| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ॥ भगवंस्तान्समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ॥ १॥
ये पाप-निरताः जीवाः महा-नरक-हेतवः ॥ भगवन् तान् समाचक्ष्व ब्रह्म-पुत्र नमः अस्तु ते ॥ १॥
ye pāpa-niratāḥ jīvāḥ mahā-naraka-hetavaḥ .. bhagavan tān samācakṣva brahma-putra namaḥ astu te .. 1..
सनत्कुमार उवाच ।।
ये पापनिरता जीवा महानरकहेतवः ॥ ते समासेन कथ्यंते सावधानतया शृणु ॥ २॥।
ये पाप-निरताः जीवाः महा-नरक-हेतवः ॥ ते समासेन कथ्यंते सावधान-तया शृणु ॥ २॥।
ye pāpa-niratāḥ jīvāḥ mahā-naraka-hetavaḥ .. te samāsena kathyaṃte sāvadhāna-tayā śṛṇu .. 2...
परस्त्रीद्रव्यसंकल्पश्चेतसाऽनिष्टचिंतनम् ॥ अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम् ॥ ३ ॥ तु. महाभारतम् अनुशासन १३.२
पर-स्त्री-द्रव्य-संकल्पः चेतसा अनिष्ट-चिंतनम् ॥ अकार्य-अभिनिवेशः च चतुर्द्धा कर्म मानसम् ॥ ३ ॥ तु। महाभारतम् अनुशासन-।२
para-strī-dravya-saṃkalpaḥ cetasā aniṣṭa-ciṃtanam .. akārya-abhiniveśaḥ ca caturddhā karma mānasam .. 3 .. tu. mahābhāratam anuśāsana-.2
अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ॥ परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम् ॥ ४ ॥
अविबद्ध-प्रलाप-त्वम् असत्यम् च अप्रियम् च यत् ॥ परोक्षतः च पैशुन्यम् चतुर्द्धा कर्म वाचिकम् ॥ ४ ॥
avibaddha-pralāpa-tvam asatyam ca apriyam ca yat .. parokṣataḥ ca paiśunyam caturddhā karma vācikam .. 4 ..
अभक्ष्यभक्षणं हिंसा मिथ्याकार्य्य निवेशनम् ॥ परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ॥ ५ ॥
अभक्ष्य-भक्षणम् हिंसा मिथ्या कार्य्य-निवेशनम् ॥ पर-स्वानाम् उपादानम् चतुर्द्धा कर्म कायिकम् ॥ ५ ॥
abhakṣya-bhakṣaṇam hiṃsā mithyā kāryya-niveśanam .. para-svānām upādānam caturddhā karma kāyikam .. 5 ..
इत्येतद्वा दशविधं कर्म प्रोक्तं त्रिसाधनम् ॥ अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम् ॥ ६ ॥
इति एतत् वा दशविधम् कर्म प्रोक्तम् त्रि-साधनम् ॥ अस्य भेदान् पुनर् वक्ष्ये येषाम् फलम् अनंतकम् ॥ ६ ॥
iti etat vā daśavidham karma proktam tri-sādhanam .. asya bhedān punar vakṣye yeṣām phalam anaṃtakam .. 6 ..
ये द्विषंति महादेवं संसारार्णवतारकम् ॥ सुमहत्पातकं तेषां निरयार्णवगामिनाम् ॥ ७ ॥
ये द्विषंति महादेवम् संसार-अर्णव-तारकम् ॥ सु महत् पातकम् तेषाम् निरय-अर्णव-गामिनाम् ॥ ७ ॥
ye dviṣaṃti mahādevam saṃsāra-arṇava-tārakam .. su mahat pātakam teṣām niraya-arṇava-gāminām .. 7 ..
ये शिवज्ञानवक्तारं निन्दंति च तपस्विनम् ॥ गुरून्पितॄनथोन्मत्तास्ते यांति निरयार्णवम् ॥ ८॥
ये शिव-ज्ञान-वक्तारम् निन्दंति च तपस्विनम् ॥ गुरून् पितॄन् अथ उन्मत्ताः ते यांति निरय-अर्णवम् ॥ ८॥
ye śiva-jñāna-vaktāram nindaṃti ca tapasvinam .. gurūn pitṝn atha unmattāḥ te yāṃti niraya-arṇavam .. 8..
शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ॥ देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ॥ ९ ॥
शिव-निन्दा गुरोः निन्दा शिव-ज्ञानस्य दूषणम् ॥ देव-द्रव्य-अपहरणम् द्विज-द्रव्य-विनाशनम् ॥ ९ ॥
śiva-nindā guroḥ nindā śiva-jñānasya dūṣaṇam .. deva-dravya-apaharaṇam dvija-dravya-vināśanam .. 9 ..
हरंति ये च संमूढाश्शिवज्ञानस्य पुस्तकम् ॥ महांति पातकान्याहुरनन्तफलदानि षट् ॥ 5.5.१०॥
हरन्ति ये च संमूढाः शिव-ज्ञानस्य पुस्तकम् ॥ महांति पातकानि आहुः अनन्त-फल-दानि षड् ॥ ५।५।१०॥
haranti ye ca saṃmūḍhāḥ śiva-jñānasya pustakam .. mahāṃti pātakāni āhuḥ ananta-phala-dāni ṣaḍ .. 5.5.10..
नाभिनन्दंति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ॥ न नमंत्यर्चितं दृष्ट्वा शिवलिंगं स्तुवंति न ॥ ११ ॥
न अभिनन्दंति ये दृष्ट्वा शिव-पूजाम् प्रकल्पिताम् ॥ न नमंति अर्चितम् दृष्ट्वा शिव-लिंगम् स्तुवंति न ॥ ११ ॥
na abhinandaṃti ye dṛṣṭvā śiva-pūjām prakalpitām .. na namaṃti arcitam dṛṣṭvā śiva-liṃgam stuvaṃti na .. 11 ..
यथेष्टचेष्टा निश्शंकास्संतिष्ठंते रमंति च ॥ उपचारविनिर्मुक्ताश्शिवाग्रे गुरुसन्निधौ ॥ १२॥
यथा इष्ट-चेष्टाः निश्शंकाः संतिष्ठंते रमंति च ॥ उपचार-विनिर्मुक्ताः शिव-अग्रे गुरु-सन्निधौ ॥ १२॥
yathā iṣṭa-ceṣṭāḥ niśśaṃkāḥ saṃtiṣṭhaṃte ramaṃti ca .. upacāra-vinirmuktāḥ śiva-agre guru-sannidhau .. 12..
स्थानसंस्कारपूजां च ये न कुर्वंति पर्वसु ॥ विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः ॥ १३ ॥
स्थान-संस्कार-पूजाम् च ये न कुर्वंति पर्वसु ॥ विधिवत् वा गुरूणाम् च कर्म्म-योग-व्यवस्थिताः ॥ १३ ॥
sthāna-saṃskāra-pūjām ca ye na kurvaṃti parvasu .. vidhivat vā gurūṇām ca karmma-yoga-vyavasthitāḥ .. 13 ..
ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ॥ असंपूज्य शिवज्ञानं येऽधीयंते लिखंति च ॥ १४ ॥
ये त्यजंति शिव-आचारम् शिव-भक्तान् द्विषंति च ॥ अ संपूज्य शिव-ज्ञानम् ये अधीयंते लिखंति च ॥ १४ ॥
ye tyajaṃti śiva-ācāram śiva-bhaktān dviṣaṃti ca .. a saṃpūjya śiva-jñānam ye adhīyaṃte likhaṃti ca .. 14 ..
अन्यायतः प्रयच्छंति शृण्वन्त्युच्चारयंति च ॥ विक्रीडंति च लोभेन कुज्ञाननियमेन च ॥ १५ ॥
अन्यायतः प्रयच्छंति शृण्वन्ति उच्चारयंति च ॥ विक्रीडन्ति च लोभेन कु ज्ञान-नियमेन च ॥ १५ ॥
anyāyataḥ prayacchaṃti śṛṇvanti uccārayaṃti ca .. vikrīḍanti ca lobhena ku jñāna-niyamena ca .. 15 ..
असंस्कृतप्रदेशेषु यथेष्टं स्वापयंति च ॥ शिवज्ञानकथाऽऽक्षेपं यः कृत्वान्यत्प्रभाषते ॥ १६ ॥
अ संस्कृत-प्रदेशेषु यथा इष्टम् स्वापयंति च ॥ शिव-ज्ञान-कथा-आक्षेपम् यः कृत्वा अन्यत् प्रभाषते ॥ १६ ॥
a saṃskṛta-pradeśeṣu yathā iṣṭam svāpayaṃti ca .. śiva-jñāna-kathā-ākṣepam yaḥ kṛtvā anyat prabhāṣate .. 16 ..
न ब्रवीति च यः सत्यं न प्रदानं करोति च ॥ अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ॥ १७ ॥
न ब्रवीति च यः सत्यम् न प्रदानम् करोति च ॥ अशुचिः वा अशुचि-स्थाने यः प्रवक्ति शृणोति च ॥ १७ ॥
na bravīti ca yaḥ satyam na pradānam karoti ca .. aśuciḥ vā aśuci-sthāne yaḥ pravakti śṛṇoti ca .. 17 ..
गुरुपूजामकृत्वैव यश्शास्त्रं श्रोतुमिच्छति ॥ न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ॥ १८ ॥
गुरु-पूजाम् अ कृत्वा एव यः शास्त्रम् श्रोतुम् इच्छति ॥ न करोति च शुश्रूषाम् आज्ञाम् च भक्ति-भावतः ॥ १८ ॥
guru-pūjām a kṛtvā eva yaḥ śāstram śrotum icchati .. na karoti ca śuśrūṣām ājñām ca bhakti-bhāvataḥ .. 18 ..
नाभिनन्दंति तद्वाक्यमुत्तरं च प्रयच्छति ॥ गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ॥ १९ ॥
न अभिनन्दंति तत् वाक्यम् उत्तरम् च प्रयच्छति ॥ गुरु-कर्मणि असाध्यम् यत् तत् उपेक्षाम् करोति च ॥ १९ ॥
na abhinandaṃti tat vākyam uttaram ca prayacchati .. guru-karmaṇi asādhyam yat tat upekṣām karoti ca .. 19 ..
गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा ॥ वैरिभिः परिभूतं वा यस्संत्यजति पापकृत् ॥ 5.5.२० ॥
गुरु-मार्त्तम-शक्तम् च विदेशम् प्रस्थितम् तथा ॥ वैरिभिः परिभूतम् वा यः संत्यजति पाप-कृत् ॥ ५।५।२० ॥
guru-mārttama-śaktam ca videśam prasthitam tathā .. vairibhiḥ paribhūtam vā yaḥ saṃtyajati pāpa-kṛt .. 5.5.20 ..
तद्भार्य्यापुत्रमित्रेषु यश्चावज्ञां करोति च ॥ एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ॥ २१ ॥
तद्-भार्य्या-पुत्र-मित्रेषु यः च अवज्ञाम् करोति च ॥ एवम् सु वाचकस्य अपि गुरोः धर्म-अनुदर्शिनः ॥ २१ ॥
tad-bhāryyā-putra-mitreṣu yaḥ ca avajñām karoti ca .. evam su vācakasya api guroḥ dharma-anudarśinaḥ .. 21 ..
एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ॥ सुमहत्पातकान्याहुश्शिवनिन्दासमानि च ॥ २२ ॥
एतानि खलु सर्वाणि कर्माणि मुनि-सत्तम ॥ सु महत् पातकानि आहुः शिव-निन्दा-समानि च ॥ २२ ॥
etāni khalu sarvāṇi karmāṇi muni-sattama .. su mahat pātakāni āhuḥ śiva-nindā-samāni ca .. 22 ..
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ महापातकिनस्त्वेते तत्संयोगी च पंचमः ॥ २३॥
ब्रह्म-घ्नः च सुरापः च स्तेयी च गुरुतल्प-गः ॥ महापातकिनः तु एते तद्-संयोगी च पंचमः ॥ २३॥
brahma-ghnaḥ ca surāpaḥ ca steyī ca gurutalpa-gaḥ .. mahāpātakinaḥ tu ete tad-saṃyogī ca paṃcamaḥ .. 23..
क्रोधाल्लोभाद्भयाद्द्वेषाद्ब्राह्मणस्य वधे तु यः ॥ मर्मांतिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ॥ २४॥
क्रोधात् लोभात् भयात् द्वेषात् ब्राह्मणस्य वधे तु यः ॥ मर्म-अंतिकम् महा-दोषम् उक्त्वा स ब्रह्म-हा भवेत् ॥ २४॥
krodhāt lobhāt bhayāt dveṣāt brāhmaṇasya vadhe tu yaḥ .. marma-aṃtikam mahā-doṣam uktvā sa brahma-hā bhavet .. 24..
ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ॥ निर्द्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ॥ २५ ॥
ब्राह्मणम् यः समाहूय दत्त्वा यः च आददाति च ॥ निर्द्दोषम् दूषयेत् यः तु स नरः ब्रह्म-हा भवेत् ॥ २५ ॥
brāhmaṇam yaḥ samāhūya dattvā yaḥ ca ādadāti ca .. nirddoṣam dūṣayet yaḥ tu sa naraḥ brahma-hā bhavet .. 25 ..
यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ॥ उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ २६ ॥
यः च विद्या-अभिमानेन निस्तेजयति सु द्विजम् ॥ उदासीनम् सभा-मध्ये ब्रह्म-हा स प्रकीर्तितः ॥ २६ ॥
yaḥ ca vidyā-abhimānena nistejayati su dvijam .. udāsīnam sabhā-madhye brahma-hā sa prakīrtitaḥ .. 26 ..
मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ॥ गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ॥ २७॥
मिथ्या गुणैः यः आत्मानम् नयति उत्कर्षताम् बलात् ॥ गुणान् अपि निरुद्वास्य स च वै ब्रह्म-हा भवेत् ॥ २७॥
mithyā guṇaiḥ yaḥ ātmānam nayati utkarṣatām balāt .. guṇān api nirudvāsya sa ca vai brahma-hā bhavet .. 27..
गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् ॥ यस्समाचरते विप्र तमाहुर्ब्रह्मघातकम् ॥ २८॥
गवाम् वृष-अभिभूतानाम् द्विजानाम् गुरु-पूर्वकम् ॥ यः समाचरते विप्र तम् आहुः ब्रह्म-घातकम् ॥ २८॥
gavām vṛṣa-abhibhūtānām dvijānām guru-pūrvakam .. yaḥ samācarate vipra tam āhuḥ brahma-ghātakam .. 28..
देवद्विजगवां भूमिं प्रदत्तां हरते तु यः ॥ प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ ॥ २९ ॥
देव-द्विज-गवाम् भूमिम् प्रदत्ताम् हरते तु यः ॥ प्रनष्टाम् अपि कालेन तम् आहुः ब्रह्म-घातकम् ॥ ॥ २९ ॥
deva-dvija-gavām bhūmim pradattām harate tu yaḥ .. pranaṣṭām api kālena tam āhuḥ brahma-ghātakam .. .. 29 ..
देवद्विजस्वहरणमन्यायेनार्जितं तु यत् ॥ ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ॥ 5.5.३० ॥
देव-द्विज-स्व-हरणम् अन्यायेन अर्जितम् तु यत् ॥ ब्रह्महत्या-समम् ज्ञेयम् पातकम् न अत्र संशयः ॥ ५।५।३० ॥
deva-dvija-sva-haraṇam anyāyena arjitam tu yat .. brahmahatyā-samam jñeyam pātakam na atra saṃśayaḥ .. 5.5.30 ..
अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् ॥ यदि त्यजति यो मूढः सुरापानस्य तत्समम् ॥ ३१ ॥
अधीत्य यः द्विजः वेदम् ब्रह्म-ज्ञानम् शिव-आत्मकम् ॥ यदि त्यजति यः मूढः सुरा-पानस्य तत् समम् ॥ ३१ ॥
adhītya yaḥ dvijaḥ vedam brahma-jñānam śiva-ātmakam .. yadi tyajati yaḥ mūḍhaḥ surā-pānasya tat samam .. 31 ..
यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा ॥ संत्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ॥ ३२॥
यत् किंचिद् हि व्रतम् गृह्य नियमम् यजनम् तथा ॥ संत्यागः पञ्चयज्ञानाम् सुरा-पानस्य तत् समम् ॥ ३२॥
yat kiṃcid hi vratam gṛhya niyamam yajanam tathā .. saṃtyāgaḥ pañcayajñānām surā-pānasya tat samam .. 32..
पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् ॥ आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ॥ ३३॥
पितृ-मातृ-परित्यागः कूट-साक्ष्यम् द्विज-अनृतम् ॥ आमिषम् शिव-भक्तानाम् अभक्ष्यस्य च भक्षणम् ॥ ३३॥
pitṛ-mātṛ-parityāgaḥ kūṭa-sākṣyam dvija-anṛtam .. āmiṣam śiva-bhaktānām abhakṣyasya ca bhakṣaṇam .. 33..
वने निरपराधानां प्राणिनां चापघातनम् ॥ द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ॥ ३४ ॥
वने निरपराधानाम् प्राणिनाम् च अपघातनम् ॥ द्विज-अर्थम् प्रक्षिपेत् साधुः न धर्म-अर्थम् नियोजयेत् ॥ ३४ ॥
vane niraparādhānām prāṇinām ca apaghātanam .. dvija-artham prakṣipet sādhuḥ na dharma-artham niyojayet .. 34 ..
गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते ॥ इति पापानि घोराणि ब्रह्महत्यासमानि च ॥ ३५ ॥
गवाम् मार्गे वने ग्रामे यैः च एव अग्निः प्रदीयते ॥ इति पापानि घोराणि ब्रह्महत्या-समानि च ॥ ३५ ॥
gavām mārge vane grāme yaiḥ ca eva agniḥ pradīyate .. iti pāpāni ghorāṇi brahmahatyā-samāni ca .. 35 ..
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ॥ गोभूरजतवस्त्राणामौषधीनां रसस्य च ॥ ३६॥
दीन-सर्व-स्व-हरणम् नर-स्त्री-गज-वाजिनाम् ॥ गो-भू-रजत-वस्त्राणाम् औषधीनाम् रसस्य च ॥ ३६॥
dīna-sarva-sva-haraṇam nara-strī-gaja-vājinām .. go-bhū-rajata-vastrāṇām auṣadhīnām rasasya ca .. 36..
चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम्॥विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ॥ ३७ ॥
चन्दन-अगरु-कर्पूर-कस्तूरी-पट्टवाससाम्॥विक्रयः तु अविपत्तौ यः कृतः ज्ञानात् द्विजातिभिः ॥ ३७ ॥
candana-agaru-karpūra-kastūrī-paṭṭavāsasām..vikrayaḥ tu avipattau yaḥ kṛtaḥ jñānāt dvijātibhiḥ .. 37 ..
हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ॥ कन्यानां वरयोग्यानामदानं सदृशे वरे ॥ ३८॥
हस्त-न्यास-अपहरणम् रुक्म-स्तेय-समम् स्मृतम् ॥ कन्यानाम् वर-योग्यानाम् अदानम् सदृशे वरे ॥ ३८॥
hasta-nyāsa-apaharaṇam rukma-steya-samam smṛtam .. kanyānām vara-yogyānām adānam sadṛśe vare .. 38..
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ॥ कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ॥ ३९ ॥
पुत्र-मित्र-कलत्रेषु गमनम् भगिनीषु च ॥ कुमारी-साहसम् घोर-मद्यप-स्त्री-निषेवणम् ॥ ३९ ॥
putra-mitra-kalatreṣu gamanam bhaginīṣu ca .. kumārī-sāhasam ghora-madyapa-strī-niṣevaṇam .. 39 ..
सवर्णायाश्च गमनं गुरुभार्य्यासमं स्मृतम् ॥ महापापानि चोक्तानि शृणु त्वमुपपातकम् ॥ 5.5.४०॥
सवर्णायाः च गमनम् गुरु-भार्य्या-समम् स्मृतम् ॥ महा-पापानि च उक्तानि शृणु त्वम् उपपातकम् ॥ ५।५।४०॥
savarṇāyāḥ ca gamanam guru-bhāryyā-samam smṛtam .. mahā-pāpāni ca uktāni śṛṇu tvam upapātakam .. 5.5.40..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां महापातकवर्णनं नाम पंचमोऽध्यायः ॥ ५॥
इति श्री-शिव-महापुराणे पंचम्याम् उमासंहितायाम् महापातकवर्णनम् नाम पंचमः अध्यायः ॥ ५॥
iti śrī-śiva-mahāpurāṇe paṃcamyām umāsaṃhitāyām mahāpātakavarṇanam nāma paṃcamaḥ adhyāyaḥ .. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In