| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणास्स्मृताः ॥ चत्वारो मूर्त्तिमंतो वै त्रयश्चैव ह्यमूर्तयः ॥ १॥
सप्त ते तपताम् श्रेष्ठ स्वर्गे पितृ-गणाः स्मृताः ॥ चत्वारः मूर्त्तिमंतः वै त्रयः च एव हि अमूर्तयः ॥ १॥
sapta te tapatām śreṣṭha svarge pitṛ-gaṇāḥ smṛtāḥ .. catvāraḥ mūrttimaṃtaḥ vai trayaḥ ca eva hi amūrtayaḥ .. 1..
तान्यजंते देवगणा आद्या विप्रादयस्तथा॥आप्याययंति ते पूर्वं सोमं योगबलेन वै ॥ २॥
तान् यजंते देव-गणाः आद्याः विप्र-आदयः तथा॥आप्याययंति ते पूर्वम् सोमम् योग-बलेन वै ॥ २॥
tān yajaṃte deva-gaṇāḥ ādyāḥ vipra-ādayaḥ tathā..āpyāyayaṃti te pūrvam somam yoga-balena vai .. 2..
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः॥सर्वेषां राजतं पात्रमथ वा रजतान्वितम्॥३॥
तस्मात् श्राद्धानि देयानि योगिनाम् तु विशेषतः॥सर्वेषाम् राजतम् पात्रम् अथ वा रजत-अन्वितम्॥३॥
tasmāt śrāddhāni deyāni yoginām tu viśeṣataḥ..sarveṣām rājatam pātram atha vā rajata-anvitam..3..
दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन्॥वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै॥४॥
दत्तम् स्वधाम् पुरोधाय श्राद्धे प्रीणाति वै पितॄन्॥वह्नेः आप्यायनम् कृत्वा सोमस्य तु यमस्य वै॥४॥
dattam svadhām purodhāya śrāddhe prīṇāti vai pitṝn..vahneḥ āpyāyanam kṛtvā somasya tu yamasya vai..4..
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ॥ पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयंति तम् ॥ ५॥
उदक्-आयनम् अपि अग्नौ अग्नि-अभावे अप्सु वा पुनर् ॥ पितॄन् प्रीणाति यः भक्त्या पितरः प्रीणयन्ति तम् ॥ ५॥
udak-āyanam api agnau agni-abhāve apsu vā punar .. pitṝn prīṇāti yaḥ bhaktyā pitaraḥ prīṇayanti tam .. 5..
यच्छंति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ॥ स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम् ॥ ६ ॥
यच्छन्ति पितरः पुष्टिम् प्रजाः च विपुलाः तथा ॥ स्वर्गम् आरोग्य-वृद्धिम् च यत् अन्यत् अपि च ईप्सितम् ॥ ६ ॥
yacchanti pitaraḥ puṣṭim prajāḥ ca vipulāḥ tathā .. svargam ārogya-vṛddhim ca yat anyat api ca īpsitam .. 6 ..
देवकार्यादपि मुने पितृकार्य्यं विशिष्यते ॥ पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः ॥ ७ ॥
देव-कार्यात् अपि मुने पितृ-कार्य्यम् विशिष्यते ॥ पितृ-भक्तः असि विप्रर्षे तेन त्वम् अजर-अमरः ॥ ७ ॥
deva-kāryāt api mune pitṛ-kāryyam viśiṣyate .. pitṛ-bhaktaḥ asi viprarṣe tena tvam ajara-amaraḥ .. 7 ..
न योगेन गतिस्सा तु पितृभक्तस्य या मुने ॥ पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने ॥ ८ ॥
न योगेन गतिः सा तु पितृ-भक्तस्य या मुने ॥ पितृ-भक्तिः विशेषेण तस्मात् कार्या महा-मुने ॥ ८ ॥
na yogena gatiḥ sā tu pitṛ-bhaktasya yā mune .. pitṛ-bhaktiḥ viśeṣeṇa tasmāt kāryā mahā-mune .. 8 ..
मार्कण्डेय उवाच ।।
एवमुक्त्वाऽऽशु देवेशो देवानामपि दुर्लभम्॥चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम् ॥ ९ ॥
एवम् उक्त्वा आशु देवेशः देवानाम् अपि दुर्लभम्॥चक्षुः दत्त्वा स विज्ञानम् जगाम यौगिकीम् गतिम् ॥ ९ ॥
evam uktvā āśu deveśaḥ devānām api durlabham..cakṣuḥ dattvā sa vijñānam jagāma yaugikīm gatim .. 9 ..
शृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः ॥ योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ 5.41.१० ॥
शृणु भीष्म पुरा भूयस् भारद्वाज-आत्मजाः द्विजाः ॥ योग-धर्मम् अनुप्राप्य भ्रष्टाः दुश्चरितेन वै ॥ ५।४१।१० ॥
śṛṇu bhīṣma purā bhūyas bhāradvāja-ātmajāḥ dvijāḥ .. yoga-dharmam anuprāpya bhraṣṭāḥ duścaritena vai .. 5.41.10 ..
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ॥ स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ॥ ११ ॥
वाग्दुष्टः क्रोधनः हिंस्रः पिशुनः कविः एव च ॥ स्वसृषः पितृवर्ती च नामभिः कर्मभिः तथा ॥ ११ ॥
vāgduṣṭaḥ krodhanaḥ hiṃsraḥ piśunaḥ kaviḥ eva ca .. svasṛṣaḥ pitṛvartī ca nāmabhiḥ karmabhiḥ tathā .. 11 ..
कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् ॥ पितर्युपरते सर्वे प्रवसंतस्तदाभवन् ॥ १२॥
कौशिकस्य सुताः तात शिष्याः गर्गस्य च अभवन् ॥ पितरि उपरते सर्वे प्रवसंतः तदा अभवन् ॥ १२॥
kauśikasya sutāḥ tāta śiṣyāḥ gargasya ca abhavan .. pitari uparate sarve pravasaṃtaḥ tadā abhavan .. 12..
विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ॥ समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा ॥ ॥ १३ ॥
विनियोगात् गुरोः तस्य गाम् दोग्ध्रीम् समकालयन् ॥ समान-वत्साम् कपिलाम् सर्वे अन्याय आगताः तदा ॥ ॥ १३ ॥
viniyogāt guroḥ tasya gām dogdhrīm samakālayan .. samāna-vatsām kapilām sarve anyāya āgatāḥ tadā .. .. 13 ..
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ॥ क्रूरा बुद्धिस्समुत्पन्ना तां गां तै हिंसितुं तदा ॥ १४ ॥ ।
तेषाम् पथि क्षुधा-आर्तानाम् बाल्यात् मोहात् च भारत ॥ क्रूरा बुद्धिः समुत्पन्ना ताम् गाम् तैः हिंसितुम् तदा ॥ १४ ॥ ।
teṣām pathi kṣudhā-ārtānām bālyāt mohāt ca bhārata .. krūrā buddhiḥ samutpannā tām gām taiḥ hiṃsitum tadā .. 14 .. .
तां कविसस्वसृपश्चैव याचेते नैति वै तदा ॥ न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः ॥ १५ ॥
ताम् कवि-सस्वसृपः च एव याचेते ना एति वै तदा ॥ न च अशक्याः तु ताभ्याम् वा तदा वारयितुम् निजाः ॥ १५ ॥
tām kavi-sasvasṛpaḥ ca eva yācete nā eti vai tadā .. na ca aśakyāḥ tu tābhyām vā tadā vārayitum nijāḥ .. 15 ..
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ॥ स सर्वानब्रवीत्कोपात्पितृभक्तिसमन्वितः ॥ १६॥
पितृवर्ती तु यः तेषाम् नित्यम् श्राद्ध-आह्निकः द्विजः ॥ स सर्वान् अब्रवीत् कोपात् पितृ-भक्ति-समन्वितः ॥ १६॥
pitṛvartī tu yaḥ teṣām nityam śrāddha-āhnikaḥ dvijaḥ .. sa sarvān abravīt kopāt pitṛ-bhakti-samanvitaḥ .. 16..
यद्यशक्यं प्रकर्तव्यं पितॄनुद्दिश्य साध्यताम् ॥ प्रकुर्वंतो हि श्राद्धं तु सर्व एव समाहिताः॥१७॥
यदि अशक्यम् प्रकर्तव्यम् पितॄन् उद्दिश्य साध्यताम् ॥ प्रकुर्वंतः हि श्राद्धम् तु सर्वे एव समाहिताः॥१७॥
yadi aśakyam prakartavyam pitṝn uddiśya sādhyatām .. prakurvaṃtaḥ hi śrāddham tu sarve eva samāhitāḥ..17..
एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः ॥ पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति ॥ १८॥
एवम् एषा च गौः धर्मम् प्राप्स्यते न अत्र संशयः ॥ पितॄन् अभ्यर्च्य धर्मेण न अधर्मः नः भविष्यति ॥ १८॥
evam eṣā ca gauḥ dharmam prāpsyate na atra saṃśayaḥ .. pitṝn abhyarcya dharmeṇa na adharmaḥ naḥ bhaviṣyati .. 18..
एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा ॥ पितृभ्यः कल्पयित्वा तु ह्युपायुंजत भारत ॥ १९॥
एवम् उक्ताः च ते सर्वे प्रोक्षयित्वा च गाम् तदा ॥ पितृभ्यः कल्पयित्वा तु हि उपायुंजत भारत ॥ १९॥
evam uktāḥ ca te sarve prokṣayitvā ca gām tadā .. pitṛbhyaḥ kalpayitvā tu hi upāyuṃjata bhārata .. 19..
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ॥ शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति ॥ 5.41.२०॥
उपयुज्य च गाम् सर्वे गुरोः तस्य न्यवेदयन् ॥ शार्दूलेन हता धेनुः वत्सा वै गृह्यताम् इति ॥ ५।४१।२०॥
upayujya ca gām sarve guroḥ tasya nyavedayan .. śārdūlena hatā dhenuḥ vatsā vai gṛhyatām iti .. 5.41.20..
आर्तवत्स तु तं वत्सं प्रतिजग्राह वै द्विजः॥मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम् ॥ २१॥
आर्त-वत्स तु तम् वत्सम् प्रतिजग्राह वै द्विजः॥मिथ्या उपचारतः पापम् अभूत् तेषाम् च गो-घ्न-ताम् ॥ २१॥
ārta-vatsa tu tam vatsam pratijagrāha vai dvijaḥ..mithyā upacārataḥ pāpam abhūt teṣām ca go-ghna-tām .. 21..
ततः कालेन कियता कालधर्ममुपागताः॥ते सप्त भ्रातरस्तात बभूवुस्स्वायुषःक्षये॥२२॥
ततस् कालेन कियता कालधर्मम् उपागताः॥ते सप्त भ्रातरः तात बभूवुः स्व-आयुषः क्षये॥२२॥
tatas kālena kiyatā kāladharmam upāgatāḥ..te sapta bhrātaraḥ tāta babhūvuḥ sva-āyuṣaḥ kṣaye..22..
ते वै क्रूरतया हैंस्त्र्यात्स्वानार्य्यत्वाद्गुरोस्तथा ॥ उग्रहिंसाविहाराश्च जातास्सप्त सहोदराः ॥ २३ ॥
ते वै क्रूर-तया हैंस्त्र्यात् स्व-अनार्य्य-त्वात् गुरोः तथा ॥ उग्र-हिंसा-विहाराः च जाताः सप्त सहोदराः ॥ २३ ॥
te vai krūra-tayā haiṃstryāt sva-anāryya-tvāt guroḥ tathā .. ugra-hiṃsā-vihārāḥ ca jātāḥ sapta sahodarāḥ .. 23 ..
लुब्धकस्य सुतास्तावद्बलवंतो मनस्विनः ॥ जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ २४॥
लुब्धकस्य सुताः तावत् बलवंतः मनस्विनः ॥ जाताः व्याधाः दशार्णेषु सप्त धर्म-विचक्षणाः ॥ २४॥
lubdhakasya sutāḥ tāvat balavaṃtaḥ manasvinaḥ .. jātāḥ vyādhāḥ daśārṇeṣu sapta dharma-vicakṣaṇāḥ .. 24..
स्वधर्मनिरतास्सर्वे मृगा मोहविवर्जिताः ॥ आसन्नुद्वेगसंविग्ना रम्ये कालंजरे गिरौ ॥ २५ ॥
स्वधर्म-निरताः सर्वे मृगाः मोह-विवर्जिताः ॥ आसन् उद्वेग-संविग्नाः रम्ये कालंजरे गिरौ ॥ २५ ॥
svadharma-niratāḥ sarve mṛgāḥ moha-vivarjitāḥ .. āsan udvega-saṃvignāḥ ramye kālaṃjare girau .. 25 ..
तमेवार्थमनुध्याय ज्ञानं मरणसंभवम् ॥ आसन्वनचराः क्षांता निर्द्वंद्वा निष्परिग्रहाः ॥ २६ ॥
तम् एव अर्थम् अनुध्याय ज्ञानम् मरण-संभवम् ॥ आसन्वन-चराः क्षांताः निर्द्वंद्वाः निष्परिग्रहाः ॥ २६ ॥
tam eva artham anudhyāya jñānam maraṇa-saṃbhavam .. āsanvana-carāḥ kṣāṃtāḥ nirdvaṃdvāḥ niṣparigrahāḥ .. 26 ..
ते सर्वे शुभकर्माणस्सद्धर्माणो वनेचराः ॥ विधर्माचरणैर्हीना जातिस्मरणसिद्धयः ॥ २७॥
ते सर्वे शुभ-कर्माणः सत्-धर्माणः वनेचराः ॥ विधर्म-आचरणैः हीनाः जाति-स्मरण-सिद्धयः ॥ २७॥
te sarve śubha-karmāṇaḥ sat-dharmāṇaḥ vanecarāḥ .. vidharma-ācaraṇaiḥ hīnāḥ jāti-smaraṇa-siddhayaḥ .. 27..
पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै ॥ तथैव चास्थिता बुद्धौ संसारेऽप्य निवर्तने ॥ २८॥
पूर्व-जातिषु यः धर्मः श्रुतः गुरु-कुलेषु वै ॥ तथा एव च आस्थिताः बुद्धौ संसारे अपि निवर्तने ॥ २८॥
pūrva-jātiṣu yaḥ dharmaḥ śrutaḥ guru-kuleṣu vai .. tathā eva ca āsthitāḥ buddhau saṃsāre api nivartane .. 28..
गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः ॥ तेषां तु पतितानां च यानि स्थानानि भारत ॥ २९ ॥
गिरि-मध्ये जहुः प्राणान् लब्ध-आहाराः तपस्विनः ॥ तेषाम् तु पतितानाम् च यानि स्थानानि भारत ॥ २९ ॥
giri-madhye jahuḥ prāṇān labdha-āhārāḥ tapasvinaḥ .. teṣām tu patitānām ca yāni sthānāni bhārata .. 29 ..
तथैवाद्यापि दृश्यंते गिरौ कालञ्जरे नृप ॥ कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः ॥ 5.41.३०॥
तथा एव अद्य अपि दृश्यंते गिरौ कालञ्जरे नृप ॥ कर्मणा तेन ते जाताः शुभ-अशुभ-विवर्जकाः ॥ ५।४१।३०॥
tathā eva adya api dṛśyaṃte girau kālañjare nṛpa .. karmaṇā tena te jātāḥ śubha-aśubha-vivarjakāḥ .. 5.41.30..
शुभाऽशुभतरां योनिं चक्रवाकत्वमागताः ॥ शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ॥ ३१ ॥
शुभ-अ शुभतराम् योनिम् चक्रवाक-त्वम् आगताः ॥ शुभे देशे शरद्वीपे सप्त एव आसन् जलौकसः ॥ ३१ ॥
śubha-a śubhatarām yonim cakravāka-tvam āgatāḥ .. śubhe deśe śaradvīpe sapta eva āsan jalaukasaḥ .. 31 ..
त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः ॥ निस्संगा निर्ममाश्शांता निर्द्वंद्वा निष्परिग्रहाः ॥ ३२ ॥
त्यक्त्वा सहचरी-धर्मम् मुनयः धर्म-धारिणः ॥ निस्संगाः निर्ममाः शांताः निर्द्वंद्वाः निष्परिग्रहाः ॥ ३२ ॥
tyaktvā sahacarī-dharmam munayaḥ dharma-dhāriṇaḥ .. nissaṃgāḥ nirmamāḥ śāṃtāḥ nirdvaṃdvāḥ niṣparigrahāḥ .. 32 ..
निवृत्तिनिर्वृताश्चैव शकुना नामतः स्मृताः ॥ ते ब्रह्मचारिणस्सर्वे शकुना धर्मधारिणः ॥ ३३॥
निवृत्ति-निर्वृताः च एव शकुनाः नामतः स्मृताः ॥ ते ब्रह्मचारिणः सर्वे शकुनाः धर्म-धारिणः ॥ ३३॥
nivṛtti-nirvṛtāḥ ca eva śakunāḥ nāmataḥ smṛtāḥ .. te brahmacāriṇaḥ sarve śakunāḥ dharma-dhāriṇaḥ .. 33..
जातिस्मरास्सुसंवृद्धास्सप्तैव ब्रह्मचारिणः॥स्थिता एकत्र सद्धर्मा विकाररहितास्सदा॥३४॥
जातिस्मराः सु संवृद्धाः सप्त एव ब्रह्मचारिणः॥स्थिताः एकत्र सद्धर्माः विकार-रहिताः सदा॥३४॥
jātismarāḥ su saṃvṛddhāḥ sapta eva brahmacāriṇaḥ..sthitāḥ ekatra saddharmāḥ vikāra-rahitāḥ sadā..34..
विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ॥तिर्य्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे॥३५॥
विप्र-योनौ तु यत् मोहात् मिथ्या अपचरितम् गुरौ॥तिर्य्यग्योनौ तथा जन्म श्राद्धात् ज्ञानम् च लेभिरे॥३५॥
vipra-yonau tu yat mohāt mithyā apacaritam gurau..tiryyagyonau tathā janma śrāddhāt jñānam ca lebhire..35..
तथा तु पितृकार्य्यार्थं कृतं श्राद्धं व्यवस्थितैः॥तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम्॥३६॥
तथा तु पितृ-कार्य्य-अर्थम् कृतम् श्राद्धम् व्यवस्थितैः॥तदा ज्ञानम् च जातिम् च क्रमात् प्राप्तम् गुण-उत्तरम्॥३६॥
tathā tu pitṛ-kāryya-artham kṛtam śrāddham vyavasthitaiḥ..tadā jñānam ca jātim ca kramāt prāptam guṇa-uttaram..36..
पूर्वजादिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ॥ तथैव संस्थितज्ञानं तस्माज्ज्ञानं समभ्यसेत् ॥ ३७ ॥
पूर्वज-आदिषु यत् ब्रह्म श्रुतम् गुरु-कुलेषु वै ॥ तथा एव संस्थित-ज्ञानम् तस्मात् ज्ञानम् समभ्यसेत् ॥ ३७ ॥
pūrvaja-ādiṣu yat brahma śrutam guru-kuleṣu vai .. tathā eva saṃsthita-jñānam tasmāt jñānam samabhyaset .. 37 ..
सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः ॥ स्वतंत्रश्च सुयज्ञश्च कुलीना नामतः स्मृताः ॥ ३८॥
सुमनाः च सुवाच् शुद्धः पञ्चमः छिद्रदर्शकः ॥ स्वतंत्रः च सुयज्ञः च कुलीनाः नामतः स्मृताः ॥ ३८॥
sumanāḥ ca suvāc śuddhaḥ pañcamaḥ chidradarśakaḥ .. svataṃtraḥ ca suyajñaḥ ca kulīnāḥ nāmataḥ smṛtāḥ .. 38..
तेषां तत्र विहंगानां चरतां धर्मचारिणाम् ॥ सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने॥३९॥
तेषाम् तत्र विहंगानाम् चरताम् धर्म-चारिणाम् ॥ सु वृत्तम् अभवत् तत्र तत् शृणुष्व महा-मुने॥३९॥
teṣām tatra vihaṃgānām caratām dharma-cāriṇām .. su vṛttam abhavat tatra tat śṛṇuṣva mahā-mune..39..
नीपानामीश्वरो राजा प्रभावेण समन्वितः॥श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह ॥ 5.41.४० ॥
नीपानाम् ईश्वरः राजा प्रभावेण समन्वितः॥श्रीमान् अन्तःपुर-वृतः वनम् तत्र आविवेश ह ॥ ५।४१।४० ॥
nīpānām īśvaraḥ rājā prabhāveṇa samanvitaḥ..śrīmān antaḥpura-vṛtaḥ vanam tatra āviveśa ha .. 5.41.40 ..
स्वतंत्रश्चक्रवाकस्सस्पृहयामास तं नृपम्॥दृष्ट्वा यांतं सुखोपेतं राज्यशोभासमन्वितम् ॥ ४१॥
स्वतंत्रः चक्रवाकः सस्पृहयामास तम् नृपम्॥दृष्ट्वा यांतम् सुख-उपेतम् राज्य-शोभा-समन्वितम् ॥ ४१॥
svataṃtraḥ cakravākaḥ saspṛhayāmāsa tam nṛpam..dṛṣṭvā yāṃtam sukha-upetam rājya-śobhā-samanvitam .. 41..
यद्यस्ति सुकृतं किंचित्तपो वा नियमोऽपि वा॥खिन्नोहमुपवासेन तपसा निश्चलेन च ॥ ४२ ॥
यदि अस्ति सु कृतम् किंचिद् तपः वा नियमः अपि वा॥खिन्ना ऊहम् उपवासेन तपसा निश्चलेन च ॥ ४२ ॥
yadi asti su kṛtam kiṃcid tapaḥ vā niyamaḥ api vā..khinnā ūham upavāsena tapasā niścalena ca .. 42 ..
तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि ॥ सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः ॥ ४३॥।
तस्य सर्वस्य पूर्णेन फलेन अपि कृतेन हि ॥ सर्व-सौभाग्य-पात्रः च भवेयम् अहम् ईदृशः ॥ ४३॥।
tasya sarvasya pūrṇena phalena api kṛtena hi .. sarva-saubhāgya-pātraḥ ca bhaveyam aham īdṛśaḥ .. 43...
मार्कण्डेय उवाच ।।
ततस्तु चक्रवाकौ द्वावासतुस्सहचारिणौ॥आवां वै सचिवौ स्याव तव प्रियहितैषिणौ ॥ ४४॥
ततस् तु चक्रवाकौ द्वौ आसतुः सहचारिणौ॥आवाम् वै सचिवौ स्याव तव प्रिय-हित-एषिणौ ॥ ४४॥
tatas tu cakravākau dvau āsatuḥ sahacāriṇau..āvām vai sacivau syāva tava priya-hita-eṣiṇau .. 44..
तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः ॥ एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम् ॥ ४५ ॥
तथा इति उक्त्वा तु तस्य आसीत् तदा योग-आत्मनः गतिः ॥ एवम् तौ चक्रवाकौ च स्व-वाक्यम् प्रत्यभाषताम् ॥ ४५ ॥
tathā iti uktvā tu tasya āsīt tadā yoga-ātmanaḥ gatiḥ .. evam tau cakravākau ca sva-vākyam pratyabhāṣatām .. 45 ..
यस्मात्कर्मब्रुवाणस्वं योगधर्ममवाप्य तम्॥एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे॥४६॥
यस्मात् कर्म-ब्रुवाण-स्वम् योग-धर्मम् अवाप्य तम्॥एवम् वरम् प्रार्थयसे तस्मात् वाक्यम् निबोध मे॥४६॥
yasmāt karma-bruvāṇa-svam yoga-dharmam avāpya tam..evam varam prārthayase tasmāt vākyam nibodha me..46..
राजा त्वं भविता तात कांपिल्ये नगरोत्तमे॥एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ॥४७॥
राजा त्वम् भविता तात कांपिल्ये नगर-उत्तमे॥एतौ ते सचिवौ स्याताम् व्यभिचार-प्रधर्षितौ॥४७॥
rājā tvam bhavitā tāta kāṃpilye nagara-uttame..etau te sacivau syātām vyabhicāra-pradharṣitau..47..
न तानूचुस्त्रयो राज्यं चतुरस्सहचारिणः॥सप्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत्॥४८॥
न तान् ऊचुः त्रयः राज्यम् चतुरः सहचारिणः॥स प्रसादम् पुनर् चक्रे तद्-मध्ये सुमनाः ब्रवीत्॥४८॥
na tān ūcuḥ trayaḥ rājyam caturaḥ sahacāriṇaḥ..sa prasādam punar cakre tad-madhye sumanāḥ bravīt..48..
अंतर्वो भविता शापः पुनर्योगमवाप्स्यथ॥सर्वसत्त्वः सुयज्ञश्च स्वतंत्रोऽयं भविष्यति॥४९॥
अंतर् वः भविता शापः पुनर् योगम् अवाप्स्यथ॥सर्व-सत्त्वः सु यज्ञः च स्वतंत्रः अयम् भविष्यति॥४९॥
aṃtar vaḥ bhavitā śāpaḥ punar yogam avāpsyatha..sarva-sattvaḥ su yajñaḥ ca svataṃtraḥ ayam bhaviṣyati..49..
पितृप्रसादाद्युष्माभिस्संप्राप्तं सुकृतं भवेत्॥गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः॥5.41.५०॥
पितृ-प्रसादात् युष्माभिः संप्राप्तम् सुकृतम् भवेत्॥गाम् प्रोक्षयित्वा धर्मेण पितृभ्यः च उपकल्पिताः॥५।४१।५०॥
pitṛ-prasādāt yuṣmābhiḥ saṃprāptam sukṛtam bhavet..gām prokṣayitvā dharmeṇa pitṛbhyaḥ ca upakalpitāḥ..5.41.50..
अस्माकं ज्ञानसंयोगस्सर्वेषां योगसाधनम्॥इदं च कार्यं संरब्धं श्लोकमेकमुदाहृतम्॥५१॥
अस्माकम् ज्ञान-संयोगः सर्वेषाम् योग-साधनम्॥इदम् च कार्यम् संरब्धम् श्लोकम् एकम् उदाहृतम्॥५१॥
asmākam jñāna-saṃyogaḥ sarveṣām yoga-sādhanam..idam ca kāryam saṃrabdham ślokam ekam udāhṛtam..51..
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ॥इत्युक्त्वा स तु मौनोभूद्विहंगस्सुमना बुधः॥५२॥
पुरुष-अन्तरितम् श्रुत्वा ततस् योगम् अवाप्स्यथ॥इति उक्त्वा स तु मौनः भूत् विहंगः सुमनाः बुधः॥५२॥
puruṣa-antaritam śrutvā tatas yogam avāpsyatha..iti uktvā sa tu maunaḥ bhūt vihaṃgaḥ sumanāḥ budhaḥ..52..
मार्कण्डेय उवाच।।
लोकानां स्वस्तये तात शन्तनुप्रवरात्मज॥इत्युक्तं तच्चरित्रं मे किं भूयश्श्रोतुमिच्छसि॥५३॥
लोकानाम् स्वस्तये तात शन्तनु-प्रवर-आत्मज॥इति उक्तम् तत् चरित्रम् मे किम् भूयस् श्रोतुम् इच्छसि॥५३॥
lokānām svastaye tāta śantanu-pravara-ātmaja..iti uktam tat caritram me kim bhūyas śrotum icchasi..53..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगति वर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् पितृसर्गवर्णनम् सप्तव्याधगति वर्णनम् नाम एकचत्वारिंशः अध्यायः ॥ ४१॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām pitṛsargavarṇanam saptavyādhagati varṇanam nāma ekacatvāriṃśaḥ adhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In