| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ॥ अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ॥ १॥
श्रोतु-कामाः वयम् सर्वे दुर्ग-आचरितम् अन्वहम् ॥ अपरम् च महा-प्राज्ञ तत्त्वम् वर्णय नः अद्भुतम् ॥ १॥
śrotu-kāmāḥ vayam sarve durga-ācaritam anvaham .. aparam ca mahā-prājña tattvam varṇaya naḥ adbhutam .. 1..
शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ॥ न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ॥ २ ॥
शृण्वताम् त्वद्-मुख-अम्भोजात् कथाः नाना सुधा-उपमाः ॥ न तृप्यति मनः अस्माकम् सूत सर्व-अर्थ-वित्तम ॥ २ ॥
śṛṇvatām tvad-mukha-ambhojāt kathāḥ nānā sudhā-upamāḥ .. na tṛpyati manaḥ asmākam sūta sarva-artha-vittama .. 2 ..
।। सूत उवाच ।।
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ॥ ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ॥ ३ ॥
दुर्गमः प्रथितः नाम्ना रुरु-पुत्रः महा-बलः ॥ ब्रह्मणः वर-दानेन चतस्रः अलभत श्रुतीः ॥ ३ ॥
durgamaḥ prathitaḥ nāmnā ruru-putraḥ mahā-balaḥ .. brahmaṇaḥ vara-dānena catasraḥ alabhata śrutīḥ .. 3 ..
देवाजेयबलं चापि संप्राप्य जगतीतले ॥ करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ॥ ४॥
देव-अजेय-बलम् च अपि संप्राप्य जगती-तले ॥ करोति स्म बहु-उत्पातान् दिवि देवाः चकम्पिरे ॥ ४॥
deva-ajeya-balam ca api saṃprāpya jagatī-tale .. karoti sma bahu-utpātān divi devāḥ cakampire .. 4..
सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ॥ ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा ॥ ५ ॥
सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ॥ ब्राह्मणाः च दुराचाराः बभूबुः स सुराः तदा ॥ ५ ॥
sarvā naṣṭeṣu vedeṣu kriyā naṣṭā babhūva ha .. brāhmaṇāḥ ca durācārāḥ babhūbuḥ sa surāḥ tadā .. 5 ..
न दानं न तपोऽत्युग्रं न यागो हवनं न हि ॥ अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ॥ ६॥
न दानम् न तपः अति उग्रम् न यागः हवनम् न हि ॥ अनावृष्टिः ततस् जाता पृथिव्याम् शत-वार्षिकी ॥ ६॥
na dānam na tapaḥ ati ugram na yāgaḥ havanam na hi .. anāvṛṣṭiḥ tatas jātā pṛthivyām śata-vārṣikī .. 6..
हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ॥ अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ॥ ७ ॥
हाहाकारः महान् आसीत् त्रिषु लोकेषु दुःखिताः ॥ अभवन् च जनाः सर्वे क्षुध्-तृड्भ्याम् पीडिताः भृशम् ॥ ७ ॥
hāhākāraḥ mahān āsīt triṣu lokeṣu duḥkhitāḥ .. abhavan ca janāḥ sarve kṣudh-tṛḍbhyām pīḍitāḥ bhṛśam .. 7 ..
सरितः सागराश्चैव वापीकूपसरांसि च ॥ निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ॥ ८ ॥
सरितः सागराः च एव वापी-कूप-सरांसि च ॥ निर्जलाः अभवन् सर्वे संशुष्काः वृक्ष-वीरुधः ॥ ८ ॥
saritaḥ sāgarāḥ ca eva vāpī-kūpa-sarāṃsi ca .. nirjalāḥ abhavan sarve saṃśuṣkāḥ vṛkṣa-vīrudhaḥ .. 8 ..
ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ॥ त्रिदशाश्शरणं याता योगमायां महेश्वरीम् ॥ ९ ॥
ततस् दृष्ट्वा मदात् दुःखम् प्रजानाम् दीन-चेतसाम् ॥ त्रिदशाः शरणम् याताः योग-मायाम् महेश्वरीम् ॥ ९ ॥
tatas dṛṣṭvā madāt duḥkham prajānām dīna-cetasām .. tridaśāḥ śaraṇam yātāḥ yoga-māyām maheśvarīm .. 9 ..
देवा ऊचुः ।।
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ॥ कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा ॥ 5.50.१० ॥
रक्ष रक्ष महामाये स्वकीयाः सकलाः प्रजाः ॥ कोपम् संहर नूनम् त्वम् लोकाः नंक्ष्यन्ति वा अन्यथा ॥ ५।५०।१० ॥
rakṣa rakṣa mahāmāye svakīyāḥ sakalāḥ prajāḥ .. kopam saṃhara nūnam tvam lokāḥ naṃkṣyanti vā anyathā .. 5.50.10 ..
कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ॥ धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ॥ ११ ॥
कथा शुंभः हतः दैत्यः निशुंभः च महा-बलः ॥ धूम्राक्षः चण्ड-मुण्डौ च रक्तबीजः महाबलः ॥ ११ ॥
kathā śuṃbhaḥ hataḥ daityaḥ niśuṃbhaḥ ca mahā-balaḥ .. dhūmrākṣaḥ caṇḍa-muṇḍau ca raktabījaḥ mahābalaḥ .. 11 ..
स मधुः कैटभो दैत्यो महिषासुर एव च ॥ तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ॥ १२ ॥
स मधुः कैटभः दैत्यः महिष-असुरः एव च ॥ तथा एव अमुम् कृपा-सिन्धो दीन-बन्धो जहि द्रुतम् ॥ १२ ॥
sa madhuḥ kaiṭabhaḥ daityaḥ mahiṣa-asuraḥ eva ca .. tathā eva amum kṛpā-sindho dīna-bandho jahi drutam .. 12 ..
अपराधो भवत्येव बालकानां पदे पदे ॥ सहते को जनो लोके केवलं मातरं विना ॥ १३ ॥
अपराधः भवति एव बालकानाम् पदे पदे ॥ सहते कः जनः लोके केवलम् मातरम् विना ॥ १३ ॥
aparādhaḥ bhavati eva bālakānām pade pade .. sahate kaḥ janaḥ loke kevalam mātaram vinā .. 13 ..
यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ॥ तदातदावतीर्याशु कुरुषे सुखिनो जनान् ॥ १४ ॥
देवानाम् ब्रह्मणाम् तथा ॥ तदा तदा अवतीर्य आशु कुरुषे सुखिनः जनान् ॥ १४ ॥
devānām brahmaṇām tathā .. tadā tadā avatīrya āśu kuruṣe sukhinaḥ janān .. 14 ..
इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ॥ अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम् ॥ १५ ॥
इति विक्लवितम् तेषाम् समाकर्ण्य कृपा-मयी ॥ अनन्त-अक्ष-मयम् रूपन् दर्शयामास साम्प्रतम् ॥ १५ ॥
iti viklavitam teṣām samākarṇya kṛpā-mayī .. ananta-akṣa-mayam rūpan darśayāmāsa sāmpratam .. 15 ..
धनुर्बाणौ तथा पद्म नानामूलफलानि च ॥ चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा॥१६॥
धनुः-बाणौ तथा पद्म नाना मूल-फलानि च ॥ चतुर्भिः दधती हस्तैः प्रसन्न-मुख-पङ्कजा॥१६॥
dhanuḥ-bāṇau tathā padma nānā mūla-phalāni ca .. caturbhiḥ dadhatī hastaiḥ prasanna-mukha-paṅkajā..16..
ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा॥रुरोद नव घस्राणि नव रात्रीस्समाकुला ॥ १७ ॥
ततस् दृष्ट्वा प्रजाः तप्ताः करुणा-पूरित-ईक्षणा॥रुरोद नव घस्राणि नव रात्रीः समाकुला ॥ १७ ॥
tatas dṛṣṭvā prajāḥ taptāḥ karuṇā-pūrita-īkṣaṇā..ruroda nava ghasrāṇi nava rātrīḥ samākulā .. 17 ..
मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ॥ ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि ॥ १८ ॥
मोचयामास दृष्टिभ्यः वारि-धाराः सहस्रशस् ॥ ताभिः प्रतर्प्पिताः लोकाः औषध्यः सकलाः अपि ॥ १८ ॥
mocayāmāsa dṛṣṭibhyaḥ vāri-dhārāḥ sahasraśas .. tābhiḥ pratarppitāḥ lokāḥ auṣadhyaḥ sakalāḥ api .. 18 ..
अगाधतोयास्सरितो बभूवुः सागरा अपि ॥ रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ॥ १९ ॥
अगाध-तोयाः सरितः बभूवुः सागराः अपि ॥ रुरुहुः धरणी-पृष्ठे शाक-मूल-फलानि च ॥ १९ ॥
agādha-toyāḥ saritaḥ babhūvuḥ sāgarāḥ api .. ruruhuḥ dharaṇī-pṛṣṭhe śāka-mūla-phalāni ca .. 19 ..
विततार करस्थानि सुमनोभ्यः फलानि च ॥ गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ॥ 5.50.२०॥
विततार कर-स्थानि सुमनोभ्यः फलानि च ॥ गोभ्यः तृणानि रम्याणि तथा अन्येभ्यः यथार्हतः ॥ ५।५०।२०॥
vitatāra kara-sthāni sumanobhyaḥ phalāni ca .. gobhyaḥ tṛṇāni ramyāṇi tathā anyebhyaḥ yathārhataḥ .. 5.50.20..
सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ॥ ततो जगाद सा देवी किमन्यत्करवाणि वः ॥ २१॥
सन्तुष्टाः अभवन् सर्वे सदा एव द्विज-मानुषाः ॥ ततस् जगाद सा देवी किम् अन्यत् करवाणि वः ॥ २१॥
santuṣṭāḥ abhavan sarve sadā eva dvija-mānuṣāḥ .. tatas jagāda sā devī kim anyat karavāṇi vaḥ .. 21..
समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ॥ वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ॥ २२॥
समेत्य ऊचुः तदा देवाः भवत्या तोषिताः जनाः ॥ वेदान् देहि कृपाम् कृत्वा दुर्गमेण समाहृताम् ॥ २२॥
sametya ūcuḥ tadā devāḥ bhavatyā toṣitāḥ janāḥ .. vedān dehi kṛpām kṛtvā durgameṇa samāhṛtām .. 22..
तथास्त्विति प्रभाष्याह यातयात निजालयम् ॥ वितरिष्यामि वो वेदानचिरेणैव कालतः ॥ २३॥
तथा अस्तु इति प्रभाष्य आह यातयात निज-आलयम् ॥ वितरिष्यामि वः वेदान् अचिरेण एव कालतः ॥ २३॥
tathā astu iti prabhāṣya āha yātayāta nija-ālayam .. vitariṣyāmi vaḥ vedān acireṇa eva kālataḥ .. 23..
ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ॥ सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ॥ २४ ॥
ततस् प्रमुदिताः देवाः स्वम् स्वम् धाम समाययुः ॥ सु प्रणम्य जगद्योनिम् फुल्ल-इन्दीवर-लोचनाम् ॥ २४ ॥
tatas pramuditāḥ devāḥ svam svam dhāma samāyayuḥ .. su praṇamya jagadyonim phulla-indīvara-locanām .. 24 ..
ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ॥ तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ॥ २५॥
ततस् कोलाहलः जातः दिवि भूमि-अन्तरिक्षके ॥ तत् श्रुत्वा रौरवः सद्यस् न्यरुणत् सर्वतस् पुरीम् ॥ २५॥
tatas kolāhalaḥ jātaḥ divi bhūmi-antarikṣake .. tat śrutvā rauravaḥ sadyas nyaruṇat sarvatas purīm .. 25..
ततस्तेजोमयं चक्रं विधाय परितः शिवा ॥ रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता ॥ २६ ॥
ततस् तेजः-मयम् चक्रम् विधाय परितस् शिवा ॥ रक्षण-अर्थम् देवतानाम् स्वयम् तस्मात् बहिस् गता ॥ २६ ॥
tatas tejaḥ-mayam cakram vidhāya paritas śivā .. rakṣaṇa-artham devatānām svayam tasmāt bahis gatā .. 26 ..
ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ॥ ववृषुः समरे बाणान्निशितान्कंकटच्छिदः ॥ २७ ॥
ततस् समभव युद्धम् देव्याः दैत्यस्य च उभयोः ॥ ववृषुः समरे बाणान् निशितान् कंकट-छिदः ॥ २७ ॥
tatas samabhava yuddham devyāḥ daityasya ca ubhayoḥ .. vavṛṣuḥ samare bāṇān niśitān kaṃkaṭa-chidaḥ .. 27 ..
एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ॥ काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी ॥ २८ ॥
एतस्मिन् अन्तरे तस्याः शरीरात् रम्य-मूर्त्तयः ॥ ॥ २८ ॥
etasmin antare tasyāḥ śarīrāt ramya-mūrttayaḥ .. .. 28 ..
भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ॥ मातंगी च महाविद्या निर्गता दश सायुधाः॥२९॥
॥ मातंगी च महाविद्या निर्गताः दश स आयुधाः॥२९॥
.. mātaṃgī ca mahāvidyā nirgatāḥ daśa sa āyudhāḥ..29..
असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ॥ चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः ॥ 5.50.३०॥
असंख्याताः ततस् जाताः मातरः दिव्य-मूर्त्तयः ॥ चन्द्र-लेखा-धराः सर्वाः सर्वाः विद्युत्-त्सम-प्रभाः ॥ ५।५०।३०॥
asaṃkhyātāḥ tatas jātāḥ mātaraḥ divya-mūrttayaḥ .. candra-lekhā-dharāḥ sarvāḥ sarvāḥ vidyut-tsama-prabhāḥ .. 5.50.30..
ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ॥ रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम् ॥ ३१ ॥
ततस् मातृ-गणैः युद्धम् प्रावर्तत भयंकरम् ॥ रौरवीयम् हतन्ताभिः दलम् अक्षौहिणी-शतम् ॥ ३१ ॥
tatas mātṛ-gaṇaiḥ yuddham prāvartata bhayaṃkaram .. rauravīyam hatantābhiḥ dalam akṣauhiṇī-śatam .. 31 ..
जघान सा तदा दैत्यं दुर्गमं शूलधारया ॥ पपात धरणीपृष्ठे खातमूलद्रुमो यथा ॥ ३२ ॥
जघान सा तदा दैत्यम् दुर्गमम् शूल-धारया ॥ पपात धरणी-पृष्ठे खात-मूल-द्रुमः यथा ॥ ३२ ॥
jaghāna sā tadā daityam durgamam śūla-dhārayā .. papāta dharaṇī-pṛṣṭhe khāta-mūla-drumaḥ yathā .. 32 ..
इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ॥ आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ॥ ३३॥
इत्थम् हत्वा तदा दैत्यम् दुर्गम-असुर-नाम कम् ॥ आदाय चतुरः वेदान् ददौ देवेभ्यः ईश्वरी ॥ ३३॥
ittham hatvā tadā daityam durgama-asura-nāma kam .. ādāya caturaḥ vedān dadau devebhyaḥ īśvarī .. 33..
देवा ऊचुः ।।
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ॥ मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके ॥ ३४ ॥
अस्मद्-अर्थम् त्वया रूपम् अनन्त-अक्षि-मयम् धृतम् ॥ मुनयः कीर्तयिष्यन्ति शत-अक्षीन् त्वाम् अतस् अम्बिके ॥ ३४ ॥
asmad-artham tvayā rūpam ananta-akṣi-mayam dhṛtam .. munayaḥ kīrtayiṣyanti śata-akṣīn tvām atas ambike .. 34 ..
आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ॥ शाकंभरीति विख्यातन्तत्ते नाम भविष्यति ॥ ३५ ॥
आत्म-देह-समुद्भूतैः शाकैः लोकाः मृताः यतस् ॥ शाकंभरी इति विख्यातम् तत् ते नाम भविष्यति ॥ ३५ ॥
ātma-deha-samudbhūtaiḥ śākaiḥ lokāḥ mṛtāḥ yatas .. śākaṃbharī iti vikhyātam tat te nāma bhaviṣyati .. 35 ..
दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ॥ दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः ॥ ३६ ॥
दुर्गम-आख्यः महा-दैत्यः हतः यस्मात् ततस् शिवे ॥ दुर्गाम् भगवतीम् भद्राम् व्याहरिष्यन्ति मानवाः ॥ ३६ ॥
durgama-ākhyaḥ mahā-daityaḥ hataḥ yasmāt tatas śive .. durgām bhagavatīm bhadrām vyāhariṣyanti mānavāḥ .. 36 ..
योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ॥ नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ॥ ३७ ॥
योगनिद्रे नमः तुभ्यम् नमः ते अस्तु महाबले ॥ नमः ज्ञान-प्रदे तुभ्यम् विश्वमात्रे नमः नमः ॥ ३७ ॥
yoganidre namaḥ tubhyam namaḥ te astu mahābale .. namaḥ jñāna-prade tubhyam viśvamātre namaḥ namaḥ .. 37 ..
तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ॥ अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ ३८ ॥
तत्त्वमसि-आदि-वाक्यैः या बोध्यते परमेश्वरी ॥ अनन्त-कोटि-ब्रह्माण्ड-नायिकायै नमः नमः ॥ ३८ ॥
tattvamasi-ādi-vākyaiḥ yā bodhyate parameśvarī .. ananta-koṭi-brahmāṇḍa-nāyikāyai namaḥ namaḥ .. 38 ..
वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ॥ स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम् ॥ ३९ ॥
वाच्-मनः-काय-दुष्प्रापाम् सूर्य-चन्द्र-अग्नि-लोचनाम् ॥ स्तोतुम् न शक्नुमः मातर् त्व त् प्रभाव-अबुधाः वयम् ॥ ३९ ॥
vāc-manaḥ-kāya-duṣprāpām sūrya-candra-agni-locanām .. stotum na śaknumaḥ mātar tva t prabhāva-abudhāḥ vayam .. 39 ..
मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ॥ वर्जयित्वा सुरेशानीं शताक्षी मातरं विना ॥ 5.50.४० ॥
मादृशान् अमरान् दृष्ट्वा कः कुर्यात् ईदृशीन् दयाम् ॥ वर्जयित्वा सुरेशानीम् शताक्षी मातरम् विना ॥ ५।५०।४० ॥
mādṛśān amarān dṛṣṭvā kaḥ kuryāt īdṛśīn dayām .. varjayitvā sureśānīm śatākṣī mātaram vinā .. 5.50.40 ..
त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ॥ एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ॥ ४१ ॥
त्रिलोकी ना अभिभूयेत बाधाभिः च निरन्तरम् ॥ एवम् कार्यः त्वया यत्नः अस्माकम् वैरि-विनाशनम् ॥ ४१ ॥
trilokī nā abhibhūyeta bādhābhiḥ ca nirantaram .. evam kāryaḥ tvayā yatnaḥ asmākam vairi-vināśanam .. 41 ..
देव्युवाच ।। ।।
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ॥ तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ॥ ४२ ॥
वत्सान् दृष्ट्वा यथा गावः व्यग्राः धावन्ति सत्वरम् ॥ तथा एव भवतः दृष्ट्वा धावामि व्याकुला सती ॥ ४२ ॥
vatsān dṛṣṭvā yathā gāvaḥ vyagrāḥ dhāvanti satvaram .. tathā eva bhavataḥ dṛṣṭvā dhāvāmi vyākulā satī .. 42 ..
मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ॥ अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ॥ ४३॥
मम युष्मान् अपश्यन्त्या पश्यन्त्या बालकान् इव ॥ अपि प्राणान् प्रयच्छन्त्याः क्षणः एकः युगायते ॥ ४३॥
mama yuṣmān apaśyantyā paśyantyā bālakān iva .. api prāṇān prayacchantyāḥ kṣaṇaḥ ekaḥ yugāyate .. 43..
कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ॥ भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ॥ ४४॥
का अपि चिन्ता न कर्त्तव्या युष्माभिः भक्ति-शालिभिः ॥ भवत्याम् मयि तिष्ठन्त्याम् संहरन्त्याम् निज-आपदः ॥ ४४॥
kā api cintā na karttavyā yuṣmābhiḥ bhakti-śālibhiḥ .. bhavatyām mayi tiṣṭhantyām saṃharantyām nija-āpadaḥ .. 44..
यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान्॥संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम् ॥ ४५ ॥
यथा पूर्वम् हताः दैत्याः हनिष्यामि तथा असुरान्॥संशयः न अत्र कर्त्तव्यः सत्यम् सत्यम् ब्रवीमि अहम् ॥ ४५ ॥
yathā pūrvam hatāḥ daityāḥ haniṣyāmi tathā asurān..saṃśayaḥ na atra karttavyaḥ satyam satyam bravīmi aham .. 45 ..
यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ॥ तदाहं नन्दभार्यायां यशोदायां यशोमयी ॥ ४६ ॥
यदा शुंभः निशुंभः च अपरौ दैत्यौ भविष्यतः ॥ तदा अहम् नन्द-भार्यायाम् यशोदायाम् यशः-मयी ॥ ४६ ॥
yadā śuṃbhaḥ niśuṃbhaḥ ca aparau daityau bhaviṣyataḥ .. tadā aham nanda-bhāryāyām yaśodāyām yaśaḥ-mayī .. 46 ..
योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ॥ हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ॥ ४७ ॥
योनि-जम् रूपम् आस्थाय जनिष्ये गोप-गोकुले ॥ हनिष्यामि असुरौ तत् माम् व्याहरिष्यन्ति नन्द-जाम् ॥ ४७ ॥
yoni-jam rūpam āsthāya janiṣye gopa-gokule .. haniṣyāmi asurau tat mām vyāhariṣyanti nanda-jām .. 47 ..
भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ॥ भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ॥ ४८ ॥
भ्रामरम् रूपम् आस्थाय वधिष्यामि अरुणम् यतस् ॥ भ्रामरी इति च माम् लोके कीर्तयिष्यन्ति मानवाः ॥ ४८ ॥
bhrāmaram rūpam āsthāya vadhiṣyāmi aruṇam yatas .. bhrāmarī iti ca mām loke kīrtayiṣyanti mānavāḥ .. 48 ..
कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ॥ भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ४९ ॥
कृत्वा भीमम् रूपम् रक्षांसि अत्स्यामि अहम् यदा ॥ भीमा देवी इति विख्यातम् तत् मे नाम भविष्यति ॥ ४९ ॥
kṛtvā bhīmam rūpam rakṣāṃsi atsyāmi aham yadā .. bhīmā devī iti vikhyātam tat me nāma bhaviṣyati .. 49 ..
यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ॥ तदातदावतीर्याहं शं करिष्याम्यसंशयम् ॥ 5.50.५० ॥
यदा यदा असुर-उत्था एव बाधा भुवि भविष्यति ॥ तदा तदा अवतीर्य अहम् शम् करिष्यामि असंशयम् ॥ ५।५०।५० ॥
yadā yadā asura-utthā eva bādhā bhuvi bhaviṣyati .. tadā tadā avatīrya aham śam kariṣyāmi asaṃśayam .. 5.50.50 ..
या शताक्षी स्मृता देवी सैव शाकंभरी मता ॥ सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ॥ ५१ ॥
या शताक्षी स्मृता देवी सा एव शाकंभरी मता ॥ सा एव प्रकीर्तिता दुर्गा व्यक्तिः एका एव त्रिषु अपि ॥ ५१ ॥
yā śatākṣī smṛtā devī sā eva śākaṃbharī matā .. sā eva prakīrtitā durgā vyaktiḥ ekā eva triṣu api .. 51 ..
न शताक्षीसमा काचिद्दयालुर्भुवि देवता ॥ दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी ॥ ५२॥
न शत-अक्षी-समा काचिद् दयालुः भुवि देवता ॥ दृष्ट्वा अरुदत् प्रजाः तप्ताः याः नव अहम् महेश्वरी ॥ ५२॥
na śata-akṣī-samā kācid dayāluḥ bhuvi devatā .. dṛṣṭvā arudat prajāḥ taptāḥ yāḥ nava aham maheśvarī .. 52..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः ॥ ५०॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् शताक्ष्याद्यवतारवर्णनम् नाम पंचाशत्तमः अध्यायः ॥ ५०॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām śatākṣyādyavatāravarṇanam nāma paṃcāśattamaḥ adhyāyaḥ .. 50..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In