| |
|

This overlay will guide you through the buttons:

शौनक उवाच ।।
आचार्य्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ॥ ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥ १ ॥
आचार्य्य-पूजनम् ब्रूहि सूत व्यास-गुरो अधुना ॥ ग्रन्थस्य श्रवण-अन्ते हि किम् कर्तव्यम् तत् अपि अहो ॥ १ ॥
ācāryya-pūjanam brūhi sūta vyāsa-guro adhunā .. granthasya śravaṇa-ante hi kim kartavyam tat api aho .. 1 ..
सूत उवाच ।।
पूजयेद्विधिवद्भक्त्याचार्य्यं श्रुत्वा कथां पराम् ॥ ग्रन्थान्ते विधिवद्दद्यादाचार्य्याय प्रसन्नधीः ॥ २॥
पूजयेत् विधिवत् भक्त्या आचार्य्यम् श्रुत्वा कथाम् पराम् ॥ ग्रन्थ-अन्ते विधिवत् दद्यात् आचार्य्याय प्रसन्न-धीः ॥ २॥
pūjayet vidhivat bhaktyā ācāryyam śrutvā kathām parām .. grantha-ante vidhivat dadyāt ācāryyāya prasanna-dhīḥ .. 2..
ततो वक्तारमानम्य संपूज्य च यथाविधि ॥ भूषणैर्हस्तकर्णानां वस्त्रैस्सौम्यादिभिस्सुधीः ॥ ३॥
ततस् वक्तारम् आनम्य संपूज्य च यथाविधि ॥ भूषणैः हस्त-कर्णानाम् वस्त्रैः सौम्य-आदिभिः सुधीः ॥ ३॥
tatas vaktāram ānamya saṃpūjya ca yathāvidhi .. bhūṣaṇaiḥ hasta-karṇānām vastraiḥ saumya-ādibhiḥ sudhīḥ .. 3..
शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ॥ कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥ ४ ॥
शिव-पूजा-समाप्तौ तु दद्यात् धेनुम् स वत्सिकाम् ॥ कृत्वा आसनम् सुवर्णस्य पल-मानस्य स अम्बरम् ॥ ४ ॥
śiva-pūjā-samāptau tu dadyāt dhenum sa vatsikām .. kṛtvā āsanam suvarṇasya pala-mānasya sa ambaram .. 4 ..
तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ॥ आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥ ५ ॥
तत्र आस्थाप्य शुभम् ग्रंथम् लिखितम् ललित-अक्षरैः ॥ आचार्याय सुधीः दद्यात् मुक्तः स्यात् भव-बन्धनैः ॥ ५ ॥
tatra āsthāpya śubham graṃtham likhitam lalita-akṣaraiḥ .. ācāryāya sudhīḥ dadyāt muktaḥ syāt bhava-bandhanaiḥ .. 5 ..
ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ॥ मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६ ॥
ग्रामः गजः हयः च अपि यथाशक्ति अपराणि च ॥ मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६ ॥
grāmaḥ gajaḥ hayaḥ ca api yathāśakti aparāṇi ca .. mune sarvāṇi deyāni vācakāya mahātmane .. 6 ..
विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ॥ पुराणं शौनकमुने सत्यमेवोदितं मया ॥ ७ ॥
विधान-सहितम् सम्यक् शतम् हि सफलम् स्मृतम् ॥ पुराणम् शौनक-मुने सत्यम् एव उदितम् मया ॥ ७ ॥
vidhāna-sahitam samyak śatam hi saphalam smṛtam .. purāṇam śaunaka-mune satyam eva uditam mayā .. 7 ..
तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने ॥ पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥ ८ ॥
तस्मात् विधान-दुक्तम् तु शृणुयात् भक्तितः मुने ॥ पुराणम् निगम-अर्थ-आढ्यम् पुण्य-दम् हृदयम् श्रुतेः ॥ ८ ॥
tasmāt vidhāna-duktam tu śṛṇuyāt bhaktitaḥ mune .. purāṇam nigama-artha-āḍhyam puṇya-dam hṛdayam śruteḥ .. 8 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितातायाम् व्यासपूजनप्रकारः नाम त्रिचत्वारिंशः अध्यायः ॥ ४३॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitātāyām vyāsapūjanaprakāraḥ nāma tricatvāriṃśaḥ adhyāyaḥ .. 43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In