adharmeṇa vai tadā .. 54..
दारां तस्य तु विषये विश्वामित्रो महातपाः ॥ संत्यज्य सागरानूपे चचार विपुलं तपः ॥ ५५॥
तस्य तु विषये विश्वामित्रः महा-तपाः ॥ संत्यज्य सागर-अनूपे चचार विपुलम् तपः ॥ ५५॥
tasya tu viṣaye viśvāmitraḥ mahā-tapāḥ .. saṃtyajya sāgara-anūpe cacāra vipulam tapaḥ .. 55..
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्॥शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च॥५६॥
तस्य पत्नी गले बद्ध्वा मध्यमम् पुत्रम् औरसम्॥शेषस्य भरण-अर्थाय व्यक्रीणात् गो-शतेन च॥५६॥
tasya patnī gale baddhvā madhyamam putram aurasam..śeṣasya bharaṇa-arthāya vyakrīṇāt go-śatena ca..56..
तां तु दृष्ट्वा गले बद्धं विक्रीणंती स्वमात्मजम् ॥ महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा ॥ ५७ ॥
ताम् तु दृष्ट्वा गले बद्धम् विक्रीणंती स्वम् आत्मजम् ॥ महा-ऋषि-पुत्रम् धर्म्म-आत्मा मोचयामास तम् तदा ॥ ५७ ॥
tām tu dṛṣṭvā gale baddham vikrīṇaṃtī svam ātmajam .. mahā-ṛṣi-putram dharmma-ātmā mocayāmāsa tam tadā .. 57 ..
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ॥ ५७८॥
सत्यव्रतः महा-बाहुः भरणम् तस्य च अकरोत् ॥ विश्वामित्रस्य तुष्टि-अर्थम् अनुक्रोश-अर्थम् एव च ॥ ५७८॥
satyavrataḥ mahā-bāhuḥ bharaṇam tasya ca akarot .. viśvāmitrasya tuṣṭi-artham anukrośa-artham eva ca .. 578..
तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ॥ अभवद्गालवो नाम गलबंधान्महातपाः ॥ ५९॥
तत् आरभ्य स पुत्रः तु विश्वामित्रस्य वै मुनेः ॥ अभवत् गालवः नाम गल-बंधात् महा-तपाः ॥ ५९॥
tat ārabhya sa putraḥ tu viśvāmitrasya vai muneḥ .. abhavat gālavaḥ nāma gala-baṃdhāt mahā-tapāḥ .. 59..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् मनुवंशवर्णनम् नाम सप्तत्रिंशः अध्यायः ॥ ३७॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām manuvaṃśavarṇanam nāma saptatriṃśaḥ adhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In