| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः।।
व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे ॥ कृपया परया स्वामिन्कृतार्थान्निष्कुरु प्रभो ॥ १ ॥
व्यास-उत्पत्तिम् महाबुद्धे ब्रूहि सूत दया-निधे ॥ कृपया परया स्वामिन् कृतार्थान् निष्कुरु प्रभो ॥ १ ॥
vyāsa-utpattim mahābuddhe brūhi sūta dayā-nidhe .. kṛpayā parayā svāmin kṛtārthān niṣkuru prabho .. 1 ..
व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ॥ विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥ २ ॥
व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ॥ विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥ २ ॥
vyāsasya jananī proktā nāmnā satyavatī śubhā .. vivāhitā tu sā devī rājñā śantanunā kila .. 2 ..
तस्यां जातो महायोगी कथं व्यासः पराशरात् ॥ सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ॥ ३ ॥
तस्याम् जातः महा-योगी कथम् व्यासः पराशरात् ॥ सन्देहः अत्र महान् जातः तम् भवान् छेत्तुम् अर्हति ॥ ३ ॥
tasyām jātaḥ mahā-yogī katham vyāsaḥ parāśarāt .. sandehaḥ atra mahān jātaḥ tam bhavān chettum arhati .. 3 ..
सूत उवाच ।।
एकदा तीर्थयात्रायां व्रजन्योगी पराशरः ॥ यदृच्छया गतो रम्यं यमुनायास्तटं शुभम् ॥ ४ ॥
एकदा तीर्थ-यात्रायाम् व्रजन् योगी पराशरः ॥ यदृच्छया गतः रम्यम् यमुनायाः तटम् शुभम् ॥ ४ ॥
ekadā tīrtha-yātrāyām vrajan yogī parāśaraḥ .. yadṛcchayā gataḥ ramyam yamunāyāḥ taṭam śubham .. 4 ..
निषादमाह धर्मात्मा कुर्वन्तं भोजनन्तदा ॥ नयस्व यमुनापारं जलयानेन मामरम् ॥ ५ ॥
निषादम् आह धर्म-आत्मा कुर्वन्तम् भोजनम् तदा ॥ नयस्व यमुना-पारम् जलयानेन मा अमरम् ॥ ५ ॥
niṣādam āha dharma-ātmā kurvantam bhojanam tadā .. nayasva yamunā-pāram jalayānena mā amaram .. 5 ..
इत्युक्तो मुनिना तेन निषादस्स्वसुतां जगौ ॥ मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ॥ ६ ॥
इति उक्तः मुनिना तेन निषादः स्व-सुताम् जगौ ॥ मत्स्य-गन्धाम् अमुम् बाले पारम् नावा नय द्रुतम् ॥ ६ ॥
iti uktaḥ muninā tena niṣādaḥ sva-sutām jagau .. matsya-gandhām amum bāle pāram nāvā naya drutam .. 6 ..
तापसोऽयं महाभागे दृश्यन्तीगर्भसंभवः ॥ तितीर्षुरस्ति मर्धाब्धिश्चतुराम्नायपारगः॥७॥
तापसः अयम् महाभागे दृश्यन्ती-गर्भ-संभवः ॥ तितीर्षुः अस्ति मर्धाब्धिः चतुर्-आम्नाय-पारगः॥७॥
tāpasaḥ ayam mahābhāge dṛśyantī-garbha-saṃbhavaḥ .. titīrṣuḥ asti mardhābdhiḥ catur-āmnāya-pāragaḥ..7..
इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम्॥संवाहयति नौकायामासीनं सूर्य्यरोचिषम् ॥ ८ ॥
इति विज्ञापिता पित्रा मत्स्यगन्धा महा-मुनिम्॥संवाहयति नौकायाम् आसीनम् सूर्य-रोचिषम् ॥ ८ ॥
iti vijñāpitā pitrā matsyagandhā mahā-munim..saṃvāhayati naukāyām āsīnam sūrya-rociṣam .. 8 ..
कालयोगान्महायोगी तस्यां कामातुरोऽभवत् ॥ दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ॥ ९ ॥
काल-योगात् महा-योगी तस्याम् काम-आतुरः अभवत् ॥ दृष्ट्वा यः अप्सरसाम् रूपम् न कदापि विमोहितः ॥ ९ ॥
kāla-yogāt mahā-yogī tasyām kāma-āturaḥ abhavat .. dṛṣṭvā yaḥ apsarasām rūpam na kadāpi vimohitaḥ .. 9 ..
ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् ॥ दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे॥5.44.१०॥
ग्रहीतु-कामः स मुनिः दाश-कन्याम् मनोहराम् ॥ दक्षिणेन करेण एताम् अस्पृशत् दक्षिणे करे॥५।४४।१०॥
grahītu-kāmaḥ sa muniḥ dāśa-kanyām manoharām .. dakṣiṇena kareṇa etām aspṛśat dakṣiṇe kare..5.44.10..
तमुवाच विशालाक्षीं वचनं स्मितपूर्वकम् ॥ किमिदं क्रियये कर्म वाचंयम विगर्हितम् ॥ ११॥
तम् उवाच विशाल-अक्षीम् वचनम् स्मित-पूर्वकम् ॥ किम् इदम् क्रियये कर्म वाचंयम विगर्हितम् ॥ ११॥
tam uvāca viśāla-akṣīm vacanam smita-pūrvakam .. kim idam kriyaye karma vācaṃyama vigarhitam .. 11..
वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते ॥ निषादजा त्वहम्ब्रह्मन्कथं संगो घटेत नौ ॥ १२ ॥
वसिष्ठस्य कुले रम्ये त्वम् जातः असि महामते ॥ निषाद-जा तु अहम् ब्रह्मन् कथम् संगः घटेत नौ ॥ १२ ॥
vasiṣṭhasya kule ramye tvam jātaḥ asi mahāmate .. niṣāda-jā tu aham brahman katham saṃgaḥ ghaṭeta nau .. 12 ..
दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः ॥ तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ॥ १३ ॥
दुर्लभम् मानुषम् जन्म ब्राह्मण-त्वम् विशेषतः ॥ तत्र अपि तापस-त्वम् च दुर्लभम् मुनि-सत्तम ॥ १३ ॥
durlabham mānuṣam janma brāhmaṇa-tvam viśeṣataḥ .. tatra api tāpasa-tvam ca durlabham muni-sattama .. 13 ..
विद्यया वपुषा वाचा कुलशीलेन चान्वितः ॥ कामबाणवशं यातो महदाश्चर्यमत्र हि ॥ १४ ॥
विद्यया वपुषा वाचा कुल-शीलेन च अन्वितः ॥ काम-बाण-वशम् यातः महत् आश्चर्यम् अत्र हि ॥ १४ ॥
vidyayā vapuṣā vācā kula-śīlena ca anvitaḥ .. kāma-bāṇa-vaśam yātaḥ mahat āścaryam atra hi .. 14 ..
प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह ॥ भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ॥ १५ ॥
प्रवृत्तम् अपि असत्-कर्म कर्तुम् एनम् न कः अपि ह ॥ भुवि वारयितुम् शक्तः शाप-भीत्या अस्य योगिनः ॥ १५ ॥
pravṛttam api asat-karma kartum enam na kaḥ api ha .. bhuvi vārayitum śaktaḥ śāpa-bhītyā asya yoginaḥ .. 15 ..
इति संचिन्त्य हृदये निजगाद महामुनिम् ॥ तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न॥१६॥
इति संचिन्त्य हृदये निजगाद महा-मुनिम् ॥ तावत् धैर्यम् कुरु स्वामिनि यावत् त्वाम् पारयामि न॥१६॥
iti saṃcintya hṛdaye nijagāda mahā-munim .. tāvat dhairyam kuru svāmini yāvat tvām pārayāmi na..16..
सूत उवाच ।।
इति श्रुत्वा वचस्तस्या योगिराजः पराशरः ॥ तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ॥ १७ ॥
इति श्रुत्वा वचः तस्याः योगि-राजः पराशरः ॥ तत्याज पाणिम् तरसा सिन्धोः पारम् गतः पुनर् ॥ १७ ॥
iti śrutvā vacaḥ tasyāḥ yogi-rājaḥ parāśaraḥ .. tatyāja pāṇim tarasā sindhoḥ pāram gataḥ punar .. 17 ..
पुनर्जग्राह तां बालां मुनिं कामप्रपीडितः ॥ कंपमाना तु सा बाला तमुवाच दयानिधिम् ॥ १८ ॥
पुनर् जग्राह ताम् बालाम् मुनिम् काम-प्रपीडितः ॥ कंपमाना तु सा बाला तम् उवाच दया-निधिम् ॥ १८ ॥
punar jagrāha tām bālām munim kāma-prapīḍitaḥ .. kaṃpamānā tu sā bālā tam uvāca dayā-nidhim .. 18 ..
दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा ॥ भवांस्तु परमोदारविचारो योगिसत्तमः ॥ १९ ॥
दुर्गन्धा अहम् मुनि-श्रेष्ठ कृष्ण-वर्णा निषाद-जा ॥ भवान् तु परम-उदार-विचारः योगि-सत्तमः ॥ १९ ॥
durgandhā aham muni-śreṣṭha kṛṣṇa-varṇā niṣāda-jā .. bhavān tu parama-udāra-vicāraḥ yogi-sattamaḥ .. 19 ..
नावयोर्घटते सङ्गो काचकांचनयोरिव ॥ तुल्यजात्याकृतिकयोः संगः सौख्यप्रदो भवेत् ॥ 5.44.२० ॥
न आवयोः घटते सङ्गो काच-कांचनयोः इव ॥ तुल्य-जाति-आकृतिकयोः संगः सौख्य-प्रदः भवेत् ॥ ५।४४।२० ॥
na āvayoḥ ghaṭate saṅgo kāca-kāṃcanayoḥ iva .. tulya-jāti-ākṛtikayoḥ saṃgaḥ saukhya-pradaḥ bhavet .. 5.44.20 ..
इत्युक्तेन तया तेन क्षणमात्रेण कामिनी ॥ कृता योजनगंधा तु रम्यरूपा मनोरमा ॥ २१ ॥
इति उक्तेन तया तेन क्षण-मात्रेण कामिनी ॥ कृता योजन-गंधा तु रम्य-रूपा मनोरमा ॥ २१ ॥
iti uktena tayā tena kṣaṇa-mātreṇa kāminī .. kṛtā yojana-gaṃdhā tu ramya-rūpā manoramā .. 21 ..
पुनर्जग्राह तां बालां स मुनिः कामपीडितः ॥ ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ॥ २२ ॥
पुनर् जग्राह ताम् बालाम् स मुनिः काम-पीडितः ॥ ग्रहीतु-कामम् तम् दृष्ट्वा पुनर् प्रोवाच वासवी ॥ २२ ॥
punar jagrāha tām bālām sa muniḥ kāma-pīḍitaḥ .. grahītu-kāmam tam dṛṣṭvā punar provāca vāsavī .. 22 ..
रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ॥दिवासंगे महान्दोषो निन्दा चापि दुरासदा ॥ २३ ॥
रात्रौ व्यवायः कर्तव्यः न दिवा इति श्रुतिः जगौ॥दिवासंगे महान् दोषः निन्दा च अपि दुरासदा ॥ २३ ॥
rātrau vyavāyaḥ kartavyaḥ na divā iti śrutiḥ jagau..divāsaṃge mahān doṣaḥ nindā ca api durāsadā .. 23 ..
तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी ॥ पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ॥ २४ ॥
तस्मात् तावत् प्रतीक्षस्व यावत् भवति यामिनी ॥ पश्यन्ति मानवाः च अत्र पिता मे च तटे स्थितः ॥ २४ ॥
tasmāt tāvat pratīkṣasva yāvat bhavati yāminī .. paśyanti mānavāḥ ca atra pitā me ca taṭe sthitaḥ .. 24 ..
तयोक्तमिदमाकर्ण्य वचनं मुनिपुंगवः ॥ नीहारं कल्पयामास सद्यः पुण्यबलेन वै ॥ २५ ॥
तया उक्तम् इदम् आकर्ण्य वचनम् मुनि-पुंगवः ॥ नीहारम् कल्पयामास सद्यस् पुण्य-बलेन वै ॥ २५ ॥
tayā uktam idam ākarṇya vacanam muni-puṃgavaḥ .. nīhāram kalpayāmāsa sadyas puṇya-balena vai .. 25 ..
नीहारे च समुत्पन्ने तमसा रात्रिसंनिभे ॥ व्यवायचकिता बाला पुनः प्रोवाच तम्मुनिम् ॥ २६ ॥
नीहारे च समुत्पन्ने तमसा रात्रि-संनिभे ॥ व्यवाय-चकिता बाला पुनर् प्रोवाच तम् मुनिम् ॥ २६ ॥
nīhāre ca samutpanne tamasā rātri-saṃnibhe .. vyavāya-cakitā bālā punar provāca tam munim .. 26 ..
योगिन्नमोघवीर्य्यस्त्वं भुक्त्वा गन्तासि मां यदि ॥ सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ॥ २७ ॥
योगिन् अमोघ-वीर्यः त्वम् भुक्त्वा गन्तासि माम् यदि ॥ सगर्भा स्याम् तदा स्वामिन् का गतिः मे भवेत् इति ॥ २७ ॥
yogin amogha-vīryaḥ tvam bhuktvā gantāsi mām yadi .. sagarbhā syām tadā svāmin kā gatiḥ me bhavet iti .. 27 ..
कन्याव्रतं महाबुद्धे मम नष्टं भविष्यति ॥ हसिष्यति तदा लोकाः पितरं किं ब्रवीम्यहम् ॥ २८॥
कन्या-व्रतम् महाबुद्धे मम नष्टम् भविष्यति ॥ हसिष्यति तदा लोकाः पितरम् किम् ब्रवीमि अहम् ॥ २८॥
kanyā-vratam mahābuddhe mama naṣṭam bhaviṣyati .. hasiṣyati tadā lokāḥ pitaram kim bravīmi aham .. 28..
।। पराशर उवाच ।।
रम बाले मया सार्द्धं स्वच्छन्दं कामजै रसैः॥स्वीयाभिलाषमाख्याहि पूरयाम्यधुना प्रिये ॥ २९ ॥
रम बाले मया सार्द्धम् स्वच्छन्दम् काम-जैः रसैः॥स्वीय-अभिलाषम् आख्याहि पूरयामि अधुना प्रिये ॥ २९ ॥
rama bāle mayā sārddham svacchandam kāma-jaiḥ rasaiḥ..svīya-abhilāṣam ākhyāhi pūrayāmi adhunā priye .. 29 ..
मदाज्ञासत्यकरणान्नाम्ना सत्यवती भव ॥ वन्दनीया तथाशेषैर्योगिभिस्त्रिदशैरपि ॥ 5.44.३० ॥
मद्-आज्ञा-सत्य-करणात् नाम्ना सत्यवती भव ॥ वन्दनीया तथा अशेषैः योगिभिः त्रिदशैः अपि ॥ ५।४४।३० ॥
mad-ājñā-satya-karaṇāt nāmnā satyavatī bhava .. vandanīyā tathā aśeṣaiḥ yogibhiḥ tridaśaiḥ api .. 5.44.30 ..
सत्यवत्युवाच ।।
जानते न पिता माता न वान्ये भुवि मानवाः ॥ कन्याधर्मो न मे हन्याद्यदि स्वीकुरु मान्तदा ॥ ३१॥
जानते न पिता माता न वा अन्ये भुवि मानवाः ॥ कन्या-धर्मः न मे हन्यात् यदि स्वीकुरु मा अन्तदा ॥ ३१॥
jānate na pitā mātā na vā anye bhuvi mānavāḥ .. kanyā-dharmaḥ na me hanyāt yadi svīkuru mā antadā .. 31..
पुत्रश्च त्वत्समो नाथ भवेदद्भुतशक्तिमान् ॥ सौगन्ध्यं सर्वदांगे मे तारुण्यं च नवंनवम् ॥ ३२ ॥
पुत्रः च त्वद्-समः नाथ भवेत् अद्भुत-शक्तिमान् ॥ सौगन्ध्यम् सर्वदा अंगे मे तारुण्यम् च नवम् नवम् ॥ ३२ ॥
putraḥ ca tvad-samaḥ nātha bhavet adbhuta-śaktimān .. saugandhyam sarvadā aṃge me tāruṇyam ca navam navam .. 32 ..
पराशर उवाच ।।
शृणु प्रिये तवाभीष्टं सर्वं पूर्णं भविष्यति ॥ विष्ण्वंशसंभवः पुत्रो भविता ते महायशाः ॥ ३३ ॥
शृणु प्रिये तव अभीष्टम् सर्वम् पूर्णम् भविष्यति ॥ विष्णु-अंश-संभवः पुत्रः भविता ते महा-यशाः ॥ ३३ ॥
śṛṇu priye tava abhīṣṭam sarvam pūrṇam bhaviṣyati .. viṣṇu-aṃśa-saṃbhavaḥ putraḥ bhavitā te mahā-yaśāḥ .. 33 ..
किंचिद्वै कारणं विद्धि यतोऽहं कामपीडितः॥दृष्ट्वा चाप्सरसारूपं नामुह्यन्मे नमः क्वचित् ॥ ३४॥
किंचिद् वै कारणम् विद्धि यतस् अहम् काम-पीडितः॥दृष्ट्वा च अप्सरसा अरूपम् न अमुह्यत् मे नमः क्वचिद् ॥ ३४॥
kiṃcid vai kāraṇam viddhi yatas aham kāma-pīḍitaḥ..dṛṣṭvā ca apsarasā arūpam na amuhyat me namaḥ kvacid .. 34..
मीनगन्धां समालक्ष्य त्वां मोहवशगोऽभवम् ॥ न बाले भालपट्टस्थो ब्रह्मलेखोऽन्यथा भवेत्॥३५॥
मीनगन्धाम् समालक्ष्य त्वाम् मोह-वशगः अभवम् ॥ न बाले भाल-पट्ट-स्थः ब्रह्म-लेखः अन्यथा भवेत्॥३५॥
mīnagandhām samālakṣya tvām moha-vaśagaḥ abhavam .. na bāle bhāla-paṭṭa-sthaḥ brahma-lekhaḥ anyathā bhavet..35..
पुराणकर्ता पुत्रस्ते वेदशाखाविभागकृत्॥भविष्यति वरारोहे ख्यातकीर्तिर्जगत्त्रये॥३६॥
पुराण-कर्ता पुत्रः ते वेद-शाखा-विभाग-कृत्॥भविष्यति वरारोहे ख्यात-कीर्तिः जगत्त्रये॥३६॥
purāṇa-kartā putraḥ te veda-śākhā-vibhāga-kṛt..bhaviṣyati varārohe khyāta-kīrtiḥ jagattraye..36..
इत्युक्त्वा तां सुरम्याङ्गीं भुक्त्वा योगविशारदः ॥ वव्राज शीघ्रं यमुनाजले स्नात्वा महामुने ॥ ३७ ॥
इति उक्त्वा ताम् सु रम्य-अङ्गीम् भुक्त्वा योग-विशारदः ॥ वव्राज शीघ्रम् यमुना-जले स्नात्वा महा-मुने ॥ ३७ ॥
iti uktvā tām su ramya-aṅgīm bhuktvā yoga-viśāradaḥ .. vavrāja śīghram yamunā-jale snātvā mahā-mune .. 37 ..
सापि गर्भं दधाराशु द्वादशात्मसमप्रभम् ॥ असूत सूर्य्यजाद्वीपे कामदेवमिवात्मजम् ॥ ३८ ॥
सा अपि गर्भम् दधार आशु द्वादश-आत्म-सम-प्रभम् ॥ असूत सूर्य्यजा-द्वीपे कामदेवम् इव आत्मजम् ॥ ३८ ॥
sā api garbham dadhāra āśu dvādaśa-ātma-sama-prabham .. asūta sūryyajā-dvīpe kāmadevam iva ātmajam .. 38 ..
वामे कमण्डलुं बिभ्रद्दक्षिणे दण्डमुत्तमम् ॥ पिशंगीभिर्जटाभिश्च राजितो महसां चयः॥३९॥
वामे कमण्डलुम् बिभ्रत् दक्षिणे दण्डम् उत्तमम् ॥ पिशंगीभिः जटाभिः च राजितः महसाम् चयः॥३९॥
vāme kamaṇḍalum bibhrat dakṣiṇe daṇḍam uttamam .. piśaṃgībhiḥ jaṭābhiḥ ca rājitaḥ mahasām cayaḥ..39..
जातमात्रस्तु तेजस्वी मातरं प्रत्यभाषत ॥ गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ 5.44.४०॥
जात-मात्रः तु तेजस्वी मातरम् प्रत्यभाषत ॥ गच्छ मातर् यथाकामम् गच्छामि अहम् अतस् परम् ॥ ५।४४।४०॥
jāta-mātraḥ tu tejasvī mātaram pratyabhāṣata .. gaccha mātar yathākāmam gacchāmi aham atas param .. 5.44.40..
मातर्यदा भवेत्कार्यं तव किंचिद्धृदीप्सितम्॥संस्मृतश्चागमिष्यामि त्वदिच्छापूर्तिहेतवे ॥ ४१॥
मातर् यदा भवेत् कार्यम् तव किंचिद् हृदि ईप्सितम्॥संस्मृतः च आगमिष्यामि त्वद्-इच्छा-पूर्ति-हेतवे ॥ ४१॥
mātar yadā bhavet kāryam tava kiṃcid hṛdi īpsitam..saṃsmṛtaḥ ca āgamiṣyāmi tvad-icchā-pūrti-hetave .. 41..
इत्युक्त्वा मातृचरणावभिवाद्य तपोनिधिः ॥ जगाम च तपः कर्त्तुं तीर्थं पापविशोधनम् ॥ ४२ ॥
इति उक्त्वा मातृ-चरणौ अभिवाद्य तपोनिधिः ॥ जगाम च तपः कर्त्तुम् तीर्थम् पाप-विशोधनम् ॥ ४२ ॥
iti uktvā mātṛ-caraṇau abhivādya taponidhiḥ .. jagāma ca tapaḥ karttum tīrtham pāpa-viśodhanam .. 42 ..
सापि पित्रन्तिकं याता पुत्रस्नेहाकुला सती ॥ स्मरन्ती चरितं सूनोर्वर्णयन्ती स्वभाग्यकम् ॥ ४३ ॥
सा अपि पितृ-अन्तिकम् याता पुत्र-स्नेह-आकुला सती ॥ स्मरन्ती चरितम् सूनोः वर्णयन्ती स्व-भाग्यकम् ॥ ४३ ॥
sā api pitṛ-antikam yātā putra-sneha-ākulā satī .. smarantī caritam sūnoḥ varṇayantī sva-bhāgyakam .. 43 ..
द्वीपे जातो यतो बालस्तेन द्वैपायनोऽभवत् ॥ वेदशाखाविभजनाद्वेदव्यासः प्रकीर्तितः ॥ ४४ ॥
द्वीपे जातः यतस् बालः तेन द्वैपायनः अभवत् ॥ वेद-शाखा-विभजनात् वेदव्यासः प्रकीर्तितः ॥ ४४ ॥
dvīpe jātaḥ yatas bālaḥ tena dvaipāyanaḥ abhavat .. veda-śākhā-vibhajanāt vedavyāsaḥ prakīrtitaḥ .. 44 ..
तीर्थराजं प्रथमतो धर्मकामार्थ मोक्षदम् ॥ नैमिषं च कुरुक्षेत्रं गङ्गाद्वारमवन्तिकाम् ॥ ४५ ॥
तीर्थ-राजम् प्रथमतस् धर्म-काम-अर्थ मोक्ष-दम् ॥ नैमिषम् च कुरुक्षेत्रम् गङ्गाद्वारम् अवन्तिकाम् ॥ ४५ ॥
tīrtha-rājam prathamatas dharma-kāma-artha mokṣa-dam .. naimiṣam ca kurukṣetram gaṅgādvāram avantikām .. 45 ..
अयोध्यां मथुरां चैव द्वारकाममरावतीम् ॥ सरस्वतीं सिंधुसङ्गं गंगा सागरसंगमम् ॥ ४६॥
अयोध्याम् मथुराम् च एव द्वारकाम् अमरावतीम् ॥ सरस्वतीम् सिंधु-सङ्गम् गंगा सागर-संगमम् ॥ ४६॥
ayodhyām mathurām ca eva dvārakām amarāvatīm .. sarasvatīm siṃdhu-saṅgam gaṃgā sāgara-saṃgamam .. 46..
काञ्चीं च त्र्यम्बकं चापि सप्तगोदावरीतटम्॥कालञ्जरं प्रभासं च तथा बदरिकाश्रमम् ॥ ४७ ॥
काञ्चीम् च त्र्यम्बकम् च अपि सप्त-गोदावरी-तटम्॥कालञ्जरम् प्रभासम् च तथा बदरिकाश्रमम् ॥ ४७ ॥
kāñcīm ca tryambakam ca api sapta-godāvarī-taṭam..kālañjaram prabhāsam ca tathā badarikāśramam .. 47 ..
महालयन्तथोंकारक्षेत्रं वै पुरुषोत्तमम् ॥ गोकर्णं भृगुकच्छं च भृगुतुंगं च पुष्करम् ॥ ४८ ॥
महालयन् तथा उंकार-क्षेत्रम् वै पुरुषोत्तमम् ॥ गोकर्णम् भृगुकच्छम् च भृगुतुंगम् च पुष्करम् ॥ ४८ ॥
mahālayan tathā uṃkāra-kṣetram vai puruṣottamam .. gokarṇam bhṛgukaccham ca bhṛgutuṃgam ca puṣkaram .. 48 ..
श्रीपर्वतादितीर्थानि धारातीर्थं तथैव च ॥ गत्वावगाह्य विधिना चचार परमन्तपः॥४९॥
श्रीपर्वत-आदि-तीर्थानि धारातीर्थम् तथा एव च ॥ गत्वा अवगाह्य विधिना चचार परमन्तपः॥४९॥
śrīparvata-ādi-tīrthāni dhārātīrtham tathā eva ca .. gatvā avagāhya vidhinā cacāra paramantapaḥ..49..
एवन्तीर्थान्यनेकानि नानादेशस्थितानि ह॥पर्य्यटन्कालिकासूनुः प्रापद्वाराणसीम्पुरीम्।5.44.५०॥
एवत् तीर्थानि अनेकानि नाना देश-स्थितानि ह॥पर्य्यटन् कालिका-सूनुः प्रापत् वाराणसीम् पुरीम्।५।४४।५०॥
evat tīrthāni anekāni nānā deśa-sthitāni ha..paryyaṭan kālikā-sūnuḥ prāpat vārāṇasīm purīm.5.44.50..
यत्र विश्वेश्वरः साक्षादन्नपूर्णा महेश्वरी ॥ भक्तानाममृतन्दातुं विराजेते कृपानिधी ॥ ५१ ॥
यत्र विश्वेश्वरः साक्षात् अन्न-पूर्णा महेश्वरी ॥ भक्तानाम् अमृतन् दातुम् विराजेते कृपा-निधी ॥ ५१ ॥
yatra viśveśvaraḥ sākṣāt anna-pūrṇā maheśvarī .. bhaktānām amṛtan dātum virājete kṛpā-nidhī .. 51 ..
प्राप्य वाराणसीतीर्थं दृष्ट्वाथ मणिकर्णिकाम् ॥ कोटिजन्मार्जितं पापं तत्याज स मुनीश्वरः ॥ ५२ ॥
प्राप्य वाराणसी-तीर्थम् दृष्ट्वा अथ मणिकर्णिकाम् ॥ कोटि-जन्म-अर्जितम् पापम् तत्याज स मुनि-ईश्वरः ॥ ५२ ॥
prāpya vārāṇasī-tīrtham dṛṣṭvā atha maṇikarṇikām .. koṭi-janma-arjitam pāpam tatyāja sa muni-īśvaraḥ .. 52 ..
दृष्ट्वा लिंगानि सर्वाणि विश्वेशप्रमुखानि च ॥ स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥ ५३ ॥
दृष्ट्वा लिंगानि सर्वाणि विश्वेश-प्रमुखानि च ॥ स्नात्वा सर्वेषु कुण्डेषु वापी-कूप-सरःसु च ॥ ५३ ॥
dṛṣṭvā liṃgāni sarvāṇi viśveśa-pramukhāni ca .. snātvā sarveṣu kuṇḍeṣu vāpī-kūpa-saraḥsu ca .. 53 ..
नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ॥ सम्पूज्य कालराजं च भैरवं पापभक्षणम् ॥ ९४॥
नत्वा विनायकान् सर्वान् गौरीः सर्वाः प्रणम्य च ॥ सम्पूज्य कालराजम् च भैरवम् पाप-भक्षणम् ॥ ९४॥
natvā vināyakān sarvān gaurīḥ sarvāḥ praṇamya ca .. sampūjya kālarājam ca bhairavam pāpa-bhakṣaṇam .. 94..
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥ आदिकेशवमुख्यांश्च केशवान्परितोष्य च ॥ ५५ ॥
दण्ड-नायक-मुख्यान् च गणान् स्तुत्वा प्रयत्नतः ॥ आदिकेशव-मुख्यान् च केशवान् परितोष्य च ॥ ५५ ॥
daṇḍa-nāyaka-mukhyān ca gaṇān stutvā prayatnataḥ .. ādikeśava-mukhyān ca keśavān paritoṣya ca .. 55 ..
लोलार्कमुख्यसूर्यांश्च प्रणम्य च पुनःपुनः ॥ कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतन्द्रितः ॥ ५६ ॥
लोल-अर्क-मुख्य-सूर्यान् च प्रणम्य च पुनर् पुनर् ॥ कृत्वा पिण्ड-प्रदानानि सर्व-तीर्थेषु अतन्द्रितः ॥ ५६ ॥
lola-arka-mukhya-sūryān ca praṇamya ca punar punar .. kṛtvā piṇḍa-pradānāni sarva-tīrtheṣu atandritaḥ .. 56 ..
स्थापयामास पुण्यात्मा लिंगं व्यासेश्वराभिधम् ॥ यद्दर्शनाद्भवेद्विप्र नरो विद्यासु वाक्पतिः ॥ ५७॥
स्थापयामास पुण्य-आत्मा लिंगम् व्यासेश्वर-अभिधम् ॥ यद्-दर्शनात् भवेत् विप्र नरः विद्यासु वाक्पतिः ॥ ५७॥
sthāpayāmāsa puṇya-ātmā liṃgam vyāseśvara-abhidham .. yad-darśanāt bhavet vipra naraḥ vidyāsu vākpatiḥ .. 57..
लिंगान्यभ्यर्च्य विश्वेशप्रमुखानि सुभक्तितः ॥ असकृच्चिन्तयामास किं लिगं क्षिप्रसिद्धिदम् ॥ ५८॥
लिंगानि अभ्यर्च्य विश्वेश-प्रमुखानि सु भक्तितः ॥ असकृत् चिन्तयामास किम् लिगम् क्षिप्र-सिद्धि-दम् ॥ ५८॥
liṃgāni abhyarcya viśveśa-pramukhāni su bhaktitaḥ .. asakṛt cintayāmāsa kim ligam kṣipra-siddhi-dam .. 58..
यमाराध्य महादेवं विद्याः सर्वा लभेमहि ॥ पुराणकर्तृताशक्तिर्ममास्तु यदनुग्रहात् ॥ ५९॥
यम् आराध्य महादेवम् विद्याः सर्वाः लभेमहि ॥ पुराण-कर्तृ-ता-शक्तिः मम अस्तु यद्-अनुग्रहात् ॥ ५९॥
yam ārādhya mahādevam vidyāḥ sarvāḥ labhemahi .. purāṇa-kartṛ-tā-śaktiḥ mama astu yad-anugrahāt .. 59..
श्रीदमोंकारनाथं वा कृत्तिवासेश्वरं किमु ॥ केदारेशन्तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥ 5.44.६०॥
श्री-दम्-ओंकार-नाथम् वा कृत्तिवास-ईश्वरम् किमु ॥ केदारेशम् तु कामेशम् चन्द्रेशम् वा त्रिलोचनम् ॥ ५।४४।६०॥
śrī-dam-oṃkāra-nātham vā kṛttivāsa-īśvaram kimu .. kedāreśam tu kāmeśam candreśam vā trilocanam .. 5.44.60..
कालेशं वृद्धकालेशं कालशेश्वरमेव वा॥ज्येष्ठेशं जम्बुकेशं वा जैगीषव्येश्वरन्तु वा ॥ ६१ ॥
कालेशम् वृद्धकालेशम् कालशेश्वरम् एव वा॥ज्येष्ठ-ईशम् जम्बुक-ईशम् वा वा ॥ ६१ ॥
kāleśam vṛddhakāleśam kālaśeśvaram eva vā..jyeṣṭha-īśam jambuka-īśam vā vā .. 61 ..
दशाश्वमेधमीशानं द्रुमिचण्डेशमेव वा ॥ दृक्केशं गरुडेशं वा गोकर्णेशं गणेश्वरम् ॥ ६२॥
दशाश्वमेधम् ईशानम् द्रुमिचण्डेशम् एव वा ॥ दृक्केशम् गरुडेशम् वा गोकर्ण-ईशम् गणेश्वरम् ॥ ६२॥
daśāśvamedham īśānam drumicaṇḍeśam eva vā .. dṛkkeśam garuḍeśam vā gokarṇa-īśam gaṇeśvaram .. 62..
प्रसन्नवदनेशं वा धर्म्मेशं तारकेश्वरम् ॥ नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ॥ ६३॥
प्रसन्नवदनेशम् वा धर्म्मेशम् तारकेश्वरम् ॥ ॥ ६३॥
prasannavadaneśam vā dharmmeśam tārakeśvaram .. .. 63..
पर्वतेशं पशुपतिं हाटकेश्वरमेव वा ॥ बृहस्पतीश्वरं वाथ तिलभाण्डेशमेव वा ॥ ६४॥
पर्वतेशम् पशुपतिम् हाटकेश्वरम् एव वा ॥ बृहस्पतीश्वरम् वा अथ तिलभाण्डेशम् एव वा ॥ ६४॥
parvateśam paśupatim hāṭakeśvaram eva vā .. bṛhaspatīśvaram vā atha tilabhāṇḍeśam eva vā .. 64..
भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ॥ मरुतेशन्तु मोक्षेशं गंगेशं नर्मदेश्वरम् ॥ ६५॥
भार-भूत-ईश्वरम् किम् वा महा-लक्ष्मीश्वरम् तु वा ॥ मरुत-ईशम् तु मोक्ष-ईशम् गंगा-ईशम् नर्मदेश्वरम् ॥ ६५॥
bhāra-bhūta-īśvaram kim vā mahā-lakṣmīśvaram tu vā .. maruta-īśam tu mokṣa-īśam gaṃgā-īśam narmadeśvaram .. 65..
कृष्णेशं परमेशानं रत्नेश्वरमथापि वा ॥ यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ॥ ६६॥
कृष्णेशम् परमेशानम् रत्नेश्वरम् अथ अपि वा ॥ यामुनेशम् लांगलीशम् श्रीमत्-विश्वेश्वरम् विभुम् ॥ ६६॥
kṛṣṇeśam parameśānam ratneśvaram atha api vā .. yāmuneśam lāṃgalīśam śrīmat-viśveśvaram vibhum .. 66..
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव वा ॥ व्याघ्रेश्वरं वराहेशं विद्येश्वरमथापि वा ॥ ६७ ॥
अविमुक्तेश्वरम् वा अथ विशालाक्षीशम् एव वा ॥ व्याघ्रेश्वरम् वराहेशम् विद्येश्वरम् अथ अपि वा ॥ ६७ ॥
avimukteśvaram vā atha viśālākṣīśam eva vā .. vyāghreśvaram varāheśam vidyeśvaram atha api vā .. 67 ..
वरुणेशं विधीशं वा हरिकेशेश्वरन्तु वा ॥ भवानीशं कपर्द्दीशं कन्दुकेश मजेश्वरम् ॥ ६८ ॥
वरुण-ईशम् विधि-ईशम् वा वा ॥ भवानीशम् कपर्द्दीशम् कन्दुकेश मजेश्वरम् ॥ ६८ ॥
varuṇa-īśam vidhi-īśam vā vā .. bhavānīśam kaparddīśam kandukeśa majeśvaram .. 68 ..
विश्वकर्मेश्वरं वाथ वीरेश्वरमथापि वा ॥ नादेशं कपिलेशं च भुवनेश्वरमेव वा ॥ ६९॥
विश्वकर्म-ईश्वरम् वा अथ वीरेश्वरम् अथ अपि वा ॥ नादेशम् कपिलेशम् च भुवनेश्वरम् एव वा ॥ ६९॥
viśvakarma-īśvaram vā atha vīreśvaram atha api vā .. nādeśam kapileśam ca bhuvaneśvaram eva vā .. 69..
बाष्कुलीशं महादेवं सिद्धीश्वरमथापि वा ॥ विश्वेदेवेश्वरं वीरभद्रेशं भैरवेश्वरम् ॥ 5.44.७० ॥
बाष्कुलीशम् महादेवम् सिद्धीश्वरम् अथ अपि वा ॥ विश्वेदेव-ईश्वरम् वीरभद्र-ईशम् भैरव-ईश्वरम् ॥ ५।४४।७० ॥
bāṣkulīśam mahādevam siddhīśvaram atha api vā .. viśvedeva-īśvaram vīrabhadra-īśam bhairava-īśvaram .. 5.44.70 ..
अमृतेशं सतीशं वा पार्वतीश्वरमेव वा ॥ सिद्धेश्वरं मतंगेशं भूतीश्वरमथापि वा ॥ ७१॥
अमृतेशम् सतीशम् वा पार्वतीश्वरम् एव वा ॥ सिद्धेश्वरम् मतंगेशम् भूतीश्वरम् अथ अपि वा ॥ ७१॥
amṛteśam satīśam vā pārvatīśvaram eva vā .. siddheśvaram mataṃgeśam bhūtīśvaram atha api vā .. 71..
आषाढीशं प्रकामेशं कोटिरुद्रेश्वरन्तथा ॥ मदालसेश्वरं चैव तिलपर्णेश्वरं किमु॥ ७२ ॥
āṣāḍhīśaṃ prakāmeśaṃ koṭirudreśvarantathā || madālaseśvaraṃ caiva tilaparṇeśvaraṃ kimu|| 72 ||
āṣāḍhīśaṃ prakāmeśaṃ koṭirudreśvarantathā || madālaseśvaraṃ caiva tilaparṇeśvaraṃ kimu|| 72 ||
किं वा हिरण्यगर्भेशं किं वा श्रीमध्यमेश्वरम् ॥ इत्यादिकोटिलिंगानां मध्येऽहं किमुपाश्रये ॥ ७३॥
किम् वा हिरण्यगर्भ-ईशम् किम् वा श्री-मध्यमेश्वरम् ॥ इत्यादि-कोटि-लिंगानाम् मध्ये अहम् किम् उपाश्रये ॥ ७३॥
kim vā hiraṇyagarbha-īśam kim vā śrī-madhyameśvaram .. ityādi-koṭi-liṃgānām madhye aham kim upāśraye .. 73..
इति चिन्तातुरो व्यासः शिवभक्तिरतात्मवान्॥क्षणं विचारयामास ध्यानसुस्थिरचेतसा ॥ ७४ ॥
इति चिन्ता-आतुरः व्यासः शिव-भक्ति-रत-आत्मवान्॥क्षणम् विचारयामास ध्यान-सु स्थिर-चेतसा ॥ ७४ ॥
iti cintā-āturaḥ vyāsaḥ śiva-bhakti-rata-ātmavān..kṣaṇam vicārayāmāsa dhyāna-su sthira-cetasā .. 74 ..
आज्ञातं विस्मृतं तावन्निष्पन्नो मे मनोरथः ॥ सिद्धैः संपूजितं लिंगं धर्म्मकामार्थमोक्षदम् ॥ ७५ ॥
आज्ञातम् विस्मृतम् तावत् निष्पन्नः मे मनोरथः ॥ सिद्धैः संपूजितम् लिंगम् धर्म-काम-अर्थ-मोक्ष-दम् ॥ ७५ ॥
ājñātam vismṛtam tāvat niṣpannaḥ me manorathaḥ .. siddhaiḥ saṃpūjitam liṃgam dharma-kāma-artha-mokṣa-dam .. 75 ..
दर्शनात्स्पर्शनाद्यस्य चेतो निर्मलतामियात् ॥ उद्धाटितं सदैवास्ति द्वारं स्वर्गस्य यत्र हि ॥ ७६ ॥
दर्शनात् स्पर्शनात् यस्य चेतः निर्मल-ताम् इयात् ॥ उद्धाटितम् सदा एवा अस्ति द्वारम् स्वर्गस्य यत्र हि ॥ ७६ ॥
darśanāt sparśanāt yasya cetaḥ nirmala-tām iyāt .. uddhāṭitam sadā evā asti dvāram svargasya yatra hi .. 76 ..
अविमुक्ते महाक्षेत्रे सिद्धक्षेत्रे हि तत्परम् ॥ यत्रास्ते परमं लिंगं मध्यमेश्वरसंज्ञकम् ॥ ७७ ॥
अविमुक्ते महा-क्षेत्रे सिद्ध-क्षेत्रे हि तत् परम् ॥ यत्र आस्ते परमम् लिंगम् मध्यमेश्वर-संज्ञकम् ॥ ७७ ॥
avimukte mahā-kṣetre siddha-kṣetre hi tat param .. yatra āste paramam liṃgam madhyameśvara-saṃjñakam .. 77 ..
न मध्यमेश्वरादन्यल्लिंगं काश्यां हि विद्यते ॥ यद्दर्शनार्थमायान्ति देवाः पर्वणिपर्वणि ॥ ७८॥
न मध्यमेश्वरात् अन्यत् लिंगम् काश्याम् हि विद्यते ॥ यद्-दर्शन-अर्थम् आयान्ति देवाः पर्वणि पर्वणि ॥ ७८॥
na madhyameśvarāt anyat liṃgam kāśyām hi vidyate .. yad-darśana-artham āyānti devāḥ parvaṇi parvaṇi .. 78..
अतः सेव्यो महादेवो मध्यमेश्वरसंज्ञकः ॥ अस्याराधनतो विप्रा बहवः सिद्धिमागताः ॥ ७९॥
अतस् सेव्यः महादेवः मध्यमेश्वर-संज्ञकः ॥ अस्य आराधनतः विप्राः बहवः सिद्धिम् आगताः ॥ ७९॥
atas sevyaḥ mahādevaḥ madhyameśvara-saṃjñakaḥ .. asya ārādhanataḥ viprāḥ bahavaḥ siddhim āgatāḥ .. 79..
यः प्रधानतया काश्या मध्ये तिष्ठति शङ्करः ॥ स्वपुरीजन सौख्यार्थमतोऽसौ मध्यमेश्वरः॥5.44.८०॥
यः प्रधान-तया काश्याः मध्ये तिष्ठति शङ्करः ॥ स्व-पुरी-जन सौख्य-अर्थम् अतस् असौ मध्यमेश्वरः॥५।४४।८०॥
yaḥ pradhāna-tayā kāśyāḥ madhye tiṣṭhati śaṅkaraḥ .. sva-purī-jana saukhya-artham atas asau madhyameśvaraḥ..5.44.80..
तुम्बुरुर्नाम गंधर्वो देवर्षिर्नारदस्तथा॥अमुमाराध्य संपन्नो गानविद्याविशारदौ॥८१॥
तुम्बुरुः नाम गंधर्वः देवर्षिः नारदः तथा॥अमुम् आराध्य संपन्नः गान-विद्या-विशारदौ॥८१॥
tumburuḥ nāma gaṃdharvaḥ devarṣiḥ nāradaḥ tathā..amum ārādhya saṃpannaḥ gāna-vidyā-viśāradau..81..
अमुमेव समाराध्य विष्णुर्मोक्षप्रदोऽभवत्॥ब्रह्मा विष्णुश्च रुद्रश्च स्रष्टृपालकहारकाः ॥ ८२॥
अमुम् एव समाराध्य विष्णुः मोक्ष-प्रदः अभवत्॥ब्रह्मा विष्णुः च रुद्रः च स्रष्टृ-पालक-हारकाः ॥ ८२॥
amum eva samārādhya viṣṇuḥ mokṣa-pradaḥ abhavat..brahmā viṣṇuḥ ca rudraḥ ca sraṣṭṛ-pālaka-hārakāḥ .. 82..
धनाधीशः कुबेरोऽपि वामदेवो हि शैवराट्॥खट्वांगो नाम भूपालोऽनपत्योऽपत्यवानभूत्॥८३॥
धनाधीशः कुबेरः अपि वामदेवः हि शैवराज्॥खट्वांगः नाम भूपालः अनपत्यः अपत्यवान् अभूत्॥८३॥
dhanādhīśaḥ kuberaḥ api vāmadevaḥ hi śaivarāj..khaṭvāṃgaḥ nāma bhūpālaḥ anapatyaḥ apatyavān abhūt..83..
अप्सराश्चन्द्रभामाख्या नृत्यन्ती निजभावतः ॥ सदेहा कोकिलालापा लिंगमध्ये लयं गता ॥ ८४॥
अप्सराः चन्द्रभामा-आख्या नृत्यन्ती निज-भावतः ॥ स देहा कोकिल-आलापा लिंग-मध्ये लयम् गता ॥ ८४॥
apsarāḥ candrabhāmā-ākhyā nṛtyantī nija-bhāvataḥ .. sa dehā kokila-ālāpā liṃga-madhye layam gatā .. 84..
श्रीकरो गोपिकासूनुः सेविता मध्यमेश्वरम् ॥ गाणपत्यं समालेभे शिवस्य करुणात्मनः ॥ ८५॥
श्रीकरः गोपिकासूनुः सेविता मध्यमेश्वरम् ॥ गाणपत्यम् समालेभे शिवस्य करुण-आत्मनः ॥ ८५॥
śrīkaraḥ gopikāsūnuḥ sevitā madhyameśvaram .. gāṇapatyam samālebhe śivasya karuṇa-ātmanaḥ .. 85..
भार्गवो गीष्पतिश्चोभौ देवौ दैत्यसुरार्चितौ॥विद्यापारंगमौ जातौ प्रसादान्मध्यमेशितुः ॥ ८६ ॥
भार्गवः गीष्पतिः च उभौ देवौ दैत्य-सुर-अर्चितौ॥विद्या-पारंगमौ जातौ प्रसादात् मध्यमेशितुः ॥ ८६ ॥
bhārgavaḥ gīṣpatiḥ ca ubhau devau daitya-sura-arcitau..vidyā-pāraṃgamau jātau prasādāt madhyameśituḥ .. 86 ..
अहमप्यत्र संपूज्य मध्यमेश्वरमीश्वरम् ॥ पुराणकर्तृताशक्तिं प्राप्स्यामि तरसा धुवम् ॥ ८७ ॥
अहम् अपि अत्र संपूज्य मध्यमेश्वरम् ईश्वरम् ॥ पुराण-कर्तृ-ता-शक्तिम् प्राप्स्यामि तरसा धुवम् ॥ ८७ ॥
aham api atra saṃpūjya madhyameśvaram īśvaram .. purāṇa-kartṛ-tā-śaktim prāpsyāmi tarasā dhuvam .. 87 ..
इति कृत्वा मतिं धीरो व्यासः सत्यवतीसुतः ॥ भागीरथ्यम्भसि स्नात्वा जग्राह नियमं व्रती ॥ ८८॥
इति कृत्वा मतिम् धीरः व्यासः सत्यवती-सुतः ॥ भागीरथी-अम्भसि स्नात्वा जग्राह नियमम् व्रती ॥ ८८॥
iti kṛtvā matim dhīraḥ vyāsaḥ satyavatī-sutaḥ .. bhāgīrathī-ambhasi snātvā jagrāha niyamam vratī .. 88..
क्वचित्पर्णाशनो भूत्त्वा फलशाकाशनः क्वचित् ॥ वातभुग्जलभुक्क्वापि क्वचिन्निरशनव्रती ॥ ८९ ॥
क्वचिद् पर्ण-अशनः फल-शाक-अशनः क्वचिद् ॥ वातभुज् जल-भुज् क्वापि क्वचिद् निरशन-व्रती ॥ ८९ ॥
kvacid parṇa-aśanaḥ phala-śāka-aśanaḥ kvacid .. vātabhuj jala-bhuj kvāpi kvacid niraśana-vratī .. 89 ..
इत्यादि नियमैर्योगी त्रिकालं मध्यमेश्वरम् ॥ पूजयामास धर्म्मात्मा नानावृक्षोद्भवैः फलैः ॥ 5.44.९०॥
इत्यादि नियमैः योगी त्रि-कालम् मध्यमेश्वरम् ॥ पूजयामास धर्म्म-आत्मा नाना वृक्ष-उद्भवैः फलैः ॥ ५।४४।९०॥
ityādi niyamaiḥ yogī tri-kālam madhyameśvaram .. pūjayāmāsa dharmma-ātmā nānā vṛkṣa-udbhavaiḥ phalaiḥ .. 5.44.90..
इत्थं बहुतिथे काले व्यतीते कालिकासुतः ॥ स्नात्वा त्रिपथगातोये यावदायाति स प्रगे ॥ ९१ ॥
इत्थम् बहुतिथे काले व्यतीते कालिकासुतः ॥ स्नात्वा त्रिपथगा-तोये यावत् आयाति स प्रगे ॥ ९१ ॥
ittham bahutithe kāle vyatīte kālikāsutaḥ .. snātvā tripathagā-toye yāvat āyāti sa prage .. 91 ..
मध्यमेश्वरमीशानं भक्ताभीष्टवरप्रदम् ॥ तावद्ददर्श पुण्यात्मा मध्येलिंगं महेश्वरम् ॥ ९२ ॥
मध्यमेश्वरम् ईशानम् भक्त-अभीष्ट-वर-प्रदम् ॥ तावत् ददर्श पुण्य-आत्मा मध्येलिंगम् महेश्वरम् ॥ ९२ ॥
madhyameśvaram īśānam bhakta-abhīṣṭa-vara-pradam .. tāvat dadarśa puṇya-ātmā madhyeliṃgam maheśvaram .. 92 ..
उमाभूषितवामांगं व्याघ्रचर्म्मोत्तरीयकम्॥जटाजूटचलद्गंगातरंगैश्चारुविग्रहम्॥९३॥
उमा-भूषित-वाम-अंगम् व्याघ्र-चर्म्म-उत्तरीयकम्॥जटा-जूट-चलत्-गंगा-तरंगैः चारु-विग्रहम्॥९३॥
umā-bhūṣita-vāma-aṃgam vyāghra-carmma-uttarīyakam..jaṭā-jūṭa-calat-gaṃgā-taraṃgaiḥ cāru-vigraham..93..
लसच्छारदबालेन्दुचन्द्रिकाचन्दितालकम् ॥ भस्मोद्धूलितसर्वाङ्गं कर्पूरार्जुनविग्रहम् ॥ ९४ ॥
॥ भस्म-उद्धूलित-सर्व-अङ्गम् कर्पूर-अर्जुन-विग्रहम् ॥ ९४ ॥
.. bhasma-uddhūlita-sarva-aṅgam karpūra-arjuna-vigraham .. 94 ..
कर्णान्तायतनेत्रं च विद्रुमारुणदच्छदम् ॥ पंचवर्षाकृति बालं बालकोचितभूषणम् ॥ ९५॥
कर्ण-अन्त-आयत-नेत्रम् च विद्रुम-अरुण-दच्छदम् ॥ पंच-वर्ष-आकृति बालम् बालक-उचित-भूषणम् ॥ ९५॥
karṇa-anta-āyata-netram ca vidruma-aruṇa-dacchadam .. paṃca-varṣa-ākṛti bālam bālaka-ucita-bhūṣaṇam .. 95..
दधानं कोटिकन्दर्प्पदर्पहानि तनुद्युतिम् ॥ नग्रं प्रहसितास्याब्जं गायन्तं साम लीलया ॥ ९६ ॥
दधानम् कोटि-कन्दर्प्प-दर्प-हानि तनु-द्युतिम् ॥ प्रहसित-आस्य-अब्जम् गायन्तम् साम लीलया ॥ ९६ ॥
dadhānam koṭi-kandarppa-darpa-hāni tanu-dyutim .. prahasita-āsya-abjam gāyantam sāma līlayā .. 96 ..
करुणापारपाथोधिं भक्तवत्सलनामकम् ॥ आशुतोषमुमाकान्तं प्रसादसुमुखं हरम् ॥ ९७ ॥
॥ आशु-तोषम् उमा-कान्तम् प्रसाद-सुमुखम् हरम् ॥ ९७ ॥
.. āśu-toṣam umā-kāntam prasāda-sumukham haram .. 97 ..
समालोक्य स्तुतिं चक्रे प्रेमगद्गया गिरा ॥ योगीनामप्यगम्यन्तं दीनबन्धुं चिदात्मकम् ॥ ९८ ॥
समालोक्य स्तुतिम् चक्रे प्रेम-गद्गया गिरा ॥ दीन-बन्धुम् चित्-आत्मकम् ॥ ९८ ॥
samālokya stutim cakre prema-gadgayā girā .. dīna-bandhum cit-ātmakam .. 98 ..
वेदव्यास उवाच ।।
देवदेव महाभाग शरणागतवत्सल॥वाङ्मनः कर्मदुष्पाप योगिनामप्यगोचर ॥ ९९॥
देवदेव महाभाग शरण-आगत-वत्सल॥वाच्-मनः कर्म-दुष्पाप योगिनाम् अपि अगोचर ॥ ९९॥
devadeva mahābhāga śaraṇa-āgata-vatsala..vāc-manaḥ karma-duṣpāpa yoginām api agocara .. 99..
महिमानं न ते वेदा विदामासुरुमापते ॥ त्वमेव जगतः कर्ता धर्ता हर्ता तथैव च ॥ 5.44.१००॥
महिमानम् न ते वेदाः विदामासुः उमापते ॥ त्वम् एव जगतः कर्ता धर्ता हर्ता तथा एव च ॥ ५।४४।१००॥
mahimānam na te vedāḥ vidāmāsuḥ umāpate .. tvam eva jagataḥ kartā dhartā hartā tathā eva ca .. 5.44.100..
त्वमाद्यः सर्वदेवानां सच्चिदानंद ईश्वरः ॥ नामगोत्रे न वा ते स्तः सर्वज्ञोऽसि सदाशिव॥१०१॥
त्वम् आद्यः सर्व-देवानाम् सच्चिदानन्दः ईश्वरः ॥ नाम-गोत्रे न वा ते स्तः सर्वज्ञः असि सदाशिव॥१०१॥
tvam ādyaḥ sarva-devānām saccidānandaḥ īśvaraḥ .. nāma-gotre na vā te staḥ sarvajñaḥ asi sadāśiva..101..
त्वमेव परमं ब्रह्म मायापाशनिवर्तकः॥गुणत्रयैर्न लिप्तस्त्वं पद्मपत्रमिवांभसा॥१०२॥
त्वम् एव परमम् ब्रह्म माया-पाश-निवर्तकः॥गुणत्रयैः न लिप्तः त्वम् पद्म-पत्रम् इव अंभसा॥१०२॥
tvam eva paramam brahma māyā-pāśa-nivartakaḥ..guṇatrayaiḥ na liptaḥ tvam padma-patram iva aṃbhasā..102..
न ते जन्म न वा शीलं न देशो न कुलं च ते॥इत्थं भूतोपीश्वरत्वं त्रिलोक्याः काममावहे॥१०३॥
न ते जन्म न वा शीलम् न देशः न कुलम् च ते॥इत्थम् त्रिलोक्याः कामम् आवहे॥१०३॥
na te janma na vā śīlam na deśaḥ na kulam ca te..ittham trilokyāḥ kāmam āvahe..103..
न च ब्रह्मा न लक्ष्मीशो न च सेन्द्रा दिवौकसः॥न योगीन्द्रा विदुस्तत्त्वं यस्य तं त्वामुपास्महे॥१०४॥
न च ब्रह्मा न लक्ष्मीशः न च स इन्द्राः दिवौकसः॥न योगि-इन्द्राः विदुः तत्त्वम् यस्य तम् त्वाम् उपास्महे॥१०४॥
na ca brahmā na lakṣmīśaḥ na ca sa indrāḥ divaukasaḥ..na yogi-indrāḥ viduḥ tattvam yasya tam tvām upāsmahe..104..
त्वत्तः सर्वं त्वं हि सर्वं गौरीशस्त्वं पुरान्तकः॥त्वं बालस्त्वं युवा वृद्धस्तं त्वां हृदि युनज्म्यहम् ॥ ॥ १०५॥
त्वत्तः सर्वम् त्वम् हि सर्वम् गौरीशः त्वम् पुर-अन्तकः॥त्वम् बालः त्वम् युवा वृद्धः तम् त्वाम् हृदि युनज्मि अहम् ॥ ॥ १०५॥
tvattaḥ sarvam tvam hi sarvam gaurīśaḥ tvam pura-antakaḥ..tvam bālaḥ tvam yuvā vṛddhaḥ tam tvām hṛdi yunajmi aham .. .. 105..
नमस्तस्मै महेशाय भक्तध्येयाय शम्भवे ॥ पुराणपुरुषायाद्धा शंकराय परात्मने ॥ १०६ ॥
नमः तस्मै महेशाय भक्त-ध्येयाय शम्भवे ॥ पुराणपुरुषाय अद्धा शंकराय परात्मने ॥ १०६ ॥
namaḥ tasmai maheśāya bhakta-dhyeyāya śambhave .. purāṇapuruṣāya addhā śaṃkarāya parātmane .. 106 ..
इति स्तुत्वा क्षितौ यावद्दण्डवन्निपपात सः॥तावत्स बालो हृष्टात्मा वेदव्यासमभाषत॥१०७॥
इति स्तुत्वा क्षितौ यावत् दण्ड-वत् निपपात सः॥तावत् स बालः हृष्ट-आत्मा वेदव्यासम् अभाषत॥१०७॥
iti stutvā kṣitau yāvat daṇḍa-vat nipapāta saḥ..tāvat sa bālaḥ hṛṣṭa-ātmā vedavyāsam abhāṣata..107..
वरं वृणीष्व भो योगिन्यस्ते मनसि वर्तते ॥ नादेयं विद्यते किंचिद्भक्ताधीनो यतोऽस्म्यहम्॥१०८॥
वरम् वृणीष्व भो योगिन्यः ते मनसि वर्तते ॥ न आदेयम् विद्यते किंचिद् भक्त-अधीनः यतस् अस्मि अहम्॥१०८॥
varam vṛṇīṣva bho yoginyaḥ te manasi vartate .. na ādeyam vidyate kiṃcid bhakta-adhīnaḥ yatas asmi aham..108..
तत उत्थाय हृष्टात्मा मुनिर्व्यासो महातपाः ॥ प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १०९ ॥
ततस् उत्थाय हृष्ट-आत्मा मुनिः व्यासः महा-तपाः ॥ प्रत्यब्रवीत् किम् अज्ञातम् सर्वज्ञस्य तव प्रभो ॥ १०९ ॥
tatas utthāya hṛṣṭa-ātmā muniḥ vyāsaḥ mahā-tapāḥ .. pratyabravīt kim ajñātam sarvajñasya tava prabho .. 109 ..
सर्वान्तरात्मा भगवाञ्छर्वः सर्वप्रदो भवान् ॥ याञ्चां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ 5.44.११० ॥
सर्व-अन्तरात्मा भगवान् शर्वः सर्व-प्रदः भवान् ॥ प्रतिनियुङ्क्ते माम् किम् ईशः दैन्य-कारिणीम् ॥ ५।४४।११० ॥
sarva-antarātmā bhagavān śarvaḥ sarva-pradaḥ bhavān .. pratiniyuṅkte mām kim īśaḥ dainya-kāriṇīm .. 5.44.110 ..
इति श्रुत्वा वचस्तस्य व्यासस्यामलचेतसः ॥ शुचि स्मित्वा महादेवो बालरूपधरोऽब्रवीत् ॥ १११ ॥
इति श्रुत्वा वचः तस्य व्यासस्य अमल-चेतसः ॥ शुचि स्मित्वा महादेवः बाल-रूप-धरः अब्रवीत् ॥ १११ ॥
iti śrutvā vacaḥ tasya vyāsasya amala-cetasaḥ .. śuci smitvā mahādevaḥ bāla-rūpa-dharaḥ abravīt .. 111 ..
बाल उवाच ।।
त्वया ब्रह्मविदां श्रेष्ठ योऽभिलाषः कृतो हृदि ॥ अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ ११२ ॥
त्वया ब्रह्म-विदाम् श्रेष्ठ यः अभिलाषः कृतः हृदि ॥ अचिरेण एव कालेन स भविष्यति असंशयः ॥ ११२ ॥
tvayā brahma-vidām śreṣṭha yaḥ abhilāṣaḥ kṛtaḥ hṛdi .. acireṇa eva kālena sa bhaviṣyati asaṃśayaḥ .. 112 ..
कण्ठे स्थित्वा तव ब्रह्मन्नन्तर्याम्यहमीश्वरः ॥ सेतिहासपुराणानि सम्यङ्निर्यापयाम्यहम् ॥ ११३ ॥
कण्ठे स्थित्वा तव ब्रह्मन् अन्तर्यामी अहम् ईश्वरः ॥ स इतिहास-पुराणानि सम्यक् निर्यापयामि अहम् ॥ ११३ ॥
kaṇṭhe sthitvā tava brahman antaryāmī aham īśvaraḥ .. sa itihāsa-purāṇāni samyak niryāpayāmi aham .. 113 ..
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम्॥वर्षं त्रिकालं पठनात्कामदं शम्भुसद्मनि ॥ ११४ ॥
अभिलाष-अष्टकम् पुण्यम् स्तोत्रम् एतत् त्वया ईरितम्॥वर्षम् त्रि-कालम् पठनात् काम-दम् शम्भु-सद्मनि ॥ ११४ ॥
abhilāṣa-aṣṭakam puṇyam stotram etat tvayā īritam..varṣam tri-kālam paṭhanāt kāma-dam śambhu-sadmani .. 114 ..
एतत्स्तोत्रस्य पठनं विद्याबुद्धिविवर्द्धनम् ॥ सर्वसंपत्करं प्रोक्तं धर्मदं मोक्षदं नृणाम् ॥ ११५ ॥
एतत् स्तोत्रस्य पठनम् विद्या-बुद्धि-विवर्द्धनम् ॥ सर्व-संपत्-करम् प्रोक्तम् धर्म-दम् मोक्ष-दम् नृणाम् ॥ ११५ ॥
etat stotrasya paṭhanam vidyā-buddhi-vivarddhanam .. sarva-saṃpat-karam proktam dharma-dam mokṣa-dam nṛṇām .. 115 ..
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांकरम् ॥ वर्षं पठन्निदं स्तोत्रं मूर्खोऽपि स्याद्बृहस्पतिः ॥ ११६ ॥ ।
प्रातर् उत्थाय सु स्नातः लिंगम् अभ्यर्च्य शांकरम् ॥ वर्षम् पठन् इदम् स्तोत्रम् मूर्खः अपि स्यात् बृहस्पतिः ॥ ११६ ॥ ।
prātar utthāya su snātaḥ liṃgam abhyarcya śāṃkaram .. varṣam paṭhan idam stotram mūrkhaḥ api syāt bṛhaspatiḥ .. 116 .. .
स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ॥ वर्षं जप्तमिदं स्तोत्रं बुद्धिं विद्याञ्च वर्द्धयेत् ॥ ११७॥
स्त्रिया वा पुरुषेण अपि नियमात् लिंग-सन्निधौ ॥ वर्षम् जप्तम् इदम् स्तोत्रम् बुद्धिम् विद्याम् च वर्द्धयेत् ॥ ११७॥
striyā vā puruṣeṇa api niyamāt liṃga-sannidhau .. varṣam japtam idam stotram buddhim vidyām ca varddhayet .. 117..
इत्युक्त्वा स महादेवो बालो लिंगे न्यलीयत ॥ व्यासोऽपि मुंचन्नश्रूणि शिवप्रेमाकुलोऽभवत्॥११८॥
इति उक्त्वा स महादेवः बालः लिंगे न्यलीयत ॥ व्यासः अपि मुंचन् अश्रूणि शिव-प्रेम-आकुलः अभवत्॥११८॥
iti uktvā sa mahādevaḥ bālaḥ liṃge nyalīyata .. vyāsaḥ api muṃcan aśrūṇi śiva-prema-ākulaḥ abhavat..118..
एवं लब्धवरो व्यासो महेशान्मध्यमेश्वरात॥अष्टादश पुराणानि प्रणिनाय स्वलीलया ॥ ११९ ॥
एवम् लब्ध-वरः व्यासः महेशात् मध्यमेश्वरात्॥अष्टादश पुराणानि प्रणिनाय स्व-लीलया ॥ ११९ ॥
evam labdha-varaḥ vyāsaḥ maheśāt madhyameśvarāt..aṣṭādaśa purāṇāni praṇināya sva-līlayā .. 119 ..
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ 5.44.१२०॥
ब्राह्मम् पाद्मम् वैष्णवम् च शैवम् भागवतम् तथा ॥ भविष्यम् नारदीयम् च मार्कंडेयम् अतस् परम् ॥ ५।४४।१२०॥
brāhmam pādmam vaiṣṇavam ca śaivam bhāgavatam tathā .. bhaviṣyam nāradīyam ca mārkaṃḍeyam atas param .. 5.44.120..
आग्नेयं ब्रह्मवैवर्त लिंगं वाराहमेव च ॥ वामनाख्यं ततः कौर्मं मात्स्यं गारुडमेव च ॥ १२१॥
आग्नेयम् ब्रह्मवैवर्त लिंगम् वाराहम् एव च ॥ वामन-आख्यम् ततस् कौर्मम् मात्स्यम् गारुडम् एव च ॥ १२१॥
āgneyam brahmavaivarta liṃgam vārāham eva ca .. vāmana-ākhyam tatas kaurmam mātsyam gāruḍam eva ca .. 121..
स्कान्दं तथैव ब्रह्माण्डाख्यं पुराणं च कीर्तितम् ॥ यशस्यं पुण्यदं नॄणां श्रोतॄणां शांकरं यश ॥ १२२॥
स्कान्दम् तथा एव ब्रह्माण्ड-आख्यम् पुराणम् च कीर्तितम् ॥ यशस्यम् पुण्य-दम् नॄणाम् श्रोतॄणाम् शांकरम् यश ॥ १२२॥
skāndam tathā eva brahmāṇḍa-ākhyam purāṇam ca kīrtitam .. yaśasyam puṇya-dam nṝṇām śrotṝṇām śāṃkaram yaśa .. 122..
सूत उवाच ।।
अष्टादशपुराणानाम्पूर्वं नामोदितन्त्वया ॥ कुरु निर्वचनं तेषामिदानीं वेदवित्तम॥१२३॥
अष्टादश-पुराणानाम् पूर्वम् नाम उदितम् त्वया ॥ कुरु निर्वचनम् तेषाम् इदानीम् वेद-वित्तम॥१२३॥
aṣṭādaśa-purāṇānām pūrvam nāma uditam tvayā .. kuru nirvacanam teṣām idānīm veda-vittama..123..
व्यास उवाच ।।
अयमेव कृतः प्रश्नस्तण्डिना ब्रह्मयोनिना॥नन्दिकेश्वरमुद्दिश्य स यदाह ब्रवीमि तत्॥१२४॥
अयम् एव कृतः प्रश्नः तण्डिना ब्रह्म-योनिना॥नन्दिकेश्वरम् उद्दिश्य स यत् आह ब्रवीमि तत्॥१२४॥
ayam eva kṛtaḥ praśnaḥ taṇḍinā brahma-yoninā..nandikeśvaram uddiśya sa yat āha bravīmi tat..124..
नन्दिकेश्वर उवाच।।
यत्र वक्ता स्वयन्तण्डे ब्रह्मा साक्षाच्चतुर्मुखः॥तस्माद्ब्रह्मं समाख्यातं पुराणं प्रथमं मुने।१२५।
यत्र वक्ता ब्रह्मा साक्षात् चतुर्मुखः॥तस्मात् ब्रह्मम् समाख्यातम् पुराणम् प्रथमम् मुने।१२५।
yatra vaktā brahmā sākṣāt caturmukhaḥ..tasmāt brahmam samākhyātam purāṇam prathamam mune.125.
पद्मकल्पस्य माहात्म्यन्तत्र यस्यामुदाहृतम् ॥ तस्मात्पाद्मं समाख्यातं पुराणं च द्वितीयकम् ॥ १२६॥
पद्म-कल्पस्य माहात्म्यम् तत्र यस्याम् उदाहृतम् ॥ तस्मात् पाद्मम् समाख्यातम् पुराणम् च द्वितीयकम् ॥ १२६॥
padma-kalpasya māhātmyam tatra yasyām udāhṛtam .. tasmāt pādmam samākhyātam purāṇam ca dvitīyakam .. 126..
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ॥ तदेव व्यासकथितं पुत्रपित्रोरभेदतः ॥ १२७ ॥
पराशर-कृतम् यत् तु पुराणम् विष्णु-बोधकम् ॥ तत् एव व्यास-कथितम् पुत्र-पित्रोः अभेदतः ॥ १२७ ॥
parāśara-kṛtam yat tu purāṇam viṣṇu-bodhakam .. tat eva vyāsa-kathitam putra-pitroḥ abhedataḥ .. 127 ..
यत्र पूर्वोत्तरे खण्डे शिवस्य चरितं बहु ॥ शैवमेतत्पुराणं हि पुराणज्ञा वदन्ति च ॥ १२८ ॥
यत्र पूर्वोत्तरे खण्डे शिवस्य चरितम् बहु ॥ शैवम् एतत् पुराणम् हि पुराण-ज्ञाः वदन्ति च ॥ १२८ ॥
yatra pūrvottare khaṇḍe śivasya caritam bahu .. śaivam etat purāṇam hi purāṇa-jñāḥ vadanti ca .. 128 ..
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ॥ तत्तु भागवतं प्रोक्तं ननु देवीपुराणकम् ॥ १२९॥
भगवत्याः च दुर्गायाः चरितम् यत्र विद्यते ॥ तत् तु भागवतम् प्रोक्तम् ननु देवीपुराणकम् ॥ १२९॥
bhagavatyāḥ ca durgāyāḥ caritam yatra vidyate .. tat tu bhāgavatam proktam nanu devīpurāṇakam .. 129..
नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ॥ यत्र वक्ताऽभवत्तण्डे मार्कण्डेयो महामुनिः ॥ 5.44.१३० ॥
नारद-उक्तम् पुराणन् तु नारदीयम् प्रचक्षते ॥ यत्र वक्ता अभवत् तण्डे मार्कण्डेयः महा-मुनिः ॥ ५।४४।१३० ॥
nārada-uktam purāṇan tu nāradīyam pracakṣate .. yatra vaktā abhavat taṇḍe mārkaṇḍeyaḥ mahā-muniḥ .. 5.44.130 ..
मार्कण्डेयपुराणं हि तदाख्यातं च सप्तमम् ॥ अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ॥ १३१ ॥
मार्कण्डेयपुराणम् हि तत् आख्यातम् च सप्तमम् ॥ अग्नि-योगात् तत् आग्नेयम् भविष्य-उक्तेः भविष्यकम् ॥ १३१ ॥
mārkaṇḍeyapurāṇam hi tat ākhyātam ca saptamam .. agni-yogāt tat āgneyam bhaviṣya-ukteḥ bhaviṣyakam .. 131 ..
विवर्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्तमुच्यते ॥ लिंगस्य चरितोक्तत्वात्पुराणं लिंगमुच्यते ॥ १३२ ॥
विवर्तनात् ब्रह्मणः तु ब्रह्मवैवर्तम् उच्यते ॥ लिंगस्य चरित-उक्त-त्वात् पुराणम् लिंगम् उच्यते ॥ १३२ ॥
vivartanāt brahmaṇaḥ tu brahmavaivartam ucyate .. liṃgasya carita-ukta-tvāt purāṇam liṃgam ucyate .. 132 ..
वराहस्य च वाराहं पुराणं द्वादशं मुने ॥ यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षान्महेश्वरः ॥ १३३ ॥
वराहस्य च वाराहम् पुराणम् द्वादशम् मुने ॥ यत्र स्कन्दः स्वयम् श्रोता वक्ता साक्षात् महेश्वरः ॥ १३३ ॥
varāhasya ca vārāham purāṇam dvādaśam mune .. yatra skandaḥ svayam śrotā vaktā sākṣāt maheśvaraḥ .. 133 ..
तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ॥ कौर्मं कूर्मस्य चरितं मात्स्यं मत्स्येन कीर्तितम् ॥ १३४ ॥
तत् तु स्कान्दम् समाख्यातम् वामनस्य तु वामनम् ॥ कौर्मम् कूर्मस्य चरितम् मात्स्यम् मत्स्येन कीर्तितम् ॥ १३४ ॥
tat tu skāndam samākhyātam vāmanasya tu vāmanam .. kaurmam kūrmasya caritam mātsyam matsyena kīrtitam .. 134 ..
गरुडस्तु स्वयं वक्ता यत्तद्गारुडसंज्ञकम् ॥ ब्रह्माण्डचरितोक्तत्वाद्ब्रह्माण्डं परिकीर्तितम् ॥ १३५ ॥
गरुडः तु स्वयम् वक्ता यत् तत् गारुड-संज्ञकम् ॥ ब्रह्माण्ड-चरित-उक्त-त्वात् ब्रह्माण्डम् परिकीर्तितम् ॥ १३५ ॥
garuḍaḥ tu svayam vaktā yat tat gāruḍa-saṃjñakam .. brahmāṇḍa-carita-ukta-tvāt brahmāṇḍam parikīrtitam .. 135 ..
सूत उवाच ।।
अयमेव मयाऽकारि प्रश्नो व्यासाय धीमते ॥ ततः सर्वपुराणानां मया निर्वचनं श्रुतम् ॥ १३६ ॥
अयम् एव मया अकारि प्रश्नः व्यासाय धीमते ॥ ततस् सर्व-पुराणानाम् मया निर्वचनम् श्रुतम् ॥ १३६ ॥
ayam eva mayā akāri praśnaḥ vyāsāya dhīmate .. tatas sarva-purāṇānām mayā nirvacanam śrutam .. 136 ..
एवं व्याससमुत्पन्नः सत्यवत्यां पराशरात् ॥ पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ १३७ ॥
एवम् व्यास-समुत्पन्नः सत्यवत्याम् पराशरात् ॥ पुराण-संहिताः चक्रे महाभारतम् उत्तमम् ॥ १३७ ॥
evam vyāsa-samutpannaḥ satyavatyām parāśarāt .. purāṇa-saṃhitāḥ cakre mahābhāratam uttamam .. 137 ..
पराशरेण संयोगः पुनः शन्तनुना यथा ॥ सत्यवत्या इव ब्रह्मन्नः संशयितुमर्हसि ॥ १३८ ॥
पराशरेण संयोगः पुनर् शन्तनुना यथा ॥ सत्यवत्याः इव ब्रह्मन् नः संशयितुम् अर्हसि ॥ १३८ ॥
parāśareṇa saṃyogaḥ punar śantanunā yathā .. satyavatyāḥ iva brahman naḥ saṃśayitum arhasi .. 138 ..
सकारणेयमुत्पत्तिः कथिताश्चर्य्यकारिणी ॥ महतां चरिते चैव गुणा ग्राह्या विचक्षणैः ॥ १३९ ॥
स कारणा इयम् उत्पत्तिः कथिता आश्चर्य्य-कारिणी ॥ महताम् चरिते च एव गुणाः ग्राह्याः विचक्षणैः ॥ १३९ ॥
sa kāraṇā iyam utpattiḥ kathitā āścaryya-kāriṇī .. mahatām carite ca eva guṇāḥ grāhyāḥ vicakṣaṇaiḥ .. 139 ..
इदं रहस्यं परमं यः शृणोति पठत्यपि ॥ स सर्वपापनिर्मुक्त ऋषिलोके महीयते॥5.44.१४०॥
इदम् रहस्यम् परमम् यः शृणोति पठति अपि ॥ स सर्व-पाप-निर्मुक्तः ऋषि-लोके महीयते॥५।४४।१४०॥
idam rahasyam paramam yaḥ śṛṇoti paṭhati api .. sa sarva-pāpa-nirmuktaḥ ṛṣi-loke mahīyate..5.44.140..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां व्यासोत्पत्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् व्यासोत्पत्तिवर्णनम् नाम चतुश्चत्वारिंशः अध्यायः ॥ ४४॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām vyāsotpattivarṇanam nāma catuścatvāriṃśaḥ adhyāyaḥ .. 44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In