| |
|

This overlay will guide you through the buttons:

राजोवाच ।।
धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरन्तथा॥भगवन्निहतन्देव्या श्रुत्वा शुम्भः सुरार्दनः ॥ १॥
धूम्राक्षम् चण्ड-मुण्डम् च रक्तबीज-असुरम् तथा॥भगवन् निहतन् देव्या श्रुत्वा शुम्भः सुर-अर्दनः ॥ १॥
dhūmrākṣam caṇḍa-muṇḍam ca raktabīja-asuram tathā..bhagavan nihatan devyā śrutvā śumbhaḥ sura-ardanaḥ .. 1..
किमकार्षीत्ततो ब्रह्मन्नेतन्मे ब्रूहि साम्प्रतम् ॥ शुश्रूषवे जगद्योनेश्चरित्रं पापनाशनम् ॥ २॥
किम् अकार्षीत् ततस् ब्रह्मन् एतत् मे ब्रूहि साम्प्रतम् ॥ शुश्रूषवे जगद्योनेः चरित्रम् पाप-नाशनम् ॥ २॥
kim akārṣīt tatas brahman etat me brūhi sāmpratam .. śuśrūṣave jagadyoneḥ caritram pāpa-nāśanam .. 2..
ऋषिरुवाच ।।
हतानेमान्दैत्यवरान्महासुरो निशम्य राजन्महनीयविक्रमः ॥ अजिज्ञपत्स्वीयगणान्दुरासदान्रणाभिधोच्चारणज्जातसंमदान् ॥ ३॥
हतान् एमान् दैत्य-वरान् महा-असुरः निशम्य राजन् महनीय-विक्रमः ॥ अजिज्ञपत् स्वीय-गणान् दुरासदान् रण-अभिधा-उच्चारणत् जात-संमदान् ॥ ३॥
hatān emān daitya-varān mahā-asuraḥ niśamya rājan mahanīya-vikramaḥ .. ajijñapat svīya-gaṇān durāsadān raṇa-abhidhā-uccāraṇat jāta-saṃmadān .. 3..
बलान्वितास्संमिलिता ममाज्ञया जयाशया कालकवंशसंभवाः ॥ सकालकेयासुरमौर्य्यदौर्हृदास्तथा परेप्याशु प्रयाणयन्तु ते॥४॥
बल-अन्विताः संमिलिताः मम आज्ञया जय-आशया कालक-वंश-संभवाः ॥ स कालकेय-असुर-मौर्य्य-दौर्हृदाः तथा परे अपि आशु प्रयाणयन्तु ते॥४॥
bala-anvitāḥ saṃmilitāḥ mama ājñayā jaya-āśayā kālaka-vaṃśa-saṃbhavāḥ .. sa kālakeya-asura-mauryya-daurhṛdāḥ tathā pare api āśu prayāṇayantu te..4..
निशुंभशुंभौ दितिजान्निदेश्य तान्रथाधिरूढौ निरयां बभूवतुः ॥ बलान्यनूखुर्बलिनोस्तयोर्धराद्विनाशवन्तः शलभा इवोत्थिताः॥५॥
निशुंभ-शुंभौ दितिजान् निदेश्य तान् रथ-अधिरूढौ बभूवतुः ॥ बलानि अनूखुः बलिनोः तयोः धरात् विनाशवन्तः शलभाः इव उत्थिताः॥५॥
niśuṃbha-śuṃbhau ditijān nideśya tān ratha-adhirūḍhau babhūvatuḥ .. balāni anūkhuḥ balinoḥ tayoḥ dharāt vināśavantaḥ śalabhāḥ iva utthitāḥ..5..
प्रसादयामास मृदंगमर्दलं सभेरिकाडिण्डिमझर्झरानकम् ॥ रणस्थले संजहृषू रणप्रिया असुप्रियाः संगरतः पराययुः ॥ ६ ॥
प्रसादयामास मृदंग-मर्दलम् स भेरिका-डिण्डिम-झर्झर-आनकम् ॥ रण-स्थले संजहृषुः रण-प्रियाः असु-प्रियाः संगरतः पराययुः ॥ ६ ॥
prasādayāmāsa mṛdaṃga-mardalam sa bherikā-ḍiṇḍima-jharjhara-ānakam .. raṇa-sthale saṃjahṛṣuḥ raṇa-priyāḥ asu-priyāḥ saṃgarataḥ parāyayuḥ .. 6 ..
भटाश्च ते युद्धपटावृतास्तदा रणस्थलीं मापुरपापविग्रहाः ॥ गृहीतशस्त्रास्त्रचया जिगीषया परस्परं विग्रहयन्त उल्बणम्॥७॥
भटाः च ते युद्ध-पट-आवृताः तदा रण-स्थलीम् मापुः अपाप-विग्रहाः ॥ गृहीत-शस्त्र-अस्त्र-चयाः जिगीषया परस्परम् विग्रहयन्तः उल्बणम्॥७॥
bhaṭāḥ ca te yuddha-paṭa-āvṛtāḥ tadā raṇa-sthalīm māpuḥ apāpa-vigrahāḥ .. gṛhīta-śastra-astra-cayāḥ jigīṣayā parasparam vigrahayantaḥ ulbaṇam..7..
गजाधिरूढास्तुरगाधिरोहिणो रथाधिरूढाश्च तथापरेऽसुराः ॥ अलक्षयन्तः स्वपराञ्जनान्मुदाऽसुरेशसंगे समरेऽभिरेभिरे ॥ ८ ॥
गज-अधिरूढाः तुरग-अधिरोहिणः रथ-अधिरूढाः च तथा अपरे असुराः ॥ अ लक्षयन्तः स्व-परान् जनान् मुदा असुर-ईश-संगे समरे अभिरेभिरे ॥ ८ ॥
gaja-adhirūḍhāḥ turaga-adhirohiṇaḥ ratha-adhirūḍhāḥ ca tathā apare asurāḥ .. a lakṣayantaḥ sva-parān janān mudā asura-īśa-saṃge samare abhirebhire .. 8 ..
ध्वनिः शतघ्नी जनितो मुहुर्मुहुर्बभूव तेन त्रिदशाः समेजिताः ॥ महान्धकारः समपद्यताम्बरे विलोक्यते नो रथमण्डलं रवेः ॥ ९॥
ध्वनिः शतघ्नी जनितः मुहुर् मुहुर् बभूव तेन त्रिदशाः समेजिताः ॥ महा-अन्धकारः समपद्यत अम्बरे विलोक्यते नः रथ-मण्डलम् रवेः ॥ ९॥
dhvaniḥ śataghnī janitaḥ muhur muhur babhūva tena tridaśāḥ samejitāḥ .. mahā-andhakāraḥ samapadyata ambare vilokyate naḥ ratha-maṇḍalam raveḥ .. 9..
पदातयो निर्व वजुर्हि कोटिशः प्रभूतमाना विजयाभिलाषिणः ॥ रथाश्वगा वारणगा अथापरेऽसुरा निरीयुः कति कोटिशो मुदा ॥ 5.48.१० ॥
पदातयः वजुः हि कोटिशस् प्रभूत-मानाः विजय-अभिलाषिणः ॥ रथ-अश्व-गाः वारण-गाः अथ अपरे असुराः निरीयुः कति कोटिशस् मुदा ॥ ५।४८।१० ॥
padātayaḥ vajuḥ hi koṭiśas prabhūta-mānāḥ vijaya-abhilāṣiṇaḥ .. ratha-aśva-gāḥ vāraṇa-gāḥ atha apare asurāḥ nirīyuḥ kati koṭiśas mudā .. 5.48.10 ..
अशुक्ल शैला एव मत्तवारणा अतानिषुश्चीत्कृतिशब्दमाहवे ॥ क्रमेलकाश्चापि गलद्गलध्वनिं वितन्वते क्षुद्रमहीधरोपमाः॥११॥
शैलाः एव मत्त-वारणाः अतानिषुः चीत्कृति-शब्दम् आहवे ॥ क्रमेलकाः च अपि गलत्-गल-ध्वनिम् वितन्वते क्षुद्र-महीधर-उपमाः॥११॥
śailāḥ eva matta-vāraṇāḥ atāniṣuḥ cītkṛti-śabdam āhave .. kramelakāḥ ca api galat-gala-dhvanim vitanvate kṣudra-mahīdhara-upamāḥ..11..
हयाश्च ह्रेषन्त उदग्रभूमिजा विशालकण्ठाभरणा गतेर्विदः॥पदानि दन्तावलमूर्ध्नि बिभ्रतः सुडिड्यिरे व्योमपथा यथाऽवयः॥१२॥
हयाः च ह्रेषन्तः उदग्र-भूमि-जाः विशाल-कण्ठ-आभरणाः गतेः विदः॥पदानि दन्तावल-मूर्ध्नि बिभ्रतः व्योम-पथाः यथा अवयः॥१२॥
hayāḥ ca hreṣantaḥ udagra-bhūmi-jāḥ viśāla-kaṇṭha-ābharaṇāḥ gateḥ vidaḥ..padāni dantāvala-mūrdhni bibhrataḥ vyoma-pathāḥ yathā avayaḥ..12..
समीक्ष्य शत्रोर्बलमित्थमापतच्चकार सज्यं धनुरम्बिका तदा॥ननाद घण्टां रिपुसाददायिनी जगर्ज सिंहोऽपि सटां विधूनयन् ॥ १३॥
समीक्ष्य शत्रोः बलम् इत्थम् आपतत् चकार सज्यम् धनुः अम्बिका तदा॥ननाद घण्टाम् रिपु-साद-दायिनी जगर्ज सिंहः अपि सटाम् विधूनयन् ॥ १३॥
samīkṣya śatroḥ balam ittham āpatat cakāra sajyam dhanuḥ ambikā tadā..nanāda ghaṇṭām ripu-sāda-dāyinī jagarja siṃhaḥ api saṭām vidhūnayan .. 13..
ततो निशुंभस्तुहिनाचलस्थितां विलोक्य रम्याभरणायुधां शिवाम् ॥ गिरं बभाषे रसनिर्भरां परां विलासनीभावविचक्षणो यथा ॥ १४॥
ततस् निशुंभः तुहिनाचल-स्थिताम् विलोक्य रम्य-आभरण-आयुधाम् शिवाम् ॥ गिरम् बभाषे रस-निर्भराम् पराम् विलासनीभाव-विचक्षणः यथा ॥ १४॥
tatas niśuṃbhaḥ tuhinācala-sthitām vilokya ramya-ābharaṇa-āyudhām śivām .. giram babhāṣe rasa-nirbharām parām vilāsanībhāva-vicakṣaṇaḥ yathā .. 14..
भवादृशीनां रमणीयविग्रहे दुनोति कीर्णं खलु मालतीदलम् ॥ कथं करालाहवमातनोष्यसे महेशि तेनैव मनोज्ञवर्ष्मणा ॥ १५ ॥
भवादृशीनाम् रमणीय-विग्रहे दुनोति कीर्णम् खलु मालती-दलम् ॥ कथम् कराल-आहवम् आतनोष्यसे महेशि तेन एव मनोज्ञ-वर्ष्मणा ॥ १५ ॥
bhavādṛśīnām ramaṇīya-vigrahe dunoti kīrṇam khalu mālatī-dalam .. katham karāla-āhavam ātanoṣyase maheśi tena eva manojña-varṣmaṇā .. 15 ..
इतीरयित्वा वचनं महासुरो बभूव मौनी तमुवाच चंडिका ॥ वृथा किमात्थासुर मूढ संगरं कुरुष्व नागालयमन्यथा व्रज ॥ १६॥
इति ईरयित्वा वचनम् महा-असुरः बभूव मौनी तम् उवाच चंडिका ॥ वृथा किम् आत्थ असुर मूढ संगरम् कुरुष्व नाग-आलयम् अन्यथा व्रज ॥ १६॥
iti īrayitvā vacanam mahā-asuraḥ babhūva maunī tam uvāca caṃḍikā .. vṛthā kim āttha asura mūḍha saṃgaram kuruṣva nāga-ālayam anyathā vraja .. 16..
ततोतिरुष्टः समरे महारथश्चकार बाणावलिवृष्टिमद्भुताम् ॥ घनाघनाः संववृषुर्यथोदकं रणस्थले प्रावृडिवागता तदा ॥ १७ ॥
ततस् ऊति-रुष्टः समरे महा-रथः चकार बाण-आवलि-वृष्टिम् अद्भुताम् ॥ घनाघनाः संववृषुः यथा उदकम् रण-स्थले प्रावृष् इव आगता तदा ॥ १७ ॥
tatas ūti-ruṣṭaḥ samare mahā-rathaḥ cakāra bāṇa-āvali-vṛṣṭim adbhutām .. ghanāghanāḥ saṃvavṛṣuḥ yathā udakam raṇa-sthale prāvṛṣ iva āgatā tadā .. 17 ..
शरैश्शितैश्शूलपरश्वधायुधैः सभिन्दिपालैः परिघैश्शरासनैः ॥ भुशुण्डिकाप्रासक्षुरप्रसंज्ञकैर्महासिभिः संयुयुधे मदोद्धतैः ॥ १८॥
शरैः शितैः शूल-परश्वध-आयुधैः स भिन्दिपालैः परिघैः शरासनैः ॥ भुशुण्डिका-प्रास-क्षुरप्र-संज्ञकैः महा-असिभिः संयुयुधे मद-उद्धतैः ॥ १८॥
śaraiḥ śitaiḥ śūla-paraśvadha-āyudhaiḥ sa bhindipālaiḥ parighaiḥ śarāsanaiḥ .. bhuśuṇḍikā-prāsa-kṣurapra-saṃjñakaiḥ mahā-asibhiḥ saṃyuyudhe mada-uddhataiḥ .. 18..
विवभ्रमुस्तत्समरे महागजा विभिन्नकुंभाअसिताद्रिसन्निभाः॥चलद्बलाकाधवला विकेतवो विसेतवः शुंभनिशुंभकेतवः॥१९॥
विवभ्रमुः तत् समरे महा-गजाः विभिन्न-कुंभाः असित-अद्रि-सन्निभाः॥चलत्-बलाका-धवलाः विकेतवः विसेतवः शुंभ-निशुंभ-केतवः॥१९॥
vivabhramuḥ tat samare mahā-gajāḥ vibhinna-kuṃbhāḥ asita-adri-sannibhāḥ..calat-balākā-dhavalāḥ viketavaḥ visetavaḥ śuṃbha-niśuṃbha-ketavaḥ..19..
विभिन्नदेहा दितिजा झषोपमा विकन्धरा वाजिगणा भयंकराः ॥ परासवः कालिकया कृता रणे मृगारिणा चाशिषतापरेऽसुरा॥5.48.२०॥
विभिन्न-देहाः दितिजाः झष-उपमाः विकन्धराः वाजि-गणाः भयंकराः ॥ परासवः कालिकया कृताः रणे मृगारिणा॥५।४८।२०॥
vibhinna-dehāḥ ditijāḥ jhaṣa-upamāḥ vikandharāḥ vāji-gaṇāḥ bhayaṃkarāḥ .. parāsavaḥ kālikayā kṛtāḥ raṇe mṛgāriṇā..5.48.20..
विसुस्रुवू रक्तवहास्तदन्तरे सरिच्च यास्तत्र विपुप्लुवे हतैः ॥ कचा भटानां जलनीलिकोपमास्तदुत्तरीयं सितफेनसंनिभम् ॥ २१ ॥
विसुस्रुवुः रक्त-वहाः तद्-अन्तरे सरित् च याः तत्र विपुप्लुवे हतैः ॥ कचाः भटानाम् जल-नीलिका-उपमाः तत् उत्तरीयम् सित-फेन-संनिभम् ॥ २१ ॥
visusruvuḥ rakta-vahāḥ tad-antare sarit ca yāḥ tatra vipupluve hataiḥ .. kacāḥ bhaṭānām jala-nīlikā-upamāḥ tat uttarīyam sita-phena-saṃnibham .. 21 ..
तुरंगसादी तुरगाधिरोहिणं गजस्थितानभ्यपतन्गजारुहः ॥ रथी रथेशं खलु पत्तिरङ्घ्रिगान्समप्रतिद्वन्द्विकलिर्महानभूत् ॥ २२॥
तुरंग-सादी तुरग-अधिरोहिणम् गज-स्थितान् अभ्यपतन् गज-आरुहः ॥ रथी रथेशम् खलु पत्तिः अङ्घ्रिगान् सम-प्रतिद्वन्द्वि-कलिः महान् अभूत् ॥ २२॥
turaṃga-sādī turaga-adhirohiṇam gaja-sthitān abhyapatan gaja-āruhaḥ .. rathī ratheśam khalu pattiḥ aṅghrigān sama-pratidvandvi-kaliḥ mahān abhūt .. 22..
ततो निशुंभो हृदये व्यचिन्तयत्करालकालोयमुपागतोऽधुना ॥ भवेद्दरिद्रोऽपि महाधनो महाधनो दरिद्रो विपरीतकालतः ॥ २३॥
ततस् निशुंभः हृदये व्यचिन्तयत् कराल-कालः यम् उपागतः अधुना ॥ भवेत् दरिद्रः अपि महाधनः महाधनः दरिद्रः विपरीत-कालतः ॥ २३॥
tatas niśuṃbhaḥ hṛdaye vyacintayat karāla-kālaḥ yam upāgataḥ adhunā .. bhavet daridraḥ api mahādhanaḥ mahādhanaḥ daridraḥ viparīta-kālataḥ .. 23..
जडो भवेत्स्फीतमतिर्महामतिर्जडो नृशंसो बहुमन्तु संस्तुतः ॥ पराजयं याति रणे महाबला जयंति संग्राममुखे च दुर्बलाः ॥ २४॥
जडः भवेत् स्फीत-मतिः महामतिः जडः नृशंसः बहु-मन्तु संस्तुतः ॥ पराजयम् याति रणे महा-बलाः जयन्ति संग्राम-मुखे च दुर्बलाः ॥ २४॥
jaḍaḥ bhavet sphīta-matiḥ mahāmatiḥ jaḍaḥ nṛśaṃsaḥ bahu-mantu saṃstutaḥ .. parājayam yāti raṇe mahā-balāḥ jayanti saṃgrāma-mukhe ca durbalāḥ .. 24..
जयोऽजयो वा परमेश्वरेच्छया भवत्यनायासत एव देहिनाम् ॥ न कालमुल्लंघ्य शशाक जीवितुं महेश्वरः पद्मजनी रमापतिः॥२५॥
जयः अजयः वा परमेश्वर-इच्छया भवति अनायासतः एव देहिनाम् ॥ न कालम् उल्लंघ्य शशाक जीवितुम् महेश्वरः पद्मजनी रमापतिः॥२५॥
jayaḥ ajayaḥ vā parameśvara-icchayā bhavati anāyāsataḥ eva dehinām .. na kālam ullaṃghya śaśāka jīvitum maheśvaraḥ padmajanī ramāpatiḥ..25..
उपेत्य संग्राममुखं पलायनं न साधुवीरा हृदयेऽनुमन्वते॥परंतु युद्धे कथमेतया जयो विनाशितं मे सकलं बलं यथा॥२६॥
उपेत्य संग्राम-मुखम् पलायनम् न साधु-वीराः हृदये अनुमन्वते॥परंतु युद्धे कथम् एतया जयः विनाशितम् मे सकलम् बलम् यथा॥२६॥
upetya saṃgrāma-mukham palāyanam na sādhu-vīrāḥ hṛdaye anumanvate..paraṃtu yuddhe katham etayā jayaḥ vināśitam me sakalam balam yathā..26..
इयं हि नूनं सुरकर्म साधितुं समागता दैत्यबलं च बाधितुम् ॥ पुराणमूर्तिः प्रकृतिः परा शिवा न लौकिकीयं वनिता कदापि वा ॥ २७ ॥
इयम् हि नूनम् सुर-कर्म साधितुम् समागता दैत्य-बलम् च बाधितुम् ॥ पुराण-मूर्तिः प्रकृतिः परा शिवा न लौकिकी इयम् वनिता कदापि वा ॥ २७ ॥
iyam hi nūnam sura-karma sādhitum samāgatā daitya-balam ca bādhitum .. purāṇa-mūrtiḥ prakṛtiḥ parā śivā na laukikī iyam vanitā kadāpi vā .. 27 ..
वधोऽपि नारीविहितोऽयशस्करः प्रगीयते युद्धरसं लिलिक्षुभिः ॥ तथाप्यकृत्वा समरं कथं मुखं प्रदर्शयामोऽसुरराजसन्निधौ॥२८॥।
वधः अपि नारी-विहितः अयशस्करः प्रगीयते युद्ध-रसम् लिलिक्षुभिः ॥ तथा अपि अ कृत्वा समरम् कथम् मुखम् प्रदर्शयामः असुर-राज-सन्निधौ॥२८॥।
vadhaḥ api nārī-vihitaḥ ayaśaskaraḥ pragīyate yuddha-rasam lilikṣubhiḥ .. tathā api a kṛtvā samaram katham mukham pradarśayāmaḥ asura-rāja-sannidhau..28...
विचारयित्वेति महारथो रथं महान्तमध्यास्य नियन्तृचोदितम्॥ययौ द्रुतं यत्र महेश्वरांगना सुरांगनाप्रार्थितयौवनोद्गमा॥२९॥
विचारयित्वा इति महा-रथः रथम् महान्तम् अध्यास्य नियन्तृ-चोदितम्॥ययौ द्रुतम् यत्र महेश्वर-अंगना सुर-अंगना-प्रार्थित-यौवन-उद्गमा॥२९॥
vicārayitvā iti mahā-rathaḥ ratham mahāntam adhyāsya niyantṛ-coditam..yayau drutam yatra maheśvara-aṃganā sura-aṃganā-prārthita-yauvana-udgamā..29..
अवोचदेनां स महेशि किं भवेदेभिर्हतैर्वेतनजीविभिर्भटैः॥तवास्ति कांक्षा यदि योद्धुमावयोस्तदा रणः स्याद्धृतयुद्धसत्पटैः॥5.48.३०॥
अवोचत् एनाम् स महेशि किम् भवेत् एभिः हतैः वेतन-जीविभिः भटैः॥तव अस्ति कांक्षा यदि योद्धुम् आवयोः तदा रणः स्यात् हृत-युद्ध-सत्-पटैः॥५।४८।३०॥
avocat enām sa maheśi kim bhavet ebhiḥ hataiḥ vetana-jīvibhiḥ bhaṭaiḥ..tava asti kāṃkṣā yadi yoddhum āvayoḥ tadā raṇaḥ syāt hṛta-yuddha-sat-paṭaiḥ..5.48.30..
उवाच कालीं प्रति कौशिकी तदा समीक्ष्यतामेष दुराग्रहोऽनयोः ॥ करोति कालो विपदागमे मतिं विभिन्नवृत्तिं सदसत्प्रवर्तकः ॥ ३१ ॥
उवाच कालीम् प्रति कौशिकी तदा समीक्ष्यताम् एष दुराग्रहः अनयोः ॥ करोति कालः विपद्-आगमे मतिम् विभिन्न-वृत्तिम् सत्-असत्-प्रवर्तकः ॥ ३१ ॥
uvāca kālīm prati kauśikī tadā samīkṣyatām eṣa durāgrahaḥ anayoḥ .. karoti kālaḥ vipad-āgame matim vibhinna-vṛttim sat-asat-pravartakaḥ .. 31 ..
ततो निशुंभोऽभिजघान चण्डिकां शरैस्सहस्रैश्च तथैव कालिकाम् ॥ बिभेद बाणानसुरप्रचोदितान्सहस्रखण्डं स्वशरोत्करैः शिवा॥ ॥ ३२ ॥
ततस् निशुंभः अभिजघान चण्डिकाम् शरैः सहस्रैः च तथा एव कालिकाम् ॥ बिभेद बाणान् असुर-प्रचोदितान् सहस्र-खण्डम् स्व-शर-उत्करैः शिवा॥ ॥ ३२ ॥
tatas niśuṃbhaḥ abhijaghāna caṇḍikām śaraiḥ sahasraiḥ ca tathā eva kālikām .. bibheda bāṇān asura-pracoditān sahasra-khaṇḍam sva-śara-utkaraiḥ śivā.. .. 32 ..
ततः समुत्थाय कृपाणमुज्ज्वलं स चर्म्म कण्ठीरवमूर्ध्न्यताडयत् ॥ बिभेद तं चापि महासिनाम्बिका यथा कुठारेण तरुं तरुश्छिदः ॥ ३३ ॥
ततस् समुत्थाय कृपाणम् उज्ज्वलम् स चर्म्म कण्ठीरव-मूर्ध्नि अताडयत् ॥ बिभेद तम् च अपि महा-असिना अम्बिका यथा कुठारेण तरुम् तरु-छिदः ॥ ३३ ॥
tatas samutthāya kṛpāṇam ujjvalam sa carmma kaṇṭhīrava-mūrdhni atāḍayat .. bibheda tam ca api mahā-asinā ambikā yathā kuṭhāreṇa tarum taru-chidaḥ .. 33 ..
स भिन्नखड्गो निचखान मार्गणं पराम्बिका वक्षसि सोऽपि चिच्छिदे ॥ पुनस्त्रिशूलं हृदयेऽक्षिपत्तदप्यचूर्ण यन्मुष्टिनिपातनेन सा ॥ ३४ ॥
स भिन्न-खड्गः निचखान मार्गणम् पर-अम्बिकाः वक्षसि सः अपि चिच्छिदे ॥ पुनर् त्रिशूलम् हृदये अक्षिपत् तत् अपि अचूर्ण यत् मुष्टि-निपातनेन सा ॥ ३४ ॥
sa bhinna-khaḍgaḥ nicakhāna mārgaṇam para-ambikāḥ vakṣasi saḥ api cicchide .. punar triśūlam hṛdaye akṣipat tat api acūrṇa yat muṣṭi-nipātanena sā .. 34 ..
गदां समादाय पुनर्महारथोऽभ्यधावदम्बां मरणोन्मुखोऽसुरः॥अचूर्णयत्तामपि शूलधारया पुनस्त्रि शूलं विददार सोऽन्यया ॥ ३५ ॥
गदाम् समादाय पुनर् महा-रथः अभ्यधावत् अम्बाम् मरण-उन्मुखः असुरः॥अचूर्णयत् ताम् अपि शूलधारया पुनर् त्रिस् शूलम् विददार सः अन्यया ॥ ३५ ॥
gadām samādāya punar mahā-rathaḥ abhyadhāvat ambām maraṇa-unmukhaḥ asuraḥ..acūrṇayat tām api śūladhārayā punar tris śūlam vidadāra saḥ anyayā .. 35 ..
ततोम्बिका भीमभुजंगमोपमैस्सुरद्विषां शोणितचूषणोचितैः ॥ निशुम्भमात्मीयशिलीमुखै श्शितैर्निहत्य भूमीमनयद्विषोक्षितैः ॥ ३६ ॥
ततस् उम्बिका भीम-भुजंगम-उपमैः सुरद्विषाम् शोणित-चूषण-उचितैः ॥ निशुम्भम् आत्मीय-शिलीमुखैः श्शितैः निहत्य भूमीम् अनयत् विष-उक्षितैः ॥ ३६ ॥
tatas umbikā bhīma-bhujaṃgama-upamaiḥ suradviṣām śoṇita-cūṣaṇa-ucitaiḥ .. niśumbham ātmīya-śilīmukhaiḥ śśitaiḥ nihatya bhūmīm anayat viṣa-ukṣitaiḥ .. 36 ..
निपातितेऽमानबलेऽसुरप्रभुः कनीयसि भ्रातरि रोषपूरितः ॥ रथस्थितो बाहुभिरष्ट भिर्वृतो जगाम यत्र प्रमदा महेशितुः ॥ ३७ ॥
निपातिते अमान-बले असुर-प्रभुः कनीयसि भ्रातरि रोष-पूरितः ॥ रथ-स्थितः बाहुभिः अष्ट वृतः जगाम यत्र प्रमदाः महेशितुः ॥ ३७ ॥
nipātite amāna-bale asura-prabhuḥ kanīyasi bhrātari roṣa-pūritaḥ .. ratha-sthitaḥ bāhubhiḥ aṣṭa vṛtaḥ jagāma yatra pramadāḥ maheśituḥ .. 37 ..
अवादयच्छंखमरिन्दमं तदा धनुस्स्वनं चापि चकार दुःसहम् ॥ ननाद सिंहोऽपि सटां विधूनयन्बभूव नादत्रयनादितन्नभः॥३८॥
अवादयत् शंखम् अरिन्दमम् तदा धनुः-स्वनम् च अपि चकार दुःसहम् ॥ ननाद सिंहः अपि सटाम् विधूनयन् बभूव नाद-त्रय-नादितत् नभः॥३८॥
avādayat śaṃkham arindamam tadā dhanuḥ-svanam ca api cakāra duḥsaham .. nanāda siṃhaḥ api saṭām vidhūnayan babhūva nāda-traya-nāditat nabhaḥ..38..
ततोऽट्टहासं जगदम्बिका करोद्वितत्रसुस्तेन सुरारयोऽखिलाः॥जयेति शब्दं जगदुस्तदा सुरा यदाम्बिकोवाच रणे स्थिरो भव ॥ ३५॥।
ततस् अट्टहासम् जगदम्बिका करोत् वितत्रसुः तेन सुरारयः अखिलाः॥जय इति शब्दम् जगदुः तदा सुराः यदा अम्बिका उवाच रणे स्थिरः भव ॥ ३५॥।
tatas aṭṭahāsam jagadambikā karot vitatrasuḥ tena surārayaḥ akhilāḥ..jaya iti śabdam jagaduḥ tadā surāḥ yadā ambikā uvāca raṇe sthiraḥ bhava .. 35...
दैत्यराजो महतीं ज्वलच्छिखां मुमोच शक्तिं निहता च सोल्कया॥बिभेद शुंभप्रहिताञ्छराच्छिवा शिवेरितान्सोपि सहस्रधा शरान् ॥ 5.48.४० ॥
दैत्य-राजः महतीम् ज्वलत्-शिखाम् मुमोच शक्तिम् निहता च स उल्कया॥बिभेद शुंभ-प्रहितान् शरात् शिवा शिव-ईरितान् सः उपि सहस्रधा शरान् ॥ ५।४८।४० ॥
daitya-rājaḥ mahatīm jvalat-śikhām mumoca śaktim nihatā ca sa ulkayā..bibheda śuṃbha-prahitān śarāt śivā śiva-īritān saḥ upi sahasradhā śarān .. 5.48.40 ..
त्रिशूलमुत्क्षिप्य जघान चण्डिका महासुरं तं स पपात मूर्च्छितः ॥ विभिन्नपक्षो हरिणा यथा नगः प्रकंपयन् द्यां वसुधां स वारिधिम् ॥ ४१ ॥
त्रिशूलम् उत्क्षिप्य जघान चण्डिका महा-असुरम् तम् स पपात मूर्च्छितः ॥ विभिन्न-पक्षः हरिणा यथा नगः प्रकंपयन् द्याम् वसुधाम् स वारिधिम् ॥ ४१ ॥
triśūlam utkṣipya jaghāna caṇḍikā mahā-asuram tam sa papāta mūrcchitaḥ .. vibhinna-pakṣaḥ hariṇā yathā nagaḥ prakaṃpayan dyām vasudhām sa vāridhim .. 41 ..
ततो मृषित्वा त्रिशिखोद्भवां व्यथां विधाय बाहूनयुतं महाबलः ॥ स कालिकां सिंहयुतां महेश्वरीं जघान चक्रैरमरक्षयंकरैः॥४२॥
ततस् मृषित्वा त्रिशिखा-उद्भवाम् व्यथाम् विधाय बाहून् अयुतम् महा-बलः ॥ स कालिकाम् सिंह-युताम् महेश्वरीम् जघान चक्रैः अमर-क्षयंकरैः॥४२॥
tatas mṛṣitvā triśikhā-udbhavām vyathām vidhāya bāhūn ayutam mahā-balaḥ .. sa kālikām siṃha-yutām maheśvarīm jaghāna cakraiḥ amara-kṣayaṃkaraiḥ..42..
तदस्तचक्राणि विभिद्य लीलया त्रिशूलमुद्गूर्य्य जघान सासुरम् ॥ शिवा जगत्पावनपाणिपङ्कजादुपात्तमृत्यू परमं पदं गतौ॥४३॥
तद्-अस्त-चक्राणि विभिद्य लीलया त्रिशूलम् उद्गूर्य जघान स असुरम् ॥ शिवा जगत्-पावन-पाणि-पङ्कजात् उपात्त-मृत्यू परमम् पदम् गतौ॥४३॥
tad-asta-cakrāṇi vibhidya līlayā triśūlam udgūrya jaghāna sa asuram .. śivā jagat-pāvana-pāṇi-paṅkajāt upātta-mṛtyū paramam padam gatau..43..
हते तस्मिन्महावीर्य्ये निशुंभे भीमविक्रमे॥शुंभे च सकला दैत्या विविशुर्बलिसद्मनि ॥ ४४ ॥
हते तस्मिन् महा-वीर्ये निशुंभे भीम-विक्रमे॥शुंभे च सकलाः दैत्याः विविशुः बलि-सद्मनि ॥ ४४ ॥
hate tasmin mahā-vīrye niśuṃbhe bhīma-vikrame..śuṃbhe ca sakalāḥ daityāḥ viviśuḥ bali-sadmani .. 44 ..
भक्षिता अपरे कालीसिंहाद्यैरमरद्विषः ॥ पलायितास्तथान्ये च दशदिक्षु भयाकुलाः ॥ ४५ ॥
भक्षिताः अपरे काली-सिंह-आद्यैः अमर-द्विषः ॥ पलायिताः तथा अन्ये च दश-दिक्षु भय-आकुलाः ॥ ४५ ॥
bhakṣitāḥ apare kālī-siṃha-ādyaiḥ amara-dviṣaḥ .. palāyitāḥ tathā anye ca daśa-dikṣu bhaya-ākulāḥ .. 45 ..
बभूवुर्मार्गवाहिन्यस्सरितः स्वच्छपाथसः ॥ ववुर्वाताः सुखस्पर्शा निर्मलत्वं ययौ नभः॥४६॥
बभूवुः मार्ग-वाहिन्यः सरितः सु अच्छ-पाथसः ॥ ववुः वाताः सुख-स्पर्शाः निर्मल-त्वम् ययौ नभः॥४६॥
babhūvuḥ mārga-vāhinyaḥ saritaḥ su accha-pāthasaḥ .. vavuḥ vātāḥ sukha-sparśāḥ nirmala-tvam yayau nabhaḥ..46..
पुनर्यागः समारेभे देवैर्ब्रह्मर्षिभिस्तथा ॥ सुखिनश्चाभवन्सर्वे महेन्द्राद्या दिवौकसः ॥ ४७ ॥
पुनर् यागः समारेभे देवैः ब्रह्मर्षिभिः तथा ॥ सुखिनः च अभवन् सर्वे महा-इन्द्र-आद्याः दिवौकसः ॥ ४७ ॥
punar yāgaḥ samārebhe devaiḥ brahmarṣibhiḥ tathā .. sukhinaḥ ca abhavan sarve mahā-indra-ādyāḥ divaukasaḥ .. 47 ..
पवित्रं परमं पुण्यमुमायाश्चरितं प्रभो ॥ दैत्यराजवधोपेतं श्रद्धया यः समभ्य सेत् ॥ ४८ ॥
पवित्रम् परमम् पुण्यम् उमायाः चरितम् प्रभो ॥ दैत्य-राज-वध-उपेतम् श्रद्धया यः ॥ ४८ ॥
pavitram paramam puṇyam umāyāḥ caritam prabho .. daitya-rāja-vadha-upetam śraddhayā yaḥ .. 48 ..
स भुक्त्वेहाखिलान्भोगांस्त्रिदशैरपि दुर्लभान् ॥ परत्रोमालयं गच्छेन्महामायाप्रसादतः ॥ ४९ ॥
स भुक्त्वा इह अखिलान् भोगान् त्रिदशैः अपि दुर्लभान् ॥ परत्र उमालयम् गच्छेत् महामाया-प्रसादतः ॥ ४९ ॥
sa bhuktvā iha akhilān bhogān tridaśaiḥ api durlabhān .. paratra umālayam gacchet mahāmāyā-prasādataḥ .. 49 ..
।। ऋषिरुवाच ।।
एवन्देवी समुत्पन्ना शुंभासुरनिबर्हिणी ॥ प्रोक्ता सरस्वती साक्षादुमांशाविर्भवा नृप ॥ 5.48.५०॥
एवम् देवी समुत्पन्ना शुंभ-असुर-निबर्हिणी ॥ प्रोक्ता सरस्वती साक्षात् उमा-अंश-आविर्भवा नृप ॥ ५।४८।५०॥
evam devī samutpannā śuṃbha-asura-nibarhiṇī .. proktā sarasvatī sākṣāt umā-aṃśa-āvirbhavā nṛpa .. 5.48.50..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहि तायां निशुंभशुंभवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनंनामाष्टश्चत्वारिंशोऽध्यायः ॥ ४८॥
इति श्री-शिवमहापुराणे पञ्चम्याम् उमासंहि तायाम् निशुंभशुंभवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनं नाम अष्टश्चत्वारिंशः अध्यायः ॥ ४८॥
iti śrī-śivamahāpurāṇe pañcamyām umāsaṃhi tāyām niśuṃbhaśuṃbhavadhopākhyāne sarasvatīprādurbhāvavarṇanaṃ nāma aṣṭaścatvāriṃśaḥ adhyāyaḥ .. 48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In