| |
|

This overlay will guide you through the buttons:

शौनक उवाच ।।
सगरस्यात्मजा वीराः कथं जाता महाबलाः ॥ विक्रांताः षष्टिसाहस्रा विधना केन वा वद ॥ १॥
सगरस्य आत्मजाः वीराः कथम् जाताः महा-बलाः ॥ विक्रांताः षष्टि-साहस्राः केन वा वद ॥ १॥
sagarasya ātmajāḥ vīrāḥ katham jātāḥ mahā-balāḥ .. vikrāṃtāḥ ṣaṣṭi-sāhasrāḥ kena vā vada .. 1..
सूत उवाच।।
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे॥और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ॥ २ ॥
द्वे पत्न्यः सगरस्य आस्ताम् तपसा दग्ध-किल्विषे॥और्वः तयोः वरम् प्रादात् तोषितः मुनि-सत्तमः ॥ २ ॥
dve patnyaḥ sagarasya āstām tapasā dagdha-kilviṣe..aurvaḥ tayoḥ varam prādāt toṣitaḥ muni-sattamaḥ .. 2 ..
षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम्॥एकं वंशकरं त्वेका यथेष्टं वरशालिनी॥३॥
षष्टि-पुत्र-सहस्राणि एका वव्रे तरस्विनाम्॥एकम् वंश-करम् तु एका यथेष्टम् वर-शालिनी॥३॥
ṣaṣṭi-putra-sahasrāṇi ekā vavre tarasvinām..ekam vaṃśa-karam tu ekā yatheṣṭam vara-śālinī..3..
तत्रैवागत्य तां लब्ध्वा पुत्राञ्शूरान्बहूंस्तदा ॥ सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक्कृतम् ॥ ४ ॥
तत्र एव आगत्य ताम् लब्ध्वा पुत्रान् शूरान् बहून् तदा ॥ सा च एव सुषुवे तुम्बम् बीज-पूर्वम् पृथक्कृतम् ॥ ४ ॥
tatra eva āgatya tām labdhvā putrān śūrān bahūn tadā .. sā ca eva suṣuve tumbam bīja-pūrvam pṛthakkṛtam .. 4 ..
ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ॥ घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ॥ ५ ॥
ते सर्वे हि स्व-धात्रीभिः ववृधुः च यथाक्रमम् ॥ घृत-पूर्णेषु कुम्भेषु कुमाराः प्रीति-वर्द्धनाः ॥ ५ ॥
te sarve hi sva-dhātrībhiḥ vavṛdhuḥ ca yathākramam .. ghṛta-pūrṇeṣu kumbheṣu kumārāḥ prīti-varddhanāḥ .. 5 ..
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ॥ एकः पंचजनो नाम पुत्रो राजा बभूव ह ॥ ६ ॥
कपिल-अग्नि-प्रदग्धानाम् तेषाम् तत्र महात्मनाम् ॥ एकः पंचजनः नाम पुत्रः राजा बभूव ह ॥ ६ ॥
kapila-agni-pradagdhānām teṣām tatra mahātmanām .. ekaḥ paṃcajanaḥ nāma putraḥ rājā babhūva ha .. 6 ..
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ॥ दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ ७ ॥
ततस् पंचजनस्य आसीत् अंशुमान् नाम वीर्यवान् ॥ दिलीपः तनयः तस्य पुत्रः यस्य भगीरथः ॥ ७ ॥
tatas paṃcajanasya āsīt aṃśumān nāma vīryavān .. dilīpaḥ tanayaḥ tasya putraḥ yasya bhagīrathaḥ .. 7 ..
यस्तु गंगा सरिच्छ्रेष्ठामवातारयतः प्रभु ॥ समुद्रमानयच्चेमां दुहितृत्वमकल्पयत्॥८॥
यः तु गंगा सरित् श्रेष्ठाम् अवातारयतः प्रभु ॥ समुद्रम् आनयत् च इमाम् दुहितृ-त्वम् अकल्पयत्॥८॥
yaḥ tu gaṃgā sarit śreṣṭhām avātārayataḥ prabhu .. samudram ānayat ca imām duhitṛ-tvam akalpayat..8..
भगीरथसुतो राजा श्रुतसेनः इति श्रुतः॥नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः॥९॥
भगीरथ-सुतः राजा श्रुतसेनः इति श्रुतः॥नाभागः तु सुतः तस्य पुत्रः परम-धार्मिकः॥९॥
bhagīratha-sutaḥ rājā śrutasenaḥ iti śrutaḥ..nābhāgaḥ tu sutaḥ tasya putraḥ parama-dhārmikaḥ..9..
अंबरीषस्तु नाभागिस्सिंधुद्वीपस्ततोऽभवत्॥अयुताजित्तु दायादस्सिंधुद्वीपस्य वीर्यवान्॥5.39.१०॥
अंबरीषः तु नाभागिः सिंधुद्वीपः ततस् अभवत्॥अयुताजित् तु दायादः सिंधुद्वीपस्य वीर्यवान्॥५।३९।१०॥
aṃbarīṣaḥ tu nābhāgiḥ siṃdhudvīpaḥ tatas abhavat..ayutājit tu dāyādaḥ siṃdhudvīpasya vīryavān..5.39.10..
आयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ॥ दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ॥ ११॥
आयुताजित्-सुतः तु आसीत् ऋतुपर्णः महा-यशाः ॥ दिव्य-अक्ष-हृदय-ज्ञः असौ राजा नल-सखः अभवत् ॥ ११॥
āyutājit-sutaḥ tu āsīt ṛtuparṇaḥ mahā-yaśāḥ .. divya-akṣa-hṛdaya-jñaḥ asau rājā nala-sakhaḥ abhavat .. 11..
ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ॥ तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ १२ ॥
ऋतुपर्ण-सुतः तु आसीत् अनुपर्णः महा-द्युतिः ॥ तस्य कल्माषपादः वै नाम्ना मित्रसहः तथा ॥ १२ ॥
ṛtuparṇa-sutaḥ tu āsīt anuparṇaḥ mahā-dyutiḥ .. tasya kalmāṣapādaḥ vai nāmnā mitrasahaḥ tathā .. 12 ..
कल्माषपादस्य सुतस्सर्वकर्मेति विश्रुतः ॥ अनरण्यस्तु पुत्रोऽभूद्विश्रुतस्सर्वशर्मणः ॥ १३॥
कल्माषपादस्य सुतः सर्वकर्मा इति विश्रुतः ॥ अनरण्यः तु पुत्रः अभूत् विश्रुतः सर्वशर्मणः ॥ १३॥
kalmāṣapādasya sutaḥ sarvakarmā iti viśrutaḥ .. anaraṇyaḥ tu putraḥ abhūt viśrutaḥ sarvaśarmaṇaḥ .. 13..
अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत्॥निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि॥११४॥
अनरण्य-सुतः राजा विद्वान् मुंडिद्रुहः अभवत्॥निषधः तस्य तनयः रतिः खट्वाङ्गः इति अपि॥११४॥
anaraṇya-sutaḥ rājā vidvān muṃḍidruhaḥ abhavat..niṣadhaḥ tasya tanayaḥ ratiḥ khaṭvāṅgaḥ iti api..114..
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥ त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ॥१५॥
येन स्वर्गात् इह आगत्य मुहूर्तम् प्राप्य जीवितम् ॥ त्रयः अपि संचिताः लोकाः बुद्ध्या सत्येन च अनघ॥१५॥
yena svargāt iha āgatya muhūrtam prāpya jīvitam .. trayaḥ api saṃcitāḥ lokāḥ buddhyā satyena ca anagha..15..
दीर्घबाहुस्सुतस्तस्य रघुस्तस्याभवत्सुतः ॥ अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ॥ १६ ॥
दीर्घबाहुः सुतः तस्य रघुः तस्य अभवत् सुतः ॥ अजः तस्य तु पुत्रः अभूत् तस्मात् दशरथः अभवत् ॥ १६ ॥
dīrghabāhuḥ sutaḥ tasya raghuḥ tasya abhavat sutaḥ .. ajaḥ tasya tu putraḥ abhūt tasmāt daśarathaḥ abhavat .. 16 ..
रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ॥ स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ॥ १७॥
रामः दशरथात् जज्ञे धर्म-आत्मा यः महा-यशाः ॥ स विष्णु-अंशः महा-शैवः पौलस्त्यः येन घातितः ॥ १७॥
rāmaḥ daśarathāt jajñe dharma-ātmā yaḥ mahā-yaśāḥ .. sa viṣṇu-aṃśaḥ mahā-śaivaḥ paulastyaḥ yena ghātitaḥ .. 17..
तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ॥ रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ॥ १८ ॥
तद्-चरितम् च बहुधा पुराणेषु प्रवर्णितम् ॥ रामायणे प्रसिद्धम् हि न अतस् प्रोक्तम् तु विस्तरात् ॥ १८ ॥
tad-caritam ca bahudhā purāṇeṣu pravarṇitam .. rāmāyaṇe prasiddham hi na atas proktam tu vistarāt .. 18 ..
रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ॥ अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ १९॥
रामस्य तनयः जज्ञे कुशः इति अपि विश्रुतः ॥ अतिथिः तु कुशात् जज्ञे निषधः तस्य च आत्मजः ॥ १९॥
rāmasya tanayaḥ jajñe kuśaḥ iti api viśrutaḥ .. atithiḥ tu kuśāt jajñe niṣadhaḥ tasya ca ātmajaḥ .. 19..
निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ॥ नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः ॥ 5.39.२० ॥
निषधस्य नलः पुत्रः नभाः पुत्रः नलस्य तु ॥ नभसः पुंडरीकः च क्षेमधन्वा ततस् स्मृतः ॥ ५।३९।२० ॥
niṣadhasya nalaḥ putraḥ nabhāḥ putraḥ nalasya tu .. nabhasaḥ puṃḍarīkaḥ ca kṣemadhanvā tatas smṛtaḥ .. 5.39.20 ..
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ॥ आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २१॥
क्षेमधन्व-सुतः तु आसीत् देवानीकः प्रतापवान् ॥ आसीत् अहीनगुः नाम देवानीक-आत्मजः प्रभुः ॥ २१॥
kṣemadhanva-sutaḥ tu āsīt devānīkaḥ pratāpavān .. āsīt ahīnaguḥ nāma devānīka-ātmajaḥ prabhuḥ .. 21..
अहीनगोस्तु दायादस्सहस्वान्नाम वीर्यवान् ॥ वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्भवः॥२२॥
अहीनगोः तु दायादः सहस्वान् नाम वीर्यवान् ॥ वीरसेन-आत्मजः तस्य यः च ऐक्ष्वाकु-कुल-उद्भवः॥२२॥
ahīnagoḥ tu dāyādaḥ sahasvān nāma vīryavān .. vīrasena-ātmajaḥ tasya yaḥ ca aikṣvāku-kula-udbhavaḥ..22..
वीरसेनस्य दायादः पारियात्रो बभूव ह॥ततो बलाख्यस्तनयस्स्थलस्तस्मादभूत्सुतः ॥ २३॥
वीरसेनस्य दायादः पारियात्रः बभूव ह॥ततस् बल-आख्यः तनयः स्थलः तस्मात् अभूत् सुतः ॥ २३॥
vīrasenasya dāyādaḥ pāriyātraḥ babhūva ha..tatas bala-ākhyaḥ tanayaḥ sthalaḥ tasmāt abhūt sutaḥ .. 23..
अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान्॥तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ॥ २४ ॥
अर्क-अंश-संभवः तस्मात् पुत्रः यक्षः प्रतापवान्॥तद्-सुतः तु अगुणः तु आसीत् तस्मात् विधृतिः आत्मजः ॥ २४ ॥
arka-aṃśa-saṃbhavaḥ tasmāt putraḥ yakṣaḥ pratāpavān..tad-sutaḥ tu aguṇaḥ tu āsīt tasmāt vidhṛtiḥ ātmajaḥ .. 24 ..
हिरण्यनाभस्तत्पुत्रो योगाचार्य्यो बभूव ह॥स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः॥२५॥
हिरण्यनाभः तद्-पुत्रः योग-आचार्य्यः बभूव ह॥स शिष्यः जैमिनि-मुनेः हि आत्म-विद्या-विशारदः॥२५॥
hiraṇyanābhaḥ tad-putraḥ yoga-ācāryyaḥ babhūva ha..sa śiṣyaḥ jaimini-muneḥ hi ātma-vidyā-viśāradaḥ..25..
कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम्॥यतोऽध्यगान्नृपवराद्धृदयग्रंथिभेदनम्॥२६॥
कौशिल्यः याज्ञवल्क्यः उथ योगम् अध्यात्म्य-संज्ञकम्॥यतस् अध्यगात् नृप-वरात् हृदय-ग्रंथि-भेदनम्॥२६॥
kauśilyaḥ yājñavalkyaḥ utha yogam adhyātmya-saṃjñakam..yatas adhyagāt nṛpa-varāt hṛdaya-graṃthi-bhedanam..26..
तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः॥अग्निवर्णस्सुतस्तस्य शीघ्रनामा सुतस्ततः ॥ २७॥
तद्-सुतः पुष्पनामा हि ध्रुव-संज्ञः तद्-आत्मजः॥अग्निवर्णः सुतः तस्य शीघ्रनामा सुतः ततस् ॥ २७॥
tad-sutaḥ puṣpanāmā hi dhruva-saṃjñaḥ tad-ātmajaḥ..agnivarṇaḥ sutaḥ tasya śīghranāmā sutaḥ tatas .. 27..
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह॥असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ॥ २८ ॥
मरुत्-नामा सुतः तस्य योग-सिद्धः बभूव ह॥असौ आस्ते अद्य अपि प्रभुः कलापग्राम-संज्ञके ॥ २८ ॥
marut-nāmā sutaḥ tasya yoga-siddhaḥ babhūva ha..asau āste adya api prabhuḥ kalāpagrāma-saṃjñake .. 28 ..
तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ॥ पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ॥ २९ ॥
तद्-वासिभिः च मुनिभिः कलेः अन्ते सः एव हि ॥ पुनर् भावयिता नष्टम् सूर्य-वंशम् विशेषतः ॥ २९ ॥
tad-vāsibhiḥ ca munibhiḥ kaleḥ ante saḥ eva hi .. punar bhāvayitā naṣṭam sūrya-vaṃśam viśeṣataḥ .. 29 ..
पृथुश्रुतश्च तत्पुत्रस्संधिस्तस्य सुतः स्मृतः ॥ अमर्षणस्सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ॥ 5.39.३०॥
पृथुश्रुतः च तद्-पुत्रः संधिः तस्य सुतः स्मृतः ॥ अमर्षणः सुतः तस्य मरुत्वान् तद्-सुतः अभवत् ॥ ५।३९।३०॥
pṛthuśrutaḥ ca tad-putraḥ saṃdhiḥ tasya sutaḥ smṛtaḥ .. amarṣaṇaḥ sutaḥ tasya marutvān tad-sutaḥ abhavat .. 5.39.30..
विश्वसाह्वस्सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ॥ तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्बलः ॥ ३१ ॥
विश्वसाह्वः सुतः तस्य तद्-सुतः अ भूत् प्रसेनजित् ॥ तक्षकः तस्य तनयः तद्-सुतः हि बृहत्-बलः ॥ ३१ ॥
viśvasāhvaḥ sutaḥ tasya tad-sutaḥ a bhūt prasenajit .. takṣakaḥ tasya tanayaḥ tad-sutaḥ hi bṛhat-balaḥ .. 31 ..
एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ॥ शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान् ॥ ३२॥
एते इक्ष्वाकु-वंशीयाः अतीताः संप्रकीर्तिताः ॥ शृणु तान् आगतान् भूतान् तद्-वंश्यान् धर्म-वित्तमान् ॥ ३२॥
ete ikṣvāku-vaṃśīyāḥ atītāḥ saṃprakīrtitāḥ .. śṛṇu tān āgatān bhūtān tad-vaṃśyān dharma-vittamān .. 32..
बृहद्बलस्य तनयो भविता हि बृहद्रणः ॥ बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ॥ ३३ ॥
बृहद्बलस्य तनयः भविता हि बृहद्रणः ॥ बृहद्रण-सुतः तस्य उरु-क्रियः हि भविष्यति ॥ ३३ ॥
bṛhadbalasya tanayaḥ bhavitā hi bṛhadraṇaḥ .. bṛhadraṇa-sutaḥ tasya uru-kriyaḥ hi bhaviṣyati .. 33 ..
वत्सवृद्धस्सुतस्तस्य प्रतिव्योमसुतस्ततः ॥ भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ॥ ३४॥
वत्सवृद्धः सुतः तस्य प्रतिव्योम-सुतः ततस् ॥ भानुः तद्-तनयः भावी दिवाकः वाहिनीपतिः ॥ ३४॥
vatsavṛddhaḥ sutaḥ tasya prativyoma-sutaḥ tatas .. bhānuḥ tad-tanayaḥ bhāvī divākaḥ vāhinīpatiḥ .. 34..
सहदेवस्सुतस्तस्य महावीरो भवि ष्यति ॥ तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ॥ ३५ ॥
सहदेवः सुतः तस्य महावीरः भविष्यति ॥ तद्-सुतः बृहदश्वः हि भानुमान् तद्-सुतः बली ॥ ३५ ॥
sahadevaḥ sutaḥ tasya mahāvīraḥ bhaviṣyati .. tad-sutaḥ bṛhadaśvaḥ hi bhānumān tad-sutaḥ balī .. 35 ..
सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ॥ सुप्रतीकस्सुतस्तस्य भविष्यति नृपोत्तमः ॥ ३६ ॥
सुतः भानुमतः भावी प्रतीकाश्वः च वीर्यवान् ॥ सुप्रतीकः सुतः तस्य भविष्यति नृप-उत्तमः ॥ ३६ ॥
sutaḥ bhānumataḥ bhāvī pratīkāśvaḥ ca vīryavān .. supratīkaḥ sutaḥ tasya bhaviṣyati nṛpa-uttamaḥ .. 36 ..
मरुदेवस्सुतस्तस्य सुनक्षत्रो भविष्यति ॥ तत्सुतः पुष्करस्तस्यांतरिक्षस्तत्सुतो द्विजाः ॥ ३७ ॥
मरुदेवः सुतः तस्य सुनक्षत्रः भविष्यति ॥ तद्-सुतः पुष्करः तस्य अंतरिक्षः तद्-सुतः द्विजाः ॥ ३७ ॥
marudevaḥ sutaḥ tasya sunakṣatraḥ bhaviṣyati .. tad-sutaḥ puṣkaraḥ tasya aṃtarikṣaḥ tad-sutaḥ dvijāḥ .. 37 ..
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ॥ बृहद्भाजस्सुतस्तस्य बर्हिनामा तदात्मजः ॥ ३८ ॥
सुतपाः तद्-सुतः वीरः मित्रचित्तस्य च आत्मजः ॥ बृहद्भाजः सुतः तस्य बर्हि-नामा तद्-आत्मजः ॥ ३८ ॥
sutapāḥ tad-sutaḥ vīraḥ mitracittasya ca ātmajaḥ .. bṛhadbhājaḥ sutaḥ tasya barhi-nāmā tad-ātmajaḥ .. 38 ..
कृतंजयस्सुतस्तस्य तत्सुतो हि रणंजयः ॥ संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ॥ ३९ ॥
कृतंजयः सुतः तस्य तद्-सुतः हि रणंजयः ॥ संजयः तु मयः तस्य तस्य शाक्यः हि च आत्मजः ॥ ३९ ॥
kṛtaṃjayaḥ sutaḥ tasya tad-sutaḥ hi raṇaṃjayaḥ .. saṃjayaḥ tu mayaḥ tasya tasya śākyaḥ hi ca ātmajaḥ .. 39 ..
शुद्धोदस्तनयस्तस्य लांगलस्तु तदात्मजः ॥ तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ॥ 5.39.४०॥
शुद्धोदः तनयः तस्य लांगलः तु तद्-आत्मजः ॥ तस्य प्रसेनजित्-पुत्रः तद्-सुतः शूद्रक-आह्वयः ॥ ५।३९।४०॥
śuddhodaḥ tanayaḥ tasya lāṃgalaḥ tu tad-ātmajaḥ .. tasya prasenajit-putraḥ tad-sutaḥ śūdraka-āhvayaḥ .. 5.39.40..
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ॥ सुमित्रस्तत्सुतो भावी वंशनिष्ठांत एव हि ॥ ४१॥
रुणकः भविता तस्य सुरथः तद्-सुतः स्मृतः ॥ सुमित्रः तद्-सुतः भावी वंश-निष्ठा-अन्तः एव हि ॥ ४१॥
ruṇakaḥ bhavitā tasya surathaḥ tad-sutaḥ smṛtaḥ .. sumitraḥ tad-sutaḥ bhāvī vaṃśa-niṣṭhā-antaḥ eva hi .. 41..
सुमित्रांतोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ॥ राज्ञां वैचित्रवीर्य्याणां धर्म्मिष्ठानां सुकर्म्मणाम्॥४२॥
सुमित्रा-अन्तः न्वयः अयम् वै इक्ष्वाकूणाम् भविष्यति ॥ राज्ञाम् वैचित्रवीर्य्याणाम् धर्म्मिष्ठानाम् सु कर्म्मणाम्॥४२॥
sumitrā-antaḥ nvayaḥ ayam vai ikṣvākūṇām bhaviṣyati .. rājñām vaicitravīryyāṇām dharmmiṣṭhānām su karmmaṇām..42..
सुमित्रं प्राप्य राजानं तद्वंशश्शुभः कलौ ॥ संस्थां प्राप्स्यति तद्ब्राह्मे वर्द्धिष्यति पुनः कृते ॥ ४३ ॥
सुमित्रम् प्राप्य राजानम् तद्-वंशः शुभः कलौ ॥ संस्थाम् प्राप्स्यति तत् ब्राह्मे वा ऋद्धिष्यति पुनर् कृते ॥ ४३ ॥
sumitram prāpya rājānam tad-vaṃśaḥ śubhaḥ kalau .. saṃsthām prāpsyati tat brāhme vā ṛddhiṣyati punar kṛte .. 43 ..
एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ॥ इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ ४४॥
एतत् वैवस्वते वंशे राजानः भूरि-दक्षिणाः ॥ इक्ष्वाकु-वंश-प्रभवाः प्राधान्येन प्रकीर्तिताः ॥ ४४॥
etat vaivasvate vaṃśe rājānaḥ bhūri-dakṣiṇāḥ .. ikṣvāku-vaṃśa-prabhavāḥ prādhānyena prakīrtitāḥ .. 44..
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः॥श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ४५॥
पुण्या इयम् परमा सृष्टिः आदित्यस्य विवस्वतः॥श्राद्धदेवस्य देवस्य प्रजानाम् पुष्टि-दस्य च ॥ ४५॥
puṇyā iyam paramā sṛṣṭiḥ ādityasya vivasvataḥ..śrāddhadevasya devasya prajānām puṣṭi-dasya ca .. 45..
पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ॥ प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ॥ ४६ ॥
पठन् शृण्वन् इमाम् सृष्टिम् आदित्यस्य च मानवः ॥ प्रजावान् एति सायुज्यम् इह भुक्त्वा सुखम् परम् ॥ ४६ ॥
paṭhan śṛṇvan imām sṛṣṭim ādityasya ca mānavaḥ .. prajāvān eti sāyujyam iha bhuktvā sukham param .. 46 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् वैवस्वत-वंश-उद्भव-राजवर्णनम् नाम एकोनचत्वारिंशः अध्यायः ॥ ३९॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām vaivasvata-vaṃśa-udbhava-rājavarṇanam nāma ekonacatvāriṃśaḥ adhyāyaḥ .. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In