| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ॥ अवतारं समाचक्ष्व यतो जाता सरस्वती ॥ १॥
उमायाः भुवनेशान्याः सूत सर्व-अर्थ-वित्तम ॥ अवतारम् समाचक्ष्व यतस् जाता सरस्वती ॥ १॥
umāyāḥ bhuvaneśānyāḥ sūta sarva-artha-vittama .. avatāram samācakṣva yatas jātā sarasvatī .. 1..
या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ॥ निराकारापि साकारा नित्या नन्दमथी सती ॥ २॥
या गीयते पर-ब्रह्म-मूलप्रकृतिः ईश्वरी ॥ निराकारा अपि स आकारा नित्या नन्दमथी सती ॥ २॥
yā gīyate para-brahma-mūlaprakṛtiḥ īśvarī .. nirākārā api sa ākārā nityā nandamathī satī .. 2..
सूत उवाच ।।
तापसाः शृणुत प्रेम्णा चरित्रं परमं महत् ॥ यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥ ३ ॥
तापसाः शृणुत प्रेम्णा चरित्रम् परमम् महत् ॥ यस्य विज्ञान-मात्रेण नरः याति पराम् गतिम् ॥ ३ ॥
tāpasāḥ śṛṇuta premṇā caritram paramam mahat .. yasya vijñāna-mātreṇa naraḥ yāti parām gatim .. 3 ..
देवदानवयोर्युद्धमेकदासीत्परस्परम् ॥ महामायाप्रभावेणामराणां विजयोऽभवत्॥४॥
देव-दानवयोः युद्धम् एकदा आसीत् परस्परम् ॥ महामाया-प्रभावेण अमराणाम् विजयः अभवत्॥४॥
deva-dānavayoḥ yuddham ekadā āsīt parasparam .. mahāmāyā-prabhāveṇa amarāṇām vijayaḥ abhavat..4..
ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे॥वयं धन्या वयं धन्या किं करिष्यंति नोऽसुराः ॥ ५॥
ततस् अवलिप्ताः अमराः स्व-प्रशंसाम् वितेनिरे॥वयम् धन्याः वयम् धन्या किम् करिष्यंति नः असुराः ॥ ५॥
tatas avaliptāḥ amarāḥ sva-praśaṃsām vitenire..vayam dhanyāḥ vayam dhanyā kim kariṣyaṃti naḥ asurāḥ .. 5..
ये प्रभावं समालोक्यास्माकं परमदुःसहम् ॥ भीता नागालयं याता यातयातेति वादिनः ॥ ६ ॥
ये प्रभावम् समालोक्य अस्माकम् परम-दुःसहम् ॥ भीताः नाग-आलयम् याताः यातयाता इति वादिनः ॥ ६ ॥
ye prabhāvam samālokya asmākam parama-duḥsaham .. bhītāḥ nāga-ālayam yātāḥ yātayātā iti vādinaḥ .. 6 ..
अहो बलमहो तेजो दैत्यवंशक्षयंकरम् ॥ अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ॥ ७ ॥
अहो बलम् अहो तेजः दैत्य-वंश-क्षयंकरम् ॥ अहो भाग्यम् सुमनसाम् एवम् सर्वे अभ्यवर्णयन् ॥ ७ ॥
aho balam aho tejaḥ daitya-vaṃśa-kṣayaṃkaram .. aho bhāgyam sumanasām evam sarve abhyavarṇayan .. 7 ..
तत आविरभूत्तेजः कूटरूपन्तदैव हि ॥ अदृष्टपूर्वं तद्दृष्ट्वा विस्मिता अभवन्सुराः ॥ ८॥
ततस् आविरभूत् तेजः कूट-रूपम् तदा एव हि ॥ अ दृष्ट-पूर्वम् तत् दृष्ट्वा विस्मिताः अभवन् सुराः ॥ ८॥
tatas āvirabhūt tejaḥ kūṭa-rūpam tadā eva hi .. a dṛṣṭa-pūrvam tat dṛṣṭvā vismitāḥ abhavan surāḥ .. 8..
किमिदं किमिदं चेति रुद्धकण्ठास्समब्रुवन ॥ अजानन्तः परं श्यामानु भावं मानभञ्जनम् ॥ ९॥
किम् इदम् किम् इदम् च इति रुद्ध-कण्ठाः समब्रुवन ॥ अ जानन्तः परम् श्यामा अनु भावम् मान-भञ्जनम् ॥ ९॥
kim idam kim idam ca iti ruddha-kaṇṭhāḥ samabruvana .. a jānantaḥ param śyāmā anu bhāvam māna-bhañjanam .. 9..
तत आज्ञापयद्देवान्देवानामधिनायकः ॥ यात यूयं परीक्षध्वं याथातथ्येन किन्विति ॥ 5.49.१०॥
ततस् आज्ञापयत् देवान् देवानाम् अधिनायकः ॥ यात यूयम् परीक्षध्वम् याथातथ्येन किनु इति ॥ ५।४९।१०॥
tatas ājñāpayat devān devānām adhināyakaḥ .. yāta yūyam parīkṣadhvam yāthātathyena kinu iti .. 5.49.10..
सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ॥ कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ॥ ११ ॥
सुर-इन्द्र-प्रेरितः वायुः महसः सन्निधिम् गतः ॥ कः त्वम् भोः इति सम्बोध्य अवोचत् एनम् च तत् महः ॥ ११ ॥
sura-indra-preritaḥ vāyuḥ mahasaḥ sannidhim gataḥ .. kaḥ tvam bhoḥ iti sambodhya avocat enam ca tat mahaḥ .. 11 ..
इति पृष्टस्तदा वायुर्महसातिगरीयसा ॥ वायुरस्मि जगत्प्राणस्साभिमानोऽब्रवीदिदम् ॥ १२ ॥
इति पृष्टः तदा वायुः महसा अति गरीयसा ॥ वायुः अस्मि जगत्-प्राणः स अभिमानः अब्रवीत् इदम् ॥ १२ ॥
iti pṛṣṭaḥ tadā vāyuḥ mahasā ati garīyasā .. vāyuḥ asmi jagat-prāṇaḥ sa abhimānaḥ abravīt idam .. 12 ..
जंगमाजंगमं सर्वमोतप्रोतमिदं जगत् ॥ मय्येव निखिलाधारे चालयाम्यखिलं जगत् ॥ ॥ १३ ॥
जंगम-अजंगमम् सर्वम् ओतप्रोतम् इदम् जगत् ॥ मयि एव निखिल-आधारे चालयामि अखिलम् जगत् ॥ ॥ १३ ॥
jaṃgama-ajaṃgamam sarvam otaprotam idam jagat .. mayi eva nikhila-ādhāre cālayāmi akhilam jagat .. .. 13 ..
तदोवाच महातेजः शक्तोऽसि यदि चालने ॥ धृतमेतत्तृणं वायो चालयस्व निजेच्छया ॥ १४ ॥ ।
तदा उवाच महा-तेजः शक्तः असि यदि चालने ॥ धृतम् एतत् तृणम् वायो चालयस्व निज-इच्छया ॥ १४ ॥ ।
tadā uvāca mahā-tejaḥ śaktaḥ asi yadi cālane .. dhṛtam etat tṛṇam vāyo cālayasva nija-icchayā .. 14 .. .
ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ॥ न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ॥ १५॥
ततस् सर्व-प्रयत्नेन अकरोत् यत्नम् सदागतिः ॥ न चचाल यदा स्थानात् तदा असौ लज्जितः अभवत ॥ १५॥
tatas sarva-prayatnena akarot yatnam sadāgatiḥ .. na cacāla yadā sthānāt tadā asau lajjitaḥ abhavata .. 15..
तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रं सभां प्रति ॥ कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ॥ १६॥
तूष्णीम् भूत्वा ततस् वायुः जगाम इन्द्रम् सभाम् प्रति ॥ कथयामास तत् वृत्तम् स्वकीय-अभिभव-अन्वितम् ॥ १६॥
tūṣṇīm bhūtvā tatas vāyuḥ jagāma indram sabhām prati .. kathayāmāsa tat vṛttam svakīya-abhibhava-anvitam .. 16..
सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ॥ न पारयामहे किंचिद्वि धातुं क्षुद्रवस्त्वपि ॥ १७ ॥
सर्व-ईश-त्वम् वयम् सर्वे मृषा एव आत्मनि मन्महे ॥ न पारयामहे किंचिद् वि धातुम् क्षुद्र-वस्तु अपि ॥ १७ ॥
sarva-īśa-tvam vayam sarve mṛṣā eva ātmani manmahe .. na pārayāmahe kiṃcid vi dhātum kṣudra-vastu api .. 17 ..
ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ॥ न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ॥ १८ ॥
ततस् च प्रेषयामास मरुत्वान् सकलान् सुरान् ॥ न शेकुः ते यदा ज्ञातुम् तदा इन्द्रः स्वयम् अभ्यगात् ॥ १८ ॥
tatas ca preṣayāmāsa marutvān sakalān surān .. na śekuḥ te yadā jñātum tadā indraḥ svayam abhyagāt .. 18 ..
मघवन्तमथायान्तं दृष्ट्वा तेजोतिदुःसहम्॥बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः॥१९॥
मघवन्तम् अथ आयान्तम् दृष्ट्वा तेज-ऊति-दुःसहम्॥बभूव अन्तर्हितम् सद्यस् विस्मितः अभूत् च वासवः॥१९॥
maghavantam atha āyāntam dṛṣṭvā teja-ūti-duḥsaham..babhūva antarhitam sadyas vismitaḥ abhūt ca vāsavaḥ..19..
चरित्रमीदृशं यस्य तमेव शरणं श्रये ॥ इति संचिन्तयामास सहस्राक्षः पुनःपुनः ॥ 5.49.२० ॥
चरित्रम् ईदृशम् यस्य तम् एव शरणम् श्रये ॥ इति संचिन्तयामास सहस्राक्षः पुनर् पुनर् ॥ ५।४९।२० ॥
caritram īdṛśam yasya tam eva śaraṇam śraye .. iti saṃcintayāmāsa sahasrākṣaḥ punar punar .. 5.49.20 ..
एतस्मिन्नंतरे तत्र निर्व्याजकरुणातनुः ॥ तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवांगना। ॥ २१ ॥
एतस्मिन् अन्तरे तत्र निर्व्याज-करुणा-तनुः ॥ तेषाम् अनुग्रहम् कर्तुम् हर्तुम् गर्वम् शिव-अंगना। ॥ २१ ॥
etasmin antare tatra nirvyāja-karuṇā-tanuḥ .. teṣām anugraham kartum hartum garvam śiva-aṃganā. .. 21 ..
चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ॥ प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ॥ २२ ॥
चैत्र-शुक्ल-नवम्याम् तु मध्याह्न-स्थे दिवाकरे ॥ प्रादुरासीत् उमा देवी सच्चिदानन्द-रूपिणी ॥ २२ ॥
caitra-śukla-navamyām tu madhyāhna-sthe divākare .. prādurāsīt umā devī saccidānanda-rūpiṇī .. 22 ..
महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ॥ बोधयन्ती सुरान्सर्वान्ब्रह्मैवाहमिति स्फुटम् ॥ २३ ॥
महः-मध्ये विराजन्ती भासयन्ती दिशः रुचा ॥ बोधयन्ती सुरान् सर्वान् ब्रह्मा एव अहम् इति स्फुटम् ॥ २३ ॥
mahaḥ-madhye virājantī bhāsayantī diśaḥ rucā .. bodhayantī surān sarvān brahmā eva aham iti sphuṭam .. 23 ..
चतुर्भिर्दधती हस्तैर्वरपाशांकुशाभयान् ॥ श्रुतिभिस्सेविता रम्या नवयौवनगर्विता ॥ २४॥
चतुर्भिः दधती हस्तैः वर-पाश-अंकुश-अभयान् ॥ श्रुतिभिः सेविता रम्या नव-यौवन-गर्विता ॥ २४॥
caturbhiḥ dadhatī hastaiḥ vara-pāśa-aṃkuśa-abhayān .. śrutibhiḥ sevitā ramyā nava-yauvana-garvitā .. 24..
रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ॥ कोटिकंदर्प्पसंकाशा चन्द्रकोटिसमप्रभा। ॥ २५ ॥
रक्त-अम्बर-परीधाना रक्त-माल्य-अनुलेपना ॥ कोटि-कंदर्प्प-संकाशा चन्द्र-कोटि-सम-प्रभा। ॥ २५ ॥
rakta-ambara-parīdhānā rakta-mālya-anulepanā .. koṭi-kaṃdarppa-saṃkāśā candra-koṭi-sama-prabhā. .. 25 ..
व्याजहार महामाया सर्वान्तर्य्यामिरूपिणी ॥ साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ॥ २६ ॥
व्याजहार महामाया सर्व-अन्तर्य्यामि-रूपिणी ॥ साक्षिणी सर्व-भूतानाम् पर-ब्रह्म-स्वरूपिणी ॥ २६ ॥
vyājahāra mahāmāyā sarva-antaryyāmi-rūpiṇī .. sākṣiṇī sarva-bhūtānām para-brahma-svarūpiṇī .. 26 ..
उमोवाच ।।
न ब्रह्मा न सुरारातिर्न पुरारातिरीश्वरः ॥ मदग्रे गर्वितुं किंचित्का कथान्यसुपर्वणाम् ॥ २७ ॥
न ब्रह्मा न सुर-अरातिः न पुरारातिः ईश्वरः ॥ मद्-अग्रे किंचिद् का कथा अन्य-सुपर्वणाम् ॥ २७ ॥
na brahmā na sura-arātiḥ na purārātiḥ īśvaraḥ .. mad-agre kiṃcid kā kathā anya-suparvaṇām .. 27 ..
परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ॥ अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ॥ २८ ॥
परः ॥ अहम् एव अस्मि सकलम् मत् अन्यः न अस्ति कश्चन ॥ २८ ॥
paraḥ .. aham eva asmi sakalam mat anyaḥ na asti kaścana .. 28 ..
निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ॥ अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ॥ २९ ॥
निराकारा अपि स आकारा सर्व-तत्त्व-स्वरूपिणी ॥ अप्रतर्क्य-गुणा नित्या कार्य-कारण-रूपिणी ॥ २९ ॥
nirākārā api sa ākārā sarva-tattva-svarūpiṇī .. apratarkya-guṇā nityā kārya-kāraṇa-rūpiṇī .. 29 ..
कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ॥ कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ॥ 5.49.३० ॥
कदाचिद् दयित-आकारा कदाचिद् पुरुष-आकृतिः ॥ कदाचिद् उभय-आकारा सर्व-आकारा अहम् ईश्वरी ॥ ५।४९।३० ॥
kadācid dayita-ākārā kadācid puruṣa-ākṛtiḥ .. kadācid ubhaya-ākārā sarva-ākārā aham īśvarī .. 5.49.30 ..
विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ॥ रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ॥ ३१ ॥
विरञ्चिः सृष्टि-कर्ता अहम् जगत्-पाता अहम् अच्युतः ॥ रुद्रः संहार-कर्ता अहम् सर्व-विश्व-विमोहिनी ॥ ३१ ॥
virañciḥ sṛṣṭi-kartā aham jagat-pātā aham acyutaḥ .. rudraḥ saṃhāra-kartā aham sarva-viśva-vimohinī .. 31 ..
कालिका कमलावाणी मुखास्सर्वा हि शक्तयः ॥ मदंशादेव संजातास्तथेमास्सकलाः कलाः ॥ ३२ ॥
कालिका कमला-वाणी मुखाः सर्वाः हि शक्तयः ॥ मद्-अंशात् एव संजाताः तथा इमाः सकलाः कलाः ॥ ३२ ॥
kālikā kamalā-vāṇī mukhāḥ sarvāḥ hi śaktayaḥ .. mad-aṃśāt eva saṃjātāḥ tathā imāḥ sakalāḥ kalāḥ .. 32 ..
मत्प्रभावाज्जितास्सर्वे युष्माभिर्द्दितिनन्दनाः ॥ तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ॥ ३३ ॥
मद्-प्रभावात् जिताः सर्वे युष्माभिः द्दिति-नन्दनाः ॥ ताम् अ विज्ञाय माम् यूयम् वृथा सर्व-ईश-मानिनः ॥ ३३ ॥
mad-prabhāvāt jitāḥ sarve yuṣmābhiḥ dditi-nandanāḥ .. tām a vijñāya mām yūyam vṛthā sarva-īśa-māninaḥ .. 33 ..
यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ॥ तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ॥ ३४ ॥
यथा दारु-मयीम् योषाम् नर्तयति ऐन्द्रजालिकः ॥ तथा एव सर्व-भूतानि नर्तयामि अहम् ईश्वरी ॥ ३४ ॥
yathā dāru-mayīm yoṣām nartayati aindrajālikaḥ .. tathā eva sarva-bhūtāni nartayāmi aham īśvarī .. 34 ..
मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक्॥लोकपालाः प्रकुर्वंति स्वस्वकर्माण्यनारतम् ॥ ३५॥
मद्-भयात् वाति पवनः सर्वम् दहति हव्यभुज्॥लोकपालाः प्रकुर्वंति स्व-स्व-कर्माणि अनारतम् ॥ ३५॥
mad-bhayāt vāti pavanaḥ sarvam dahati havyabhuj..lokapālāḥ prakurvaṃti sva-sva-karmāṇi anāratam .. 35..
कदाचिद्देववर्गाणां कदाचिद्दितिजन्म नाम् ॥ करोमि विजयं सम्यक्स्वतन्त्रा निजलीलया ॥ ३६ ॥
कदाचिद् देव-वर्गाणाम् कदाचिद् दितिजन्म नाम् ॥ करोमि विजयम् सम्यक् स्वतन्त्रा निज-लीलया ॥ ३६ ॥
kadācid deva-vargāṇām kadācid ditijanma nām .. karomi vijayam samyak svatantrā nija-līlayā .. 36 ..
अविनाशि परं धाम मायातीतं परात्परम् ॥ श्रुतयो वर्णयन्ते यत्त द्रूपन्तु ममैव हि॥३७॥
अविनाशि परम् धाम माया-अतीतम् परात्परम् ॥ श्रुतयः वर्णयन्ते मम एव हि॥३७॥
avināśi param dhāma māyā-atītam parātparam .. śrutayaḥ varṇayante mama eva hi..37..
सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ॥ मायाशबलितं चैकं द्वितीयन्तदनाश्रितम् ॥ ३८ ॥
स गुणम् निर्गुणम् च इति मद्-रूपम् द्विविधम् मतम् ॥ च एकम् द्वितीयम् तत् अनाश्रितम् ॥ ३८ ॥
sa guṇam nirguṇam ca iti mad-rūpam dvividham matam .. ca ekam dvitīyam tat anāśritam .. 38 ..
एवं विज्ञाय मां देवास्स्वं स्वं गर्वं विहाय च ॥ भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ॥ ३९॥
एवम् विज्ञाय माम् देवाः स्वम् स्वम् गर्वम् विहाय च ॥ भजत प्रणय-उपेताः प्रकृतिम् माम् सनातनीम् ॥ ३९॥
evam vijñāya mām devāḥ svam svam garvam vihāya ca .. bhajata praṇaya-upetāḥ prakṛtim mām sanātanīm .. 39..
इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ॥ तुष्टुवुः परमेशानीं भक्तिसंनतकन्धराः ॥ 5.49.४० ॥
इति देव्याः वचः श्रुत्वा करुणा-गर्भितम् सुराः ॥ तुष्टुवुः परमेशानीम् भक्ति-संनत-कन्धराः ॥ ५।४९।४० ॥
iti devyāḥ vacaḥ śrutvā karuṇā-garbhitam surāḥ .. tuṣṭuvuḥ parameśānīm bhakti-saṃnata-kandharāḥ .. 5.49.40 ..
क्षमस्व जगदीशानि प्रसीद परमेश्वरि ॥ मैवं भूयात्कदाचिन्नो गर्वो मातर्द्दयां कुरु ॥ ४१॥
क्षमस्व जगदीशानि प्रसीद परमेश्वरि ॥ मा एवम् भूयात् कदाचिद् नः गर्वः मातर् द्दयाम् कुरु ॥ ४१॥
kṣamasva jagadīśāni prasīda parameśvari .. mā evam bhūyāt kadācid naḥ garvaḥ mātar ddayām kuru .. 41..
ततःप्रभृति ते दैवा हित्वा गर्वं समाहिताः॥उमामाराधयामासुर्यथापूर्वं यथाविधि॥४२॥
ततस् प्रभृति ते दैवाः हित्वा गर्वम् समाहिताः॥उमाम् आराधयामासुः यथापूर्वम् यथाविधि॥४२॥
tatas prabhṛti te daivāḥ hitvā garvam samāhitāḥ..umām ārādhayāmāsuḥ yathāpūrvam yathāvidhi..42..
इति वः कथितो विप्रा उमाप्रादुर्भवो मया ॥ यस्य श्रवणमात्रेण परमं पदमश्नुते॥४३॥
इति वः कथितः विप्राः उमा-प्रादुर्भवः मया ॥ यस्य श्रवण-मात्रेण परमम् पदम् अश्नुते॥४३॥
iti vaḥ kathitaḥ viprāḥ umā-prādurbhavaḥ mayā .. yasya śravaṇa-mātreṇa paramam padam aśnute..43..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामुमाप्रादुर्भाववर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् उमाप्रादुर्भाववर्णनम् नाम एकोनपञ्चाशत्तमः अध्यायः ॥ ४९ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām umāprādurbhāvavarṇanam nāma ekonapañcāśattamaḥ adhyāyaḥ .. 49 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In