| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ॥ अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः॥१॥
व्यास-शिष्य महाभाग सूत पौराणिक-उत्तम ॥ अपरम् श्रोतुम् इच्छामः किम् अपि आख्यानम् ईशितुः॥१॥
vyāsa-śiṣya mahābhāga sūta paurāṇika-uttama .. aparam śrotum icchāmaḥ kim api ākhyānam īśituḥ..1..
उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ॥ प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ॥ २ ॥
उमायाः जगदम्बायाः क्रिया-योगम् अनुत्तमम् ॥ प्रोक्तम् सनत्कुमारेण व्यासाय च महात्मने ॥ २ ॥
umāyāḥ jagadambāyāḥ kriyā-yogam anuttamam .. proktam sanatkumāreṇa vyāsāya ca mahātmane .. 2 ..
सूत उवाच ।।
धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ॥ पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात् ॥ ३ ॥
धन्याः यूयम् महात्मानः देवी-भक्ति-दृढ-व्रताः ॥ पराशक्तेः परम् गुप्तम् रहस्यम् शृणुत आदरात् ॥ ३ ॥
dhanyāḥ yūyam mahātmānaḥ devī-bhakti-dṛḍha-vratāḥ .. parāśakteḥ param guptam rahasyam śṛṇuta ādarāt .. 3 ..
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ॥ उमायाश्श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ॥ ४ ॥
सनत्कुमार सर्वज्ञ ब्रह्म-पुत्र महामते ॥ उमायाः श्रोतुम् इच्छामि क्रिया-योगम् महा-अद्भुतम् ॥ ४ ॥
sanatkumāra sarvajña brahma-putra mahāmate .. umāyāḥ śrotum icchāmi kriyā-yogam mahā-adbhutam .. 4 ..
कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ॥ प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ॥ ५ ॥
कीदृश् च लक्षणम् तस्य किम् कृते च फलम् भवेत् ॥ प्रियम् यत् च पर-अम्बायाः तत् अशेषम् वदस्व मे ॥ ५ ॥
kīdṛś ca lakṣaṇam tasya kim kṛte ca phalam bhavet .. priyam yat ca para-ambāyāḥ tat aśeṣam vadasva me .. 5 ..
सनत्कुमार उवाच ।।
द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ॥ तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ॥ ६ ॥
द्वैपायन यत् एतत् त्वम् रहस्यम् परिपृच्छसि ॥ तत् शृणुष्व महाबुद्धे सर्वम् मे वर्णयिष्यतः ॥ ६ ॥
dvaipāyana yat etat tvam rahasyam paripṛcchasi .. tat śṛṇuṣva mahābuddhe sarvam me varṇayiṣyataḥ .. 6 ..
ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ॥ त्रयो मार्गास्समाख्याताः श्रीमातुर्मुक्तिमुक्तिदा ॥ ७ ॥
ज्ञान-योगः क्रिया-योगः भक्ति-योगः तथा एव च ॥ त्रयः मार्गाः समाख्याताः श्री-मातुः मुक्ति-मुक्ति-दा ॥ ७ ॥
jñāna-yogaḥ kriyā-yogaḥ bhakti-yogaḥ tathā eva ca .. trayaḥ mārgāḥ samākhyātāḥ śrī-mātuḥ mukti-mukti-dā .. 7 ..
ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ॥ यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥ ८ ॥
ज्ञान-योगः तु संयोगः चित्तस्य एव आत्मना तु यः ॥ यः तु बाह्य-अर्थ-संयोगः क्रिया-योगः सः उच्यते ॥ ८ ॥
jñāna-yogaḥ tu saṃyogaḥ cittasya eva ātmanā tu yaḥ .. yaḥ tu bāhya-artha-saṃyogaḥ kriyā-yogaḥ saḥ ucyate .. 8 ..
भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ॥ त्रयाणामपि योगानां क्रियायोगस्स उच्यते ॥ ९ ॥
भक्ति-योगः मतः देव्याः आत्मनः च ऐक्य-भावनम् ॥ त्रयाणाम् अपि योगानाम् क्रियायोगः सः उच्यते ॥ ९ ॥
bhakti-yogaḥ mataḥ devyāḥ ātmanaḥ ca aikya-bhāvanam .. trayāṇām api yogānām kriyāyogaḥ saḥ ucyate .. 9 ..
कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः॥5.51.१०॥
कर्मणा जायते भक्तिः भक्त्या ज्ञानम् प्रजायते ॥ ज्ञानात् प्रजायते मुक्तिः इति शास्त्रेषु निश्चयः॥५।५१।१०॥
karmaṇā jāyate bhaktiḥ bhaktyā jñānam prajāyate .. jñānāt prajāyate muktiḥ iti śāstreṣu niścayaḥ..5.51.10..
प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ॥ क्रियायोगस्तु योगस्य परमन्ध्येयसाधनम् ॥ १ १॥
प्रधानम् कारणम् योगः विमुक्तेः मुनि-सत्तम ॥ क्रियायोगः तु योगस्य परमन् ध्येय-साधनम् ॥ १ १॥
pradhānam kāraṇam yogaḥ vimukteḥ muni-sattama .. kriyāyogaḥ tu yogasya paraman dhyeya-sādhanam .. 1 1..
मायान्तु प्रकृतिं विद्यान्मायावि ब्रह्म शाश्वतम् ॥ अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १२ ॥
माया तु प्रकृतिम् विद्यात् मायावि ब्रह्म शाश्वतम् ॥ अभिन्नम् तद्-वपुः ज्ञात्वा मुच्यते भव-बन्धनात् ॥ १२ ॥
māyā tu prakṛtim vidyāt māyāvi brahma śāśvatam .. abhinnam tad-vapuḥ jñātvā mucyate bhava-bandhanāt .. 12 ..
यस्तु देव्यालयं कुर्यात्पाषाणन्दारवन्तथा ॥ मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ॥
यः तु देवी-आलयम् कुर्यात् पाषाणन् दारवन् तथा ॥ मृद्-मयम् वा अथ कालेय तस्य पुण्य-फलम् शृणु ॥
yaḥ tu devī-ālayam kuryāt pāṣāṇan dāravan tathā .. mṛd-mayam vā atha kāleya tasya puṇya-phalam śṛṇu ..
अहन्यहनियोगेन जयतो यन्महाफलम्॥ ॥ १३॥प्राप्नोति तत्फलन्देव्या यः कारयति मन्दिरम्॥
अहनि अहनि योगेन जयतः यत् महा-फलम्॥ ॥ १३॥प्राप्नोति तत् फलन् देव्याः यः कारयति मन्दिरम्॥
ahani ahani yogena jayataḥ yat mahā-phalam.. .. 13..prāpnoti tat phalan devyāḥ yaḥ kārayati mandiram..
सहस्रकुलमागामि व्यतीतं च सहस्रकम् ॥ तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ॥ १४॥
सहस्र-कुलम् आगामि व्यतीतम् च सहस्रकम् ॥ तारयति धर्म-आत्मा श्री-मातुः धाम कारयन् ॥ १४॥
sahasra-kulam āgāmi vyatītam ca sahasrakam .. tārayati dharma-ātmā śrī-mātuḥ dhāma kārayan .. 14..
कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥ श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ॥ १५ ॥
कोटि-जन्म-कृतम् पापम् सु अल्पम् वा यदि वा बहु ॥ श्री-मातुः मन्दिर-आरम्भ-क्षणात् एव प्रणश्यति ॥ १५ ॥
koṭi-janma-kṛtam pāpam su alpam vā yadi vā bahu .. śrī-mātuḥ mandira-ārambha-kṣaṇāt eva praṇaśyati .. 15 ..
नदीषु च यथा गंगा शोणः सर्वनदेषु च ॥ क्षमायां च यथा पृथ्वी गांभीर्ये च यथोदधिः ॥ १६॥
नदीषु च यथा गंगा शोणः सर्व-नदेषु च ॥ क्षमायाम् च यथा पृथ्वी गांभीर्ये च यथा उदधिः ॥ १६॥
nadīṣu ca yathā gaṃgā śoṇaḥ sarva-nadeṣu ca .. kṣamāyām ca yathā pṛthvī gāṃbhīrye ca yathā udadhiḥ .. 16..
ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते॥।तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ॥ १७ ॥
ग्रहाणाम् च समस्तानाम् यथा सूर्यः विशिष्यते॥।तथा सर्वेषु देवेषु श्री-परा अम्बा विशिष्यते ॥ १७ ॥
grahāṇām ca samastānām yathā sūryaḥ viśiṣyate...tathā sarveṣu deveṣu śrī-parā ambā viśiṣyate .. 17 ..
सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद्गृहम् ॥ प्रतिष्ठां समवाप्नोति स च जन्म निजन्मनि ॥ १८ ॥
सर्व-देवेषु सा मुख्या यः तस्याः कारयेत् गृहम् ॥ प्रतिष्ठाम् समवाप्नोति स च जन्म निजन्मनि ॥ १८ ॥
sarva-deveṣu sā mukhyā yaḥ tasyāḥ kārayet gṛham .. pratiṣṭhām samavāpnoti sa ca janma nijanmani .. 18 ..
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ॥ गंगासमुद्रतीरे च नैमिषेऽमरकण्टके ॥ १९ ॥
वाराणस्याम् कुरुक्षेत्रे प्रयागे पुष्करे तथा ॥ गंगा-समुद्र-तीरे च नैमिषे अमरकण्टके ॥ १९ ॥
vārāṇasyām kurukṣetre prayāge puṣkare tathā .. gaṃgā-samudra-tīre ca naimiṣe amarakaṇṭake .. 19 ..
श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ॥ मथुरायामयोध्यायां द्वारावत्यां तथैव च ॥ 5.51.२० ॥
श्रीपर्वते महा-पुण्ये गोकर्णे ज्ञानपर्वते ॥ मथुरायाम् अयोध्यायाम् द्वारावत्याम् तथा एव च ॥ ५।५१।२० ॥
śrīparvate mahā-puṇye gokarṇe jñānaparvate .. mathurāyām ayodhyāyām dvārāvatyām tathā eva ca .. 5.51.20 ..
इत्यादि पुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ॥ कारयन्मातुरावासं मुक्तो भवति बन्धनात् ॥ २१ ॥
इत्यादि पुण्य-देशेषु यत्र कुत्र स्थले अपि वा ॥ कारयन् मातुः आवासम् मुक्तः भवति बन्धनात् ॥ २१ ॥
ityādi puṇya-deśeṣu yatra kutra sthale api vā .. kārayan mātuḥ āvāsam muktaḥ bhavati bandhanāt .. 21 ..
इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ॥ तावद्वर्षसहस्राणि मणिद्वीपे महीयते ॥ २२ ॥
इष्टकानाम् तु विन्यासः यावत् वर्षाणि तिष्ठति ॥ तावत्-वर्ष-सहस्राणि मणिद्वीपे महीयते ॥ २२ ॥
iṣṭakānām tu vinyāsaḥ yāvat varṣāṇi tiṣṭhati .. tāvat-varṣa-sahasrāṇi maṇidvīpe mahīyate .. 22 ..
प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ॥ स उमायाः परं लोकं निर्भयो व्रजति धुवम् ॥ २३ ॥
प्रतिमाः कारयेत् यः तु सर्व-लक्षण-लक्षिताः ॥ सः उमायाः परम् लोकम् निर्भयः व्रजति धुवम् ॥ २३ ॥
pratimāḥ kārayet yaḥ tu sarva-lakṣaṇa-lakṣitāḥ .. saḥ umāyāḥ param lokam nirbhayaḥ vrajati dhuvam .. 23 ..
देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुं ग्रहतारके ॥ कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ॥ २४ ॥
देवी-मूर्तिम् प्रतिष्ठाप्य शुभ-ऋतुम् ग्रह-तारके ॥ कृतकृत्यः भवेत् मर्त्यः योग-माया-प्रसादतः ॥ २४ ॥
devī-mūrtim pratiṣṭhāpya śubha-ṛtum graha-tārake .. kṛtakṛtyaḥ bhavet martyaḥ yoga-māyā-prasādataḥ .. 24 ..
ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ॥ तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ॥ २५ ॥
ये भविष्यन्ति ये अतीताः आ कल्पात् पुरुषाः कुले ॥ तान् तान् तारयते देव्याः मूर्तिम् संस्थाप्य शोभनाम् ॥ २५ ॥
ye bhaviṣyanti ye atītāḥ ā kalpāt puruṣāḥ kule .. tān tān tārayate devyāḥ mūrtim saṃsthāpya śobhanām .. 25 ..
त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुंगव ॥ तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ॥ २६॥
त्रिलोकी-स्थापनात् पुण्यम् यत् भवेत् मुनि-पुंगव ॥ तत् कोटि-गुणितम् पुण्यम् श्री-देवी-स्थापनात् भवेत् ॥ २६॥
trilokī-sthāpanāt puṇyam yat bhavet muni-puṃgava .. tat koṭi-guṇitam puṇyam śrī-devī-sthāpanāt bhavet .. 26..
मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ॥ चतुर्द्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ॥ २७॥।
मध्ये देवीम् स्थापयित्वा पञ्च-आयतन-देवताः ॥ स्थापयेत् यः तस्य पुण्यम् न गण्यते ॥ २७॥।
madhye devīm sthāpayitvā pañca-āyatana-devatāḥ .. sthāpayet yaḥ tasya puṇyam na gaṇyate .. 27...
विष्णोर्नाम्नां कोटिजपाद्ग्रहणेचन्द्रसूर्ययोः ॥ यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम् ॥ २८॥
विष्णोः नाम्नाम् कोटि-जपात् ग्रहणे चन्द्र-सूर्ययोः ॥ यत् फलम् लभ्यते तस्मात् शत-कोटि-गुण-उत्तरम् ॥ २८॥
viṣṇoḥ nāmnām koṭi-japāt grahaṇe candra-sūryayoḥ .. yat phalam labhyate tasmāt śata-koṭi-guṇa-uttaram .. 28..
शिवनाम्नो जपादेव तस्मात्कोटि गुणोत्तरम् ॥ श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम् ॥ २९॥
शिव-नाम्नः जपात् एव गुण-उत्तरम् ॥ श्री-देवी-नाम-जापात् तु ततस् कोटि-गुण-उत्तरम् ॥ २९॥
śiva-nāmnaḥ japāt eva guṇa-uttaram .. śrī-devī-nāma-jāpāt tu tatas koṭi-guṇa-uttaram .. 29..
देव्याः प्रासादकरणात्पुण्यन्तु समवाप्यते ॥ स्थापिता येन सा देवी जगन्माता त्रयीमयी ॥ 5.51.३०॥
देव्याः प्रासाद-करणात् पुण्यन्तु समवाप्यते ॥ स्थापिता येन सा देवी जगन्माता त्रयी-मयी ॥ ५।५१।३०॥
devyāḥ prāsāda-karaṇāt puṇyantu samavāpyate .. sthāpitā yena sā devī jaganmātā trayī-mayī .. 5.51.30..
न तस्य दुर्लभं किंचिच्छ्रीमातुः करुणावशात् ॥ वर्द्धते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम् ॥ ३१॥
न तस्य दुर्लभम् किंचिद् श्री-मातुः करुणा-वशात् ॥ वर्द्धते पुत्र-पौत्र-आद्याः नश्यति अखिल-कश्मलम् ॥ ३१॥
na tasya durlabham kiṃcid śrī-mātuḥ karuṇā-vaśāt .. varddhate putra-pautra-ādyāḥ naśyati akhila-kaśmalam .. 31..
मनसा ये चिकीर्षंति मूर्तिस्थापनमुत्तमम् ॥ तेत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम् ॥ ३२॥
मनसा ये चिकीर्षंति मूर्ति-स्थापनम् उत्तमम् ॥ ताः इति उमायाः परम् लोकम् प्रयान्ति मुनि-दुर्लभम् ॥ ३२॥
manasā ye cikīrṣaṃti mūrti-sthāpanam uttamam .. tāḥ iti umāyāḥ param lokam prayānti muni-durlabham .. 32..
क्रियमाणन्तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ॥ कारयिष्याम्यहं यर्हि संपन्मे संभविष्यति ॥ ३३॥
क्रियमाणम् तु यः प्रेक्ष्य चेतसा हि अनुचिन्तयेत् ॥ कारयिष्यामि अहम् यर्हि संपद् मे संभविष्यति ॥ ३३॥
kriyamāṇam tu yaḥ prekṣya cetasā hi anucintayet .. kārayiṣyāmi aham yarhi saṃpad me saṃbhaviṣyati .. 33..
एवन्तस्य कुलं सद्यो याति स्वर्गं न संशयः ॥ महामायाप्रभावेण दुर्लभं किं जगत्त्रये ॥ ३४॥
कुलम् सद्यस् याति स्वर्गम् न संशयः ॥ महामाया-प्रभावेण दुर्लभम् किम् जगत्त्रये ॥ ३४॥
kulam sadyas yāti svargam na saṃśayaḥ .. mahāmāyā-prabhāveṇa durlabham kim jagattraye .. 34..
श्रीपराम्बाजगद्योनिं केवलं ये समाश्रिताः ॥ ते मनुष्या न मन्तव्यास्साक्षाद्देवीगणाश्च ते ॥ ३५॥
श्री-पर-अम्बा-जगद्योनिम् केवलम् ये समाश्रिताः ॥ ते मनुष्याः न मन्तव्याः साक्षात् देवी-गणाः च ते ॥ ३५॥
śrī-para-ambā-jagadyonim kevalam ye samāśritāḥ .. te manuṣyāḥ na mantavyāḥ sākṣāt devī-gaṇāḥ ca te .. 35..
ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ॥ उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः ॥ ३६॥
ये व्रजन्तः स्वपन्तः च तिष्ठन्तः वा अपि अहर्निशम् ॥ उमा इति द्वि-अक्षरम् नाम ब्रुवते ते शिवा-गणाः ॥ ३६॥
ye vrajantaḥ svapantaḥ ca tiṣṭhantaḥ vā api aharniśam .. umā iti dvi-akṣaram nāma bruvate te śivā-gaṇāḥ .. 36..
नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम्॥पुष्पैर्धूपैस्तथादीपैस्ते प्रयास्यन्त्युमालयम् ॥ ३७॥
नित्ये नैमित्तिके देवीम् ये यजन्ति पराम् शिवाम्॥पुष्पैः धूपैः तथा दीपैः ते प्रयास्यन्ति उमालयम् ॥ ३७॥
nitye naimittike devīm ye yajanti parām śivām..puṣpaiḥ dhūpaiḥ tathā dīpaiḥ te prayāsyanti umālayam .. 37..
ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ॥ उपलिंपन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम् ॥ ३८॥
ये देवी-मण्डपम् नित्यम् गोमयेन मृदा अथवा ॥ उपलिंपन्ति मार्जन्ति ते प्रयास्यन्ति उमालयम् ॥ ३८॥
ye devī-maṇḍapam nityam gomayena mṛdā athavā .. upaliṃpanti mārjanti te prayāsyanti umālayam .. 38..
यैर्देव्या मन्दिरं रम्यं निर्मापि तमनुत्तमम् ॥ तत्कुलीनाञ्जनान्माता ह्याशिषः संप्रयच्छति ॥ ३९॥
यैः देव्याः मन्दिरम् रम्यम् निर्मापि तम् अनुत्तमम् ॥ तद्-कुलीन-अञ्जनात् माता हि आशिषः संप्रयच्छति ॥ ३९॥
yaiḥ devyāḥ mandiram ramyam nirmāpi tam anuttamam .. tad-kulīna-añjanāt mātā hi āśiṣaḥ saṃprayacchati .. 39..
मदीयाः शतवर्षाणि जीवन्तु प्रेमभाग्जनाः॥नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम्॥5.51.४०॥
मदीयाः शत-वर्षाणि जीवन्तु प्रेम-भाज् जनाः॥न आपदाम् अयनानि इत्थम् श्री-माता वक्ति अहर्निशम्॥५।५१।४०॥
madīyāḥ śata-varṣāṇi jīvantu prema-bhāj janāḥ..na āpadām ayanāni ittham śrī-mātā vakti aharniśam..5.51.40..
येन मूर्तिर्म्महादेब्या उमायाः कारिता शुभा॥नरायुतन्तत्कुलजं मणिद्वीपे महीयते॥४१॥
येन मूर्तिः म्महादेब्याः उमायाः कारिता शुभा॥नर-अयुतम् तद्-कुल-जम् मणिद्वीपे महीयते॥४१॥
yena mūrtiḥ mmahādebyāḥ umāyāḥ kāritā śubhā..nara-ayutam tad-kula-jam maṇidvīpe mahīyate..41..
स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च॥यंयं प्रार्थयते कामं तंतं प्राप्नोति साधकः ॥ ४२॥
स्थापयित्वा महामाया-मूर्तिम् सम्यक् प्रपूज्य च॥यं यम् प्रार्थयते कामम् तं तम् प्राप्नोति साधकः ॥ ४२॥
sthāpayitvā mahāmāyā-mūrtim samyak prapūjya ca..yaṃ yam prārthayate kāmam taṃ tam prāpnoti sādhakaḥ .. 42..
यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ॥ घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः॥४३॥
यः स्नापयति श्री-मातुः स्थापिताम् मूर्तिम् उत्तमाम् ॥ घृतेन मधुना अक्तेन तद्-फलम् गणयेत् तु कः॥४३॥
yaḥ snāpayati śrī-mātuḥ sthāpitām mūrtim uttamām .. ghṛtena madhunā aktena tad-phalam gaṇayet tu kaḥ..43..
चन्दनागुरुकर्पूर मांसीमुस्तादियुग्जलैः ॥ एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम्॥४४॥
॥ एक-वर्ण-गवाम् क्षीरैः स्नापयेत् परमेश्वरीम्॥४४॥
.. eka-varṇa-gavām kṣīraiḥ snāpayet parameśvarīm..44..
धूपेनाष्टादशांगेन दद्यादाहुतिमुत्तमाम् ॥ नीराजनं चरेद्देव्या स्साज्यकर्पूरवर्तिभिः ॥ ४५ ॥
धूपेन अष्टादश-अंगेन दद्यात् आहुतिम् उत्तमाम् ॥ नीराजनम् चरेत् देव्याः स आज्य-कर्पूर-वर्तिभिः ॥ ४५ ॥
dhūpena aṣṭādaśa-aṃgena dadyāt āhutim uttamām .. nīrājanam caret devyāḥ sa ājya-karpūra-vartibhiḥ .. 45 ..
कृष्णाष्टम्यां नवम्यां वामायां वा पंचदिक्तिथौ ॥ पूजयेज्जगतां धात्रीं गंधपुष्पैर्विशेषतः ॥ ४६ ॥
कृष्ण-अष्टम्याम् नवम्याम् वामायाम् वा पंचदिश्-तिथौ ॥ पूजयेत् जगताम् धात्रीम् गंध-पुष्पैः विशेषतः ॥ ४६ ॥
kṛṣṇa-aṣṭamyām navamyām vāmāyām vā paṃcadiś-tithau .. pūjayet jagatām dhātrīm gaṃdha-puṣpaiḥ viśeṣataḥ .. 46 ..
संपठञ्जननीसूक्तं श्रीसूक्तमथ वा पठन्॥देवीसूक्तमथो वापि मूकमन्त्रमथापि वा ॥ ४७॥
संपठन् जननी-सूक्तम् श्रीसूक्तम् अथ वा पठन्॥देवीसूक्तम् अथो वा अपि मूकमन्त्रम् अथ अपि वा ॥ ४७॥
saṃpaṭhan jananī-sūktam śrīsūktam atha vā paṭhan..devīsūktam atho vā api mūkamantram atha api vā .. 47..
विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ॥ देवीप्रीतिकरं ज्ञेयं कमलन्तु विशेषतः ॥ ४८॥
विष्णुक्रान्ताम् च तुलसीम् वर्जयित्वा अखिलम् सुमम् ॥ देवी-प्रीति-करम् ज्ञेयम् कमलम् तु विशेषतः ॥ ४८॥
viṣṇukrāntām ca tulasīm varjayitvā akhilam sumam .. devī-prīti-karam jñeyam kamalam tu viśeṣataḥ .. 48..
अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ॥ स याति परमं धाम सिद्धकोटि भिरन्वितम् ॥ ४९॥
अर्पयेत् स्वर्ण-पुष्पम् यः देव्यै राजतम् एव वा ॥ स याति परमम् धाम सिद्ध-कोटि भिः अन्वितम् ॥ ४९॥
arpayet svarṇa-puṣpam yaḥ devyai rājatam eva vā .. sa yāti paramam dhāma siddha-koṭi bhiḥ anvitam .. 49..
पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम्॥प्रसीद परमेशानि जगदानन्ददायिनि॥5.51.५०॥
पूजन-अन्ते सदा कार्यम् दासैः एनः क्षमापनम्॥प्रसीद परमेशानि जगत्-आनन्द-दायिनि॥५।५१।५०॥
pūjana-ante sadā kāryam dāsaiḥ enaḥ kṣamāpanam..prasīda parameśāni jagat-ānanda-dāyini..5.51.50..
इति वाक्यैस्स्तुवन्मन्त्री देवीभक्तिपरायणः ॥ ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम् ॥ ५१॥
इति वाक्यैः स्तुवन् मन्त्री देवी-भक्ति-परायणः ॥ ध्यायेत् कण्ठी-रव-आरूढाम् वर-द-अभय-पाणिकाम् ॥ ५१॥
iti vākyaiḥ stuvan mantrī devī-bhakti-parāyaṇaḥ .. dhyāyet kaṇṭhī-rava-ārūḍhām vara-da-abhaya-pāṇikām .. 51..
इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ॥ नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत् ॥ ५२॥
इत्थम् ध्यात्वा महेशानीम् भक्त-अभीष्ट-फल-प्रदाम् ॥ प्रकल्पयेत् ॥ ५२॥
ittham dhyātvā maheśānīm bhakta-abhīṣṭa-phala-pradām .. prakalpayet .. 52..
नैवेद्यं भक्षयेद्यस्तु शंभुशक्तेः परात्मनः ॥ स निर्भूयाखिलं पङ्कं निर्मलो मानवो भवेत् ॥ ५३॥
नैवेद्यम् भक्षयेत् यः तु शंभु-शक्तेः परात्मनः ॥ स निर्भूय अखिलम् पङ्कम् निर्मलः मानवः भवेत् ॥ ५३॥
naivedyam bhakṣayet yaḥ tu śaṃbhu-śakteḥ parātmanaḥ .. sa nirbhūya akhilam paṅkam nirmalaḥ mānavaḥ bhavet .. 53..
चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ॥ भववन्धननिर्मुक्तः प्राप्नुयात्परमं पदम् ॥ ५४ ॥
चरेत् ॥ भव-वन्धन-निर्मुक्तः प्राप्नुयात् परमम् पदम् ॥ ५४ ॥
caret .. bhava-vandhana-nirmuktaḥ prāpnuyāt paramam padam .. 54 ..
अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ॥ पूजयेज्जगतां धात्रीमुमां शंकरसंयुताम्॥५५॥
अस्याम् एव तृतीयायाम् कुर्यात् दोला-उत्सवम् बुधः ॥ पूजयेत् जगताम् धात्रीम् उमाम् शंकर-संयुताम्॥५५॥
asyām eva tṛtīyāyām kuryāt dolā-utsavam budhaḥ .. pūjayet jagatām dhātrīm umām śaṃkara-saṃyutām..55..
कुसुमैः कुंकुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ॥ धूपैर्द्दीपैस्सनैवेद्यैः स्रग्गन्धैरपरैरपि॥ ॥ ५६ ॥
कुसुमैः कुंकुमैः वस्त्रैः कर्पूर-अगुरु-चन्दनैः ॥ धूपैः द्दीपैः स नैवेद्यैः स्रज्-गन्धैः अपरैः अपि॥ ॥ ५६ ॥
kusumaiḥ kuṃkumaiḥ vastraiḥ karpūra-aguru-candanaiḥ .. dhūpaiḥ ddīpaiḥ sa naivedyaiḥ sraj-gandhaiḥ aparaiḥ api.. .. 56 ..
आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ॥ श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम् ॥ ५७ ॥
आन्दोलयेत् ततस् देवीम् महामायाम् महेश्वरीम् ॥ श्री-गौरीम् शिव-संयुक्ताम् सर्व-कल्याण-कारिणीम् ॥ ५७ ॥
āndolayet tatas devīm mahāmāyām maheśvarīm .. śrī-gaurīm śiva-saṃyuktām sarva-kalyāṇa-kāriṇīm .. 57 ..
प्रत्यब्दं कुरुते योस्यां बतमान्दोलनं तथा ॥ नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति ॥ ५८ ॥
प्रत्यब्दम् कुरुते यः स्याम् बतम् आन्दोलनम् तथा ॥ नियमेन शिवा तस्मै सर्वम् इष्टम् प्रयच्छति ॥ ५८ ॥
pratyabdam kurute yaḥ syām batam āndolanam tathā .. niyamena śivā tasmai sarvam iṣṭam prayacchati .. 58 ..
माधवस्य सिते पक्षे तृतीया याऽक्षयाभिधा॥तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः॥५९॥
माधवस्य सिते पक्षे तृतीया या अक्षया-अभिधा॥तस्याम् यः जगदम्बायाः व्रतम् कुर्यात् अतन्द्रितः॥५९॥
mādhavasya site pakṣe tṛtīyā yā akṣayā-abhidhā..tasyām yaḥ jagadambāyāḥ vratam kuryāt atandritaḥ..59..
मल्लिकामालतीचंपाजपाबन्धूकपंकजैः॥कुसुमैः पूजयेद्गौरीं शंकरेण समन्विताम् ॥ ॥ । 5.51.६० ॥
मल्लिका-मालती-चंपा-जपा-बन्धूक-पंकजैः॥कुसुमैः पूजयेत् गौरीम् शंकरेण समन्विताम् ॥ ॥ । ५।५१।६० ॥
mallikā-mālatī-caṃpā-japā-bandhūka-paṃkajaiḥ..kusumaiḥ pūjayet gaurīm śaṃkareṇa samanvitām .. .. . 5.51.60 ..
कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ॥ निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते ॥ ६१ ॥
कोटि-जन्म-कृतम् पापम् मनः-वाच्-काय-सम्भवम् ॥ निर्धूय चतुरः वर्गान् अक्षयान् इह सः अश्नुते ॥ ६१ ॥
koṭi-janma-kṛtam pāpam manaḥ-vāc-kāya-sambhavam .. nirdhūya caturaḥ vargān akṣayān iha saḥ aśnute .. 61 ..
ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ॥ योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किंचन ॥ ६२ ॥
ज्येष्ठे शुक्ल-तृतीयायाम् व्रतम् कृत्वा महेश्वरीम् ॥ यः अर्चयेत् परम-प्रीत्या तस्य असाध्यम् न किंचन ॥ ६२ ॥
jyeṣṭhe śukla-tṛtīyāyām vratam kṛtvā maheśvarīm .. yaḥ arcayet parama-prītyā tasya asādhyam na kiṃcana .. 62 ..
आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ॥ देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः ॥ ६३ ॥
आषाढ-शुक्ल-पक्षीय-तृतीयायाम् ॥ देव्याः प्रियतमम् कुर्यात् यथा वित्त-अनुसारतः ॥ ६३ ॥
āṣāḍha-śukla-pakṣīya-tṛtīyāyām .. devyāḥ priyatamam kuryāt yathā vitta-anusārataḥ .. 63 ..
रथं पृथ्वीं विजानीयाद्रथांगे चन्द्रभास्करौ ॥ वेदानश्वान्विजानीयात्सारथिं पद्मसं भवम् ॥ ६४ ॥
रथम् पृथ्वीम् विजानीयात् रथांगे चन्द्र-भास्करौ ॥ वेदान् अश्वान् विजानीयात् सारथिम् पद्मसम् भवम् ॥ ६४ ॥
ratham pṛthvīm vijānīyāt rathāṃge candra-bhāskarau .. vedān aśvān vijānīyāt sārathim padmasam bhavam .. 64 ..
नानामणिगणाकीर्णं पुष्पमालाविराजितम् ॥ एवं रथं कल्पयित्वा तस्मिन्त्संस्थापयेच्छिवाम् ॥ ६५ ॥
नाना मणि-गण-आकीर्णम् पुष्प-माला-विराजितम् ॥ एवम् रथम् कल्पयित्वा तस्मिन् संस्थापयेत् शिवाम् ॥ ६५ ॥
nānā maṇi-gaṇa-ākīrṇam puṣpa-mālā-virājitam .. evam ratham kalpayitvā tasmin saṃsthāpayet śivām .. 65 ..
लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ॥ रथमध्ये संस्थितेति भावयेन्मतिमान्नरः ॥ ६६॥
लोक-संरक्षण-अर्थाय लोकम् द्रष्टुम् परा अम्बिका ॥ रथ-मध्ये संस्थिता इति भावयेत् मतिमान् नरः ॥ ६६॥
loka-saṃrakṣaṇa-arthāya lokam draṣṭum parā ambikā .. ratha-madhye saṃsthitā iti bhāvayet matimān naraḥ .. 66..
रथे प्रचलिते मन्दं जयशब्दमुदीरयेत्॥पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले ॥ ६७ ॥
रथे प्रचलिते मन्दम् जय-शब्दम् उदीरयेत्॥पाहि देवि जनान् अस्मान् प्रपन्नान् दीन-वत्सले ॥ ६७ ॥
rathe pracalite mandam jaya-śabdam udīrayet..pāhi devi janān asmān prapannān dīna-vatsale .. 67 ..
इति वाक्यैस्तोषयेच्च नानावादित्रनिस्वनैः ॥ सीमान्ते तु रथं नीत्वा तत्र संपूजये द्रथे ॥ ६८ ॥
इति वाक्यैः तोषयेत् च नाना वादित्र-निस्वनैः ॥ सीमान्ते तु रथम् नीत्वा तत्र ॥ ६८ ॥
iti vākyaiḥ toṣayet ca nānā vāditra-nisvanaiḥ .. sīmānte tu ratham nītvā tatra .. 68 ..
नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ॥ प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम् ॥ ६९ ॥
नाना स्तोत्रैः ततस् स्तुत्वा अपि आनयेत् ताम् स्व-वेश्मनि ॥ प्रणिपात-शतम् कृत्वा प्रार्थयेत् जगत्-अम्बिकाम् ॥ ६९ ॥
nānā stotraiḥ tatas stutvā api ānayet tām sva-veśmani .. praṇipāta-śatam kṛtvā prārthayet jagat-ambikām .. 69 ..
एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ॥ इह भुक्त्वाखिलान्भोगान्सोन्ते देवीपदं व्रजेत् ॥ 5.51.७० ॥
एवम् यः कुरुते विद्वान् पूजा-व्रत-रथ-उत्सवम् ॥ इह भुक्त्वा अखिलान् भोगान् देवी-पदम् व्रजेत् ॥ ५।५१।७० ॥
evam yaḥ kurute vidvān pūjā-vrata-ratha-utsavam .. iha bhuktvā akhilān bhogān devī-padam vrajet .. 5.51.70 ..
शुक्लायान्तु तृतीयायामेवं श्रावणभाद्रयोः॥यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि ॥ ७१ ॥
शुक्लायान् तु तृतीयायाम् एवम् श्रावण-भाद्रयोः॥यः व्रतम् कुरुते अम्बायाः पूजनम् च यथाविधि ॥ ७१ ॥
śuklāyān tu tṛtīyāyām evam śrāvaṇa-bhādrayoḥ..yaḥ vratam kurute ambāyāḥ pūjanam ca yathāvidhi .. 71 ..
मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ॥ सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम्॥ ७२ ॥
मोदते पुत्र-पौत्र-आद्यैः धन-आद्यैः इह सन्ततम् ॥ सः अन्ते गच्छेत् उमा-लोकम् सर्व-लोक-उपरि स्थितम्॥ ७२ ॥
modate putra-pautra-ādyaiḥ dhana-ādyaiḥ iha santatam .. saḥ ante gacchet umā-lokam sarva-loka-upari sthitam.. 72 ..
आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ॥ यत्कृते सकलाः कामास्सिद्ध्यन्त्येव न संशयः ॥ ७३ ॥
आश्विने धवले पक्षे नव-रात्र-व्रतम् चरेत् ॥ यद्-कृते सकलाः कामाः सिद्ध्यन्ति एव न संशयः ॥ ७३ ॥
āśvine dhavale pakṣe nava-rātra-vratam caret .. yad-kṛte sakalāḥ kāmāḥ siddhyanti eva na saṃśayaḥ .. 73 ..
नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ॥ चतुरास्यो न पंचास्यो न षडास्यो न कोऽपरः ॥ ७४॥
नव-रात्र-व्रतस्य अस्य प्रभावम् वक्तुम् ईश्वरः ॥ चतुर्-आस्यः न पंच-आस्यः न षष्-आस्यः न कः अपरः ॥ ७४॥
nava-rātra-vratasya asya prabhāvam vaktum īśvaraḥ .. catur-āsyaḥ na paṃca-āsyaḥ na ṣaṣ-āsyaḥ na kaḥ aparaḥ .. 74..
नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः॥हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः ॥ ७५ ॥
नव-रात्र-व्रतम् कृत्वा भूपालः विरथ-आत्मजः॥हृतम् राज्यम् निजम् लेभे सुरथः मुनि-सत्तमाः ॥ ७५ ॥
nava-rātra-vratam kṛtvā bhūpālaḥ viratha-ātmajaḥ..hṛtam rājyam nijam lebhe surathaḥ muni-sattamāḥ .. 75 ..
ध्रुवसंधिसुतो धीमानयोध्याधिपतिर्नृपः ॥ सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः॥॥७६॥
ध्रुवसंधि-सुतः धीमान् अयोध्या-अधिपतिः नृपः ॥ सुदर्शनः हृतम् राज्यम् प्रापत् अस्य प्रभावतः॥॥७६॥
dhruvasaṃdhi-sutaḥ dhīmān ayodhyā-adhipatiḥ nṛpaḥ .. sudarśanaḥ hṛtam rājyam prāpat asya prabhāvataḥ....76..
व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम्॥संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत्॥७७॥
व्रत-राजम् इमम् कृत्वा समाराध्य महेश्वरीम्॥संसार-बन्धनात् मुक्तः समाधिः मुक्ति-भाज् अभूत्॥७७॥
vrata-rājam imam kṛtvā samārādhya maheśvarīm..saṃsāra-bandhanāt muktaḥ samādhiḥ mukti-bhāj abhūt..77..
तृतीयायां च पञ्चम्यां सप्तम्याम ष्टमीतिथौ ॥ नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः ॥ ७८॥
तृतीयायाम् च पञ्चम्याम् सप्तम्याम् अ ष्टमी-तिथौ ॥ नवम्याम् वा चतुर्दश्याम् यः देवी पूजयेत् नरः ॥ ७८॥
tṛtīyāyām ca pañcamyām saptamyām a ṣṭamī-tithau .. navamyām vā caturdaśyām yaḥ devī pūjayet naraḥ .. 78..
आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ॥ तस्य सर्वं मनोभीष्टं पूरयत्यनिशं शिवा ॥ ७९॥
आश्विनस्य सिते पक्षे व्रतम् कृत्वा विधानतः ॥ तस्य सर्वम् मनः-भीष्टम् पूरयति अनिशम् शिवा ॥ ७९॥
āśvinasya site pakṣe vratam kṛtvā vidhānataḥ .. tasya sarvam manaḥ-bhīṣṭam pūrayati aniśam śivā .. 79..
यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ॥ तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत्॥5.51.८०॥
यः कार्त्तिकस्य मार्गस्य पौषस्य तपसः तथा ॥ तपस्यस्य सिते पक्षे तृतीयायाम् व्रतम् चरेत्॥५।५१।८०॥
yaḥ kārttikasya mārgasya pauṣasya tapasaḥ tathā .. tapasyasya site pakṣe tṛtīyāyām vratam caret..5.51.80..
लोहितैः करवीराद्यैः पुष्पैर्धूपैस्सुगन्धितैः ॥ पूजयेन्मङ्गलान्देवीं स सर्वं मंगलं लभेत्॥८१॥
लोहितैः करवीर-आद्यैः पुष्पैः धूपैः सुगन्धितैः ॥ पूजयेत् मङ्गलान् देवीम् स सर्वम् मंगलम् लभेत्॥८१॥
lohitaiḥ karavīra-ādyaiḥ puṣpaiḥ dhūpaiḥ sugandhitaiḥ .. pūjayet maṅgalān devīm sa sarvam maṃgalam labhet..81..
सौभाग्याय सदा स्त्रीभिः कार्य्यमेतन्महाव्रतम्॥विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि ॥ ८२ ॥
सौभाग्याय सदा स्त्रीभिः कार्य्यम् एतत् महा-व्रतम्॥विद्या-धन-सुत-आप्ति-अर्थम् विधेयम् पुरुषैः अपि ॥ ८२ ॥
saubhāgyāya sadā strībhiḥ kāryyam etat mahā-vratam..vidyā-dhana-suta-āpti-artham vidheyam puruṣaiḥ api .. 82 ..
उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ॥ देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः॥८३॥
उमा-महेश्वर-आदीनि व्रतानि अन्यानि यानि अपि ॥ देवी-प्रियाणि कार्याणि स्व-भक्त्या एवम् मुमुक्षुभिः॥८३॥
umā-maheśvara-ādīni vratāni anyāni yāni api .. devī-priyāṇi kāryāṇi sva-bhaktyā evam mumukṣubhiḥ..83..
संहितेयं महापुण्या शिवभक्तिविवर्द्धिनी॥नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा॥८४॥
संहिता इयम् महा-पुण्या शिव-भक्ति-विवर्द्धिनी॥नाना आख्यान-समायुक्ता भुक्ति-मुक्ति-प्रदा शिवा॥८४॥
saṃhitā iyam mahā-puṇyā śiva-bhakti-vivarddhinī..nānā ākhyāna-samāyuktā bhukti-mukti-pradā śivā..84..
य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ पठेद्वा पाठयेद्वापि स याति परमां गतिम् ॥ ८५॥
यः एनाम् शृणुयात् भक्त्या श्रावयेत् वा समाहितः ॥ पठेत् वा पाठयेत् वा अपि स याति परमाम् गतिम् ॥ ८५॥
yaḥ enām śṛṇuyāt bhaktyā śrāvayet vā samāhitaḥ .. paṭhet vā pāṭhayet vā api sa yāti paramām gatim .. 85..
यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ॥ संपूजिता च विधिवत्सर्वान्कामान्स आप्नुयात् ॥ ८६॥
यस्य गेहे स्थिता च इयम् लिखिता ललिता-अक्षरैः ॥ संपूजिता च विधिवत् सर्वान् कामान् सः आप्नुयात् ॥ ८६॥
yasya gehe sthitā ca iyam likhitā lalitā-akṣaraiḥ .. saṃpūjitā ca vidhivat sarvān kāmān saḥ āpnuyāt .. 86..
भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित॥पुत्रपौत्रादिसम्पत्तिं लभत्येव न संशयः॥। ॥ ८७ ॥
भूत-प्रेत-पिशाच-आदि-दुष्टेभ्यः न भयम् क्वचिद्॥पुत्र-पौत्र-आदि-सम्पत्तिम् लभति एव न संशयः॥। ॥ ८७ ॥
bhūta-preta-piśāca-ādi-duṣṭebhyaḥ na bhayam kvacid..putra-pautra-ādi-sampattim labhati eva na saṃśayaḥ... .. 87 ..
तस्मादियं महापुण्या रम्योमासंहिता सदा ॥ श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः ॥ ८८ ॥ ॥
तस्मात् इयम् महा-पुण्या रम्या उमा-संहिता सदा ॥ श्रोतव्या पठितव्या च शिव-भक्तिम् अभीप्सुभिः ॥ ८८ ॥ ॥
tasmāt iyam mahā-puṇyā ramyā umā-saṃhitā sadā .. śrotavyā paṭhitavyā ca śiva-bhaktim abhīpsubhiḥ .. 88 .. ..
इति श्रीशिव महापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् क्रियायोगनिरूपणम् नाम एकपञ्चाशत्तमः अध्यायः ॥ ५१ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām kriyāyoganirūpaṇam nāma ekapañcāśattamaḥ adhyāyaḥ .. 51 ..
॥ समाप्तेयं पञ्चम्युमासंहिता ॥ ।
॥ समाप्ता इयम् पञ्चमी उमा-संहिता ॥ ।
.. samāptā iyam pañcamī umā-saṃhitā .. .
इति पञ्चम्युमा संहिता ॥ ५ ॥
इति पञ्चमी उमा संहिता ॥ ५ ॥
iti pañcamī umā saṃhitā .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In