| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
ताततात महाभाग धन्यस्त्वं हि महामते ॥ अद्भुतेयं कथा शंभोः श्राविता परभक्तिदा ॥ १॥
तात-तात महाभाग धन्यः त्वम् हि महामते ॥ अद्भुता इयम् कथा शंभोः श्राविता पर-भक्ति-दा ॥ १॥
tāta-tāta mahābhāga dhanyaḥ tvam hi mahāmate .. adbhutā iyam kathā śaṃbhoḥ śrāvitā para-bhakti-dā .. 1..
पुनर्ब्रूहि कथां शंभोर्व्यास प्रश्नानुसारतः ॥ सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ॥ २ ॥
पुनर् ब्रूहि कथाम् शंभोः व्यास प्रश्न-अनुसारतः ॥ सर्वज्ञः त्वम् व्यास-शिष्यः शिवतत्त्व-विचक्षणः ॥ २ ॥
punar brūhi kathām śaṃbhoḥ vyāsa praśna-anusārataḥ .. sarvajñaḥ tvam vyāsa-śiṣyaḥ śivatattva-vicakṣaṇaḥ .. 2 ..
सूत उवाच ।।
एवमेव गुरुर्व्यासः पृष्टवान्मेऽजसंभवम् ॥ सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ॥ ३॥
एवम् एव गुरुः व्यासः पृष्टवान् मे अज-संभवम् ॥ सनत्कुमारम् सर्वज्ञम् शिव-भक्तम् मुनि-ईश्वरम् ॥ ३॥
evam eva guruḥ vyāsaḥ pṛṣṭavān me aja-saṃbhavam .. sanatkumāram sarvajñam śiva-bhaktam muni-īśvaram .. 3..
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कधा ॥ शंकरस्य महेशस्य नानालीलाविहारिणः ॥ ४॥
सनत्कुमार सर्वज्ञ श्राविता इयम् शुभा कधा ॥ शंकरस्य महेशस्य नाना लीला-विहारिणः ॥ ४॥
sanatkumāra sarvajña śrāvitā iyam śubhā kadhā .. śaṃkarasya maheśasya nānā līlā-vihāriṇaḥ .. 4..
पुनर्ब्रूहि महादेव महिमानं विशेषतः ॥ श्रद्धा च महती श्रोतुं मम तात प्रवर्द्धते ॥ ५॥
पुनर् ब्रूहि महादेव महिमानम् विशेषतः ॥ श्रद्धा च महती श्रोतुम् मम तात प्रवर्द्धते ॥ ५॥
punar brūhi mahādeva mahimānam viśeṣataḥ .. śraddhā ca mahatī śrotum mama tāta pravarddhate .. 5..
महिम्ना येन शंभोस्तु येये लोके विमोहिताः ॥ मायया ज्ञानमाहृत्य नानालीलाविहारिणः ॥ ६ ॥
महिम्ना येन शंभोः तु ये ये लोके विमोहिताः ॥ मायया ज्ञानम् आहृत्य नाना लीला-विहारिणः ॥ ६ ॥
mahimnā yena śaṃbhoḥ tu ye ye loke vimohitāḥ .. māyayā jñānam āhṛtya nānā līlā-vihāriṇaḥ .. 6 ..
।। सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे शांकरीं सुखदां कथाम् ॥ तस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ॥ ७॥
शृणु व्यास महाबुद्धे शांकरीम् सुख-दाम् कथाम् ॥ तस्याः श्रवण-मात्रेण शिवे भक्तिः प्रजायते ॥ ७॥
śṛṇu vyāsa mahābuddhe śāṃkarīm sukha-dām kathām .. tasyāḥ śravaṇa-mātreṇa śive bhaktiḥ prajāyate .. 7..
शिवस्सर्वेश्वरो देवस्सर्वात्मा सर्वदर्शनः ॥ महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत्॥८॥
शिवः सर्व-ईश्वरः देवः सर्व-आत्मा सर्व-दर्शनः ॥ महिम्ना तस्य सर्वम् हि व्याप्तम् च सकलम् जगत्॥८॥
śivaḥ sarva-īśvaraḥ devaḥ sarva-ātmā sarva-darśanaḥ .. mahimnā tasya sarvam hi vyāptam ca sakalam jagat..8..
शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ॥ सर्वभूतात्मभूताख्या त्रिलिंगा लिंगरूपिणी॥९॥
शिवस्य एव परा मूर्तिः ब्रह्म-विष्णु-ईश्वर-आत्मिका ॥ सर्व॥९॥
śivasya eva parā mūrtiḥ brahma-viṣṇu-īśvara-ātmikā .. sarva..9..
देवानां योनयश्चाष्टौ मानुषी नवमी च या॥तिरश्चां योनयः पंच भवंत्येवं चतुर्द्दश॥5.4.१०॥
देवानाम् योनयः च अष्टौ मानुषी नवमी च या॥तिरश्चाम् योनयः पंच भवन्ति एवम् चतुर्द्दश॥५।४।१०॥
devānām yonayaḥ ca aṣṭau mānuṣī navamī ca yā..tiraścām yonayaḥ paṃca bhavanti evam caturddaśa..5.4.10..
भूता वा वर्तमाना वा भविष्याश्चैव सर्वश॥शिवात्सर्वे प्रवर्तंते लीयंते वृद्धिमागताः॥ ११॥
भूताः वा वर्तमानाः वा भविष्याः च एव सर्वशस्॥शिवात् सर्वे प्रवर्तंते लीयंते वृद्धिम् आगताः॥ ११॥
bhūtāḥ vā vartamānāḥ vā bhaviṣyāḥ ca eva sarvaśas..śivāt sarve pravartaṃte līyaṃte vṛddhim āgatāḥ.. 11..
ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम्॥गंधर्वाणां मनुष्याणामन्येषां वापि सर्वशः॥१२॥
ब्रह्म-इन्द्र-उपेन्द्र-चन्द्राणाम् देव-दानव-भोगिनाम्॥गंधर्वाणाम् मनुष्याणाम् अन्येषाम् वा अपि सर्वशस्॥१२॥
brahma-indra-upendra-candrāṇām deva-dānava-bhoginām..gaṃdharvāṇām manuṣyāṇām anyeṣām vā api sarvaśas..12..
बंधुर्मित्रमथाचार्य्यो रक्षन्नेताऽर्थवान्गुरुः॥कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः॥१३॥
बंधुः मित्रम् अथ आचार्यः रक्षन् एता अर्थवान् गुरुः॥कल्पद्रुमः अथ वा भ्राता पिता माता शिवः मतः॥१३॥
baṃdhuḥ mitram atha ācāryaḥ rakṣan etā arthavān guruḥ..kalpadrumaḥ atha vā bhrātā pitā mātā śivaḥ mataḥ..13..
शिवस्सर्वमयः पुंसां स्वयं वेद्यः परात्परः॥वक्तुं न शक्यते यश्च परं चानु परं च यत्॥१४॥
शिवः सर्व-मयः पुंसाम् स्वयम् वेद्यः परात्परः॥वक्तुम् न शक्यते यः च परम् च अनु परम् च यत्॥१४॥
śivaḥ sarva-mayaḥ puṃsām svayam vedyaḥ parātparaḥ..vaktum na śakyate yaḥ ca param ca anu param ca yat..14..
तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने॥तदधीनं जगत्सर्वं सदेवासुरमानुषम्॥१५॥
तद्-माया परमा दिव्या सर्वत्र व्यापिनी मुने॥तद्-अधीनम् जगत् सर्वम् स देव-असुर-मानुषम्॥१५॥
tad-māyā paramā divyā sarvatra vyāpinī mune..tad-adhīnam jagat sarvam sa deva-asura-mānuṣam..15..
कामेन स्वसहायेन प्रबलेन मनोभुवा॥सर्वः प्रधर्षितो वीरो विष्ण्वादिः प्रबलोऽपि हि ॥ १६ ॥
कामेन स्व-सहायेन प्रबलेन मनोभुवा॥सर्वः प्रधर्षितः वीरः विष्णु-आदिः प्रबलः अपि हि ॥ १६ ॥
kāmena sva-sahāyena prabalena manobhuvā..sarvaḥ pradharṣitaḥ vīraḥ viṣṇu-ādiḥ prabalaḥ api hi .. 16 ..
शिवमायाप्रभावेणाभूद्धरिः काममोहितः ॥ परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ॥ १७॥
शिव-माया-प्रभावेण अभूत् हरिः काम-मोहितः ॥ पर-स्त्री-धर्षणम् चक्रे बहु-वारम् मुनि-ईश्वर ॥ १७॥
śiva-māyā-prabhāveṇa abhūt hariḥ kāma-mohitaḥ .. para-strī-dharṣaṇam cakre bahu-vāram muni-īśvara .. 17..
इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ॥ पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ॥ १८ ॥
इन्द्रः त्रिदशपः भूत्वा गौतम-स्त्री-विमोहितः ॥ पापम् चकार दुष्ट-आत्मा शापम् प्राप मुनेः तदा ॥ १८ ॥
indraḥ tridaśapaḥ bhūtvā gautama-strī-vimohitaḥ .. pāpam cakāra duṣṭa-ātmā śāpam prāpa muneḥ tadā .. 18 ..
पावकोऽपि जगच्छ्रेष्ठो मोहितश्शिवमायया ॥ कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ॥ १९ ॥
पावकः अपि जगत्-श्रेष्ठः मोहितः शिव-मायया ॥ काम-अधीनः कृतः गर्वात् ततस् तेन एव च उद्धृतः ॥ १९ ॥
pāvakaḥ api jagat-śreṣṭhaḥ mohitaḥ śiva-māyayā .. kāma-adhīnaḥ kṛtaḥ garvāt tatas tena eva ca uddhṛtaḥ .. 19 ..
जगत्प्राणोऽपि गर्वेण मोहितश्शिवमायया ॥ कामेन निर्जितो व्यासश्चक्रेऽन्यस्त्रीरतिं पुरा ॥ 5.4.२० ॥
जगत्प्राणः अपि गर्वेण मोहितः शिव-मायया ॥ कामेन निर्जितः व्यासः चक्रे अन्य-स्त्री-रतिम् पुरा ॥ ५।४।२० ॥
jagatprāṇaḥ api garveṇa mohitaḥ śiva-māyayā .. kāmena nirjitaḥ vyāsaḥ cakre anya-strī-ratim purā .. 5.4.20 ..
चण्डरश्मिस्तु मार्तण्डो मोहितश्शिवमायया ॥ कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ॥ २१॥
चण्डरश्मिः तु मार्तण्डः मोहितः शिव-मायया ॥ काम-आकुलः बभूव आशु दृष्ट्वा अश्वीम् हय-रूपधृक् ॥ २१॥
caṇḍaraśmiḥ tu mārtaṇḍaḥ mohitaḥ śiva-māyayā .. kāma-ākulaḥ babhūva āśu dṛṣṭvā aśvīm haya-rūpadhṛk .. 21..
चन्द्रश्च मोहितश्शम्भोर्मायया कामसंकुलः ॥ गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ॥ २२ ॥
चन्द्रः च मोहितः शम्भोः मायया काम-संकुलः ॥ गुरु-पत्नीम् जहार अथ युतः तेन एव च उद्धृतः ॥ २२ ॥
candraḥ ca mohitaḥ śambhoḥ māyayā kāma-saṃkulaḥ .. guru-patnīm jahāra atha yutaḥ tena eva ca uddhṛtaḥ .. 22 ..
पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ॥ मोहितौ तावपि मुनी शिवमायाविमोहितौ ॥ २३ ॥
पूर्वम् तु मित्रावरुणौ घोरे तपसि संस्थितौ ॥ मोहितौ तौ अपि मुनी शिव-माया-विमोहितौ ॥ २३ ॥
pūrvam tu mitrāvaruṇau ghore tapasi saṃsthitau .. mohitau tau api munī śiva-māyā-vimohitau .. 23 ..
उर्वशीं तरुणीं दृष्ट्वा कामुको संबभूवतुः ।मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ॥ २४ ॥
उर्वशीम् तरुणीम् दृष्ट्वा संबभूवतुः ।मित्रः कुम्भे जहौ रेतः वरुणः अपि तथा जले ॥ २४ ॥
urvaśīm taruṇīm dṛṣṭvā saṃbabhūvatuḥ .mitraḥ kumbhe jahau retaḥ varuṇaḥ api tathā jale .. 24 ..
ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसंभवः ॥ अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ॥ २५॥
ततस् कुम्भात् समुत्पन्नः वसिष्ठः मित्र-संभवः ॥ अगस्त्यः वरुणात् जातः वडवाग्नि-सम-द्युतिः ॥ २५॥
tatas kumbhāt samutpannaḥ vasiṣṭhaḥ mitra-saṃbhavaḥ .. agastyaḥ varuṇāt jātaḥ vaḍavāgni-sama-dyutiḥ .. 25..
दक्षश्च मोहितश्शंभोर्मायया ब्रह्मणस्सुतः ॥ भ्रातृभिस्स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ॥ २६ ॥
दक्षः च मोहितः शंभोः मायया ब्रह्मणः सुतः ॥ भ्रातृभिः स भगिन्याम् वै भोक्तु-कामः अभवत् पुरा ॥ २६ ॥
dakṣaḥ ca mohitaḥ śaṃbhoḥ māyayā brahmaṇaḥ sutaḥ .. bhrātṛbhiḥ sa bhaginyām vai bhoktu-kāmaḥ abhavat purā .. 26 ..
ब्रह्मा च बहुवारं हि मोहितश्शिवमायया ॥ अभवद्भोक्तुकामश्च स्वसुतायां परासु च ॥ २७ ॥
ब्रह्मा च बहु-वारम् हि मोहितः शिव-मायया ॥ अभवत् भोक्तु-कामः च स्व-सुतायाम् परासु च ॥ २७ ॥
brahmā ca bahu-vāram hi mohitaḥ śiva-māyayā .. abhavat bhoktu-kāmaḥ ca sva-sutāyām parāsu ca .. 27 ..
च्यवनोऽपि महायोगी मोहितश्शिवमायया ॥ सुकन्यया विजह्रे स कामासक्तो बभूव ह ॥ २८॥
च्यवनः अपि महा-योगी मोहितः शिव-मायया ॥ सुकन्यया विजह्रे स काम-आसक्तः बभूव ह ॥ २८॥
cyavanaḥ api mahā-yogī mohitaḥ śiva-māyayā .. sukanyayā vijahre sa kāma-āsaktaḥ babhūva ha .. 28..
कश्यपः शिवमायातो मोहितः कामसंकुलः ॥ ययाचे कन्यकां मोहाद्धन्वनो नृपतेः पुरा ॥ २९ ॥
कश्यपः शिवम् आयातः मोहितः काम-संकुलः ॥ ययाचे कन्यकाम् मोहात् धन्वनः नृपतेः पुरा ॥ २९ ॥
kaśyapaḥ śivam āyātaḥ mohitaḥ kāma-saṃkulaḥ .. yayāce kanyakām mohāt dhanvanaḥ nṛpateḥ purā .. 29 ..
गरुडः शांडिलीं कन्यां नेतुकामस्सुमोहितः ॥ विज्ञातस्तु तया सद्यो दग्धपक्षो बभूव ह ॥ 5.4.३०॥
गरुडः शांडिलीम् कन्याम् नेतु-कामः सुमोहितः ॥ विज्ञातः तु तया सद्यस् दग्ध-पक्षः बभूव ह ॥ ५।४।३०॥
garuḍaḥ śāṃḍilīm kanyām netu-kāmaḥ sumohitaḥ .. vijñātaḥ tu tayā sadyas dagdha-pakṣaḥ babhūva ha .. 5.4.30..
विभांडको मुनिर्नारीं दृष्ट्वा कामवशं गतः॥ऋष्यशृङ्गः सुतस्तस्य मृग्यां जातश्शिवाज्ञया॥३१॥
विभांडकः मुनिः नारीम् दृष्ट्वा काम-वशम् गतः॥ऋष्यशृङ्गः सुतः तस्य मृग्याम् जातः शिव-आज्ञया॥३१॥
vibhāṃḍakaḥ muniḥ nārīm dṛṣṭvā kāma-vaśam gataḥ..ṛṣyaśṛṅgaḥ sutaḥ tasya mṛgyām jātaḥ śiva-ājñayā..31..
गौतमश्च मुनिश्शंभोर्मायामोहितमानसः॥दृष्ट्वा शारद्वतीं नग्नां रराम क्षुभितस्तया ॥ ३२ ॥
गौतमः च मुनिः शंभोः माया-मोहित-मानसः॥दृष्ट्वा शारद्वतीम् नग्नाम् रराम क्षुभितः तया ॥ ३२ ॥
gautamaḥ ca muniḥ śaṃbhoḥ māyā-mohita-mānasaḥ..dṛṣṭvā śāradvatīm nagnām rarāma kṣubhitaḥ tayā .. 32 ..
रेतः स्कन्नं दधार स्वं द्रोण्यां चैव स तापसः ॥ तस्माच्च कलशाज्जातो द्रोणश्शस्त्रभृतां वरः॥३३॥
रेतः स्कन्नम् दधार स्वम् द्रोण्याम् च एव स तापसः ॥ तस्मात् च कलशात् जातः द्रोणः शस्त्रभृताम् वरः॥३३॥
retaḥ skannam dadhāra svam droṇyām ca eva sa tāpasaḥ .. tasmāt ca kalaśāt jātaḥ droṇaḥ śastrabhṛtām varaḥ..33..
पराशरो महायोगी मोहितश्शिवमायया ॥ मत्स्योदर्या च चिक्रीडे कुमार्या दाशकन्यया ॥ ३४ ॥
पराशरः महा-योगी मोहितः शिव-मायया ॥ मत्स्योदर्या च चिक्रीडे कुमार्या दाश-कन्यया ॥ ३४ ॥
parāśaraḥ mahā-yogī mohitaḥ śiva-māyayā .. matsyodaryā ca cikrīḍe kumāryā dāśa-kanyayā .. 34 ..
विश्वमित्रो बभूवाथ मोहितश्शिवमायया ॥ रेमे मेनकया व्यास वने कामवशं गतः ॥ ३५॥
विश्वमित्रः बभूव अथ मोहितः शिव-मायया ॥ रेमे मेनकया व्यास वने काम-वशम् गतः ॥ ३५॥
viśvamitraḥ babhūva atha mohitaḥ śiva-māyayā .. reme menakayā vyāsa vane kāma-vaśam gataḥ .. 35..
वसिष्ठेन विरोधं तु कृतवान्नष्टचेतनः ॥ पुनः शिवप्रासादाच्च ब्राह्मणोऽभूत्स एव वै ॥ ३६ ॥
वसिष्ठेन विरोधम् तु कृतवान् नष्ट-चेतनः ॥ पुनर् शिव-प्रासादात् च ब्राह्मणः अभूत् सः एव वै ॥ ३६ ॥
vasiṣṭhena virodham tu kṛtavān naṣṭa-cetanaḥ .. punar śiva-prāsādāt ca brāhmaṇaḥ abhūt saḥ eva vai .. 36 ..
रावणो वैश्रवाः कामी बभूव शिवमायया ॥ सीतां जह्रे कुबुद्धिस्तु मोहितो मृत्युमाप च ॥ ३७॥
रावणः वैश्रवाः कामी बभूव शिव-मायया ॥ सीताम् जह्रे कुबुद्धिः तु मोहितः मृत्युम् आप च ॥ ३७॥
rāvaṇaḥ vaiśravāḥ kāmī babhūva śiva-māyayā .. sītām jahre kubuddhiḥ tu mohitaḥ mṛtyum āpa ca .. 37..
बृहस्पतिर्मुनिवरो मोहितश्शिवमायया ॥ भ्रातृपत्न्या वशी रेमे भरद्वाजस्ततोऽभवत् ॥ ३८॥
बृहस्पतिः मुनि-वरः मोहितः शिव-मायया ॥ भ्रातृ-पत्न्या वशी रेमे भरद्वाजः ततस् अभवत् ॥ ३८॥
bṛhaspatiḥ muni-varaḥ mohitaḥ śiva-māyayā .. bhrātṛ-patnyā vaśī reme bharadvājaḥ tatas abhavat .. 38..
इति मायाप्रभावो हि शंकरस्य महात्मनः ॥ वर्णितस्ते मया व्यास किमन्यच्छ्रोतुमिच्छसि ॥ ३९॥
इति माया-प्रभावः हि शंकरस्य महात्मनः ॥ वर्णितः ते मया व्यास किम् अन्यत् श्रोतुम् इच्छसि ॥ ३९॥
iti māyā-prabhāvaḥ hi śaṃkarasya mahātmanaḥ .. varṇitaḥ te mayā vyāsa kim anyat śrotum icchasi .. 39..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां शिवमायाप्रभाववर्णनं नाम चतुर्थो ऽध्यायः ॥ ४॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् शिवमायाप्रभाववर्णनम् नाम चतुर्थः अध्यायः ॥ ४॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām śivamāyāprabhāvavarṇanam nāma caturthaḥ adhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In