| |
|

This overlay will guide you through the buttons:

।। ऋषिरुवाच ।।
आसीच्छुम्भासुरो दैत्यो निशुंभश्च प्रतापवान् ॥ त्रैलोक्यमोजसा क्रान्तं भ्रातृभ्यां सचराचरम् ॥ १ ॥
आसीत् शुम्भ-असुरः दैत्यः निशुंभः च प्रतापवान् ॥ त्रैलोक्यम् ओजसा क्रान्तम् भ्रातृभ्याम् सचराचरम् ॥ १ ॥
āsīt śumbha-asuraḥ daityaḥ niśuṃbhaḥ ca pratāpavān .. trailokyam ojasā krāntam bhrātṛbhyām sacarācaram .. 1 ..
ताभ्याम्प्रपीडिता देवा हिमवन्तं समाययुः ॥ जननीं सर्वभूतानां कामदात्रीं ववन्दिरे ॥ २ ॥
ताभ्याम् प्रपीडिताः देवाः हिमवन्तम् समाययुः ॥ जननीम् सर्व-भूतानाम् काम-दात्रीम् ववन्दिरे ॥ २ ॥
tābhyām prapīḍitāḥ devāḥ himavantam samāyayuḥ .. jananīm sarva-bhūtānām kāma-dātrīm vavandire .. 2 ..
देवा ऊचुः ।।
जय दुर्गे महेशानि जयात्मीयजनप्रिये ॥ त्रैलोक्यत्राणकारिण्यै शिवायै ते नमोनमः ॥ ३॥
जय दुर्गे महेशानि जय आत्मीय-जन-प्रिये ॥ त्रैलोक्य-त्राण-कारिण्यै शिवायै ते नमः नमः ॥ ३॥
jaya durge maheśāni jaya ātmīya-jana-priye .. trailokya-trāṇa-kāriṇyai śivāyai te namaḥ namaḥ .. 3..
नमो मुक्तिप्रदायिन्यै पराम्बायै नमोनमः ॥ नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ॥ ४ ॥
नमः मुक्ति-प्रदायिन्यै पर-अम्बायै नमः नमः ॥ ॥ ४ ॥
namaḥ mukti-pradāyinyai para-ambāyai namaḥ namaḥ .. .. 4 ..
कालिकारूपसंपन्नो नमस्काराकृते नमः ॥ छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोस्तु ते ॥ ५ ॥
नमः ॥ छिन्नमस्ता-स्वरूपायै श्रीविद्यायै नमः अस्तु ते ॥ ५ ॥
namaḥ .. chinnamastā-svarūpāyai śrīvidyāyai namaḥ astu te .. 5 ..
भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ॥ नमोस्तु बगलामुख्यै धूमावत्यै नमोनमः ॥ ६॥
भुवनेशि नमः तुभ्यम् नमः ते भैरव-आकृते ॥ नमः अस्तु बगलामुख्यै धूमावत्यै नमः नमः ॥ ६॥
bhuvaneśi namaḥ tubhyam namaḥ te bhairava-ākṛte .. namaḥ astu bagalāmukhyai dhūmāvatyai namaḥ namaḥ .. 6..
नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमोनमः ॥ अजितायै नमस्तुभ्यं विजयायै नमोनमः ॥ ७ ॥
नमः त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमः नमः ॥ अजितायै नमः तुभ्यम् विजयायै नमः नमः ॥ ७ ॥
namaḥ tripurasundaryyai mātaṅgayai te namaḥ namaḥ .. ajitāyai namaḥ tubhyam vijayāyai namaḥ namaḥ .. 7 ..
जयायै मंगलायै ते विलासिन्यै नमोनमः ॥ दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते ॥ ८ ॥
जयायै मंगलायै ते विलासिन्यै नमः नमः ॥ दोग्ध्री-रूपे नमः तुभ्यम् नमः घोराकृते अस्तु ते ॥ ८ ॥
jayāyai maṃgalāyai te vilāsinyai namaḥ namaḥ .. dogdhrī-rūpe namaḥ tubhyam namaḥ ghorākṛte astu te .. 8 ..
मनोऽपराजिताकारे नित्याकारे नमोनमः ॥ शरणागतपालिन्यै रुद्राण्यै ते नमोनमः ॥ ९ ॥
मनः-अपराजित-आकारे नित्य-आकारे नमः नमः ॥ शरण-आगत-पालिन्यै रुद्राण्यै ते नमः नमः ॥ ९ ॥
manaḥ-aparājita-ākāre nitya-ākāre namaḥ namaḥ .. śaraṇa-āgata-pālinyai rudrāṇyai te namaḥ namaḥ .. 9 ..
नमो वेदान्तवेद्यायै नमस्ते परमात्मने ॥ अनन्तकोटिब्रह्माण्डनायिकायै नमोनमः ॥ 5.47.१० ॥
नमः वेदान्त-वेद्यायै नमः ते परमात्मने ॥ अनन्त-कोटि-ब्रह्माण्ड-नायिकायै नमः नमः ॥ ५।४७।१० ॥
namaḥ vedānta-vedyāyai namaḥ te paramātmane .. ananta-koṭi-brahmāṇḍa-nāyikāyai namaḥ namaḥ .. 5.47.10 ..
इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा ॥ प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का ॥ ११ ॥
इति देवैः स्तुता गौरी प्रसन्ना वर-दा शिवा ॥ प्रोवाच त्रिदशान् सर्वान् युष्माभिः स्तूयते अत्र का ॥ ११ ॥
iti devaiḥ stutā gaurī prasannā vara-dā śivā .. provāca tridaśān sarvān yuṣmābhiḥ stūyate atra kā .. 11 ..
ततो गौरीतनोरेका प्रादुरासीत्कुमारिका॥सोवाच मिषतां तेषां शिवशक्तिं परादरात्॥१२॥
ततस् गौरी-तनोः एका प्रादुरासीत् कुमारिका॥सा उवाच मिषताम् तेषाम् शिव-शक्तिम् पर-आदरात्॥१२॥
tatas gaurī-tanoḥ ekā prādurāsīt kumārikā..sā uvāca miṣatām teṣām śiva-śaktim para-ādarāt..12..
स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः॥निशुंभशुंभदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः॥१३॥
स्तोत्रम् मे क्रियते मातर् समस्तैः स्वर्ग-वासिभिः॥निशुंभ-शुंभ-दैत्याभ्याम् प्रबलाभ्याम् प्रपीडितैः॥१३॥
stotram me kriyate mātar samastaiḥ svarga-vāsibhiḥ..niśuṃbha-śuṃbha-daityābhyām prabalābhyām prapīḍitaiḥ..13..
शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी॥नाम्ना सा गीयते साक्षाच्छुंभासुरनिबर्हिणी॥१४॥
शरीर-कोशात् यत् तस्याः निर्गता तेन कौशिकी॥नाम्ना सा गीयते साक्षात् शुंभ-असुर-निबर्हिणी॥१४॥
śarīra-kośāt yat tasyāḥ nirgatā tena kauśikī..nāmnā sā gīyate sākṣāt śuṃbha-asura-nibarhiṇī..14..
चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च॥प्रादुर्भूता यतः सा वै मातंगीत्युच्यते भुवि॥१५॥
च एवा उग्रतारिका प्रोक्ता महोग्रतारिका अपि च॥प्रादुर्भूता यतस् सा वै मातंगी इति उच्यते भुवि॥१५॥
ca evā ugratārikā proktā mahogratārikā api ca..prādurbhūtā yatas sā vai mātaṃgī iti ucyate bhuvi..15..
बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः॥कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम् ॥ १६॥
बभाषे निखिलान् देवान् यूयम् तिष्ठत निर्भयाः॥कार्यम् वः साधयिष्यामि स्वतन्त्रा अहम् विना आश्रयम् ॥ १६॥
babhāṣe nikhilān devān yūyam tiṣṭhata nirbhayāḥ..kāryam vaḥ sādhayiṣyāmi svatantrā aham vinā āśrayam .. 16..
इत्युक्त्वा सा तदा देवी तरसान्तर्हिताऽभवत्॥चाण्डमुण्डौ तु तान्देवीमद्राष्टां सेवकौ तयोः॥१७॥
इति उक्त्वा सा तदा देवी तरसा अन्तर्हिता अभवत्॥चाण्ड-मुण्डौ तु तान् देवीम् अद्राष्टाम् सेवकौ तयोः॥१७॥
iti uktvā sā tadā devī tarasā antarhitā abhavat..cāṇḍa-muṇḍau tu tān devīm adrāṣṭām sevakau tayoḥ..17..
दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम्॥पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ॥१८॥
दृष्ट्वा मनोहरम् तस्याः रूपम् नेत्र-सुख-आवहम्॥पेततुः तौ धरा-मध्ये नष्ट-संज्ञौ विमोहितौ॥१८॥
dṛṣṭvā manoharam tasyāḥ rūpam netra-sukha-āvaham..petatuḥ tau dharā-madhye naṣṭa-saṃjñau vimohitau..18..
गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः ॥ दृष्टा काचिन्मया पूर्वा नारी राजन्मनोरमा ॥ १९॥
गत्वा व्याजह्रतुः सर्वम् राज्ञे वृत्तान्तम् आदितस् ॥ दृष्टा काचिद् मया पूर्वा नारी राजन् मनोरमा ॥ १९॥
gatvā vyājahratuḥ sarvam rājñe vṛttāntam āditas .. dṛṣṭā kācid mayā pūrvā nārī rājan manoramā .. 19..
हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी ॥ समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः॥5.47.२०॥
हिमवत्-शिखरे रम्ये संस्थिता सिंहवाहिनी ॥ समन्तात् देव-कन्याभिः सेविता बद्ध-पाणिभिः॥५।४७।२०॥
himavat-śikhare ramye saṃsthitā siṃhavāhinī .. samantāt deva-kanyābhiḥ sevitā baddha-pāṇibhiḥ..5.47.20..
कुरुते पादसंवाहं काचित्संस्कुरुते कचान् ॥ पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात्॥२१॥
कुरुते पाद-संवाहम् काचिद् संस्कुरुते कचान् ॥ पाणि-संवाहनम् काचिद् काचिद् नेत्र-अञ्जनम् न्यधात्॥२१॥
kurute pāda-saṃvāham kācid saṃskurute kacān .. pāṇi-saṃvāhanam kācid kācid netra-añjanam nyadhāt..21..
काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम् ॥ नागवल्लीं ददात्येका लवंगैलादिसंयुताम्॥२२॥
काचिद् गृहीत्वा हस्तेन आदर्शम् दर्शयते मुखम् ॥ ददाति॥२२॥
kācid gṛhītvā hastena ādarśam darśayate mukham .. dadāti..22..
पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः ॥ भूषयत्यखिलांगानि काचिद्भूषाम्बरादिभिः॥२३॥
पतद्ग्रहम् करे कृत्वा स्थिता काचिद् सखी पुरस् ॥ भूषयति अखिल-अंगानि काचिद् भूषा-अम्बर-आदिभिः॥२३॥
patadgraham kare kṛtvā sthitā kācid sakhī puras .. bhūṣayati akhila-aṃgāni kācid bhūṣā-ambara-ādibhiḥ..23..
कदलीस्तंभजंघोरुः कीरनासाऽहिदौर्लता ॥ रणन्मञ्जीरचरणा रम्यमेखलया युता।२४।
॥ रणत्-मञ्जीर-चरणा रम्य-मेखलया युता।२४।
.. raṇat-mañjīra-caraṇā ramya-mekhalayā yutā.24.
लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी ॥ ग्रैवेयकलसद्ग्रीवा ललन्तीदाममण्डिता।२५।
लसत्-कस्तूरिका-आमोद-मुक्ता-हार-चल-स्तनी ॥ ।२५।
lasat-kastūrikā-āmoda-muktā-hāra-cala-stanī .. .25.
अर्द्धचन्द्रधरा देवी मणिकुण्डलधारिणी ॥ रम्यवेणिर्विंशालाक्षी लोचनत्रयभूषिता ॥ २६ ॥
अर्द्धचन्द्र-धरा देवी मणि-कुण्डल-धारिणी ॥ रम्य-वेणिः विंशाल-अक्षी लोचन-त्रय-भूषिता ॥ २६ ॥
arddhacandra-dharā devī maṇi-kuṇḍala-dhāriṇī .. ramya-veṇiḥ viṃśāla-akṣī locana-traya-bhūṣitā .. 26 ..
साक्षरा मालिकोपेता पणिराजितकंकणा ॥ स्वर्णोर्मिकांगुलिर्भ्राजत्पारिहार्य्यलसत्करा ॥ २७ ॥
स अक्षरा मालिका-उपेता पणि-राजित-कंकणा ॥ स्वर्ण-ऊर्मिका अङ्गुलिः भ्राजत्-पारिहार्य-लसत्-करा ॥ २७ ॥
sa akṣarā mālikā-upetā paṇi-rājita-kaṃkaṇā .. svarṇa-ūrmikā aṅguliḥ bhrājat-pārihārya-lasat-karā .. 27 ..
शुभवस्त्रावृता गौरी पद्मासनविराजिता ॥ काश्मीरबिन्दुतिलका चन्द्रालंकृतमस्तका॥२८॥
शुभ-वस्त्र-आवृता गौरी पद्मासन-विराजिता ॥ काश्मीर-बिन्दु-तिलका चन्द्र-अलंकृत-मस्तका॥२८॥
śubha-vastra-āvṛtā gaurī padmāsana-virājitā .. kāśmīra-bindu-tilakā candra-alaṃkṛta-mastakā..28..
तडिद्द्युतिर्महामूल्याम्बर चोलोन्नमत्कुचा ॥ भुजैरष्टाभिरुत्तुंगैर्धारयन्ती वरायुधान् ॥ २९॥
तडित्-द्युतिः महा-मूल्य-अम्बर चोल-उन्नमत्-कुचा ॥ भुजैः अष्टाभिः उत्तुंगैः धारयन्ती वर-आयुधान् ॥ २९॥
taḍit-dyutiḥ mahā-mūlya-ambara cola-unnamat-kucā .. bhujaiḥ aṣṭābhiḥ uttuṃgaiḥ dhārayantī vara-āyudhān .. 29..
तादृशी नासुरी नागी न गन्धर्वी न दानवी ॥ विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा ॥ 5.47.३० ॥
तादृशी न असुरी नागी न गन्धर्वी न दानवी ॥ विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा ॥ ५।४७।३० ॥
tādṛśī na asurī nāgī na gandharvī na dānavī .. vidyate triṣu lokeṣu yādṛśī sā manoramā .. 5.47.30 ..
तस्मात्संभोगयोग्यत्वं तस्यास्त्वय्येव शोभते ॥ नारीरत्नं यतः सा वै पुंरत्नं च भवान्प्रभो ॥ ३१॥
तस्मात् संभोग-योग्य-त्वम् तस्याः त्वयि एव शोभते ॥ नारी-रत्नम् यतस् सा वै पुम् रत्नम् च भवान् प्रभो ॥ ३१॥
tasmāt saṃbhoga-yogya-tvam tasyāḥ tvayi eva śobhate .. nārī-ratnam yatas sā vai pum ratnam ca bhavān prabho .. 31..
इत्युक्तं चण्डमुण्डाभ्यां निशम्य स महासुरः ॥ दूतं सुग्रीवनामानं प्रेषयामास तां प्रति ॥ ३२ ॥
इति उक्तम् चण्ड-मुण्डाभ्याम् निशम्य स महा-असुरः ॥ दूतम् सुग्रीव-नामानम् प्रेषयामास ताम् प्रति ॥ ३२ ॥
iti uktam caṇḍa-muṇḍābhyām niśamya sa mahā-asuraḥ .. dūtam sugrīva-nāmānam preṣayāmāsa tām prati .. 32 ..
गच्छ दूत तुषाराद्रौ तत्रास्ते कापि सुन्दरी ॥ सा नेतव्या प्रयत्नेन कथयित्वा वचो मम ॥ ३३ ॥
गच्छ दूत तुषाराद्रौ तत्र आस्ते का अपि सुन्दरी ॥ सा नेतव्या प्रयत्नेन कथयित्वा वचः मम ॥ ३३ ॥
gaccha dūta tuṣārādrau tatra āste kā api sundarī .. sā netavyā prayatnena kathayitvā vacaḥ mama .. 33 ..
इति विज्ञापितस्तेन सुग्रीवो दानवोत्तमः ॥ गत्वा हिमाचलं प्राह जगदम्बां महेश्वरीम् ॥ ३४ ॥
इति विज्ञापितः तेन सुग्रीवः दानव-उत्तमः ॥ गत्वा हिमाचलम् प्राह जगदम्बाम् महेश्वरीम् ॥ ३४ ॥
iti vijñāpitaḥ tena sugrīvaḥ dānava-uttamaḥ .. gatvā himācalam prāha jagadambām maheśvarīm .. 34 ..
दूत उवाच ।।
देवि शुंभासुरो दैत्यो निशुंभस्तस्य चानुजः ॥ विख्यातस्त्रिषु लोकेषु महा बलपराक्रमः ॥ ३५॥
देवि शुंभ-असुरः दैत्यः निशुंभः तस्य च अनुजः ॥ विख्यातः त्रिषु लोकेषु महा बल-पराक्रमः ॥ ३५॥
devi śuṃbha-asuraḥ daityaḥ niśuṃbhaḥ tasya ca anujaḥ .. vikhyātaḥ triṣu lokeṣu mahā bala-parākramaḥ .. 35..
चारोहं प्रेषितस्तेन सन्निधिन्ते समागमम् ॥ स यज्जगौ सुरेशानि तत्समाकर्णयाधुना ॥ ३६॥
च आरोहम् प्रेषितः तेन सन्निधिन् ते समागमम् ॥ स यत् जगौ सुरेशानि तत् समाकर्णय अधुना ॥ ३६॥
ca āroham preṣitaḥ tena sannidhin te samāgamam .. sa yat jagau sureśāni tat samākarṇaya adhunā .. 36..
इन्द्रादीन्समरे जित्वा तेषां रत्नान्यपाहरम् ॥ देवभागं स्वयं भुञ्जे यागे दत्तं सुरादिभिः ॥ ३७ ॥
इन्द्र-आदीन् समरे जित्वा तेषाम् रत्नानि अपाहरम् ॥ स्वयम् भुञ्जे ॥ ३७ ॥
indra-ādīn samare jitvā teṣām ratnāni apāharam .. svayam bhuñje .. 37 ..
स्त्रीरत्नं त्वामहं मन्ये सर्वरत्नोपरि स्थितम् ॥ सा त्वं ममानुजं मां वा भजतात्कामजै रसैः ॥ ३८ ॥
स्त्री-रत्नम् त्वाम् अहम् मन्ये सर्व-रत्न-उपरि स्थितम् ॥ सा त्वम् मम अनुजम् माम् वा भजतात् काम-जैः रसैः ॥ ३८ ॥
strī-ratnam tvām aham manye sarva-ratna-upari sthitam .. sā tvam mama anujam mām vā bhajatāt kāma-jaiḥ rasaiḥ .. 38 ..
इति दूतोक्तमाकर्ण्य वचनं शुंभभाषितम् ॥ जगाद सा महामाया भूतेशप्राणवल्लभा ॥ ३९ ॥
इति दूत-उक्तम् आकर्ण्य वचनम् शुंभ-भाषितम् ॥ जगाद सा महामाया भूतेश-प्राण-वल्लभा ॥ ३९ ॥
iti dūta-uktam ākarṇya vacanam śuṃbha-bhāṣitam .. jagāda sā mahāmāyā bhūteśa-prāṇa-vallabhā .. 39 ..
।। देव्युवाच ।।
सत्यं वदसि भो दूत नानृतं किंचिदुच्यते ॥ परन्त्वेका कृता पूर्वं प्रतिज्ञा तान्निबोध मे ॥ 5.47.४० ॥
सत्यम् वदसि भो दूत न अनृतम् किंचिद् उच्यते ॥ परन्तु एका कृता पूर्वम् प्रतिज्ञा तान् निबोध मे ॥ ५।४७।४० ॥
satyam vadasi bho dūta na anṛtam kiṃcid ucyate .. parantu ekā kṛtā pūrvam pratijñā tān nibodha me .. 5.47.40 ..
यो मे दर्पं विधुनुते यो मां जयति संगरे ॥ उत्सहे तमहं कर्तुं पतिं नान्यमिति ध्रुवम् ॥ ४१ ॥
यः मे दर्पम् विधुनुते यः माम् जयति संगरे ॥ उत्सहे तम् अहम् कर्तुम् पतिम् ना अन्यम् इति ध्रुवम् ॥ ४१ ॥
yaḥ me darpam vidhunute yaḥ mām jayati saṃgare .. utsahe tam aham kartum patim nā anyam iti dhruvam .. 41 ..
स त्वं कथय शुंभाय निशुंभाय वचो मम ॥ यथा युक्तं भवेदेवं विदधातु तथाऽत्र सः ॥ ४२ ॥
स त्वम् कथय शुंभाय निशुंभाय वचः मम ॥ यथा युक्तम् भवेत् एवम् विदधातु तथा अत्र सः ॥ ४२ ॥
sa tvam kathaya śuṃbhāya niśuṃbhāya vacaḥ mama .. yathā yuktam bhavet evam vidadhātu tathā atra saḥ .. 42 ..
इत्थं देवीवचः श्रुत्वा सुग्रीवो नाम दानवः ॥ राज्ञे विज्ञापयामास गत्वा तत्र सविस्तरम्॥४३॥
इत्थम् देवी-वचः श्रुत्वा सुग्रीवः नाम दानवः ॥ राज्ञे विज्ञापयामास गत्वा तत्र स विस्तरम्॥४३॥
ittham devī-vacaḥ śrutvā sugrīvaḥ nāma dānavaḥ .. rājñe vijñāpayāmāsa gatvā tatra sa vistaram..43..
अथ दूतोक्तमाकर्ण्य शुंभो भैरवशासनः ॥ धूम्राक्षं प्राह सक्रोधः सेनान्यं बलिनां वरम् ॥ ४४॥
अथ दूत-उक्तम् आकर्ण्य शुंभः भैरवशासनः ॥ धूम्राक्षम् प्राह स क्रोधः सेनान्यम् बलिनाम् वरम् ॥ ४४॥
atha dūta-uktam ākarṇya śuṃbhaḥ bhairavaśāsanaḥ .. dhūmrākṣam prāha sa krodhaḥ senānyam balinām varam .. 44..
हे धूम्राक्ष तुषाराद्रौ वर्तते कापि सुन्दरी ॥ तामानय द्रुतं गत्वा यथा यास्यति सात्र वै ॥ ४५ ॥
हे धूम्राक्ष तुषाराद्रौ वर्तते का अपि सुन्दरी ॥ ताम् आनय द्रुतम् गत्वा यथा यास्यति सा अत्र वै ॥ ४५ ॥
he dhūmrākṣa tuṣārādrau vartate kā api sundarī .. tām ānaya drutam gatvā yathā yāsyati sā atra vai .. 45 ..
तस्या आनयने भीतिर्न कार्य्याऽसुरसत्तम ॥ युद्धं कार्यं प्रयत्नेन यदि सा योद्धुमिच्छति ॥ ४६ ॥
तस्याः आनयने भीतिः न कार्या असुर-सत्तम ॥ युद्धम् कार्यम् प्रयत्नेन यदि सा योद्धुम् इच्छति ॥ ४६ ॥
tasyāḥ ānayane bhītiḥ na kāryā asura-sattama .. yuddham kāryam prayatnena yadi sā yoddhum icchati .. 46 ..
एवं विज्ञापितो दैत्यो धूम्रलोचनसंज्ञकः ॥ गत्वा हिमाचलं प्राह भुवनेशीमुमांशजाम्॥४७॥
एवम् विज्ञापितः दैत्यः धूम्रलोचन-संज्ञकः ॥ गत्वा हिमाचलम् प्राह भुवनेशीम् उमांशजाम्॥४७॥
evam vijñāpitaḥ daityaḥ dhūmralocana-saṃjñakaḥ .. gatvā himācalam prāha bhuvaneśīm umāṃśajām..47..
भर्तुर्ममान्तिकं गच्छ नोचेत्त्वां घातयाम्यहम् ॥ पुष्ट्याऽसुराणां सहितः सहस्राणां नितंबिनि ॥ ४८॥
भर्तुः मम अन्तिकम् गच्छ नो चेद् त्वाम् घातयामि अहम् ॥ पुष्ट्या असुराणाम् सहितः सहस्राणाम् नितंबिनि ॥ ४८॥
bhartuḥ mama antikam gaccha no ced tvām ghātayāmi aham .. puṣṭyā asurāṇām sahitaḥ sahasrāṇām nitaṃbini .. 48..
देव्युवाच ।।
दैत्यराट्प्रेषितो वीर हंसि चेत्किं करोमि ते ॥ परन्त्वसाध्यं गमनं मन्ये संग्राममन्तरा ॥ ४९॥
दैत्य-राज्-प्रेषितः वीर हंसि चेद् किम् करोमि ते ॥ परन्तु असाध्यम् गमनम् मन्ये संग्रामम् अन्तरा ॥ ४९॥
daitya-rāj-preṣitaḥ vīra haṃsi ced kim karomi te .. parantu asādhyam gamanam manye saṃgrāmam antarā .. 49..
इत्युक्तस्तामन्वधावद्दानवो धूम्रलोचनः ॥ हुंकारोच्चारणेनैव तन्ददाह महेश्वरी॥5.47.५०॥
इति उक्तः ताम् अन्वधावत् दानवः धूम्र-लोचनः ॥ हुंकार-उच्चारणेन एव तत् ददाह महेश्वरी॥५।४७।५०॥
iti uktaḥ tām anvadhāvat dānavaḥ dhūmra-locanaḥ .. huṃkāra-uccāraṇena eva tat dadāha maheśvarī..5.47.50..
ततः प्रभृति सा देवी धूमावत्युच्यते भुवि ॥ आराधिता स्वभक्तानां शत्रुवर्गनिकर्तिनी ॥ ५१॥
ततस् प्रभृति सा देवी धूमावती उच्यते भुवि ॥ आराधिता स्व-भक्तानाम् शत्रु-वर्ग-निकर्तिनी ॥ ५१॥
tatas prabhṛti sā devī dhūmāvatī ucyate bhuvi .. ārādhitā sva-bhaktānām śatru-varga-nikartinī .. 51..
धूम्राक्षे निहते देव्या वाहनेनातिकोपिना ॥ चर्वितास्तद्गणास्सर्वेऽपलायन्तावशेषिताः ॥ ५२॥
धूम्राक्षे निहते देव्या वाहनेन अति कोपिना ॥ चर्विताः तद्-गणाः सर्वे अपलायन्त अवशेषिताः ॥ ५२॥
dhūmrākṣe nihate devyā vāhanena ati kopinā .. carvitāḥ tad-gaṇāḥ sarve apalāyanta avaśeṣitāḥ .. 52..
इत्थं देव्या हतं दैत्यं श्रुत्वा शुंभः प्रतापवान् ॥ चकार बहुलं कोपं सन्दष्टोष्ठपुटद्वयः ॥ ५३ ॥
इत्थम् देव्या हतम् दैत्यम् श्रुत्वा शुंभः प्रतापवान् ॥ चकार बहुलम् कोपम् सन्दष्ट-उष्ठ-पुट-द्वयः ॥ ५३ ॥
ittham devyā hatam daityam śrutvā śuṃbhaḥ pratāpavān .. cakāra bahulam kopam sandaṣṭa-uṣṭha-puṭa-dvayaḥ .. 53 ..
चण्डं मुंडं रक्तबीजं प्रैषयत्क्रमतोऽ सुरान् ॥ तेपि चाज्ञापिता दैत्या ययुर्यत्राम्बिका स्थिता ॥ ५४॥
चण्डम् मुंडम् रक्तबीजम् सुरान् ॥ ते अपि च आज्ञापिताः दैत्याः ययुः यत्र अम्बिका स्थिता ॥ ५४॥
caṇḍam muṃḍam raktabījam surān .. te api ca ājñāpitāḥ daityāḥ yayuḥ yatra ambikā sthitā .. 54..
सिंहारूढा भगवतीमणिमादिभिराश्रिताम्॥भासयंती दिशो भासा दृष्ट्वोचुर्द्दानवर्षभाः ॥ ५५ ॥
सिंह-आरूढाः भगवतीम् अणिम-आदिभिः आश्रिताम्॥भासयंती दिशः भासा दृष्ट्वा ऊचुः द्दानव-ऋषभाः ॥ ५५ ॥
siṃha-ārūḍhāḥ bhagavatīm aṇima-ādibhiḥ āśritām..bhāsayaṃtī diśaḥ bhāsā dṛṣṭvā ūcuḥ ddānava-ṛṣabhāḥ .. 55 ..
हे देवि तरसा मूलं याहि शुंभनिशुंभयोः ॥ अन्यथा घातयिष्यामः सगणां त्वां सवाहनाम् ॥ ५६॥
हे देवि तरसा मूलम् याहि शुंभ-निशुंभयोः ॥ अन्यथा घातयिष्यामः स गणाम् त्वाम् स वाहनाम् ॥ ५६॥
he devi tarasā mūlam yāhi śuṃbha-niśuṃbhayoḥ .. anyathā ghātayiṣyāmaḥ sa gaṇām tvām sa vāhanām .. 56..
वृणीष्व तं पतिं वामे लोकपालादिभिः स्तुतम् ॥ प्रपत्स्यसे महानंदं देवानामपि दुर्लभम् ॥ ५७॥
वृणीष्व तम् पतिम् वामे लोकपाल-आदिभिः स्तुतम् ॥ प्रपत्स्यसे महा-आनंदम् देवानाम् अपि दुर्लभम् ॥ ५७॥
vṛṇīṣva tam patim vāme lokapāla-ādibhiḥ stutam .. prapatsyase mahā-ānaṃdam devānām api durlabham .. 57..
इत्युक्तमाकलय्याम्बा स्मयित्वा परमेश्वरी ॥ उदाजहार सा देवी सूनृतं रसवद्वचः ॥ ५८॥
इति उक्तम् आकलय्य अम्बा स्मयित्वा परमेश्वरी ॥ उदाजहार सा देवी सूनृतम् रसवत् वचः ॥ ५८॥
iti uktam ākalayya ambā smayitvā parameśvarī .. udājahāra sā devī sūnṛtam rasavat vacaḥ .. 58..
देव्युवाच ।।
अद्वितीयो महेशानः परब्रह्म सदाशिवः ॥ यत्तत्त्वन्न विदुर्वेदा विष्ण्वादीनां च का कथा ॥ ५९ ॥
अद्वितीयः महेशानः पर-ब्रह्म सदाशिवः ॥ यत् तत् त्वन् न विदुः वेदाः विष्णु-आदीनाम् च का कथा ॥ ५९ ॥
advitīyaḥ maheśānaḥ para-brahma sadāśivaḥ .. yat tat tvan na viduḥ vedāḥ viṣṇu-ādīnām ca kā kathā .. 59 ..
तस्याहं प्रकृतिः सक्ष्मा कथमन्यं पतिम्वृणे ॥ सिंही कामातुरा नैव जम्बुकं वृणुते क्वचित् ॥ ॥ 5.47.६० ॥
तस्य अहम् प्रकृतिः सक्ष्मा कथम् अन्यम् पतिम् वृणे ॥ सिंही काम-आतुरा ना एव जम्बुकम् वृणुते क्वचिद् ॥ ॥ ५।४७।६० ॥
tasya aham prakṛtiḥ sakṣmā katham anyam patim vṛṇe .. siṃhī kāma-āturā nā eva jambukam vṛṇute kvacid .. .. 5.47.60 ..
करेणुर्गर्दभं नैव द्वीपिनी शशकं न वा ॥ मृषा वदत भो दैत्यो मृत्युव्यालनियंत्रिताः ॥ ६१ ॥
करेणुः गर्दभम् ना एव द्वीपिनी शशकम् न वा ॥ मृषा वदत भो दैत्यः मृत्यु-व्याल-नियंत्रिताः ॥ ६१ ॥
kareṇuḥ gardabham nā eva dvīpinī śaśakam na vā .. mṛṣā vadata bho daityaḥ mṛtyu-vyāla-niyaṃtritāḥ .. 61 ..
यूयं प्रयात पातालं युध्यध्वं शक्तिरस्ति चेत् ॥ इति क्रोधकरं वाक्यं श्रुत्वोचुस्ते परस्परम् ॥ ६२ ॥
यूयम् प्रयात पातालम् युध्यध्वम् शक्तिः अस्ति चेद् ॥ इति क्रोध-करम् वाक्यम् श्रुत्वा ऊचुः ते परस्परम् ॥ ६२ ॥
yūyam prayāta pātālam yudhyadhvam śaktiḥ asti ced .. iti krodha-karam vākyam śrutvā ūcuḥ te parasparam .. 62 ..
अबलां मनसि ज्ञात्वा न हन्मो भवतीं वयम् ॥ अथो स्थिरैहि पञ्चास्ये युद्धेच्छा मानसेऽस्ति चेत् ॥ ६३ ॥
अबलाम् मनसि ज्ञात्वा न हन्मः भवतीम् वयम् ॥ अथो स्थिर-एहि पञ्चास्ये युद्ध-इच्छा मानसे अस्ति चेद् ॥ ६३ ॥
abalām manasi jñātvā na hanmaḥ bhavatīm vayam .. atho sthira-ehi pañcāsye yuddha-icchā mānase asti ced .. 63 ..
तेषामेवं विवदतां कलहः समवर्द्धत॥ववृषु समरे बाणा उभयोर्द्दलयोश्शिताः ॥ ६४॥
तेषाम् एवम् विवदताम् कलहः समवर्द्धत॥ववृषु समरे बाणाः उभयोः दलयोः शिताः ॥ ६४॥
teṣām evam vivadatām kalahaḥ samavarddhata..vavṛṣu samare bāṇāḥ ubhayoḥ dalayoḥ śitāḥ .. 64..
एवं तैः समरं कृत्वा लीलया परमेश्वरी॥जघान चण्डमुण्डाभ्यां रक्तबीजं महासुरम्॥६५॥
एवम् तैः समरम् कृत्वा लीलया परमेश्वरी॥जघान चण्ड-मुण्डाभ्याम् रक्तबीजम् महा-असुरम्॥६५॥
evam taiḥ samaram kṛtvā līlayā parameśvarī..jaghāna caṇḍa-muṇḍābhyām raktabījam mahā-asuram..65..
द्वेषबुद्धिं विधायापि त्रिदशस्थितयोऽप्यमी ॥ अन्तेऽप्रापन्परं लोकं यँल्लोकं यान्ति तज्जनाः ॥ ६६ ॥
द्वेष-बुद्धिम् विधाय अपि त्रिदश-स्थितयः अपि अमी ॥ अन्ते अप्रापन् परम् लोकम् यन् लोकम् यान्ति तद्-जनाः ॥ ६६ ॥
dveṣa-buddhim vidhāya api tridaśa-sthitayaḥ api amī .. ante aprāpan param lokam yan lokam yānti tad-janāḥ .. 66 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां धूम्रलोचन चण्डमुण्डरक्तबीजवधो नाम सप्तचत्वारिंशोऽध्यायः॥४७॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् धूम्रलोचन-चण्डमुण्डरक्तबीजवधः नाम सप्तचत्वारिंशः अध्यायः॥४७॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām dhūmralocana-caṇḍamuṇḍaraktabījavadhaḥ nāma saptacatvāriṃśaḥ adhyāyaḥ..47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In