| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
इत्याकर्ण्य श्राद्धदेवः सूर्यान्वयमनुत्तमम् ॥ पर्य्यपृच्छन्मुनिश्रेष्ठश्शौनकस्सूतमादरात् ॥ १ ॥
इति आकर्ण्य श्राद्धदेवः सूर्य-अन्वयम् अनुत्तमम् ॥ पर्य्यपृच्छत् मुनि-श्रेष्ठः शौनकः सूतम् आदरात् ॥ १ ॥
iti ākarṇya śrāddhadevaḥ sūrya-anvayam anuttamam .. paryyapṛcchat muni-śreṣṭhaḥ śaunakaḥ sūtam ādarāt .. 1 ..
शौनक उवाच ।।
सूतसूत चिरंजीव व्यासशिष्य नमोस्तु ते ॥ श्राविता परमा दिव्या कथा परमपावनी ॥ २ ॥
सूत-सूत चिरंजीव व्यास-शिष्य नमः अस्तु ते ॥ श्राविता परमा दिव्या कथा परम-पावनी ॥ २ ॥
sūta-sūta ciraṃjīva vyāsa-śiṣya namaḥ astu te .. śrāvitā paramā divyā kathā parama-pāvanī .. 2 ..
त्वया प्रोक्तः श्राद्धदेवस्सूर्य्यः सद्वंशवर्द्धनः ॥ संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ॥ ३ ॥
त्वया प्रोक्तः श्राद्धदेवः सूर्य्यः सत्-वंश-वर्द्धनः ॥ संशयः तत्र मे जातः तम् ब्रवीमि त्वद्-अग्रतस् ॥ ३ ॥
tvayā proktaḥ śrāddhadevaḥ sūryyaḥ sat-vaṃśa-varddhanaḥ .. saṃśayaḥ tatra me jātaḥ tam bravīmi tvad-agratas .. 3 ..
कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ॥ श्रोतुमिच्छामि तत्प्रीत्या छिंधि मे संशयं त्विमम् ॥ ४ ॥
कुतस् वै श्राद्धदेव-त्वम् आदित्यस्य विवस्वतः ॥ श्रोतुम् इच्छामि तद्-प्रीत्या छिंधि मे संशयम् तु इमम् ॥ ४ ॥
kutas vai śrāddhadeva-tvam ādityasya vivasvataḥ .. śrotum icchāmi tad-prītyā chiṃdhi me saṃśayam tu imam .. 4 ..
श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ॥ प्रीताश्च पितरो येन श्रेयसा योजयंति तम् ॥ ५ ॥
श्राद्धस्य अपि च माहात्म्यम् तद्-फलम् च वद प्रभो ॥ प्रीताः च पितरः येन श्रेयसा योजयंति तम् ॥ ५ ॥
śrāddhasya api ca māhātmyam tad-phalam ca vada prabho .. prītāḥ ca pitaraḥ yena śreyasā yojayaṃti tam .. 5 ..
एतच्च श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ॥ कथय त्वं विशेषेण कृपां कुरु महामते ॥ ६॥
एतत् च श्रोतुम् इच्छामि पितॄणाम् सर्गम् उत्तमम् ॥ कथय त्वम् विशेषेण कृपाम् कुरु महामते ॥ ६॥
etat ca śrotum icchāmi pitṝṇām sargam uttamam .. kathaya tvam viśeṣeṇa kṛpām kuru mahāmate .. 6..
सूत उवाच ।।
वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ॥ मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ॥ ७ ॥
वच्मि तत् ते अखिलम् प्रीत्या पितृ-सर्गम् तु शौनक ॥ मार्कण्डेयेन कथितम् भीष्माय परिपृच्छते ॥ ७ ॥
vacmi tat te akhilam prītyā pitṛ-sargam tu śaunaka .. mārkaṇḍeyena kathitam bhīṣmāya paripṛcchate .. 7 ..
गीतं सनत्कुमारेण मार्कण्डेय धीमते ॥ तत्तेऽहं संप्रवक्ष्यामि सर्वकामफलपदम् ॥ ८ ॥
गीतम् सनत्कुमारेण मार्कण्डेय धीमते ॥ तत् ते अहम् संप्रवक्ष्यामि सर्व-काम-फल-पदम् ॥ ८ ॥
gītam sanatkumāreṇa mārkaṇḍeya dhīmate .. tat te aham saṃpravakṣyāmi sarva-kāma-phala-padam .. 8 ..
युधिष्ठिरेण संपृष्टो भीष्मो धर्मभृतां वरः॥शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ॥ ९॥
युधिष्ठिरेण संपृष्टः भीष्मः धर्म-भृताम् वरः॥शर-शय्या-स्थितः प्रोचे तत् शृणुष्व वदामि ते ॥ ९॥
yudhiṣṭhireṇa saṃpṛṣṭaḥ bhīṣmaḥ dharma-bhṛtām varaḥ..śara-śayyā-sthitaḥ proce tat śṛṇuṣva vadāmi te .. 9..
युधिष्ठिर उवाच ।।
पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ॥ एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ॥ 5.40.१० ॥
पुष्टि-कामेन पुंसाम् वै कथम् पुष्टिः अवाप्यते ॥ एतत् श्रोतुम् समिच्छामि किम् कुर्वाणः न सीदति ॥ ५।४०।१० ॥
puṣṭi-kāmena puṃsām vai katham puṣṭiḥ avāpyate .. etat śrotum samicchāmi kim kurvāṇaḥ na sīdati .. 5.40.10 ..
।। सूत उवाच ।।
युधिष्ठिरेण संपृष्टं प्रश्नं श्रुत्वा स धर्मवित् ॥ भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः ॥ ११ ॥
युधिष्ठिरेण संपृष्टम् प्रश्नम् श्रुत्वा स धर्म-विद् ॥ भीष्मः प्रोवाच सु प्रीत्या सर्वेषाम् शृण्वताम् वचः ॥ ११ ॥
yudhiṣṭhireṇa saṃpṛṣṭam praśnam śrutvā sa dharma-vid .. bhīṣmaḥ provāca su prītyā sarveṣām śṛṇvatām vacaḥ .. 11 ..
भीष्म उवाच ।।
ये कुर्वंति नराश्श्राद्धान्यपि प्रीत्या युधिष्ठिर ॥ श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ॥ १२ ॥
ये कुर्वंति नराः श्राद्धानि अपि प्रीत्या युधिष्ठिर ॥ श्राद्धैः प्रीणाति तत् सर्वम् पितॄणाम् हि प्रसादतः ॥ १२ ॥
ye kurvaṃti narāḥ śrāddhāni api prītyā yudhiṣṭhira .. śrāddhaiḥ prīṇāti tat sarvam pitṝṇām hi prasādataḥ .. 12 ..
श्राद्धानि चैव कुर्वन्ति फलकामास्सदा नरा ॥ अभिसंधाय पितरं पितुश्च पितरं तथा ॥ १३ ॥
श्राद्धानि च एव कुर्वन्ति फल-कामाः सदा नरा ॥ अभिसंधाय पितरम् पितुः च पितरम् तथा ॥ १३ ॥
śrāddhāni ca eva kurvanti phala-kāmāḥ sadā narā .. abhisaṃdhāya pitaram pituḥ ca pitaram tathā .. 13 ..
पितुः पितामहश्चैव त्रिषु पिंडेषु नित्यदा ॥ पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ॥ १४ ॥
पितुः पितामहः च एव त्रिषु पिंडेषु नित्यदा ॥ पितरः धर्म-कामस्य प्रजा-कामस्य च प्रजाम् ॥ १४ ॥
pituḥ pitāmahaḥ ca eva triṣu piṃḍeṣu nityadā .. pitaraḥ dharma-kāmasya prajā-kāmasya ca prajām .. 14 ..
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर॥१५॥
पुष्टि-कामस्य पुष्टिम् च प्रयच्छन्ति युधिष्ठिर॥१५॥
puṣṭi-kāmasya puṣṭim ca prayacchanti yudhiṣṭhira..15..
युधिष्ठिर उवाच।।
वर्तंते पितरः स्वर्गे केषांचिन्नरके पुनः॥प्राणिनां नियतं चापि कर्मजं फलमुच्यते ॥ १६॥
वर्तंते पितरः स्वर्गे केषांचिद् नरके पुनर्॥प्राणिनाम् नियतम् च अपि कर्म-जम् फलम् उच्यते ॥ १६॥
vartaṃte pitaraḥ svarge keṣāṃcid narake punar..prāṇinām niyatam ca api karma-jam phalam ucyate .. 16..
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥ कथं शक्तास्तमाहर्त्तुं नरकस्था फलं पुनः ॥ १७॥
तानि श्राद्धानि दत्तानि कथम् गच्छन्ति वै पितॄन् ॥ कथम् शक्ताः तम् आहर्त्तुम् नरक-स्था फलम् पुनर् ॥ १७॥
tāni śrāddhāni dattāni katham gacchanti vai pitṝn .. katham śaktāḥ tam āharttum naraka-sthā phalam punar .. 17..
देवा अपि पितॄन्स्वर्गे यजंत इति मे श्रुतम् ॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ॥ १८॥
देवाः अपि पितॄन् स्वर्गे यजंते इति मे श्रुतम् ॥ एतत् इच्छामि अहम् श्रोतुम् विस्तरेण ब्रवीहि मे ॥ १८॥
devāḥ api pitṝn svarge yajaṃte iti me śrutam .. etat icchāmi aham śrotum vistareṇa bravīhi me .. 18..
भीष्म उवाच ।।
अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ॥ पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥ १९॥
अत्र ते कीर्तयिष्यामि यथा श्रुतम् अरिन्दम ॥ पित्रा मम पुरा गीतम् लोक-अन्तर-गतेन वै ॥ १९॥
atra te kīrtayiṣyāmi yathā śrutam arindama .. pitrā mama purā gītam loka-antara-gatena vai .. 19..
श्राद्धकाले मम पितुर्मया पिंडस्समुद्यतः ॥ मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ 5.40.२०॥
श्राद्ध-काले मम पितुः मया पिंडः समुद्यतः ॥ मद्-पिता मम हस्तेन भित्त्वा भूमिम् अयाचत ॥ ५।४०।२०॥
śrāddha-kāle mama pituḥ mayā piṃḍaḥ samudyataḥ .. mad-pitā mama hastena bhittvā bhūmim ayācata .. 5.40.20..
नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ॥ कुशेष्वेव ततः पिंडं दत्तवानविचारयन् ॥ २१॥
न एष कल्प-विधिः दृष्टः इति निश्चित्य च अपि अहम् ॥ कुशेषु एव ततस् पिंडम् दत्तवान् अ विचारयन् ॥ २१॥
na eṣa kalpa-vidhiḥ dṛṣṭaḥ iti niścitya ca api aham .. kuśeṣu eva tatas piṃḍam dattavān a vicārayan .. 21..
ततः पिता मे संतुष्टो वाचा मधुरया तदा ॥ उवाच भारतश्रेष्ठ प्रीयमाणो मयानघ ॥ २२॥
ततस् पिता मे संतुष्टः वाचा मधुरया तदा ॥ उवाच भारत-श्रेष्ठ प्रीयमाणः मया अनघ ॥ २२॥
tatas pitā me saṃtuṣṭaḥ vācā madhurayā tadā .. uvāca bhārata-śreṣṭha prīyamāṇaḥ mayā anagha .. 22..
त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ॥ तारितोहं तु जिज्ञासा कृता मे पुरुषोत्तम ॥ २३॥
त्वया दायादवान् अस्मि धर्म-ज्ञेन विपश्चिता ॥ तारिता उहम् तु जिज्ञासा कृता मे पुरुषोत्तम ॥ २३॥
tvayā dāyādavān asmi dharma-jñena vipaścitā .. tāritā uham tu jijñāsā kṛtā me puruṣottama .. 23..
प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ॥ प्रजास्तदनु वर्तंते प्रमाणाचरितं सदा ॥ २४ ॥
प्रमाणम् यत् हि कुरुते धर्म-आचारेण पार्थिवः ॥ प्रजाः तदनु वर्तंते प्रमाण-आचरितम् सदा ॥ २४ ॥
pramāṇam yat hi kurute dharma-ācāreṇa pārthivaḥ .. prajāḥ tadanu vartaṃte pramāṇa-ācaritam sadā .. 24 ..
शृणु त्वं भारतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ॥ प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ॥ २५ ॥
शृणु त्वम् भारत-श्रेष्ठ वेद-धर्मान् च शाश्वतान् ॥ प्रमाणम् वेद-धर्मस्य पुत्र निर्वर्त्तितम् त्वया ॥ २५ ॥
śṛṇu tvam bhārata-śreṣṭha veda-dharmān ca śāśvatān .. pramāṇam veda-dharmasya putra nirvarttitam tvayā .. 25 ..
तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ॥ ददामि त्वं प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम् ॥ २६॥
तस्मात् तव अहम् सु प्रीतः प्रीत्या वरम् अनुत्तमम् ॥ ददामि त्वम् प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम् ॥ २६॥
tasmāt tava aham su prītaḥ prītyā varam anuttamam .. dadāmi tvam pratīkṣasva triṣu lokeṣu durlabham .. 26..
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ॥ त्वत्तोभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता पुनः ॥ २७॥
न ते प्रभविता मृत्युः यावत् जीवितुम् इच्छसि ॥ त्वत्तः अभ्यनुज्ञाम् संप्राप्य मृत्युः प्रभविता पुनर् ॥ २७॥
na te prabhavitā mṛtyuḥ yāvat jīvitum icchasi .. tvattaḥ abhyanujñām saṃprāpya mṛtyuḥ prabhavitā punar .. 27..
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ॥ तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ॥ २८॥
किम् वा ते प्रार्थितम् भूयः ददामि वरम् उत्तमम् ॥ तत् ब्रूहि भरत-श्रेष्ठ यत् ते मनसि वर्तते ॥ २८॥
kim vā te prārthitam bhūyaḥ dadāmi varam uttamam .. tat brūhi bharata-śreṣṭha yat te manasi vartate .. 28..
इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ॥ अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद॥प्रश्नं पृच्छामि वै कंचिद्वाच्यस्स भवता स्वयम् ॥ २९॥
इति उक्तवति तस्मिन् तु अभिवाद्य कृताञ्जलिः ॥ अवोचम् कृतकृत्यः अहम् प्रसन्ने त्वयि मानद॥प्रश्नम् पृच्छामि वै कंचिद् वाच्यः स भवता स्वयम् ॥ २९॥
iti uktavati tasmin tu abhivādya kṛtāñjaliḥ .. avocam kṛtakṛtyaḥ aham prasanne tvayi mānada..praśnam pṛcchāmi vai kaṃcid vācyaḥ sa bhavatā svayam .. 29..
स मामुवाच तद् ब्रूहि यदीच्छसि ददामि ते ॥ इत्युक्तेथ मया तत्र पृष्टः प्रोवाच तन्नृपः॥5.40.३०॥
स माम् उवाच तत् ब्रूहि यदि इच्छसि ददामि ते ॥ इति उक्ता इथ मया तत्र पृष्टः प्रोवाच तत् नृपः॥५।४०।३०॥
sa mām uvāca tat brūhi yadi icchasi dadāmi te .. iti uktā itha mayā tatra pṛṣṭaḥ provāca tat nṛpaḥ..5.40.30..
शंतनुरुवाच ।।
शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ॥ पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ॥ ३१॥
शृणु तात प्रवक्ष्यामि प्रश्नम् ते अहम् यथार्थतः ॥ पितृ-कल्पम् च निखिलम् मार्कण्डेयेन मे श्रुतम् ॥ ३१॥
śṛṇu tāta pravakṣyāmi praśnam te aham yathārthataḥ .. pitṛ-kalpam ca nikhilam mārkaṇḍeyena me śrutam .. 31..
यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ॥ मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ॥ ३२ ॥
यत् त्वम् पृच्छसि माम् तात तत् एव अहम् महा-मुनिम् ॥ मार्कण्डेयम् अपृच्छम् हि स माम् प्रोवाच धर्म-विद् ॥ ३२ ॥
yat tvam pṛcchasi mām tāta tat eva aham mahā-munim .. mārkaṇḍeyam apṛccham hi sa mām provāca dharma-vid .. 32 ..
मार्कण्डेय उवाच ।।
शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ॥ विमानं महादायांतमन्तरेण गिरेस्तदा ॥ ३३॥
शृणु राजन् मया दृष्टम् कदाचिद् पश्यता दिवम् ॥ विमानम् महा-दायान्तम् अन्तरेण गिरेः तदा ॥ ३३॥
śṛṇu rājan mayā dṛṣṭam kadācid paśyatā divam .. vimānam mahā-dāyāntam antareṇa gireḥ tadā .. 33..
तस्मिन्विमाने पर्यक्षं ज्वलितांगारवर्चसम् ॥ महातेजः प्रज्वलंतं निर्विशेषं मनोहरम् ॥ ३४ ॥
तस्मिन् विमाने पर्यक्षम् ज्वलित-अंगार-वर्चसम् ॥ महा-तेजः प्रज्वलंतम् निर्विशेषम् मनोहरम् ॥ ३४ ॥
tasmin vimāne paryakṣam jvalita-aṃgāra-varcasam .. mahā-tejaḥ prajvalaṃtam nirviśeṣam manoharam .. 34 ..
अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ॥ अंगुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ॥ ३५ ॥
अपश्यम् च एव तत्र अहम् शयानम् दीप्त-तेजसम् ॥ अंगुष्ठ-मात्रम् पुरुषम् अग्नौ अग्निम् इव आहितम् ॥ ३५ ॥
apaśyam ca eva tatra aham śayānam dīpta-tejasam .. aṃguṣṭha-mātram puruṣam agnau agnim iva āhitam .. 35 ..
सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ॥ अपृच्छं चैव तमहं विद्यामस्त्वां कथं विभो ॥ ३६ ॥
सः अहम् तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ॥ अपृच्छम् च एव तम् अहम् विद्यामः त्वाम् कथम् विभो ॥ ३६ ॥
saḥ aham tasmai namaḥ kṛtvā praṇamya śirasā prabhum .. apṛccham ca eva tam aham vidyāmaḥ tvām katham vibho .. 36 ..
मामुवाच धर्मात्मा तेन तद्विद्यते तपः ॥ येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणस्सुतम् ॥ ३७॥
माम् उवाच धर्म-आत्मा तेन तत् विद्यते तपः ॥ येन त्वम् बुध्यसे माम् हि मुने वै ब्रह्मणः सुतम् ॥ ३७॥
mām uvāca dharma-ātmā tena tat vidyate tapaḥ .. yena tvam budhyase mām hi mune vai brahmaṇaḥ sutam .. 37..
सनत्कुमारमिति मां विद्धि किं करवाणि ते ॥ ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ॥ ३८॥
सनत्कुमारम् इति माम् विद्धि किम् करवाणि ते ॥ ये तु अन्ये ब्रह्मणः पुत्राः कनीयांसः तु ते मम ॥ ३८॥
sanatkumāram iti mām viddhi kim karavāṇi te .. ye tu anye brahmaṇaḥ putrāḥ kanīyāṃsaḥ tu te mama .. 38..
भ्रातरस्सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ॥ वयं तु यतिधर्माणस्संयम्यात्मानमात्मनि॥ ॥ ३९ ॥
भ्रातरः सप्त दुर्धर्षाः येषाम् वंशाः प्रतिष्ठिताः ॥ वयम् तु यति-धर्माणः संयम्य आत्मानम् आत्मनि॥ ॥ ३९ ॥
bhrātaraḥ sapta durdharṣāḥ yeṣām vaṃśāḥ pratiṣṭhitāḥ .. vayam tu yati-dharmāṇaḥ saṃyamya ātmānam ātmani.. .. 39 ..
यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ॥ तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ॥ 5.40.४० ॥
यथा उत्पन्नः तथा एव अहम् कुमारः इति विश्रुतः ॥ तस्मात् सनत्कुमारम् मे नाम एतत् कथितम् मुने ॥ ५।४०।४० ॥
yathā utpannaḥ tathā eva aham kumāraḥ iti viśrutaḥ .. tasmāt sanatkumāram me nāma etat kathitam mune .. 5.40.40 ..
यद्भक्त्या ते तपश्चीर्णं मम दर्शनकांक्षया ॥ एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ॥ ४१॥
यद्-भक्त्या ते तपः चीर्णम् मम दर्शन-कांक्षया ॥ एष दृष्टः अस्मि भद्रम् ते कम् कामम् करवाणि ते ॥ ४१॥
yad-bhaktyā te tapaḥ cīrṇam mama darśana-kāṃkṣayā .. eṣa dṛṣṭaḥ asmi bhadram te kam kāmam karavāṇi te .. 41..
इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ॥ पितॄणामादिसर्गं च कथयस्व यथातथम् ॥ ४२॥
इति उक्तवन्तम् तम् च अहम् प्रावोचम् त्वम् शृणु प्रभो ॥ पितॄणाम् आदि-सर्गम् च कथयस्व यथातथम् ॥ ४२॥
iti uktavantam tam ca aham prāvocam tvam śṛṇu prabho .. pitṝṇām ādi-sargam ca kathayasva yathātatham .. 42..
इत्युक्तस्स तु मां प्राह शृणु सर्वं यथातथम् ॥ वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ॥ ४३॥
इति उक्तः स तु माम् प्राह शृणु सर्वम् यथातथम् ॥ वच्मि ते तत्त्वतः तात पितृ-सर्गम् शुभ-आवहम् ॥ ४३॥
iti uktaḥ sa tu mām prāha śṛṇu sarvam yathātatham .. vacmi te tattvataḥ tāta pitṛ-sargam śubha-āvaham .. 43..
सनत्कुमार उवाच ।।
देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ॥ तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ॥ ४४॥
देवान् पुरा असृजत् ब्रह्मा माम् स च आह तान् ॥ तम् उत्सृज्य तम् आत्मानम् अयजन् ते फल-अर्थिनः ॥ ४४॥
devān purā asṛjat brahmā mām sa ca āha tān .. tam utsṛjya tam ātmānam ayajan te phala-arthinaḥ .. 44..
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ॥ तस्मात्किंचिदजानंतो नष्टसंज्ञाः पितामहम् ॥ ४५॥
ते शप्ताः ब्रह्मणा मूढाः नष्ट-संज्ञाः भविष्यथ ॥ तस्मात् किंचिद् अ जानन्तः नष्ट-संज्ञाः पितामहम् ॥ ४५॥
te śaptāḥ brahmaṇā mūḍhāḥ naṣṭa-saṃjñāḥ bhaviṣyatha .. tasmāt kiṃcid a jānantaḥ naṣṭa-saṃjñāḥ pitāmaham .. 45..
प्रोचुस्तं प्रणतास्सर्वे कुरुष्वानुग्रहं हि नः ॥ इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि॥४६॥
प्रोचुः तम् प्रणताः सर्वे कुरुष्व अनुग्रहम् हि नः ॥ इति उक्तः तान् उवाच इदम् प्रायश्चित्त-अर्थम् एव हि॥४६॥
procuḥ tam praṇatāḥ sarve kuruṣva anugraham hi naḥ .. iti uktaḥ tān uvāca idam prāyaścitta-artham eva hi..46..
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ॥इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ॥ ४७ ॥
पुत्रान् स्वान् परिपृच्छध्वम् ततस् ज्ञानम् अवाप्स्यथ॥इति उक्ताः नष्ट-संज्ञाः ते पुत्रान् पप्रच्छुः ओजसा ॥ ४७ ॥
putrān svān paripṛcchadhvam tatas jñānam avāpsyatha..iti uktāḥ naṣṭa-saṃjñāḥ te putrān papracchuḥ ojasā .. 47 ..
प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः॥गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ॥४८॥
प्रायश्चित्त-अर्थम् एव अधिलब्ध-संज्ञाः दिवौकसः॥गम्यताम् पुत्रकाः एवम् पुत्रैः उक्ताः च ते अनघ॥४८॥
prāyaścitta-artham eva adhilabdha-saṃjñāḥ divaukasaḥ..gamyatām putrakāḥ evam putraiḥ uktāḥ ca te anagha..48..
अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम्॥पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ॥ ४९॥
अभिशप्ताः तु ते देवाः पुत्र-कामेन वेधसम्॥पप्रच्छुः उक्ताः पुत्रैः ते गताः ते पुत्रकाः इति ॥ ४९॥
abhiśaptāḥ tu te devāḥ putra-kāmena vedhasam..papracchuḥ uktāḥ putraiḥ te gatāḥ te putrakāḥ iti .. 49..
ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ॥ शृणुध्वं निर्जरास्सर्वे यूयं न ब्रह्मवादिनः ॥ 5.40.५०॥
ततस् तान् अब्रवीत् देवः देवान् ब्रह्मा स संशयान् ॥ शृणुध्वम् निर्जराः सर्वे यूयम् न ब्रह्म-वादिनः ॥ ५।४०।५०॥
tatas tān abravīt devaḥ devān brahmā sa saṃśayān .. śṛṇudhvam nirjarāḥ sarve yūyam na brahma-vādinaḥ .. 5.40.50..
तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ॥ मंतव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ॥ ५१॥
तस्मात् यत् उक्तम् युष्माकम् पुत्रैः तैः ज्ञानि-सत्तमैः ॥ मंतव्यम् संशयम् त्यक्त्वा तथा न च तत् अन्यथा ॥ ५१॥
tasmāt yat uktam yuṣmākam putraiḥ taiḥ jñāni-sattamaiḥ .. maṃtavyam saṃśayam tyaktvā tathā na ca tat anyathā .. 51..
देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ॥ परस्परं महाप्रीत्या सर्वकामफलप्रदा॥५२॥
देवाः च पितरः च एव यजध्वम् त्रिदिवौकसः ॥ परस्परम् महा-प्रीत्या सर्व-काम-फल-प्रदा॥५२॥
devāḥ ca pitaraḥ ca eva yajadhvam tridivaukasaḥ .. parasparam mahā-prītyā sarva-kāma-phala-pradā..52..
ततस्ते छिन्नसंदेहाः प्रीतिमंतः परस्परम् ॥ बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ॥ ५३ ॥
ततस् ते छिन्न-संदेहाः प्रीतिमंतः परस्परम् ॥ बभूवुः मुनि-शार्दूल ब्रह्म-वाक्यात् सुख-प्रदाः ॥ ५३ ॥
tatas te chinna-saṃdehāḥ prītimaṃtaḥ parasparam .. babhūvuḥ muni-śārdūla brahma-vākyāt sukha-pradāḥ .. 53 ..
सनत्कुमार उवाच ।।
ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम्॥तस्माद्भवंतः पितरो भविष्यथ न संशयः ॥ ५४॥
ततस् देवाः हि प्रोचुः तान् यद्-उक्ताः पुत्रकाः वयम्॥तस्मात् भवन्तः पितरः भविष्यथ न संशयः ॥ ५४॥
tatas devāḥ hi procuḥ tān yad-uktāḥ putrakāḥ vayam..tasmāt bhavantaḥ pitaraḥ bhaviṣyatha na saṃśayaḥ .. 54..
पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ॥ श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति ॥ ५५॥
पितृ-श्राद्धे क्रियाम् कश्चिद् करिष्यति न संशयः ॥ श्राद्धैः आप्यायितः सोमः लोकान् आप्याययिष्यति ॥ ५५॥
pitṛ-śrāddhe kriyām kaścid kariṣyati na saṃśayaḥ .. śrāddhaiḥ āpyāyitaḥ somaḥ lokān āpyāyayiṣyati .. 55..
समुद्रं पर्वतवनं जंगमाजंगमैर्वृतम्॥श्राद्धानि पुष्टिकामैश्च ये करिष्यंति मानवाः॥५६॥
समुद्रम् पर्वत-वनम् जंगम-अजंगमैः वृतम्॥श्राद्धानि पुष्टि-कामैः च ये करिष्यंति मानवाः॥५६॥
samudram parvata-vanam jaṃgama-ajaṃgamaiḥ vṛtam..śrāddhāni puṣṭi-kāmaiḥ ca ye kariṣyaṃti mānavāḥ..56..
तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणितास्सदा ॥ श्राद्धे ये च प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः ॥ ५७ ॥
तेभ्यः पुष्टि-प्रदाः च एव पितरः प्रीणिताः सदा ॥ श्राद्धे ये च प्रदास्यंति त्रीन् पिंडान् नाम-गोत्रतः ॥ ५७ ॥
tebhyaḥ puṣṭi-pradāḥ ca eva pitaraḥ prīṇitāḥ sadā .. śrāddhe ye ca pradāsyaṃti trīn piṃḍān nāma-gotrataḥ .. 57 ..
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ॥ भावयिष्यंति सततं श्राद्धदानेन तर्पिताः ॥ ५८ ॥
सर्वत्र वर्तमानाः ते पितरः प्रपितामहाः ॥ भावयिष्यंति सततम् श्राद्ध-दानेन तर्पिताः ॥ ५८ ॥
sarvatra vartamānāḥ te pitaraḥ prapitāmahāḥ .. bhāvayiṣyaṃti satatam śrāddha-dānena tarpitāḥ .. 58 ..
इति तद्वचनं सत्यं भवत्वथ दिवौकसः ॥ पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ॥ ५९॥
इति तत् वचनम् सत्यम् भवतु अथ दिवौकसः ॥ पुत्राः च पितरः च एव वयम् सर्वे परस्परम् ॥ ५९॥
iti tat vacanam satyam bhavatu atha divaukasaḥ .. putrāḥ ca pitaraḥ ca eva vayam sarve parasparam .. 59..
एवं ते पितरो देवा धर्मतः पुत्रतां गताः ॥ अन्योन्यं पितरो वै ते प्रथिताः क्षितिमण्डले॥5.40.६०॥
एवम् ते पितरः देवाः धर्मतः पुत्र-ताम् गताः ॥ अन्योन्यम् पितरः वै ते प्रथिताः क्षिति-मण्डले॥५।४०।६०॥
evam te pitaraḥ devāḥ dharmataḥ putra-tām gatāḥ .. anyonyam pitaraḥ vai te prathitāḥ kṣiti-maṇḍale..5.40.60..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४०॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् श्राद्ध-कल्पे पितृप्रभाववर्णनम् नाम चत्वारिंशः अध्यायः ॥ ४०॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām śrāddha-kalpe pitṛprabhāvavarṇanam nāma catvāriṃśaḥ adhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In