| |
|

This overlay will guide you through the buttons:

ऋषिरुवाच ।।
आसीद्रंभासुरो नाम दैत्यवंशशिरोमणिः ॥ तस्माज्जातो महातेजा महिषो नाम दानवः ॥ १ ॥
आसीत् रंभासुरः नाम दैत्य-वंश-शिरोमणिः ॥ तस्मात् जातः महा-तेजाः महिषः नाम दानवः ॥ १ ॥
āsīt raṃbhāsuraḥ nāma daitya-vaṃśa-śiromaṇiḥ .. tasmāt jātaḥ mahā-tejāḥ mahiṣaḥ nāma dānavaḥ .. 1 ..
स संग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ॥ चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥ २॥
स संग्रामे सुरान् सर्वान् निर्जित्य दनुज-अधिपः ॥ चकार राज्यम् स्वर् लोके महा-इन्द्र-आसन-संस्थितः ॥ २॥
sa saṃgrāme surān sarvān nirjitya danuja-adhipaḥ .. cakāra rājyam svar loke mahā-indra-āsana-saṃsthitaḥ .. 2..
पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ॥ ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥ ३॥
पराजिताः ततस् देवाः ब्रह्माणम् शरणम् ययुः ॥ ब्रह्मा अपि तान् समादाय ययौ यत्र वृषाकपी ॥ ३॥
parājitāḥ tatas devāḥ brahmāṇam śaraṇam yayuḥ .. brahmā api tān samādāya yayau yatra vṛṣākapī .. 3..
तत्र गत्वा सुरास्सर्वे नत्वा शंकरकेशवौ ॥ स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥ ४ ॥
तत्र गत्वा सुराः सर्वे नत्वा शंकर-केशवौ ॥ स्व-वृत्तम् कथायामासुः यथावत् अनुपूर्वशस् ॥ ४ ॥
tatra gatvā surāḥ sarve natvā śaṃkara-keśavau .. sva-vṛttam kathāyāmāsuḥ yathāvat anupūrvaśas .. 4 ..
भगवन्तौ वयं सर्वे महिषेण दुरात्मना ॥ उज्जासिताश्च स्वर्लोकान्निर्जित्य समरांगणे॥ ५ ॥
भगवन्तौ वयम् सर्वे महिषेण दुरात्मना ॥ उज्ज-असिताः च स्वर् लोकान् निर्जित्य समर-अंगणे॥ ५ ॥
bhagavantau vayam sarve mahiṣeṇa durātmanā .. ujja-asitāḥ ca svar lokān nirjitya samara-aṃgaṇe.. 5 ..
भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहि शं क्वचित् ॥ कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥ ६ ॥
भ्रमामः मर्त्य-लोके अस्मिन् न लभेमहि शम् क्वचिद् ॥ काम् काम् न दुर्दशाम् नीताः देवाः इन्द्र-पुरोगमाः ॥ ६ ॥
bhramāmaḥ martya-loke asmin na labhemahi śam kvacid .. kām kām na durdaśām nītāḥ devāḥ indra-purogamāḥ .. 6 ..
सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ॥ इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७ ॥
सूर्याचन्द्रमसौ पाशी कुबेरः यमः एव च ॥ इन्द्र-अग्नि-वात-गन्धर्वाः विद्याधर-सुचारणाः ॥ ७ ॥
sūryācandramasau pāśī kuberaḥ yamaḥ eva ca .. indra-agni-vāta-gandharvāḥ vidyādhara-sucāraṇāḥ .. 7 ..
एतेषामपरेषां च विधेयं कर्म सोसुरः ॥ स्वयं करोति पापात्मा दैत्यपक्ष भयंकर ॥ ८ ॥
एतेषाम् अपरेषाम् च विधेयम् कर्म स उसुरः ॥ स्वयम् करोति पाप-आत्मा दैत्य-पक्ष भयंकर ॥ ८ ॥
eteṣām apareṣām ca vidheyam karma sa usuraḥ .. svayam karoti pāpa-ātmā daitya-pakṣa bhayaṃkara .. 8 ..
तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ॥ वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥ ९ ॥
तस्मात् शरणम् आपन्नान् देवान् नः त्रातुम् अर्हथः ॥ वध-उपायम् च तस्य आशु चिन्तयेथाम् युवाम् प्रभू ॥ ९ ॥
tasmāt śaraṇam āpannān devān naḥ trātum arhathaḥ .. vadha-upāyam ca tasya āśu cintayethām yuvām prabhū .. 9 ..
इति देववचः श्रुत्वा दामोदरसतीश्वरौ ॥ चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥ 5.46.१० ॥
इति देव-वचः श्रुत्वा दामोदर-सतीश्वरौ ॥ चक्रतुः परमम् कोपम् रोष-आघूर्णित-लोचनौ ॥ ५।४६।१० ॥
iti deva-vacaḥ śrutvā dāmodara-satīśvarau .. cakratuḥ paramam kopam roṣa-āghūrṇita-locanau .. 5.46.10 ..
ततोतिकोपपूर्णस्य विष्णोश्शंभोश्च वक्त्रतः ॥ तथान्येषां च देवानां शरीरान्निर्गतं महः ॥ ११ ॥
ततस् उति कोप-पूर्णस्य विष्णोः शंभोः च वक्त्रतः ॥ तथा अन्येषाम् च देवानाम् शरीरात् निर्गतम् महः ॥ ११ ॥
tatas uti kopa-pūrṇasya viṣṇoḥ śaṃbhoḥ ca vaktrataḥ .. tathā anyeṣām ca devānām śarīrāt nirgatam mahaḥ .. 11 ..
अतीव महसः पुंजं ज्वलन्तं दशदिक्षु च ॥ अपश्यंस्त्रिदशास्सर्वे दुर्गा ध्यानपरायणाः ॥ १२ ॥
अतीव महसः पुंजम् ज्वलन्तम् दश-दिक्षु च ॥ अपश्यन् त्रिदशाः सर्वे दुर्गाः ध्यान-परायणाः ॥ १२ ॥
atīva mahasaḥ puṃjam jvalantam daśa-dikṣu ca .. apaśyan tridaśāḥ sarve durgāḥ dhyāna-parāyaṇāḥ .. 12 ..
सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ॥ संघीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥ १३॥
सर्व-देव-शरीर-उत्थम् तेजः तत् अति भीषणम् ॥ संघीभूय अभवत् नारी साक्षात् महिषमर्दिनी ॥ १३॥
sarva-deva-śarīra-uttham tejaḥ tat ati bhīṣaṇam .. saṃghībhūya abhavat nārī sākṣāt mahiṣamardinī .. 13..
शंभुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ॥ याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥ १४॥
शंभु-तेजसः उत्पन्नम् मुखम् अस्याः सु भास्वरम् ॥ याम्येन बालाः अभवन् वैष्णवेन च बाहवः ॥ १४॥
śaṃbhu-tejasaḥ utpannam mukham asyāḥ su bhāsvaram .. yāmyena bālāḥ abhavan vaiṣṇavena ca bāhavaḥ .. 14..
चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत॥मध्यमे न्द्रेण जंघोरू वारुणेन बभूवतुः ॥ १५ ॥
चन्द्रमः-तेजसा तस्याः स्तन-युग्मम् व्यजायत॥मध्यमे न्द्रेण जंघा-ऊरू वारुणेन बभूवतुः ॥ १५ ॥
candramaḥ-tejasā tasyāḥ stana-yugmam vyajāyata..madhyame ndreṇa jaṃghā-ūrū vāruṇena babhūvatuḥ .. 15 ..
भूतेजसा नितंबोभूद्ब्राह्मेण चरणद्वयम् ॥ आर्केण चरणांगुल्यः करांगुल्यश्च वासवात्॥१६॥
भू-तेजसा चरण-द्वयम् ॥ आर्केण चरण-अंगुल्यः कर-अंगुल्यः च वासवात्॥१६॥
bhū-tejasā caraṇa-dvayam .. ārkeṇa caraṇa-aṃgulyaḥ kara-aṃgulyaḥ ca vāsavāt..16..
कुबेरतेजसा नासा रदनाश्च प्रजापतेः ॥ पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥ १७॥
कुबेर-तेजसा नासाः रदनाः च प्रजापतेः ॥ पावकीयेन नयन-त्रयम् सान्ध्येन भ्रू-द्वयम् ॥ १७॥
kubera-tejasā nāsāḥ radanāḥ ca prajāpateḥ .. pāvakīyena nayana-trayam sāndhyena bhrū-dvayam .. 17..
आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ॥ तेजसां संभवः पद्मालया सा परमेश्वरी ॥ १८॥
आनिलेन श्रवः-द्वन्द्वम् तथा अन्येषाम् स्वरोकसाम् ॥ तेजसाम् संभवः पद्मालया सा परमेश्वरी ॥ १८॥
ānilena śravaḥ-dvandvam tathā anyeṣām svarokasām .. tejasām saṃbhavaḥ padmālayā sā parameśvarī .. 18..
ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ॥ तामालोक्य सुरास्सर्वे परं हर्षं प्रपेदिरे ॥ १९॥
ततस् निखिल-देवानाम् तेजः-राशि-समुद्भवाम् ॥ ताम् आलोक्य सुराः सर्वे परम् हर्षम् प्रपेदिरे ॥ १९॥
tatas nikhila-devānām tejaḥ-rāśi-samudbhavām .. tām ālokya surāḥ sarve param harṣam prapedire .. 19..
निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ॥ सायुधान्तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥ 5.46.२० ॥
निरायुधाम् च ताम् दृष्ट्वा ब्रह्म-आद्याः त्रिदिव-ईश्वराः ॥ स आयुध-अन्ताम् शिवाम् कर्तुम् मनः सन्दधिरे सुराः ॥ ५।४६।२० ॥
nirāyudhām ca tām dṛṣṭvā brahma-ādyāḥ tridiva-īśvarāḥ .. sa āyudha-antām śivām kartum manaḥ sandadhire surāḥ .. 5.46.20 ..
ततः शूलं महेशानो महेशान्यै समर्पयत ॥ चक्रं च कृष्णो भगवाञ्च्छंखं पाशं च पाशभृत ॥ २१ ॥
ततस् शूलम् महेशानः महेशान्यै समर्पयत ॥ चक्रम् च कृष्णः भगवान् शंखम् पाशम् च पाशभृत ॥ २१ ॥
tatas śūlam maheśānaḥ maheśānyai samarpayata .. cakram ca kṛṣṇaḥ bhagavān śaṃkham pāśam ca pāśabhṛta .. 21 ..
शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ॥ ॥।बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥ २२ ॥
शक्तिम् हुताशनः अयच्छत् मारुतः चापम् एव च ॥ ॥।बाण-पूर्ण-इषुधी च एव वज्रघण्टे शचीपतिः ॥ २२ ॥
śaktim hutāśanaḥ ayacchat mārutaḥ cāpam eva ca .. ...bāṇa-pūrṇa-iṣudhī ca eva vajraghaṇṭe śacīpatiḥ .. 22 ..
यमो ददौ कालदण्डमक्षमालां प्रजापतिः ॥ ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥ २३॥
यमः ददौ कालदण्डम् अक्षमालाम् प्रजापतिः ॥ ब्रह्मा कमण्डलुम् प्रादात् रोमरश्मीन् दिवाकरः ॥ २३॥
yamaḥ dadau kāladaṇḍam akṣamālām prajāpatiḥ .. brahmā kamaṇḍalum prādāt romaraśmīn divākaraḥ .. 23..
कालः खड्गन्ददौ तस्यै फलकं च समुज्वलम् ॥ क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥ २४ ॥
कालः खड्गन् ददौ तस्यै फलकम् च समुज्वलम् ॥ क्षीराब्धिः रुचिरम् हारम् अजरे च तथा अम्बरे ॥ २४ ॥
kālaḥ khaḍgan dadau tasyai phalakam ca samujvalam .. kṣīrābdhiḥ ruciram hāram ajare ca tathā ambare .. 24 ..
चूडामणिं कुण्डले च कटकानि तथैव च ॥ अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरो॥२५॥
चूडामणिम् कुण्डले च कटकानि तथा एव च ॥ अर्द्धचन्द्रम् च केयूरान् नूपुरौ च॥२५॥
cūḍāmaṇim kuṇḍale ca kaṭakāni tathā eva ca .. arddhacandram ca keyūrān nūpurau ca..25..
ग्रैवेयकमंगुलीषु समस्तास्वंगुलीयकम्॥विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥ २६ ॥
ग्रैवेयकम् अंगुलीषु समस्तासु अंगुलीयकम्॥विश्वकर्मा च परशुम् ददौ तस्यै मनोहरम् ॥ २६ ॥
graiveyakam aṃgulīṣu samastāsu aṃgulīyakam..viśvakarmā ca paraśum dadau tasyai manoharam .. 26 ..
अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ॥ सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥ २७ ॥
अस्त्राणि अनेकानि तथा अभेद्यम् च एव तनुच्छदम् ॥ सु रम्य-सरसाम् मालाम् पङ्कजम् च अम्बुधिः ददौ ॥ २७ ॥
astrāṇi anekāni tathā abhedyam ca eva tanucchadam .. su ramya-sarasām mālām paṅkajam ca ambudhiḥ dadau .. 27 ..
ददौ सिंहं च हिमवान्रत्नानि विविधानि च ॥ सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ॥ २८ ॥
ददौ सिंहम् च हिमवान् रत्नानि विविधानि च ॥ सुरया पूरितम् पात्रम् कुबेरः अस्यै समर्पयत् ॥ २८ ॥
dadau siṃham ca himavān ratnāni vividhāni ca .. surayā pūritam pātram kuberaḥ asyai samarpayat .. 28 ..
शेषश्च भोगिनां नेता विचित्रर चनाञ्चितम् ॥ ददौ तस्यै नागहारं नानास्त्रमणिगुंफितम् ॥ २९ ॥
शेषः च भोगिनाम् नेता विचित्रर चन-अञ्चितम् ॥ ददौ तस्यै नाग-हारम् नाना अस्त्र-मणि-गुंफितम् ॥ २९ ॥
śeṣaḥ ca bhoginām netā vicitrara cana-añcitam .. dadau tasyai nāga-hāram nānā astra-maṇi-guṃphitam .. 29 ..
एतैश्चान्यैस्सुरैर्देवी भूषणैरायुधैस्तथा ॥ सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः ॥ 5.46.३०॥
एतैः च अन्यैः सुरैः देवी भूषणैः आयुधैः तथा ॥ सत्कृता उच्चैस् ननाद असौ स अट्टहासम् पुनर् पुनर् ॥ ५।४६।३०॥
etaiḥ ca anyaiḥ suraiḥ devī bhūṣaṇaiḥ āyudhaiḥ tathā .. satkṛtā uccais nanāda asau sa aṭṭahāsam punar punar .. 5.46.30..
तस्या भीषणनादेन पूरिता च नभःस्थली ॥ प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ॥ ३१॥
तस्याः भीषण-नादेन पूरिता च नभः-स्थली ॥ प्रतिशब्दः महान् आसीत् चुक्षुभे भुवनत्रयम् ॥ ३१॥
tasyāḥ bhīṣaṇa-nādena pūritā ca nabhaḥ-sthalī .. pratiśabdaḥ mahān āsīt cukṣubhe bhuvanatrayam .. 31..
चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह ॥ जयशब्दस्ततो देवैरकारि महिषार्दितैः ॥ ३२॥
चेलुः समुद्राः चत्वारः वसुधा च चचाल ह ॥ जय-शब्दः ततस् देवैः अकारि महिष-अर्दितैः ॥ ३२॥
celuḥ samudrāḥ catvāraḥ vasudhā ca cacāla ha .. jaya-śabdaḥ tatas devaiḥ akāri mahiṣa-arditaiḥ .. 32..
ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् ॥ तुष्टुवुस्ते सुरास्सर्वे भक्तिगद्गदया गिरा ॥ ३३ ॥
ततस् अम्बिकाम् पराम् शक्तिम् महा-लक्ष्मी-स्वरूपिणीम् ॥ तुष्टुवुः ते सुराः सर्वे भक्ति-गद्गदया गिरा ॥ ३३ ॥
tatas ambikām parām śaktim mahā-lakṣmī-svarūpiṇīm .. tuṣṭuvuḥ te surāḥ sarve bhakti-gadgadayā girā .. 33 ..
लोकं संक्षुब्धमालोक्य देवतापरिपन्थिनः ॥ सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ॥ ३४ ॥
लोकम् संक्षुब्धम् आलोक्य देवता-परिपन्थिनः ॥ सन्नद्ध-सैनिकाः ते च समुत्तस्थुः उदायुधाः ॥ ३४ ॥
lokam saṃkṣubdham ālokya devatā-paripanthinaḥ .. sannaddha-sainikāḥ te ca samuttasthuḥ udāyudhāḥ .. 34 ..
महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः ॥ स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ॥ ३५ ॥ ।
महिषः अपि च तम् शब्दम् अभ्यधावत् रुषा अन्वितः ॥ स ददर्श ततस् देवीम् व्याप्त-लोक-त्रयाम् रुचा ॥ ३५ ॥ ।
mahiṣaḥ api ca tam śabdam abhyadhāvat ruṣā anvitaḥ .. sa dadarśa tatas devīm vyāpta-loka-trayām rucā .. 35 .. .
एतस्मिन्नन्तरे तत्र महिषासुरपालिताः ॥ समाजग्मुर्महावीराः कोटिशो धृतहेतयः॥३६॥
एतस्मिन् अन्तरे तत्र महिष-असुर-पालिताः ॥ समाजग्मुः महा-वीराः कोटिशस् धृत-हेतयः॥३६॥
etasmin antare tatra mahiṣa-asura-pālitāḥ .. samājagmuḥ mahā-vīrāḥ koṭiśas dhṛta-hetayaḥ..36..
चिक्षुरश्चामरोदग्रौ करालोद्धतबाष्कलाः ॥ ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ॥ ३७ ॥
चिक्षुरः चामर-उदग्रौ कराल-उद्धत-बाष्कलाः ॥ ताम्र-उग्र-आस्य-उग्र-वीर्याः च बिडालः अन्धकः एव च ॥ ३७ ॥
cikṣuraḥ cāmara-udagrau karāla-uddhata-bāṣkalāḥ .. tāmra-ugra-āsya-ugra-vīryāḥ ca biḍālaḥ andhakaḥ eva ca .. 37 ..
दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः ॥ एते चान्ये च बहवः शूरा युद्धविशा रदाः ॥ ३८ ॥
दुर्धरः दुर्मुखः च एव त्रिनेत्रः च महाहनुः ॥ एते च अन्ये च बहवः शूराः युद्ध-विशः रदाः ॥ ३८ ॥
durdharaḥ durmukhaḥ ca eva trinetraḥ ca mahāhanuḥ .. ete ca anye ca bahavaḥ śūrāḥ yuddha-viśaḥ radāḥ .. 38 ..
युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः ॥ इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ॥ ३९॥
युयुधुः समरे देव्या सह शस्त्र-अस्त्र-पारगाः ॥ इत्थम् कालः व्यतीयाय युध्यतोः भीषणः तयोः ॥ ३९॥
yuyudhuḥ samare devyā saha śastra-astra-pāragāḥ .. ittham kālaḥ vyatīyāya yudhyatoḥ bhīṣaṇaḥ tayoḥ .. 39..
अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः ॥ महामायाप्रभावेण विफला अभवन् क्षणात् ॥ 5.46.४० ॥
अरिवर्ग-कर-क्षिप्ताः नाना शस्त्र-अस्त्र-राशयः ॥ महामाया-प्रभावेण विफलाः अभवन् क्षणात् ॥ ५।४६।४० ॥
arivarga-kara-kṣiptāḥ nānā śastra-astra-rāśayaḥ .. mahāmāyā-prabhāveṇa viphalāḥ abhavan kṣaṇāt .. 5.46.40 ..
ततो जघान सा देवी चिक्षुरप्रमुखानरीन् ॥ सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ॥ ४१॥
ततस् जघान सा देवी चिक्षुर-प्रमुखान् अरीन् ॥ स गणान् गदया बाणैः शूल-शक्ति-परश्वधैः ॥ ४१॥
tatas jaghāna sā devī cikṣura-pramukhān arīn .. sa gaṇān gadayā bāṇaiḥ śūla-śakti-paraśvadhaiḥ .. 41..
एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः ॥ देवीनिःश्वाससंभूतान्भावयामास तान्गणान् ॥ ४२ ॥
एवम् स्वीयेषु सैन्येषु हतेषु महिष-असुरः ॥ देवी-निःश्वास-संभूतान् भावयामास तान् गणान् ॥ ४२ ॥
evam svīyeṣu sainyeṣu hateṣu mahiṣa-asuraḥ .. devī-niḥśvāsa-saṃbhūtān bhāvayāmāsa tān gaṇān .. 42 ..
अताडयत्सरैः काश्चित्काश्चिच्छृङ्गद्वयेन च ॥ लांगूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ॥ ४३ ॥
अताडयत् सरैः काश्चिद् काश्चिद् शृङ्ग-द्वयेन च ॥ लांगूलेन च तुण्डेन भिनत्ति स्म मुहुर् मुहुर् ॥ ४३ ॥
atāḍayat saraiḥ kāścid kāścid śṛṅga-dvayena ca .. lāṃgūlena ca tuṇḍena bhinatti sma muhur muhur .. 43 ..
इत्थं देवीगणा न्हत्वाभ्यधावत्सोऽसुराधिपः ॥ सिंहं मारयितुन्देव्यास्ततोऽसौ कुपिताऽभवत् ॥ ४४॥
इत्थम् देवी-गणाः न् हत्वा अभ्यधावत् सः असुर-अधिपः ॥ सिंहम् मारयितुम् देव्याः ततस् असौ कुपिता अभवत् ॥ ४४॥
ittham devī-gaṇāḥ n hatvā abhyadhāvat saḥ asura-adhipaḥ .. siṃham mārayitum devyāḥ tatas asau kupitā abhavat .. 44..
कोपात्सोपि महावीर्यः खुरकुट्टितभूतलः ॥ शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ॥ ४५ ॥
कोपात् सः अपि महा-वीर्यः खुर-कुट्टित-भू-तलः ॥ शृङ्गाभ्याम् शैलम् उत्पाट्य चिक्षेप प्रणनाद च ॥ ४५ ॥
kopāt saḥ api mahā-vīryaḥ khura-kuṭṭita-bhū-talaḥ .. śṛṅgābhyām śailam utpāṭya cikṣepa praṇanāda ca .. 45 ..
वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः ॥ आकाशतो महीमध्ये निपेतुर्नृपसत्तम ॥ ४६ ॥
वेगेन भ्रमता प्रक्षिप्ताः गुरवः अद्रयः ॥ आकाशतः मही-मध्ये निपेतुः नृप-सत्तम ॥ ४६ ॥
vegena bhramatā prakṣiptāḥ guravaḥ adrayaḥ .. ākāśataḥ mahī-madhye nipetuḥ nṛpa-sattama .. 46 ..
शृंगभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ॥ लांगूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ॥ ४७ ॥
शृंग-भिन्नाः पयः-वाहाः खण्डम् खण्डम् अयासिषुः ॥ लांगूलेन आहतः च अब्धिः विष्वक्-उद्वेलम् अस्पदत् ॥ ४७ ॥
śṛṃga-bhinnāḥ payaḥ-vāhāḥ khaṇḍam khaṇḍam ayāsiṣuḥ .. lāṃgūlena āhataḥ ca abdhiḥ viṣvak-udvelam aspadat .. 47 ..
एवं क्रुद्धं समालोक्य महिषासुरमम्बिका ॥ विदधे तद्वधोपायं देवानामभयंकरी ॥ ४८ ॥
एवम् क्रुद्धम् समालोक्य महिष-असुरम् अम्बिका ॥ विदधे तद्-वध-उपायम् देवानाम् अभयंकरी ॥ ४८ ॥
evam kruddham samālokya mahiṣa-asuram ambikā .. vidadhe tad-vadha-upāyam devānām abhayaṃkarī .. 48 ..
ततः पाशं समुत्थाय क्षिप्त्वा तस्योपरी श्वरी ॥ बबन्ध महिषं सोऽपि रूपन्तत्याज माहिषम् ॥ ४९ ॥
ततस् पाशम् समुत्थाय क्षिप्त्वा तस्य उपरी श्वरी ॥ बबन्ध महिषम् सः अपि माहिषम् ॥ ४९ ॥
tatas pāśam samutthāya kṣiptvā tasya uparī śvarī .. babandha mahiṣam saḥ api māhiṣam .. 49 ..
ततः सिंहो बभूवाशु मायावी तच्छिरोम्बिका ॥ यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ॥ 5.46.५०॥
ततस् सिंहः बभूव आशु मायावी तद्-शिरः-उम्बिका ॥ यावत् भिनत्ति तावत् स खङ्ग-पाणिः बभूव ह ॥ ५।४६।५०॥
tatas siṃhaḥ babhūva āśu māyāvī tad-śiraḥ-umbikā .. yāvat bhinatti tāvat sa khaṅga-pāṇiḥ babhūva ha .. 5.46.50..
सचर्म्मासिकरं तं च देवी बाणैरताडयत् ॥ ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ॥ ५१ ॥
स चर्म्म-असि-करम् तम् च देवी बाणैः अताडयत् ॥ ततस् गज-वपूः भूत्वा सिंहम् चिच्छेद शुण्डया ॥ ५१ ॥
sa carmma-asi-karam tam ca devī bāṇaiḥ atāḍayat .. tatas gaja-vapūḥ bhūtvā siṃham ciccheda śuṇḍayā .. 51 ..
ततोऽस्य च करं देवी चकर्त स्वमहासिना ॥ अधारि च पुना रूपं स्वकीयं तेन रक्षसा ॥ ५२ ॥
ततस् अस्य च करम् देवी चकर्त स्व-महा-असिना ॥ अधारि च पुना रूपम् स्वकीयम् तेन रक्षसा ॥ ५२ ॥
tatas asya ca karam devī cakarta sva-mahā-asinā .. adhāri ca punā rūpam svakīyam tena rakṣasā .. 52 ..
तदैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ततः क्रुद्धा महामाया चण्डिका मानविक्रमा॥५३॥
तदा एव क्षोभयामास त्रैलोक्यम् सचराचरम् ॥ ततस् क्रुद्धा महामाया चण्डिका मान-विक्रमा॥५३॥
tadā eva kṣobhayāmāsa trailokyam sacarācaram .. tatas kruddhā mahāmāyā caṇḍikā māna-vikramā..53..
पपौ पुनःपुनः पानं जहासोद्भ्रान्तलोचना ॥ जगर्ज चासुरः सोऽपि बलवीर्यमदो द्धतः ॥ ५४॥
पपौ पुनर् पुनर् पानम् जहास उद्भ्रान्त-लोचना ॥ जगर्ज च असुरः सः अपि बल-वीर्य-मदः उद्धतः ॥ ५४॥
papau punar punar pānam jahāsa udbhrānta-locanā .. jagarja ca asuraḥ saḥ api bala-vīrya-madaḥ uddhataḥ .. 54..
तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः ॥ सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ॥ ५५ ॥
तस्याः उपरि चिक्षेप शैलान् उत्पाट्य सः असुरः ॥ सा च बाण-आवली-घातैः चूर्णयामास सत्वरम् ॥ ५५ ॥
tasyāḥ upari cikṣepa śailān utpāṭya saḥ asuraḥ .. sā ca bāṇa-āvalī-ghātaiḥ cūrṇayāmāsa satvaram .. 55 ..
वारुणीमद्रसं जातमुखरागाऽऽकुलेन्द्रिया ॥ प्रोवाच परमेशानी मेघगंभीरया गिरा ॥ ५६ ॥
वारुणी-मद्-रसम् जात-मुख-राग-आकुल-इन्द्रिया ॥ प्रोवाच परमेशानी मेघ-गंभीरया गिरा ॥ ५६ ॥
vāruṇī-mad-rasam jāta-mukha-rāga-ākula-indriyā .. provāca parameśānī megha-gaṃbhīrayā girā .. 56 ..
।। देव्युवाच ।।
रे मूढ रे हतप्रज्ञ व्यर्थ किं कुरुषे हठम् ॥ न मदग्रेऽसुराः केपि स्थास्नवो जगतीत्रये ॥ ५७ ॥
रे मूढ रे हत-प्रज्ञ व्यर्थ किम् कुरुषे हठम् ॥ न मद्-अग्रे असुराः के अपि स्थास्नवः जगतीत्रये ॥ ५७ ॥
re mūḍha re hata-prajña vyartha kim kuruṣe haṭham .. na mad-agre asurāḥ ke api sthāsnavaḥ jagatītraye .. 57 ..
ऋषि रुवाच ।।
एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी ॥ पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साऽभिनत् ॥ ५८ ॥
एकम् आभाष्य कूर्दित्वा देवी सर्व-कला-मयी ॥ पदा आक्रम्य असुरम् कण्ठे शूलेन उग्रेण सा अभिनत् ॥ ५८ ॥
ekam ābhāṣya kūrditvā devī sarva-kalā-mayī .. padā ākramya asuram kaṇṭhe śūlena ugreṇa sā abhinat .. 58 ..
ततस्तच्चरणाक्रान्तस्स स्वकीयमुखात्ततः ॥ अर्द्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ५९ ॥
ततस् तद्-चरण-आक्रान्तः स स्वकीय-मुखात् ततस् ॥ अर्द्ध-निष्क्रान्तः एव आसीत् देव्याः वीर्येण संवृतः ॥ ५९ ॥
tatas tad-caraṇa-ākrāntaḥ sa svakīya-mukhāt tatas .. arddha-niṣkrāntaḥ eva āsīt devyāḥ vīryeṇa saṃvṛtaḥ .. 59 ..
अर्द्धनिष्क्रान्त एवासौ युध्यमानो महाधमः ॥ महासिना शिरो भित्त्वा न्यपाति धरणीतले ॥ 5.46.६० ॥
अर्द्ध-निष्क्रान्तः एव असौ युध्यमानः महा-अधमः ॥ महा-असिना शिरः भित्त्वा न्यपाति धरणी-तले ॥ ५।४६।६० ॥
arddha-niṣkrāntaḥ eva asau yudhyamānaḥ mahā-adhamaḥ .. mahā-asinā śiraḥ bhittvā nyapāti dharaṇī-tale .. 5.46.60 ..
हाहाशब्दं समुच्चार्य्यावाङ्मुखास्तद्गणास्ततः ॥ पलायन्त रणाद्भीतास्त्राहित्राहीति वादिनः ॥ ६१ ॥
हाहा-शब्दम् समुच्चार्य अवाङ्मुखाः तद्-गणाः ततस् ॥ पलायन्त रणात् भीताः त्राहि त्राहि इति वादिनः ॥ ६१ ॥
hāhā-śabdam samuccārya avāṅmukhāḥ tad-gaṇāḥ tatas .. palāyanta raṇāt bhītāḥ trāhi trāhi iti vādinaḥ .. 61 ..
तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः ॥ गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ॥ ६२ ॥
तुष्टुवुः च तदा देवीम् इन्द्र-आद्याः सकलाः सुराः ॥ गन्धर्वाः गीतम् उच्चेरुः ननृतुः नर्तकी-जनाः ॥ ६२ ॥
tuṣṭuvuḥ ca tadā devīm indra-ādyāḥ sakalāḥ surāḥ .. gandharvāḥ gītam ucceruḥ nanṛtuḥ nartakī-janāḥ .. 62 ..
एवन्ते कथितो राजन्महालक्ष्म्याः समुद्भवः ॥ सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा ॥ ६३ ॥
कथितः राजन् महा-लक्ष्म्याः समुद्भवः ॥ सरस्वत्याः तथा उत्पत्तिम् शृणु सुस्थेन चेतसा ॥ ६३ ॥
kathitaḥ rājan mahā-lakṣmyāḥ samudbhavaḥ .. sarasvatyāḥ tathā utpattim śṛṇu susthena cetasā .. 63 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनम् नाम षट्चत्वारिंशः अध्यायः ॥ ४६ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām mahiṣāsuravadhopākhyāne mahālakṣmyavatāravarṇanam nāma ṣaṭcatvāriṃśaḥ adhyāyaḥ .. 46 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In