| |
|

This overlay will guide you through the buttons:

भीष्म उवाच।।
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ॥ किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम ॥ १ ॥
मार्कण्डेय महा-प्राज्ञ पितृ-भक्ति-भृताम् वर ॥ किम् जातम् तु ततस् ब्रूहि कृपया मुनि-सत्तम ॥ १ ॥
mārkaṇḍeya mahā-prājña pitṛ-bhakti-bhṛtām vara .. kim jātam tu tatas brūhi kṛpayā muni-sattama .. 1 ..
मार्कण्डेय उवाच ।।
ते धर्मयोगनिरतास्सप्त मानसचारिणः ॥ वाय्वंबुभक्षास्सततं शरीरमुपशोषयन् ॥ २ ॥
ते धर्म-योग-निरताः सप्त मानस-चारिणः ॥ वायु-अंबु-भक्षाः सततम् शरीरम् उपशोषयन् ॥ २ ॥
te dharma-yoga-niratāḥ sapta mānasa-cāriṇaḥ .. vāyu-aṃbu-bhakṣāḥ satatam śarīram upaśoṣayan .. 2 ..
स राजांतःपुरवृतो नन्दने मघवा इव ॥ क्रीडित्वा सुचिरं तत्र सभार्य्यस्स्वपुरं ययौ ॥ ३ ॥
स राज-अंतःपुर-वृतः नन्दने मघवा इव ॥ क्रीडित्वा सु चिरम् तत्र स भार्यः स्व-पुरम् ययौ ॥ ३ ॥
sa rāja-aṃtaḥpura-vṛtaḥ nandane maghavā iva .. krīḍitvā su ciram tatra sa bhāryaḥ sva-puram yayau .. 3 ..
अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः॥तं वैभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ॥४॥
अनूहः नाम तस्य आसीत् पुत्रः परम-धार्मिकः॥तम् वैभ्राजः सुतम् राज्ये स्थापयित्वा वनम् ययौ॥४॥
anūhaḥ nāma tasya āsīt putraḥ parama-dhārmikaḥ..tam vaibhrājaḥ sutam rājye sthāpayitvā vanam yayau..4..
तपः कर्तुं समारेभे यत्र ते सहचारिणः॥स वै तत्र निराहारो वायुभक्षो महातपाः ॥ ५॥
तपः कर्तुम् समारेभे यत्र ते सहचारिणः॥स वै तत्र निराहारः वायुभक्षः महा-तपाः ॥ ५॥
tapaḥ kartum samārebhe yatra te sahacāriṇaḥ..sa vai tatra nirāhāraḥ vāyubhakṣaḥ mahā-tapāḥ .. 5..
ततो विभ्राजितं तेन विभ्राजं नाम तद्वनम्॥बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम् ॥ ६॥
ततस् विभ्राजितम् तेन विभ्राजम् नाम तत् वनम्॥बभूव सु प्रसिद्धम् हि योग-सिद्धि-प्रदायकम् ॥ ६॥
tatas vibhrājitam tena vibhrājam nāma tat vanam..babhūva su prasiddham hi yoga-siddhi-pradāyakam .. 6..
तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ॥ योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन् ॥ ७ ॥
तत्र एव ते हि शकुनाः चत्वारः योग-धर्मिणः ॥ योग-भ्रष्टाः त्रयः च एव देहत्याग-कृतः अभवन् ॥ ७ ॥
tatra eva te hi śakunāḥ catvāraḥ yoga-dharmiṇaḥ .. yoga-bhraṣṭāḥ trayaḥ ca eva dehatyāga-kṛtaḥ abhavan .. 7 ..
कांपिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ॥ जातास्सप्तमहात्मानस्सर्वे विगतकल्मषाः ॥ ।५ ॥
कांपिल्ये नगरे ते तु ब्रह्मदत्त-पुरोगमाः ॥ जाताः सप्त-महात्मानः सर्वे विगत-कल्मषाः ॥ ।५ ॥
kāṃpilye nagare te tu brahmadatta-purogamāḥ .. jātāḥ sapta-mahātmānaḥ sarve vigata-kalmaṣāḥ .. .5 ..
स्मृतिमंतोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ॥ स्वतन्त्रस्याह्वयो जातो ब्रह्मदत्तो महौजसः॥९॥
स्मृतिमन्तः अत्र चत्वारः त्रयः तु परिमोहिताः ॥ स्वतन्त्रस्य आह्वयः जातः ब्रह्मदत्तः महा-ओजसः॥९॥
smṛtimantaḥ atra catvāraḥ trayaḥ tu parimohitāḥ .. svatantrasya āhvayaḥ jātaḥ brahmadattaḥ mahā-ojasaḥ..9..
छिद्रदर्शी सुनेत्रस्तु वेदवेदांगपारगौ ॥ जातौ श्रोत्रियदायादौ पूर्वजातिसहाषितौ॥ 5.42.१०॥
छिद्रदर्शी सुनेत्रः तु वेद-वेदांग-पारगौ ॥ जातौ श्रोत्रिय-दायादौ पूर्व-जाति-सह आषितौ॥ ५।४२।१०॥
chidradarśī sunetraḥ tu veda-vedāṃga-pāragau .. jātau śrotriya-dāyādau pūrva-jāti-saha āṣitau.. 5.42.10..
पंचालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह॥द्विवेदः पुंडरीकश्च छंदोगोऽध्वर्युरेव च ॥ ११॥
पंचालः बह्वृचः तु आसीत् आचार्य-त्वम् चकार ह॥द्वि-वेदः पुंडरीकः च छंदोगः अध्वर्युः एव च ॥ ११॥
paṃcālaḥ bahvṛcaḥ tu āsīt ācārya-tvam cakāra ha..dvi-vedaḥ puṃḍarīkaḥ ca chaṃdogaḥ adhvaryuḥ eva ca .. 11..
ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ॥ अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान्॥१२॥
ततस् राजा सुतम् दृष्ट्वा ब्रह्मदत्तम् अकल्मषम् ॥ अभिषिच्य स्व-राज्ये तु पराम् गतिम् अवाप्तवान्॥१२॥
tatas rājā sutam dṛṣṭvā brahmadattam akalmaṣam .. abhiṣicya sva-rājye tu parām gatim avāptavān..12..
पंचालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ॥ विविशतुर्वनं तत्र गतौ परमिकां गतिम्॥१३॥
पंचालः पुण्डरीकः तु पुत्रौ संस्थाप्य मन्दिरे ॥ विविशतुः वनम् तत्र गतौ परमिकाम् गतिम्॥१३॥
paṃcālaḥ puṇḍarīkaḥ tu putrau saṃsthāpya mandire .. viviśatuḥ vanam tatra gatau paramikām gatim..13..
ब्रह्मदत्तस्य भार्य्या तु सन्नितिर्माम भारत ॥ सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु ॥ १४॥
ब्रह्मदत्तस्य भार्य्या तु सन्नितिः माम भारत ॥ सा तु एक-भाव-संयुक्ता रेमे भर्त्रा सह एव तु ॥ १४॥
brahmadattasya bhāryyā tu sannitiḥ māma bhārata .. sā tu eka-bhāva-saṃyuktā reme bhartrā saha eva tu .. 14..
शेषास्तु चक्रवाका वै कांपिल्ये सहचारिणः ॥ जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप ॥ १५ ॥
शेषाः तु चक्रवाकाः वै कांपिल्ये सहचारिणः ॥ जाताः श्रोत्रिय-दायादाः दरिद्रस्य कुले नृप ॥ १५ ॥
śeṣāḥ tu cakravākāḥ vai kāṃpilye sahacāriṇaḥ .. jātāḥ śrotriya-dāyādāḥ daridrasya kule nṛpa .. 15 ..
धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ॥ वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः ॥ १६॥
धृतिमान् सु महात्मा च तत्त्व-दर्शीम् निरुत्सुकः ॥ वेद-अध्ययन-सम्पन्नाः चत्वारः छिद्र-दर्शिनः ॥ १६॥
dhṛtimān su mahātmā ca tattva-darśīm nirutsukaḥ .. veda-adhyayana-sampannāḥ catvāraḥ chidra-darśinaḥ .. 16..
ते योगनिरतास्सिद्धाः प्रस्थितास्सर्व एव हि॥आमंत्र्य च मिथः शंभोः पदाम्भोजं प्रणम्य तु॥१७॥
ते योग-निरताः सिद्धाः प्रस्थिताः सर्वे एव हि॥आमंत्र्य च मिथस् शंभोः पद-अम्भोजम् प्रणम्य तु॥१७॥
te yoga-niratāḥ siddhāḥ prasthitāḥ sarve eva hi..āmaṃtrya ca mithas śaṃbhoḥ pada-ambhojam praṇamya tu..17..
शूरा ये सम्प्रपद्यन्ते अपुनर्भवकांक्षिणः ॥ पापम्प्रणाशयन्त्वद्य तच्छम्भोः परमम्पदम्॥१८॥
शूराः ये सम्प्रपद्यन्ते अपुनर्भव-कांक्षिणः ॥ पापम् प्रणाशयन्तु अद्य तत् शम्भोः परमम् पदम्॥१८॥
śūrāḥ ye samprapadyante apunarbhava-kāṃkṣiṇaḥ .. pāpam praṇāśayantu adya tat śambhoḥ paramam padam..18..
शारीरे मानसे चैव पापे वाग्जे महामुने ॥ कृते सम्यगिदम्भक्त्या पठेच्छ्रद्धासमन्वितः॥१९॥
शारीरे मानसे च एव पापे वाच्-जे महा-मुने ॥ कृते सम्यक् इदम् भक्त्या पठेत् श्रद्धा-समन्वितः॥१९॥
śārīre mānase ca eva pāpe vāc-je mahā-mune .. kṛte samyak idam bhaktyā paṭhet śraddhā-samanvitaḥ..19..
मुच्यते सर्वपापेभ्यश्शिवनामानुकीर्तनात् ॥ उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै ॥ 5.42.२० ॥
मुच्यते सर्व-पापेभ्यः शिव-नाम-अनुकीर्तनात् ॥ उच्चार्यमाणे एतस्मिन् देवदेवस्य तस्य वै ॥ ५।४२।२० ॥
mucyate sarva-pāpebhyaḥ śiva-nāma-anukīrtanāt .. uccāryamāṇe etasmin devadevasya tasya vai .. 5.42.20 ..
विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ॥ तस्मात्तत्संचिते पापे समनंतरमेव च ॥ २१॥
विलयम् पापम् आयाति हि आम-भाण्डम् इव अम्भसि ॥ तस्मात् तद्-संचिते पापे समनंतरम् एव च ॥ २१॥
vilayam pāpam āyāti hi āma-bhāṇḍam iva ambhasi .. tasmāt tad-saṃcite pāpe samanaṃtaram eva ca .. 21..
जप्तव्यमेतत्पापस्य प्रशमाय महामुने ॥ नरैः श्रद्धालुभिभूर्यस्सर्वकामफलाप्तये ॥ २२ ॥
जप्तव्यम् एतत् पापस्य प्रशमाय महा-मुने ॥ नरैः ॥ २२ ॥
japtavyam etat pāpasya praśamāya mahā-mune .. naraiḥ .. 22 ..
पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ॥ मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः ॥ २३ ॥
पुष्टि-अर्थम् इमम् अध्यायम् पठेत् एनम् शृणोति वा ॥ मुच्यते सर्व-पापेभ्यः मोक्षम् याति न संशयः ॥ २३ ॥
puṣṭi-artham imam adhyāyam paṭhet enam śṛṇoti vā .. mucyate sarva-pāpebhyaḥ mokṣam yāti na saṃśayaḥ .. 23 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् पितृकल्पे पितृभाववर्णनम् नाम द्विचत्वारिंशः अध्यायः ॥ ४२ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām pitṛkalpe pitṛbhāvavarṇanam nāma dvicatvāriṃśaḥ adhyāyaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In