| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ॥ विश्वामित्रकलत्रं च पोषयामास वै तदा ॥ १॥
सत्यव्रतः तु तद्-भक्त्या कृपया च प्रतिज्ञया ॥ विश्वामित्र-कलत्रम् च पोषयामास वै तदा ॥ १॥
satyavrataḥ tu tad-bhaktyā kṛpayā ca pratijñayā .. viśvāmitra-kalatram ca poṣayāmāsa vai tadā .. 1..
हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ॥ विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ॥ २ ॥
हत्वा मृगान् वराहान् च महिषान् च वनेचरान् ॥ विश्वामित्र-आश्रम-अभ्याशे तद्-मांसम् च अक्षिपत् मुने ॥ २ ॥
hatvā mṛgān varāhān ca mahiṣān ca vanecarān .. viśvāmitra-āśrama-abhyāśe tad-māṃsam ca akṣipat mune .. 2 ..
तीर्थं गां चैव रात्रं च तथैवांतःपुरं मुनिः ॥ याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत ॥ ३॥
तीर्थम् गाम् च एव च तथा एव अंतःपुरम् मुनिः ॥ याज्य-उपाध्याय-संयोगात् वसिष्ठः पर्यरक्षत ॥ ३॥
tīrtham gām ca eva ca tathā eva aṃtaḥpuram muniḥ .. yājya-upādhyāya-saṃyogāt vasiṣṭhaḥ paryarakṣata .. 3..
सत्यव्रतस्य वाक्याद्वा भाविनोर्थस्य वै बलात्॥वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः॥४॥
सत्यव्रतस्य वाक्यात् वा भाविना ऋथस्य वै बलात्॥वसिष्ठः अभ्यधिकम् मन्युम् धारयामास नित्यशस्॥४॥
satyavratasya vākyāt vā bhāvinā ṛthasya vai balāt..vasiṣṭhaḥ abhyadhikam manyum dhārayāmāsa nityaśas..4..
पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ॥ न वारयामास मुनिर्वसिष्ठः कारणेन च ॥ ५॥
पित्रा तु तम् तदा राष्ट्रात् परित्यक्तम् स्वम् आत्मजम् ॥ न वारयामास मुनिः वसिष्ठः कारणेन च ॥ ५॥
pitrā tu tam tadā rāṣṭrāt parityaktam svam ātmajam .. na vārayāmāsa muniḥ vasiṣṭhaḥ kāraṇena ca .. 5..
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे॥न च सत्यव्रतस्थस्य तमुपांशुमबुद्ध्यत॥६॥
पाणिग्रहण-मंत्राणाम् निष्ठा स्यात् सप्तमे पदे॥न च सत्यव्रत-स्थस्य तम् उपांशुम् अबुद्ध्यत॥६॥
pāṇigrahaṇa-maṃtrāṇām niṣṭhā syāt saptame pade..na ca satyavrata-sthasya tam upāṃśum abuddhyata..6..
तस्मिन्स परितोषाय पितुरासीन्महात्मनः॥कुलस्य निष्कृतिं विप्र कृतवान्वै भवेदिति॥७॥
तस्मिन् स परितोषाय पितुः आसीत् महात्मनः॥कुलस्य निष्कृतिम् विप्र कृतवान् वै भवेत् इति॥७॥
tasmin sa paritoṣāya pituḥ āsīt mahātmanaḥ..kulasya niṣkṛtim vipra kṛtavān vai bhavet iti..7..
न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ॥ अभिषेक्ष्याम्यहं पुत्रमस्यां नैवाब्रवीन्मुनिः ॥ ८॥
न तम् वसिष्ठः भगवान् पित्रा त्यक्तम् न्यवारयत् ॥ अभिषेक्ष्यामि अहम् पुत्रम् अस्याम् न एव अब्रवीत् मुनिः ॥ ८॥
na tam vasiṣṭhaḥ bhagavān pitrā tyaktam nyavārayat .. abhiṣekṣyāmi aham putram asyām na eva abravīt muniḥ .. 8..
स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली ॥ अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ॥ ९ ॥
स तु द्वादश वर्षाणि दीक्षाम् ताम् उद्वहत् बली ॥ अ विद्या माने मांसे तु वसिष्ठस्य महात्मनः ॥ ९ ॥
sa tu dvādaśa varṣāṇi dīkṣām tām udvahat balī .. a vidyā māne māṃse tu vasiṣṭhasya mahātmanaḥ .. 9 ..
सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ॥ तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः ॥ 5.38.१०॥
सर्व-काम-दुहाम् दोग्ध्रीम् ददर्श स नृप-आत्मजः ॥ ताम् वै क्रोधात् च लोभात् च श्रमात् वै च क्षुधा-अन्वितः ॥ ५।३८।१०॥
sarva-kāma-duhām dogdhrīm dadarśa sa nṛpa-ātmajaḥ .. tām vai krodhāt ca lobhāt ca śramāt vai ca kṣudhā-anvitaḥ .. 5.38.10..
दाशधर्मगतो राजा तां जघान स वै मुने ॥ स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ॥ ११ ॥
दाश-धर्म-गतः राजा ताम् जघान स वै मुने ॥ स तम् मांसम् स्वयम् च एव विश्वामित्रस्य च आत्मजम् ॥ ११ ॥
dāśa-dharma-gataḥ rājā tām jaghāna sa vai mune .. sa tam māṃsam svayam ca eva viśvāmitrasya ca ātmajam .. 11 ..
भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ॥ उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ॥ १२॥
भोजयामास तत् श्रुत्वा वसिष्ठः हि अस्य चुक्रुधे ॥ उवाच च मुनि-श्रेष्ठः तम् तदा क्रोध-संयुतः ॥ १२॥
bhojayāmāsa tat śrutvā vasiṣṭhaḥ hi asya cukrudhe .. uvāca ca muni-śreṣṭhaḥ tam tadā krodha-saṃyutaḥ .. 12..
वसिष्ठ उवाच ।।
पातयेयमहं क्रूरं तव शंकुमयोमयम् ॥ यदि ते द्वाविमौ शंकू नश्येतां वै कृतौ पुरा ॥ १३॥
पातयेयम् अहम् क्रूरम् तव शंकुम् अयः-मयम् ॥ यदि ते द्वौ इमौ शंकू नश्येताम् वै कृतौ पुरा ॥ १३॥
pātayeyam aham krūram tava śaṃkum ayaḥ-mayam .. yadi te dvau imau śaṃkū naśyetām vai kṛtau purā .. 13..
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ॥ अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १४॥
पितुः च अपरितोषेण गुरोः दोग्ध्री-वधेन च ॥ अ प्रोक्षित-उपयोगात् च त्रिविधः ते व्यतिक्रमः ॥ १४॥
pituḥ ca aparitoṣeṇa guroḥ dogdhrī-vadhena ca .. a prokṣita-upayogāt ca trividhaḥ te vyatikramaḥ .. 14..
त्रिशंकुरिति होवाच त्रिशंकुरिति स स्मृतः ॥ विश्वामित्रस्तु दाराणामागतो भरणे कृते ॥ १५ ॥
त्रिशंकुः इति ह उवाच त्रिशंकुः इति स स्मृतः ॥ विश्वामित्रः तु दाराणाम् आगतः भरणे कृते ॥ १५ ॥
triśaṃkuḥ iti ha uvāca triśaṃkuḥ iti sa smṛtaḥ .. viśvāmitraḥ tu dārāṇām āgataḥ bharaṇe kṛte .. 15 ..
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशंकवे॥छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः॥१६॥
तेन तस्मै वरम् प्रादात् मुनिः प्रीतः त्रिशंकवे॥छन्द्यमानः वरेण अथ वरम् वव्रे नृप-आत्मजः॥१६॥
tena tasmai varam prādāt muniḥ prītaḥ triśaṃkave..chandyamānaḥ vareṇa atha varam vavre nṛpa-ātmajaḥ..16..
अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ॥ अभिषिच्य पितृ राज्ये याजयामास तं मुनिः ॥ १७॥
अनावृष्टि-भये च अस्मिन् जाते द्वादश-वार्षिके ॥ अभिषिच्य पितृ राज्ये याजयामास तम् मुनिः ॥ १७॥
anāvṛṣṭi-bhaye ca asmin jāte dvādaśa-vārṣike .. abhiṣicya pitṛ rājye yājayāmāsa tam muniḥ .. 17..
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ॥ सशरीरं तदा तं तु दिवमारोह यत्प्रभुः ॥ १८॥
मिषताम् देवतानाम् च वसिष्ठस्य च कौशिकः ॥ स शरीरम् तदा तम् तु दिवम् आरोह यद्-प्रभुः ॥ १८॥
miṣatām devatānām ca vasiṣṭhasya ca kauśikaḥ .. sa śarīram tadā tam tu divam āroha yad-prabhuḥ .. 18..
तस्य सत्यरथा नाम भार्या केकयवंशजा ॥ कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ १९॥
तस्य सत्यरथा नाम भार्या केकय-वंश-जा ॥ कुमारम् जनयामास हरिश्चन्द्रम् अकल्मषम् ॥ १९॥
tasya satyarathā nāma bhāryā kekaya-vaṃśa-jā .. kumāram janayāmāsa hariścandram akalmaṣam .. 19..
स वै राजा हरिश्चन्द्रो त्रैशंकव इति स्मृतः ॥ आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ॥ 5.38.२० ॥
स वै राजा हरिश्चन्द्रः त्रैशंकवः इति स्मृतः ॥ आहर्ता राजसूयस्य सम्राज् इति ह विश्रुतः ॥ ५।३८।२० ॥
sa vai rājā hariścandraḥ traiśaṃkavaḥ iti smṛtaḥ .. āhartā rājasūyasya samrāj iti ha viśrutaḥ .. 5.38.20 ..
हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ॥ रोहितस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्॥२१॥
हरिश्चन्द्रस्य हि सुतः रोहितः नाम विश्रुतः ॥ रोहितस्य वृकः पुत्रः वृकात् बाहुः तु जज्ञिवान्॥२१॥
hariścandrasya hi sutaḥ rohitaḥ nāma viśrutaḥ .. rohitasya vṛkaḥ putraḥ vṛkāt bāhuḥ tu jajñivān..21..
हैहयास्तालजंघाश्च निरस्यंति स्म तं नृपम्॥नात्मार्थे धार्मिको विप्रः स हि धर्मपरोऽभवत ॥ २२॥
हैहयाः तालजंघाः च निरस्यंति स्म तम् नृपम्॥न आत्म-अर्थे धार्मिकः विप्रः स हि धर्म-परः अभवत ॥ २२॥
haihayāḥ tālajaṃghāḥ ca nirasyaṃti sma tam nṛpam..na ātma-arthe dhārmikaḥ vipraḥ sa hi dharma-paraḥ abhavata .. 22..
सगरं ससुतं बाहुर्जज्ञे सह गरेण वै ॥ और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ॥ २३॥
सगरम् स सुतम् बाहुः जज्ञे सह गरेण वै ॥ और्वस्य आश्रमम् आसाद्य भार्गवेण अभिरक्षितः ॥ २३॥
sagaram sa sutam bāhuḥ jajñe saha gareṇa vai .. aurvasya āśramam āsādya bhārgaveṇa abhirakṣitaḥ .. 23..
आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः॥जिगाय पृथिवीं हत्वा तालजंघान्सहैहयान॥२४॥
आग्नेयम् अस्त्रम् लब्ध्वा च भार्गवात् सगरः नृपः॥जिगाय पृथिवीम् हत्वा तालजंघान् स हैहयान॥२४॥
āgneyam astram labdhvā ca bhārgavāt sagaraḥ nṛpaḥ..jigāya pṛthivīm hatvā tālajaṃghān sa haihayāna..24..
शकान्बहूदकांश्चैव पारदांतगणान्खशान्॥सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ॥ २५॥
शकान् बहु-उदकान् च एव पारद-अन्त-गणान् खसान्॥सुधर्मम् स्थापयामास शशास वृषतः क्षितिम् ॥ २५॥
śakān bahu-udakān ca eva pārada-anta-gaṇān khasān..sudharmam sthāpayāmāsa śaśāsa vṛṣataḥ kṣitim .. 25..
शौनक उवाच ।।
स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ॥ जितवानेतदाचक्ष्व विस्तरेण हि सूतज ॥ २६ ॥
स वै गरेण सहितः कथम् जातः तु क्षत्रियात् ॥ जितवान् एतत् आचक्ष्व विस्तरेण हि सूतज ॥ २६ ॥
sa vai gareṇa sahitaḥ katham jātaḥ tu kṣatriyāt .. jitavān etat ācakṣva vistareṇa hi sūtaja .. 26 ..
सूत उवाच।।
पारीक्षितेन संपृष्टो वैशंपायन एव च ॥ यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने ॥ २७ ॥
पारीक्षितेन संपृष्टः वैशंपायनः एव च ॥ यत् आचष्ट स्म तत् वक्ष्ये शृणुष्व एकमनाः मुने ॥ २७ ॥
pārīkṣitena saṃpṛṣṭaḥ vaiśaṃpāyanaḥ eva ca .. yat ācaṣṭa sma tat vakṣye śṛṇuṣva ekamanāḥ mune .. 27 ..
।। पारीक्षितो उवाच ।।
कथं स सगरो राजा गरेण सहितो मुने ॥ जातस्स जघ्निवान्भूयानेतदाख्यातुमर्हसि ॥ २८ ॥
कथम् स सगरः राजा गरेण सहितः मुने ॥ जातः स जघ्निवान् भूयान् एतत् आख्यातुम् अर्हसि ॥ २८ ॥
katham sa sagaraḥ rājā gareṇa sahitaḥ mune .. jātaḥ sa jaghnivān bhūyān etat ākhyātum arhasi .. 28 ..
वैशम्पायन उवाच ।।
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ॥ हैहयैस्तालजंघैश्च शकैस्सार्द्धं विशांपते ॥ २९ ॥
बाहोः व्यसनिनः तात हृतम् राज्यम् अभूत् किल ॥ हैहयैः तालजंघैः च शकैः सार्द्धम् विशाम् पते ॥ २९ ॥
bāhoḥ vyasaninaḥ tāta hṛtam rājyam abhūt kila .. haihayaiḥ tālajaṃghaiḥ ca śakaiḥ sārddham viśām pate .. 29 ..
यवनाः पारदाश्चैव काम्बोजाः पाह्नवास्तथा ॥ बहूदकाश्च पंचैव गणाः प्रोक्ताश्च रक्षसाम्।5.38.३०।
यवनाः पारदाः च एव काम्बोजाः पाह्नवाः तथा ॥ बहूदकाः च पंच एव गणाः प्रोक्ताः च रक्षसाम्।५।३८।३०।
yavanāḥ pāradāḥ ca eva kāmbojāḥ pāhnavāḥ tathā .. bahūdakāḥ ca paṃca eva gaṇāḥ proktāḥ ca rakṣasām.5.38.30.
एते पंच गणा राजन्हैहयार्थेषु रक्षसाम्॥कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात्॥३१॥
एते पंच गणाः राजन् हैहय-अर्थेषु रक्षसाम्॥कृत्वा पराक्रमान् बाहो राज्यम् तेभ्यः ददुः बलात्॥३१॥
ete paṃca gaṇāḥ rājan haihaya-artheṣu rakṣasām..kṛtvā parākramān bāho rājyam tebhyaḥ daduḥ balāt..31..
हृतराज्यस्ततो विप्राः स वै बाहुर्वनं ययौ ॥ पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ॥ ३२ ॥
हृत-राज्यः ततस् विप्राः स वै बाहुः वनम् ययौ ॥ पत्न्या च अनुगतः दुःखी स वै प्राणान् अवासृजत् ॥ ३२ ॥
hṛta-rājyaḥ tatas viprāḥ sa vai bāhuḥ vanam yayau .. patnyā ca anugataḥ duḥkhī sa vai prāṇān avāsṛjat .. 32 ..
पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ॥ सपत्न्या च गरस्तस्यै दत्तः पूर्वं सुतेर्ष्यया ॥ ३३ ॥
पत्नी या यादवी तस्य सगर्भा पृष्ठतस् गता ॥ सपत्न्या च गरः तस्यै दत्तः पूर्वम् सुत-ईर्ष्यया ॥ ३३ ॥
patnī yā yādavī tasya sagarbhā pṛṣṭhatas gatā .. sapatnyā ca garaḥ tasyai dattaḥ pūrvam suta-īrṣyayā .. 33 ..
सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ॥ और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ॥ ३४ ॥
सा तु भर्तुः चिताम् कृत्वा ज्वलनम् च अवरोहत ॥ और्वः ताम् भार्गवः राजन् कारुण्यात् समवारयत् ॥ ३४ ॥
sā tu bhartuḥ citām kṛtvā jvalanam ca avarohata .. aurvaḥ tām bhārgavaḥ rājan kāruṇyāt samavārayat .. 34 ..
तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ॥ सिषेवे मुनिवर्यं तं स्मरन्ती शंकरं हृदा ॥ ३५ ॥
तस्य आश्रमे स्थिता राज्ञी गर्भ-रक्षण-हेतवे ॥ सिषेवे मुनि-वर्यम् तम् स्मरन्ती शंकरम् हृदा ॥ ३५ ॥
tasya āśrame sthitā rājñī garbha-rakṣaṇa-hetave .. siṣeve muni-varyam tam smarantī śaṃkaram hṛdā .. 35 ..
एकदा खलु तद्गर्भो गरेणैव सह च्युतः ॥ सुमुहूर्त्ते सुलग्ने च पंचोच्चग्रहसंयुते ॥ ३६ ॥
एकदा खलु तद्-गर्भः गरेण एव सह च्युतः ॥ सु मुहूर्त्ते सु लग्ने च पंच-उच्च-ग्रह-संयुते ॥ ३६ ॥
ekadā khalu tad-garbhaḥ gareṇa eva saha cyutaḥ .. su muhūrtte su lagne ca paṃca-ucca-graha-saṃyute .. 36 ..
तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ॥ व्यजायत महाबाहुस्सगरो नाम पार्थिवः ॥ ३७॥
तस्मिन् लग्ने च बलिनि सर्वथा मुनि-सत्तम ॥ व्यजायत महा-बाहुः सगरः नाम पार्थिवः ॥ ३७॥
tasmin lagne ca balini sarvathā muni-sattama .. vyajāyata mahā-bāhuḥ sagaraḥ nāma pārthivaḥ .. 37..
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ॥ अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ ३८ ॥
और्वः तु जातकर्म-आदि तस्य कृत्वा महात्मनः ॥ अध्याप्य वेद-शास्त्राणि ततस् अस्त्रम् प्रत्यपादयत् ॥ ३८ ॥
aurvaḥ tu jātakarma-ādi tasya kṛtvā mahātmanaḥ .. adhyāpya veda-śāstrāṇi tatas astram pratyapādayat .. 38 ..
आग्नेयं तं महाभागो ह्यमरैरपि दुस्सहम् ॥ जग्राह विधिना प्रीत्या सगरोसौ नृपोत्तमः ॥ ३९ ॥
आग्नेयम् तम् महाभागः हि अमरैः अपि दुस्सहम् ॥ जग्राह विधिना प्रीत्या सगरः असौ नृप-उत्तमः ॥ ३९ ॥
āgneyam tam mahābhāgaḥ hi amaraiḥ api dussaham .. jagrāha vidhinā prītyā sagaraḥ asau nṛpa-uttamaḥ .. 39 ..
स तेनास्त्रबलेनैव बलेन च समन्वितः ॥ हैहयान्विजघानाशु संकुद्धोऽस्त्रबलेन च ॥ 5.38.४० ॥
स तेन अस्त्र-बलेन एव बलेन च समन्वितः ॥ हैहयान् विजघान आशु संकुद्धः अस्त्र-बलेन च ॥ ५।३८।४० ॥
sa tena astra-balena eva balena ca samanvitaḥ .. haihayān vijaghāna āśu saṃkuddhaḥ astra-balena ca .. 5.38.40 ..
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥ धर्मं संस्थापयामास सगरोऽसौ महीतले ॥ ४१॥
आजहार च लोकेषु कीर्तिम् कीर्तिमताम् वरः ॥ धर्मम् संस्थापयामास सगरः असौ मही-तले ॥ ४१॥
ājahāra ca lokeṣu kīrtim kīrtimatām varaḥ .. dharmam saṃsthāpayāmāsa sagaraḥ asau mahī-tale .. 41..
ततश्शकास्सयवनाः काम्बोजाः पाह्नवास्तथा ॥ हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः॥४२॥
ततस् शकाः स यवनाः काम्बोजाः पाह्नवाः तथा ॥ हन्यमानाः तदा ते तु वसिष्ठम् शरणम् ययुः॥४२॥
tatas śakāḥ sa yavanāḥ kāmbojāḥ pāhnavāḥ tathā .. hanyamānāḥ tadā te tu vasiṣṭham śaraṇam yayuḥ..42..
वसिष्ठो वंचनां कृत्वा समयेन महाद्युतिः॥सगरं वारयामास तेषां दत्त्वाभयं नृपम्॥४३॥
वसिष्ठः वंचनाम् कृत्वा समयेन महा-द्युतिः॥सगरम् वारयामास तेषाम् दत्त्वा अभयम् नृपम्॥४३॥
vasiṣṭhaḥ vaṃcanām kṛtvā samayena mahā-dyutiḥ..sagaram vārayāmāsa teṣām dattvā abhayam nṛpam..43..
सगरस्स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च॥धर्मं जघान तेषां वै केशान्यत्वं चकार ह ॥ ४४ ॥
सगरः स्वाम् प्रतिज्ञाम् तु गुरोः वाक्यम् निशम्य च॥धर्मम् जघान तेषाम् वै केशान्य-त्वम् चकार ह ॥ ४४ ॥
sagaraḥ svām pratijñām tu guroḥ vākyam niśamya ca..dharmam jaghāna teṣām vai keśānya-tvam cakāra ha .. 44 ..
अर्द्धं शकानां शिरसो मुंडं कृत्वा व्यसर्जयत् ॥ यवनानां शिरस्सर्वं कांबोजानां तथैव च ॥ ४५ ॥
अर्द्धम् शकानाम् शिरसः मुंडम् कृत्वा व्यसर्जयत् ॥ यवनानाम् शिरः सर्वम् कांबोजानाम् तथा एव च ॥ ४५ ॥
arddham śakānām śirasaḥ muṃḍam kṛtvā vyasarjayat .. yavanānām śiraḥ sarvam kāṃbojānām tathā eva ca .. 45 ..
पारदा मुंडकेशाश्च पाह्नवाश्श्मश्रुधारिणः ॥ निस्स्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ ४६॥
पारदाः मुंड-केशाः च पाह्नवाः श्मश्रु-धारिणः ॥ निस्स्वाध्यायवषट्काराः कृताः तेन महात्मना ॥ ४६॥
pāradāḥ muṃḍa-keśāḥ ca pāhnavāḥ śmaśru-dhāriṇaḥ .. nissvādhyāyavaṣaṭkārāḥ kṛtāḥ tena mahātmanā .. 46..
जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ॥ सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुराः ॥ ४७॥
जिता च सकला पृथ्वी धर्मतः तेन भूभुजा ॥ सर्वे ते क्षत्रियाः तात धर्म-हीनाः कृताः पुरा ॥ ४७॥
jitā ca sakalā pṛthvī dharmataḥ tena bhūbhujā .. sarve te kṣatriyāḥ tāta dharma-hīnāḥ kṛtāḥ purā .. 47..
स धर्मविजयी राजा विजित्वेमां वसुंधराम्॥अश्वं संस्कारयामास वाजिमेधाय पार्थिवः॥४८॥
स धर्म-विजयी राजा विजित्वा इमाम् वसुंधराम्॥अश्वम् संस्कारयामास वाजिमेधाय पार्थिवः॥४८॥
sa dharma-vijayī rājā vijitvā imām vasuṃdharām..aśvam saṃskārayāmāsa vājimedhāya pārthivaḥ..48..
तस्य चास्यतेस्सोऽश्वस्समुद्रे पूर्वदक्षिणे ॥ गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ॥ ४९ ॥
तस्य च अस्यतेः सः अश्वः समुद्रे पूर्वदक्षिणे ॥ गतः षष्टि-सहस्रैः तु तद्-पुत्रैः अन्वितः मुने ॥ ४९ ॥
tasya ca asyateḥ saḥ aśvaḥ samudre pūrvadakṣiṇe .. gataḥ ṣaṣṭi-sahasraiḥ tu tad-putraiḥ anvitaḥ mune .. 49 ..
देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ॥ वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ 5.38.५०॥
देवराजेन शक्रेण सः अश्वः हि स्व-अर्थ-साधिना ॥ वेला-समीपे अपहृतः भूमिम् च एव प्रवेशितः ॥ ५।३८।५०॥
devarājena śakreṇa saḥ aśvaḥ hi sva-artha-sādhinā .. velā-samīpe apahṛtaḥ bhūmim ca eva praveśitaḥ .. 5.38.50..
महाराजोऽथ सगरस्तद्धयान्वेषणाय च॥स तं देशं तदा पुत्रैः खानयामास सर्वतः ॥ ५१॥
महा-राजः अथ सगरः तद्-हय-अन्वेषणाय च॥स तम् देशम् तदा पुत्रैः खानयामास सर्वतस् ॥ ५१॥
mahā-rājaḥ atha sagaraḥ tad-haya-anveṣaṇāya ca..sa tam deśam tadā putraiḥ khānayāmāsa sarvatas .. 51..
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ॥ तमादिपुरुषं देवं कपिलं विश्वरूपिणम्॥५२॥
आसेदुः ते ततस् तत्र खन्यमाने महा-अर्णवे ॥ तम् आदिपुरुषम् देवम् कपिलम् विश्व-रूपिणम्॥५२॥
āseduḥ te tatas tatra khanyamāne mahā-arṇave .. tam ādipuruṣam devam kapilam viśva-rūpiṇam..52..
तस्य चक्षुस्समुत्थेन वह्निना प्रतिबुध्यतः ॥ दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः॥५३॥
तस्य चक्षुः-समुत्थेन वह्निना प्रतिबुध्यतः ॥ दग्धाः षष्टि-सहस्राणि चत्वारः तु अवशेषिताः॥५३॥
tasya cakṣuḥ-samutthena vahninā pratibudhyataḥ .. dagdhāḥ ṣaṣṭi-sahasrāṇi catvāraḥ tu avaśeṣitāḥ..53..
हर्षकेतुस्सुकेतुश्च तथा धर्मरथोपरः॥शूरः पंचजनश्चैव तस्य वंशकरा नृपाः॥५४॥
हर्षकेतुः सुकेतुः च तथा धर्मरथ-उपरः॥शूरः पंचजनः च एव तस्य वंश-कराः नृपाः॥५४॥
harṣaketuḥ suketuḥ ca tathā dharmaratha-uparaḥ..śūraḥ paṃcajanaḥ ca eva tasya vaṃśa-karāḥ nṛpāḥ..54..
प्रादाच्च तस्मै भगवान् हरिः पंचवरान्स्वयम्॥वंशं मेधां च कीर्तिञ्च समुद्रं तनयं धनम् ॥ ५५॥
प्रादात् च तस्मै भगवान् हरिः पंच-वरान् स्वयम्॥वंशम् मेधाम् च कीर्तिम् च समुद्रम् तनयम् धनम् ॥ ५५॥
prādāt ca tasmai bhagavān hariḥ paṃca-varān svayam..vaṃśam medhām ca kīrtim ca samudram tanayam dhanam .. 55..
सागरत्वं च लेभे स कर्मणा तस्य तेन वै॥तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्॥५६॥
सागर-त्वम् च लेभे स कर्मणा तस्य तेन वै॥तम् च आश्वमेधिकम् सः अश्वम् समुद्रात् उपलब्धवान्॥५६॥
sāgara-tvam ca lebhe sa karmaṇā tasya tena vai..tam ca āśvamedhikam saḥ aśvam samudrāt upalabdhavān..56..
आजहाराश्वमेधानां शतं स तु महायशाः ॥ ईजे शंभुविभूतीश्च देवतास्तत्र सुव्रताः ॥ ५७ ॥
आजहार अश्वमेधानाम् शतम् स तु महा-यशाः ॥ ईजे शंभु-विभूतीः च देवताः तत्र सुव्रताः ॥ ५७ ॥
ājahāra aśvamedhānām śatam sa tu mahā-yaśāḥ .. īje śaṃbhu-vibhūtīḥ ca devatāḥ tatra suvratāḥ .. 57 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् सत्यव्रतादिसगरपर्यंतवंशवर्णनम् नाम अष्टत्रिंशः अध्यायः ॥ ३८ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām satyavratādisagaraparyaṃtavaṃśavarṇanam nāma aṣṭatriṃśaḥ adhyāyaḥ .. 38 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In