| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
श्रुत्वा शंभोः कथा रम्या नानाख्यानसमन्विता॥नानावतार संयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ॥ १॥
श्रुत्वा शंभोः कथा रम्या नाना आख्यान-समन्विता॥नाना अवतार-संयुक्ता भुक्ति-मुक्ति-प्रदा नृणाम् ॥ १॥
śrutvā śaṃbhoḥ kathā ramyā nānā ākhyāna-samanvitā..nānā avatāra-saṃyuktā bhukti-mukti-pradā nṛṇām .. 1..
इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर॥चरित्रं जगदंबाया भगवत्या मनोहरम्॥२॥
इदानीम् श्रोतुम् इच्छामः त्वत्तः ब्रह्म-विदाम् वर॥चरित्रम् जगदंबायाः भगवत्याः मनोहरम्॥२॥
idānīm śrotum icchāmaḥ tvattaḥ brahma-vidām vara..caritram jagadaṃbāyāḥ bhagavatyāḥ manoharam..2..
परब्रह्म महेशस्य शक्तिराद्या सनातनी ॥ उमा या समभिख्याता त्रैलोक्यजननी परा ॥ ३॥
पर-ब्रह्म महेशस्य शक्तिः आद्या सनातनी ॥ उमा या समभिख्याता त्रैलोक्य-जननी परा ॥ ३॥
para-brahma maheśasya śaktiḥ ādyā sanātanī .. umā yā samabhikhyātā trailokya-jananī parā .. 3..
सती हेमवती तस्या अवतारद्वयं श्रुतम्॥अपरानवतारांस्त्वं ब्रूहि सूत् महामते ॥ ४॥
सती हेमवती तस्याः अवतार-द्वयम् श्रुतम्॥अपरान् अवतारान् त्वम् ब्रूहि सूत् महामते ॥ ४॥
satī hemavatī tasyāḥ avatāra-dvayam śrutam..aparān avatārān tvam brūhi sūt mahāmate .. 4..
को विरज्येत मतिमान् गुणश्रवणकर्मणि ॥ श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन।५॥।
कः विरज्येत मतिमान् गुण-श्रवण-कर्मणि ॥ श्री-मातुः ज्ञानिनः यानि न त्यजन्ति कदाचन।५॥।
kaḥ virajyeta matimān guṇa-śravaṇa-karmaṇi .. śrī-mātuḥ jñāninaḥ yāni na tyajanti kadācana.5...
सूत उवाच ।।
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ॥ यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ॥ ६॥
धन्याः यूयम् महात्मानः कृतकृत्याः स्थ सर्वदा ॥ यत् पृच्छथ पर-अम्बायाः उमायाः चरितम् महत् ॥ ६॥
dhanyāḥ yūyam mahātmānaḥ kṛtakṛtyāḥ stha sarvadā .. yat pṛcchatha para-ambāyāḥ umāyāḥ caritam mahat .. 6..
शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ॥ पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ ७॥
शृण्वताम् पृच्छताम् च एव तथा वाचयताम् च तत् ॥ पाद-अम्बुज-रजांसि एव तीर्थानि मुनयः विदुः ॥ ७॥
śṛṇvatām pṛcchatām ca eva tathā vācayatām ca tat .. pāda-ambuja-rajāṃsi eva tīrthāni munayaḥ viduḥ .. 7..
ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ॥ येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ॥ ८ ॥
ते धन्या कृतकृत्याः स्युः धन्या तेषाम् प्रसूः कुलम् ॥ येषाम् चित्तम् भवेत् लीनम् श्री-देव्याम् पर-संविदि ॥ ८ ॥
te dhanyā kṛtakṛtyāḥ syuḥ dhanyā teṣām prasūḥ kulam .. yeṣām cittam bhavet līnam śrī-devyām para-saṃvidi .. 8 ..
ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ॥ मायागुणैर्मोहितास्स्युर्हतभाग्या न संशयः ॥ ९ ॥
ये न स्तुवन्ति देवेशीम् सर्व-कारण-कारणाम् ॥ माया-गुणैः मोहिताः स्युः हतभाग्याः न संशयः ॥ ९ ॥
ye na stuvanti deveśīm sarva-kāraṇa-kāraṇām .. māyā-guṇaiḥ mohitāḥ syuḥ hatabhāgyāḥ na saṃśayaḥ .. 9 ..
न भजन्ति महादेवीं करुणारससागराम् ॥ अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ॥ 5.45.१०॥
न भजन्ति महादेवीम् करुणा-रस-सागराम् ॥ अन्धकूपे पतन्ति एते घोरे संसार-रूपिणि ॥ ५।४५।१०॥
na bhajanti mahādevīm karuṇā-rasa-sāgarām .. andhakūpe patanti ete ghore saṃsāra-rūpiṇi .. 5.45.10..
गंगां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ॥ विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत्॥११॥
गंगाम् विहाय तृप्ति-अर्थम् मरु-वारि यथा व्रजेत् ॥ विहाय देवीम् तद्-भिन्नम् तथा देव-अन्तरम् व्रजेत्॥११॥
gaṃgām vihāya tṛpti-artham maru-vāri yathā vrajet .. vihāya devīm tad-bhinnam tathā deva-antaram vrajet..11..
यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम्॥अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ॥ १२ ॥
यस्याः स्मरण-मात्रेण पुरुष-अर्थ-चतुष्टयम्॥अनायासेन लभते कः त्यजेत् ताम् नर-उत्तमः ॥ १२ ॥
yasyāḥ smaraṇa-mātreṇa puruṣa-artha-catuṣṭayam..anāyāsena labhate kaḥ tyajet tām nara-uttamaḥ .. 12 ..
एतत्पृष्टः पुरा मेधास्सुरथेन महात्मना ॥ यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ॥ १३ ॥
एतत् पृष्टः पुरा मेधाः सुरथेन महात्मना ॥ यत् उक्तम् मेधसा पूर्वम् तत् शृणुष्व वदामि ते ॥ १३ ॥
etat pṛṣṭaḥ purā medhāḥ surathena mahātmanā .. yat uktam medhasā pūrvam tat śṛṇuṣva vadāmi te .. 13 ..
स्वारोचिषेन्तरे पूर्वं विरथो नाम पार्थिवः ॥ सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ॥ १४ ॥
स्वारोचिष-इन्तरे पूर्वम् विरथः नाम पार्थिवः ॥ सुरथः तस्य पुत्रः अभूत् महा-बल-पराक्रमः ॥ १४ ॥
svārociṣa-intare pūrvam virathaḥ nāma pārthivaḥ .. surathaḥ tasya putraḥ abhūt mahā-bala-parākramaḥ .. 14 ..
दानशौण्डः सत्यवादी स्वधर्म्म कुशलः कृती ॥ देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ॥ १५ ॥
दान-शौण्डः सत्य-वादी स्वधर्म-कुशलः कृती ॥ ॥ १५ ॥
dāna-śauṇḍaḥ satya-vādī svadharma-kuśalaḥ kṛtī .. .. 15 ..
पृथिवीं शासतस्तस्य पाकशासनतेजसः ॥ बभूबुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः॥१६॥
पृथिवीम् शासतः तस्य पाकशासन-तेजसः ॥ बभूबुः नव ये भूपाः पृथ्वी-ग्रहण-तत्पराः॥१६॥
pṛthivīm śāsataḥ tasya pākaśāsana-tejasaḥ .. babhūbuḥ nava ye bhūpāḥ pṛthvī-grahaṇa-tatparāḥ..16..
कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ॥ तैस्समन्तुमुलं युद्धं समपद्यत दारुणम्॥१७॥
कोला-नाम्नीम् राजधानीम् रुरुधुः तस्य भूपतेः ॥ तैः समन् तुमुलम् युद्धम् समपद्यत दारुणम्॥१७॥
kolā-nāmnīm rājadhānīm rurudhuḥ tasya bhūpateḥ .. taiḥ saman tumulam yuddham samapadyata dāruṇam..17..
युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ॥ उज्जासितच्च कोलाया हृत्वा राज्यमशेषतः॥१८॥
युद्धे स निर्जितः भूपः प्रबलैः तैः द्विषत्-गणैः ॥ कोलायाः हृत्वा राज्यम् अशेषतस्॥१८॥
yuddhe sa nirjitaḥ bhūpaḥ prabalaiḥ taiḥ dviṣat-gaṇaiḥ .. kolāyāḥ hṛtvā rājyam aśeṣatas..18..
स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमंत्रिभिः ॥ तत्रापि च महःपक्षैर्विपक्षैस्स पराजितः॥१९॥
स राजा स्व-पुरीम् एत्य अकरोत् राज्यम् स्व-मंत्रिभिः ॥ तत्र अपि च महःपक्षैः विपक्षैः स पराजितः॥१९॥
sa rājā sva-purīm etya akarot rājyam sva-maṃtribhiḥ .. tatra api ca mahaḥpakṣaiḥ vipakṣaiḥ sa parājitaḥ..19..
दैवाच्छत्रुत्वमापन्नै रमात्यप्रमुखैर्गणैः ॥ कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ॥ 5.45.२०॥
दैवात् शत्रु-त्वम् आपन्नैः रमात्य-प्रमुखैः गणैः ॥ कोश-स्थितम् च यत् वित्तम् तत् सर्वम् च आत्मसात्कृतम् ॥ ५।४५।२०॥
daivāt śatru-tvam āpannaiḥ ramātya-pramukhaiḥ gaṇaiḥ .. kośa-sthitam ca yat vittam tat sarvam ca ātmasātkṛtam .. 5.45.20..
ततस्स निर्गतो राजा नगरान्मृगया छलात् ॥ असहायोऽश्वमारुह्य जगाम गहनं वनम् ॥ २१ ॥
ततस् स निर्गतः राजा नगरात् मृगया छलात् ॥ असहायः अश्वम् आरुह्य जगाम गहनम् वनम् ॥ २१ ॥
tatas sa nirgataḥ rājā nagarāt mṛgayā chalāt .. asahāyaḥ aśvam āruhya jagāma gahanam vanam .. 21 ..
इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ॥ ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ॥ २२॥
इतस् ततस् तत्र गच्छन् राजा मुनि-वर-आश्रमम् ॥ ददर्श कुसुम-आराम-भ्राजितम् सर्वतोदिशम् ॥ २२॥
itas tatas tatra gacchan rājā muni-vara-āśramam .. dadarśa kusuma-ārāma-bhrājitam sarvatodiśam .. 22..
वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ॥ शिष्यैः प्रशिष्यैस्तच्छिष्यैस्समन्तात्परिवेष्टितम् ॥ २३॥
वेद-ध्वनि-समाकीर्णम् शान्त-जन्तु-समाश्रितम् ॥ शिष्यैः प्रशिष्यैः तद्-शिष्यैः समन्तात् परिवेष्टितम् ॥ २३॥
veda-dhvani-samākīrṇam śānta-jantu-samāśritam .. śiṣyaiḥ praśiṣyaiḥ tad-śiṣyaiḥ samantāt pariveṣṭitam .. 23..
व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ॥ तदाश्रमे न बाधन्ते द्विजवर्य्यप्रभावतः ॥ २४॥
व्याघ्र-आदयः महा-वीर्याः अल्प-वीर्यात् महामते ॥ तद्-आश्रमे न बाधन्ते द्विज-वर्य्य-प्रभावतः ॥ २४॥
vyāghra-ādayaḥ mahā-vīryāḥ alpa-vīryāt mahāmate .. tad-āśrame na bādhante dvija-varyya-prabhāvataḥ .. 24..
उवास तत्र नृपतिर्महाकारुणिको बुधः ॥ सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ॥ २५ ॥
उवास तत्र नृपतिः महा-कारुणिकः बुधः ॥ सत्कृतः मुनि-नाथेन सु वचः भोजन-आसनैः ॥ २५ ॥
uvāsa tatra nṛpatiḥ mahā-kāruṇikaḥ budhaḥ .. satkṛtaḥ muni-nāthena su vacaḥ bhojana-āsanaiḥ .. 25 ..
एकदा स महाराजश्चिंतामाप दुरत्ययाम् ॥ अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ॥ २६ ॥
एकदा स महा-राजः चिंताम् आप दुरत्ययाम् ॥ अहो मे हीन-भाग्यस्य दुर्बुद्धेः हीन-तेजसः ॥ २६ ॥
ekadā sa mahā-rājaḥ ciṃtām āpa duratyayām .. aho me hīna-bhāgyasya durbuddheḥ hīna-tejasaḥ .. 26 ..
हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ॥ मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ॥ २७ ॥
हृतम् राज्यम् अशेषेण शत्रु-वर्गैः मद-उद्धतैः ॥ मद्-पूर्वैः रक्षितम् राज्यम् शत्रुभिः भुज्यते अधुना ॥ २७ ॥
hṛtam rājyam aśeṣeṇa śatru-vargaiḥ mada-uddhataiḥ .. mad-pūrvaiḥ rakṣitam rājyam śatrubhiḥ bhujyate adhunā .. 27 ..
मादृशश्चैत्रवंशेस्मिन्न कोप्यासीन्महीपतिः ॥ किं करोमि क्व गच्छामि कथं राज्यं लभेमहि ॥ २८ ॥
मादृशः चैत्र-वंशे स्मिन् न कः पि आसीत् महीपतिः ॥ किम् करोमि क्व गच्छामि कथम् राज्यम् लभेमहि ॥ २८ ॥
mādṛśaḥ caitra-vaṃśe smin na kaḥ pi āsīt mahīpatiḥ .. kim karomi kva gacchāmi katham rājyam labhemahi .. 28 ..
अमात्या मंत्रिणश्चैव मामका ये सनातनाः ॥ न जाने कं च नृपतिं समासाद्याधुनासते ॥ २९ ॥
अमात्याः मंत्रिणः च एव मामकाः ये सनातनाः ॥ न जाने कम् च नृपतिम् समासाद्य अधुना आसते ॥ २९ ॥
amātyāḥ maṃtriṇaḥ ca eva māmakāḥ ye sanātanāḥ .. na jāne kam ca nṛpatim samāsādya adhunā āsate .. 29 ..
विनाश्य राज्यमधुना न जाने कां गतिं गताः ॥ रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः ॥ 5.45.३० ॥
विनाश्य राज्यम् अधुना न जाने काम् गतिम् गताः ॥ रण-भूमि-महा-उत्साहाः अरि-वर्ग-निकर्तनाः ॥ ५।४५।३० ॥
vināśya rājyam adhunā na jāne kām gatim gatāḥ .. raṇa-bhūmi-mahā-utsāhāḥ ari-varga-nikartanāḥ .. 5.45.30 ..
मामका ये महाशूरा नृपमन्यं भजन्ति ते ॥ पर्वताभा गजा अश्वा वातवद्वेगगामिनः ॥ ३१॥
मामकाः ये महा-शूराः नृपम् अन्यम् भजन्ति ते ॥ पर्वत-आभाः गजाः अश्वाः वात-वत् वेग-गामिनः ॥ ३१॥
māmakāḥ ye mahā-śūrāḥ nṛpam anyam bhajanti te .. parvata-ābhāḥ gajāḥ aśvāḥ vāta-vat vega-gāminaḥ .. 31..
पूर्वपूर्वार्जितः कोशः पाल्यते तैर्नवाधुना ॥ एवं मोहवशं यातो राजा परमधार्मिकः ॥ ३२ ॥
पूर्व-पूर्व-अर्जितः कोशः पाल्यते तैः नव अधुना ॥ एवम् मोह-वशम् यातः राजा परम-धार्मिकः ॥ ३२ ॥
pūrva-pūrva-arjitaḥ kośaḥ pālyate taiḥ nava adhunā .. evam moha-vaśam yātaḥ rājā parama-dhārmikaḥ .. 32 ..
एतस्मिन्नंतरे तत्र वैश्यः कश्चित्समागतः॥राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः॥३३॥
एतस्मिन् अन्तरे तत्र वैश्यः कश्चिद् समागतः॥राजा पप्रच्छ कः त्वम् भोः किमर्थम् इह च आगतः॥३३॥
etasmin antare tatra vaiśyaḥ kaścid samāgataḥ..rājā papraccha kaḥ tvam bhoḥ kimartham iha ca āgataḥ..33..
दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् ॥ इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम् ॥ ३४ ॥
दुर्मनाः लक्ष्यसे कस्मात् एतत् मे ब्रूहि साम्प्रतम् ॥ इति आकर्ण्य वचः रम्यम् नरपालेन भाषितम् ॥ ३४ ॥
durmanāḥ lakṣyase kasmāt etat me brūhi sāmpratam .. iti ākarṇya vacaḥ ramyam narapālena bhāṣitam .. 34 ..
दृग्भ्यां विमुंचन्नश्रूणि समाधिर्वैश्यपुंगवः ॥ प्रत्युवाच महीपालं प्रणयावनतो गिरम् ॥ ३५ ॥
दृग्भ्याम् विमुंचन् अश्रूणि समाधिः वैश्य-पुंगवः ॥ प्रत्युवाच महीपालम् प्रणय-अवनतः गिरम् ॥ ३५ ॥
dṛgbhyām vimuṃcan aśrūṇi samādhiḥ vaiśya-puṃgavaḥ .. pratyuvāca mahīpālam praṇaya-avanataḥ giram .. 35 ..
।। वैश्य उवाच ।।
समाधिर्नाम वैश्योहं धनिवंशसमुद्भवः ॥ पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते ॥ ३६ ॥
समाधिः नाम धनि-वंश-समुद्भवः ॥ पुत्र-दार-आदिभिः त्यक्तः धन-लोभात् महीपते ॥ ३६ ॥
samādhiḥ nāma dhani-vaṃśa-samudbhavaḥ .. putra-dāra-ādibhiḥ tyaktaḥ dhana-lobhāt mahīpate .. 36 ..
स वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा ॥ सोहं पुत्रप्रपौत्राणां कलत्राणां तथैव च ॥ ३७ ॥
स वनम् अभ्यागतः राजन् दुःखितः स्वेन कर्मणा ॥ सः उहम् पुत्र-प्रपौत्राणाम् कलत्राणाम् तथा एव च ॥ ३७ ॥
sa vanam abhyāgataḥ rājan duḥkhitaḥ svena karmaṇā .. saḥ uham putra-prapautrāṇām kalatrāṇām tathā eva ca .. 37 ..
भ्रातॄणां भ्रातृपुत्राणां परेषां सुहृदां तथा ॥ न वेद्मि कुशलं सम्यक्करुणासागर प्रभो ॥ ३८॥
भ्रातॄणाम् भ्रातृ-पुत्राणाम् परेषाम् सुहृदाम् तथा ॥ न वेद्मि कुशलम् सम्यक् करुणा-सागर प्रभो ॥ ३८॥
bhrātṝṇām bhrātṛ-putrāṇām pareṣām suhṛdām tathā .. na vedmi kuśalam samyak karuṇā-sāgara prabho .. 38..
राजोवाच ।।
निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः ॥ तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत्॥३९॥
निष्कासितः यैः पुत्र-आद्यैः दुर्वृत्तैः धन-गर्धिभिः ॥ तेषु किम् भवता प्रीतिः क्रियते मूर्ख-जन्तु-वत्॥३९॥
niṣkāsitaḥ yaiḥ putra-ādyaiḥ durvṛttaiḥ dhana-gardhibhiḥ .. teṣu kim bhavatā prītiḥ kriyate mūrkha-jantu-vat..39..
वैश्य उवाच ।।
सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् ॥ तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः॥5.45.४०॥
सम्यक् उक्तम् त्वया राजन् वचः सार-अर्थ-बृंहितम् ॥ तथा अपि स्नेह-पाशेन मोह्यते अतीव मे मनः॥५।४५।४०॥
samyak uktam tvayā rājan vacaḥ sāra-artha-bṛṃhitam .. tathā api sneha-pāśena mohyate atīva me manaḥ..5.45.40..
एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम ॥ जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिन्तदा ॥ ४१॥
एवम् मोह-आकुलौ वैश्य-पार्थिवौ मुनि-सत्तम ॥ जग्मतुः मुनि-वर्यस्य मेधसः सन्निधिन् तदा ॥ ४१॥
evam moha-ākulau vaiśya-pārthivau muni-sattama .. jagmatuḥ muni-varyasya medhasaḥ sannidhin tadā .. 41..
स वैश्यराजसहितो नरराजः प्रतापवान् ॥ प्रणनाम महावीरः शिरसा योगिनां वरम् ॥ ४२॥
स वैश्य-राज-सहितः नर-राजः प्रतापवान् ॥ प्रणनाम महा-वीरः शिरसा योगिनाम् वरम् ॥ ४२॥
sa vaiśya-rāja-sahitaḥ nara-rājaḥ pratāpavān .. praṇanāma mahā-vīraḥ śirasā yoginām varam .. 42..
बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् ॥ भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम् ॥ ४३ ॥
बद्ध्वा अञ्जलिम् इमाम् वाचम् उवाच नृपतिः मुनिम् ॥ भगवन् न आवयोः मोहम् छेत्तुम् अर्हसि साम्प्रतम् ॥ ४३ ॥
baddhvā añjalim imām vācam uvāca nṛpatiḥ munim .. bhagavan na āvayoḥ moham chettum arhasi sāmpratam .. 43 ..
अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः ॥ तथापि हृतराज्यस्य तोषो नैवाभिजायते ॥ ४४ ॥ ।
अहम् राज-श्रिया त्यक्तः गहनम् वनम् आश्रितः ॥ तथा अपि हृत-राज्यस्य तोषः न एव अभिजायते ॥ ४४ ॥ ।
aham rāja-śriyā tyaktaḥ gahanam vanam āśritaḥ .. tathā api hṛta-rājyasya toṣaḥ na eva abhijāyate .. 44 .. .
अयं च वैश्यस्स्वजनैर्दाराद्यैर्निष्कृतो गृहात् ॥ तथाप्येतस्य ममता न निवृत्तिं समश्नुते ॥ ४५ ॥
अयम् च वैश्यः स्व-जनैः दार-आद्यैः निष्कृतः गृहात् ॥ तथा अपि एतस्य ममता न निवृत्तिम् समश्नुते ॥ ४५ ॥
ayam ca vaiśyaḥ sva-janaiḥ dāra-ādyaiḥ niṣkṛtaḥ gṛhāt .. tathā api etasya mamatā na nivṛttim samaśnute .. 45 ..
किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः ॥ मोहेन व्याकुलं जातं महत्येषां हि मूर्खता ॥ ४६ ॥
किम् अत्र कारणम् ब्रूहि ज्ञानिनोः अपि नः मनः ॥ मोहेन व्याकुलम् जातम् महती एषाम् हि मूर्ख-ता ॥ ४६ ॥
kim atra kāraṇam brūhi jñāninoḥ api naḥ manaḥ .. mohena vyākulam jātam mahatī eṣām hi mūrkha-tā .. 46 ..
ऋषि उवाच ।।
महामाया जगद्धात्री शक्तिरूपा सनातनी ॥ सा मोहयति सर्वेषां समाकृष्य मनांसि वै॥४७॥
॥ सा मोहयति सर्वेषाम् समाकृष्य मनांसि वै॥४७॥
.. sā mohayati sarveṣām samākṛṣya manāṃsi vai..47..
ब्रह्मादयस्सुरास्सर्वे यन्मायामोहिताः प्रभो ॥ न जानन्ति परन्तत्त्वं मनुष्याणां च का कथा ॥ ४८ ॥
ब्रह्म-आदयः सुराः सर्वे यत् माया-मोहिताः प्रभो ॥ न जानन्ति परन् तत्त्वम् मनुष्याणाम् च का कथा ॥ ४८ ॥
brahma-ādayaḥ surāḥ sarve yat māyā-mohitāḥ prabho .. na jānanti paran tattvam manuṣyāṇām ca kā kathā .. 48 ..
सा सृजत्यखिलं विश्वं सैव पालयतीति च ॥ सैव संहरते काले त्रिगुणा परमेश्वरी ॥ ४९॥
सा सृजति अखिलम् विश्वम् सा एव पालयति इति च ॥ सा एव संहरते काले त्रिगुणा परमेश्वरी ॥ ४९॥
sā sṛjati akhilam viśvam sā eva pālayati iti ca .. sā eva saṃharate kāle triguṇā parameśvarī .. 49..
यस्योपरि प्रसन्ना सा वरदा कामरूपिणी॥स एव मोहमत्येति नान्यथा नृपसत्तम ॥ 5.45.५०॥
यस्य उपरि प्रसन्ना सा वर-दा कामरूपिणी॥सः एव मोहम् अत्येति न अन्यथा नृप-सत्तम ॥ ५।४५।५०॥
yasya upari prasannā sā vara-dā kāmarūpiṇī..saḥ eva moham atyeti na anyathā nṛpa-sattama .. 5.45.50..
राजोवाच ।।
का सा देवी महामाया या च मोहयतेऽखिलान्॥कथं जाता च सा देवी कृपया वद मे मुने ॥ ५१ ॥
का सा देवी महामाया या च मोहयते अखिलान्॥कथम् जाता च सा देवी कृपया वद मे मुने ॥ ५१ ॥
kā sā devī mahāmāyā yā ca mohayate akhilān..katham jātā ca sā devī kṛpayā vada me mune .. 51 ..
ऋषिरुवाच ।।
जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् ॥ योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः ॥ ५२ ॥
जगति एकार्णवे जाते शेषम् आस्तीर्य योग-राज् ॥ योगनिद्राम् उपाश्रित्य यदा सुष्वाप केशवः ॥ ५२ ॥
jagati ekārṇave jāte śeṣam āstīrya yoga-rāj .. yoganidrām upāśritya yadā suṣvāpa keśavaḥ .. 52 ..
तदा द्वावसुरौ जातौ विष्णौ कर्णमलेन वै ॥ मधुकैटभनामानौ विख्यातौ पृथिवीतले ॥ ५३ ॥
तदा द्वौ असुरौ जातौ विष्णौ कर्ण-मलेन वै ॥ मधु-कैटभ-नामानौ विख्यातौ पृथिवी-तले ॥ ५३ ॥
tadā dvau asurau jātau viṣṇau karṇa-malena vai .. madhu-kaiṭabha-nāmānau vikhyātau pṛthivī-tale .. 53 ..
प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू ॥ दंष्द्राकरालवदनौ भक्षयन्तौ जगन्ति वा॥५४॥
प्रलय-अर्क-प्रभौ घोरौ महा-कायौ महा-हनू ॥ दंष्द्रा-कराल-वदनौ भक्षयन्तौ जगन्ति वा॥५४॥
pralaya-arka-prabhau ghorau mahā-kāyau mahā-hanū .. daṃṣdrā-karāla-vadanau bhakṣayantau jaganti vā..54..
तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् ॥ हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ ॥ ५५॥
तौ दृष्ट्वा भगवत्-नाभि-पङ्कजे कमलासनम् ॥ हननाय उद्यतौ आस्ताम् कः त्वम् भोः इति वादिनौ ॥ ५५॥
tau dṛṣṭvā bhagavat-nābhi-paṅkaje kamalāsanam .. hananāya udyatau āstām kaḥ tvam bhoḥ iti vādinau .. 55..
समालोक्यं तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् ॥ शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम् ॥ ५६॥
समालोक्यम् तु तौ दैत्यौ सुरज्येष्ठः जनार्दनम् ॥ शयानम् च पयः-म्भोधौ तुष्टाव परमेश्वरीम् ॥ ५६॥
samālokyam tu tau daityau surajyeṣṭhaḥ janārdanam .. śayānam ca payaḥ-mbhodhau tuṣṭāva parameśvarīm .. 56..
ब्रह्मोवाच।।
रक्षरक्ष महामाये शरणागतवत्सले॥एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके॥५७॥
रक्ष रक्ष महामाये शरण-आगत-वत्सले॥एताभ्याम् घोर-रूपाभ्याम् दैत्याभ्याम् जगदम्बिके॥५७॥
rakṣa rakṣa mahāmāye śaraṇa-āgata-vatsale..etābhyām ghora-rūpābhyām daityābhyām jagadambike..57..
प्रणमामि महामायां योगनिद्रामुमां सतीम् ॥ कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ५८॥
प्रणमामि महामायाम् योगनिद्राम् उमाम् सतीम् ॥ कालरात्रिम् महारात्रिम् मोहरात्रिम् परात्पराम्॥
praṇamāmi mahāmāyām yoganidrām umām satīm .. kālarātrim mahārātrim moharātrim parātparām..
त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ॥ पालिनीं सर्वदेवानां करुणावरुणालयम् ॥ ५९ ॥
त्रिदेव-जननीम् नित्याम् भक्त-अभीष्ट-फल-प्रदाम् ॥ पालिनीम् सर्व-देवानाम् करुणा-वरुणालयम् ॥ ५९ ॥
trideva-jananīm nityām bhakta-abhīṣṭa-phala-pradām .. pālinīm sarva-devānām karuṇā-varuṇālayam .. 59 ..
त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ॥ सृजत्यवति संसारं काले संहरतीति च ॥ 5.45.६०॥
त्वद्-प्रभावात् अहम् ब्रह्मा माधवः गिरिजापतिः ॥ सृजति अवति संसारम् काले संहरति इति च ॥ ५।४५।६०॥
tvad-prabhāvāt aham brahmā mādhavaḥ girijāpatiḥ .. sṛjati avati saṃsāram kāle saṃharati iti ca .. 5.45.60..
त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ॥ तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया ॥ ६१॥
त्वम् स्वाहा त्वम् स्वधा त्वम् ह्रीः त्वम् बुद्धिः विमला मता ॥ तुष्टिः पुष्टिः त्वम् एव अम्ब शान्तिः क्षान्तिः क्षुधा दया ॥ ६१॥
tvam svāhā tvam svadhā tvam hrīḥ tvam buddhiḥ vimalā matā .. tuṣṭiḥ puṣṭiḥ tvam eva amba śāntiḥ kṣāntiḥ kṣudhā dayā .. 61..
विष्णु माया त्वमेवाम्ब त्वमेव चेतना मता॥त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च ॥ ६२॥
विष्णु माया त्वम् एव अम्ब त्वम् एव चेतना मता॥त्वम् शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वम् एव च ॥ ६२॥
viṣṇu māyā tvam eva amba tvam eva cetanā matā..tvam śaktiḥ paramā proktā lajjā tṛṣṇā tvam eva ca .. 62..
भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता ॥ त्वं लक्ष्मीर्भवने पुंसां पुण्याक्षरप्रवर्तिनाम् ॥ ६३॥
भ्रान्तिः त्वम् स्मृति-रूपा त्वम् मातृ-रूपेण संस्थिता ॥ त्वम् लक्ष्मीः भवने पुंसाम् पुण्य-अक्षर-प्रवर्तिनाम् ॥ ६३॥
bhrāntiḥ tvam smṛti-rūpā tvam mātṛ-rūpeṇa saṃsthitā .. tvam lakṣmīḥ bhavane puṃsām puṇya-akṣara-pravartinām .. 63..
त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि॥त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता ॥ ६४ ॥
त्वम् जातिः त्वम् मता वृत्तिः व्याप्ति-रूपा त्वम् एव हि॥त्वम् एव चित्ति-रूपेण व्याप्य कृत्स्नम् प्रतिष्ठिता ॥ ६४ ॥
tvam jātiḥ tvam matā vṛttiḥ vyāpti-rūpā tvam eva hi..tvam eva citti-rūpeṇa vyāpya kṛtsnam pratiṣṭhitā .. 64 ..
सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके ।प्रबोधय जगद्योने नारायणमजं विभुम् ॥ ६५ ॥
सा त्वम् एतौ दुराधर्षौ असुरौ मोहय अम्बिके ।प्रबोधय जगद्योने नारायणम् अजम् विभुम् ॥ ६५ ॥
sā tvam etau durādharṣau asurau mohaya ambike .prabodhaya jagadyone nārāyaṇam ajam vibhum .. 65 ..
ऋषिरुवाच ।। ।।
ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने ॥ महाविद्याजगद्धात्री सर्वविद्याधिदेवता ॥ ६६॥
ब्रह्मणा प्रार्थिता सा इयम् मधु-कैटभ-नाशने ॥ सर्व ॥ ६६॥
brahmaṇā prārthitā sā iyam madhu-kaiṭabha-nāśane .. sarva .. 66..
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ॥ महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी ॥ ६७॥
द्वादश्याम् फाल्गुनस्य एव शुक्लायाम् समभूत् नृप ॥ महाकाली इति विख्याता शक्तिः त्रैलोक्य-मोहिनी ॥ ६७॥
dvādaśyām phālgunasya eva śuklāyām samabhūt nṛpa .. mahākālī iti vikhyātā śaktiḥ trailokya-mohinī .. 67..
ततोऽभवद्वियद्वाणी मा भैषीः कमलासन॥कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ ॥ ६८॥
ततस् अभवत् वियत्-वाणी मा भैषीः कमलासन॥कण्टकम् नाशयामि अद्य हत्वा आजौ मधु-कैटभौ ॥ ६८॥
tatas abhavat viyat-vāṇī mā bhaiṣīḥ kamalāsana..kaṇṭakam nāśayāmi adya hatvā ājau madhu-kaiṭabhau .. 68..
इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः॥निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥ ६९ ॥
इति उक्त्वा सा महामाया नेत्र-वक्त्र-आदितस् हरेः॥निर्गम्य दर्शने तस्थौ ब्रह्मणः अव्यक्त-जन्मनः ॥ ६९ ॥
iti uktvā sā mahāmāyā netra-vaktra-āditas hareḥ..nirgamya darśane tasthau brahmaṇaḥ avyakta-janmanaḥ .. 69 ..
उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः ॥ स ददर्श पुरो दैत्यो मधुकैटभसंज्ञकौ ॥ 5.45.७०॥
उत्तस्थौ च हृषीकेशः देवदेवः जनार्दनः ॥ स ददर्श पुरस् दैत्यः मधु-कैटभ-संज्ञकौ ॥ ५।४५।७०॥
uttasthau ca hṛṣīkeśaḥ devadevaḥ janārdanaḥ .. sa dadarśa puras daityaḥ madhu-kaiṭabha-saṃjñakau .. 5.45.70..
ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः ॥ पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा ॥ ७१॥
ताभ्याम् प्रववृत्ते युद्धम् विष्णोः अतुल-तेजसः ॥ पञ्च-वर्ष-सहस्राणि बाहु-युद्धम् अभूत् तदा ॥ ७१॥
tābhyām pravavṛtte yuddham viṣṇoḥ atula-tejasaḥ .. pañca-varṣa-sahasrāṇi bāhu-yuddham abhūt tadā .. 71..
महामायाप्रभावेण मोहितो दानवोत्तमौ ॥ जजल्पतू रमाकान्तं गृहाण वरमीप्सितम् । ७२ ॥
महा-माया-प्रभावेण मोहितः दानव-उत्तमौ ॥ जजल्पतुः रमा-कान्तम् गृहाण वरम् ईप्सितम् । ७२ ॥
mahā-māyā-prabhāveṇa mohitaḥ dānava-uttamau .. jajalpatuḥ ramā-kāntam gṛhāṇa varam īpsitam . 72 ..
नारायण उवाच ।।
मयि प्रसन्नौ यदि वां दीयतामेष मे वरः ॥ मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम् ॥ ७३ ॥
मयि प्रसन्नौ यदि वाम् दीयताम् एष मे वरः ॥ मम वध्यौ उभौ न अन्यम् युवाभ्याम् प्रार्थये वरम् ॥ ७३ ॥
mayi prasannau yadi vām dīyatām eṣa me varaḥ .. mama vadhyau ubhau na anyam yuvābhyām prārthaye varam .. 73 ..
ऋथिरुवाच ।।
एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः ॥ आवां जहि न यत्रासौ धरणी पयसाऽ ऽप्लुता ॥ ७४ ॥
एक-अर्णवाम् महीम् दृष्ट्वा प्रोचतुः केशवम् वचः ॥ आवाम् जहि न यत्र असौ धरणी पयसा आप्लुता ॥ ७४ ॥
eka-arṇavām mahīm dṛṣṭvā procatuḥ keśavam vacaḥ .. āvām jahi na yatra asau dharaṇī payasā āplutā .. 74 ..
तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् ॥ चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः॥७५॥
तथा अस्तु प्रोच्य भगवान् चक्रम् उत्थाप्य सु उज्ज्वलम् ॥ चिच्छेद शिरसी कृत्वा स्वकीय-जघने तयोः॥७५॥
tathā astu procya bhagavān cakram utthāpya su ujjvalam .. ciccheda śirasī kṛtvā svakīya-jaghane tayoḥ..75..
एवन्ते कथितो राजन्कालिकायास्समुद्भवः ॥ महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते ॥ ७६ ॥
कथितः राजन् कालिकायाः समुद्भवः ॥ महा-लक्ष्म्याः तथा उत्पत्तिम् निशामय महामते ॥ ७६ ॥
kathitaḥ rājan kālikāyāḥ samudbhavaḥ .. mahā-lakṣmyāḥ tathā utpattim niśāmaya mahāmate .. 76 ..
निर्विकारादि साकारा निराकारापि देव्युमा ॥ देवानां तापनाशार्थं प्रादुरासीद्युगेयुगे ॥ ७५ ॥
निर्विकार-आदि स आकारा निराकारा अपि देवी उमा ॥ देवानाम् ताप-नाश-अर्थम् प्रादुरासीत् युगे युगे ॥ ७५ ॥
nirvikāra-ādi sa ākārā nirākārā api devī umā .. devānām tāpa-nāśa-artham prādurāsīt yuge yuge .. 75 ..
यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः ॥ लीलया सापि भक्तानां गुणवर्णनहेतवे ॥ ७८ ॥ ॥
यत् इच्छा-वैभवम् सर्वम् तस्याः देह-ग्रहः स्मृतः ॥ लीलया सा अपि भक्तानाम् गुण-वर्णन-हेतवे ॥ ७८ ॥ ॥
yat icchā-vaibhavam sarvam tasyāḥ deha-grahaḥ smṛtaḥ .. līlayā sā api bhaktānām guṇa-varṇana-hetave .. 78 .. ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् मधुकैटभवधे महाकालिकावतारवर्णनम् नाम पंचचत्वारिंशः अध्यायः ॥ ४५ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām madhukaiṭabhavadhe mahākālikāvatāravarṇanam nāma paṃcacatvāriṃśaḥ adhyāyaḥ .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In