| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ॥ अतिमानोऽतिकोपश्च दांभिकत्वं कृतघ्नता॥१॥'
द्विज-द्रव्य-अपहरणम् अपि दाय-व्यतिक्रमः ॥ अतिमानः अतिकोपः च दांभिक-त्वम् कृतघ्न-ता॥१॥
dvija-dravya-apaharaṇam api dāya-vyatikramaḥ .. atimānaḥ atikopaḥ ca dāṃbhika-tvam kṛtaghna-tā..1..
अत्यंतविषयासक्तिः कार्पण्यं साधुमत्सरः ॥ परदाराभिगमनं साधुकन्यासुदूषणम् ॥ २ ॥
अत्यन्त-विषय-आसक्तिः कार्पण्यम् साधु-मत्सरः ॥ पर-दार-अभिगमनम् साधु-कन्यासु दूषणम् ॥ २ ॥
atyanta-viṣaya-āsaktiḥ kārpaṇyam sādhu-matsaraḥ .. para-dāra-abhigamanam sādhu-kanyāsu dūṣaṇam .. 2 ..
परिवित्तिः परिवेत्ता च यया च परिविद्यते ॥ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ३ ॥
परिवित्तिः परिवेत्ता च यया च परिविद्यते ॥ तयोः दानम् च कन्यायाः तयोः एव च याजनम् ॥ ३ ॥
parivittiḥ parivettā ca yayā ca parividyate .. tayoḥ dānam ca kanyāyāḥ tayoḥ eva ca yājanam .. 3 ..
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ॥ यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ॥ ४ ॥
शिव-आश्रम-तरूणाम् च पुष्प-आराम-विनाशनम् ॥ यः पीडाम् आश्रम-स्थानाम् आचरेत् अल्पिकाम् अपि ॥ ४ ॥
śiva-āśrama-tarūṇām ca puṣpa-ārāma-vināśanam .. yaḥ pīḍām āśrama-sthānām ācaret alpikām api .. 4 ..
सभृत्यपरिवारस्य पशुधान्यधनस्य च ॥ कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ॥ ५ ॥
स भृत्य-परिवारस्य पशु-धान्य-धनस्य च ॥ कुप्य-धान्य-पशु-स्तेयम् अपाम् व्यापावनम् तथा ॥ ५ ॥
sa bhṛtya-parivārasya paśu-dhānya-dhanasya ca .. kupya-dhānya-paśu-steyam apām vyāpāvanam tathā .. 5 ..
यज्ञारामतडागानां दारापत्यस्य विक्रयम् ॥ तीर्थयात्रोपवासानां व्रतोपनयकर्म्मिणाम् ॥ ६ ॥
यज्ञ-आराम-तडागानाम् दार-अपत्यस्य विक्रयम् ॥ तीर्थ-यात्रा-उपवासानाम् व्रत-उपनय-कर्म्मिणाम् ॥ ६ ॥
yajña-ārāma-taḍāgānām dāra-apatyasya vikrayam .. tīrtha-yātrā-upavāsānām vrata-upanaya-karmmiṇām .. 6 ..
स्त्रीधनान्युपजीवंति स्त्रीभिरप्यन्तनिर्जिताः ॥ अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ॥ ७ ॥
स्त्रीधनानि उपजीवंति स्त्रीभिः अपि अन्त-निर्जिताः ॥ अरक्षणम् च नारीणाम् मायया स्त्री-निषेवणम् ॥ ७ ॥
strīdhanāni upajīvaṃti strībhiḥ api anta-nirjitāḥ .. arakṣaṇam ca nārīṇām māyayā strī-niṣevaṇam .. 7 ..
कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ॥ निंदिताच्च धनादानं पण्यानां कूट जीवनम् ॥ ८ ॥
कालागत-अप्रदानम् च धान्य-वृद्धि-उपसेवनम् ॥ निंदितात् च धन-आदानम् पण्यानाम् कूट जीवनम् ॥ ८ ॥
kālāgata-apradānam ca dhānya-vṛddhi-upasevanam .. niṃditāt ca dhana-ādānam paṇyānām kūṭa jīvanam .. 8 ..
विषमारण्यपत्राणां सततं वृषवाहनम् ॥ उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ॥ ९॥
विषम-अरण्य-पत्राणाम् सततम् वृष-वाहनम् ॥ उच्चाटन-अभिचारम् च धान्य-आदानम् भिषक्क्रिया ॥ ९॥
viṣama-araṇya-patrāṇām satatam vṛṣa-vāhanam .. uccāṭana-abhicāram ca dhānya-ādānam bhiṣakkriyā .. 9..
जिह्वाकामोपभोगार्थं यस्यारंभः सुकर्मसु ॥ मूलेनख्यापको नित्यं वेदज्ञानादिकं च यत् ॥ 5.6.१०॥
जिह्वा-काम-उपभोग-अर्थम् यस्य आरंभः सु कर्मसु ॥ मूलेन ख्यापकः नित्यम् वेद-ज्ञान-आदिकम् च यत् ॥ ५।६।१०॥
jihvā-kāma-upabhoga-artham yasya āraṃbhaḥ su karmasu .. mūlena khyāpakaḥ nityam veda-jñāna-ādikam ca yat .. 5.6.10..
ब्राह्म्यादिव्रतसंत्यागश्चान्याचारनिषेवणम् ॥ असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ॥ ११ ॥
ब्राह्मी-आदि-व्रत-संत्यागः च अन्य-आचार-निषेवणम् ॥ असत्-शास्त्र-अधिगमनम् शुष्क-तर्क-अवलम्बनम् ॥ ११ ॥
brāhmī-ādi-vrata-saṃtyāgaḥ ca anya-ācāra-niṣevaṇam .. asat-śāstra-adhigamanam śuṣka-tarka-avalambanam .. 11 ..
देवाग्निगुरुसाधूनां निन्दया ब्राह्मणस्य च ॥ प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ॥ १२ ॥
देव-अग्नि-गुरु-साधूनाम् निन्दया ब्राह्मणस्य च ॥ प्रत्यक्षम् वा परोक्षम् वा राज्ञाम् मण्डलिनाम् अपि ॥ १२ ॥
deva-agni-guru-sādhūnām nindayā brāhmaṇasya ca .. pratyakṣam vā parokṣam vā rājñām maṇḍalinām api .. 12 ..
उत्सन्नपितृदेवेज्या स्वकर्म्मत्यागिनश्च ये ॥ दुःशीला नास्तिकाः पापास्सदा वाऽसत्यवादिनः ॥ १३ ॥
उत्सन्न-पितृ-देव-इज्या स्व-कर्म्म-त्यागिनः च ये ॥ दुःशीलाः नास्तिकाः पापाः सदा वा असत्य-वादिनः ॥ १३ ॥
utsanna-pitṛ-deva-ijyā sva-karmma-tyāginaḥ ca ye .. duḥśīlāḥ nāstikāḥ pāpāḥ sadā vā asatya-vādinaḥ .. 13 ..
पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ॥ रजस्वलाया योनौ च मैथुनं यः समाचरेत् ॥ १४॥
पर्व-काले दिवा वा अप्सु वियोनौ पशु-योनिषु ॥ रजस्वलायाः योनौ च मैथुनम् यः समाचरेत् ॥ १४॥
parva-kāle divā vā apsu viyonau paśu-yoniṣu .. rajasvalāyāḥ yonau ca maithunam yaḥ samācaret .. 14..
स्त्रीपुत्रमित्रसंप्राप्तावाशाच्छेदकराश्च ये ॥ जनस्याप्रिय वक्तारः क्रूरा समयवेदिनः ॥ १५ ॥
स्त्री-पुत्र-मित्र-संप्राप्तौ आशा-छेद-कराः च ये ॥ जनस्य अप्रिय वक्तारः समय-वेदिनः ॥ १५ ॥
strī-putra-mitra-saṃprāptau āśā-cheda-karāḥ ca ye .. janasya apriya vaktāraḥ samaya-vedinaḥ .. 15 ..
भेत्ता तडागकूपानां संक्रयाणां रसस्य च ॥ एकपंक्तिस्थितानां च पाकभेदं करोति यः ॥ १६ ॥ ।
भेत्ता तडाग-कूपानाम् संक्रयाणाम् रसस्य च ॥ एक-पंक्ति-स्थितानाम् च पाक-भेदम् करोति यः ॥ १६ ॥ ।
bhettā taḍāga-kūpānām saṃkrayāṇām rasasya ca .. eka-paṃkti-sthitānām ca pāka-bhedam karoti yaḥ .. 16 .. .
इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ॥ युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते ॥ १७॥
इति एतैः स्त्री-नराः पापैः उपपातकिनः स्मृताः ॥ युक्ताः एभिः तथा अन्ये अपि शृणु तान् तु ब्रवीमि ते ॥ १७॥
iti etaiḥ strī-narāḥ pāpaiḥ upapātakinaḥ smṛtāḥ .. yuktāḥ ebhiḥ tathā anye api śṛṇu tān tu bravīmi te .. 17..
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ॥ विनाशयंति कार्य्याणि ते नरा नारकाः स्मृताः ॥ १८ ॥
ये गो-ब्राह्मण-कन्यानाम् स्वामि-मित्र-तपस्विनाम् ॥ विनाशयंति कार्य्याणि ते नराः नारकाः स्मृताः ॥ १८ ॥
ye go-brāhmaṇa-kanyānām svāmi-mitra-tapasvinām .. vināśayaṃti kāryyāṇi te narāḥ nārakāḥ smṛtāḥ .. 18 ..
परस्त्रियाभितप्यंते ये परद्रव्यसूचकाः ॥ परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ॥ १९॥
पर-स्त्रिया अभितप्यंते ये पर-द्रव्य-सूचकाः ॥ पर-द्रव्य-हराः नित्यम् तौल-मिथ्या अनुसारकाः ॥ १९॥
para-striyā abhitapyaṃte ye para-dravya-sūcakāḥ .. para-dravya-harāḥ nityam taula-mithyā anusārakāḥ .. 19..
द्विजदुःखकरा ये च प्रहारं चोद्धरंति ये ॥ सेवन्ते तु द्विजाश्शूद्रां सुरां बध्नंति कामतः ॥ 5.6.२०॥
द्विज-दुःख-कराः ये च प्रहारम् च उद्धरंति ये ॥ सेवन्ते तु द्विजाः शूद्राम् सुराम् बध्नंति कामतः ॥ ५।६।२०॥
dvija-duḥkha-karāḥ ye ca prahāram ca uddharaṃti ye .. sevante tu dvijāḥ śūdrām surām badhnaṃti kāmataḥ .. 5.6.20..
ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः॥वृत्त्यर्थं येऽपि कुर्वंति दानयज्ञादिकाः क्रियाः॥२१॥
ये पाप-निरताः क्रूराः ये अपि हिंसा-प्रियाः नराः॥वृत्ति-अर्थम् ये अपि कुर्वंति दान-यज्ञ-आदिकाः क्रियाः॥२१॥
ye pāpa-niratāḥ krūrāḥ ye api hiṃsā-priyāḥ narāḥ..vṛtti-artham ye api kurvaṃti dāna-yajña-ādikāḥ kriyāḥ..21..
गोष्ठाग्निजलरथ्यासु तरुच्छाया नगेषु च॥त्यजंति ये पुरीषाद्यानारामायतनेषु च॥२२।
गोष्ठ-अग्नि-जल-रथ्यासु तरु-छायाः नगेषु च॥त्यजंति ये पुरीष-आद्यान् आराम-आयतनेषु च॥२२।
goṣṭha-agni-jala-rathyāsu taru-chāyāḥ nageṣu ca..tyajaṃti ye purīṣa-ādyān ārāma-āyataneṣu ca..22.
लज्जाश्रमप्रासादेषु मयपानरताश्च ये॥कृतकेलिभुजंगाश्च रन्ध्रान्वेषणतत्पराः॥२३॥
लज्जा-श्रम-प्रासादेषु मय-पान-रताः च ये॥कृत-केलि-भुजंगाः च रन्ध्र-अन्वेषण-तत्पराः॥२३॥
lajjā-śrama-prāsādeṣu maya-pāna-ratāḥ ca ye..kṛta-keli-bhujaṃgāḥ ca randhra-anveṣaṇa-tatparāḥ..23..
वंशेष्टका शिलाकाष्ठैः शृङ्गैश्शंकुभिरेव च॥ये मार्गमनुरुंधंति परसीमां हरंति ये॥२४॥
वंश-इष्टका शिला-काष्ठैः शृङ्गैः शंकुभिः एव च॥ये मार्गम् अनुरुंधंति पर-सीमाम् हरंति ये॥२४॥
vaṃśa-iṣṭakā śilā-kāṣṭhaiḥ śṛṅgaiḥ śaṃkubhiḥ eva ca..ye mārgam anuruṃdhaṃti para-sīmām haraṃti ye..24..
कूटशासनकर्तारः कूटकर्मक्रियारताः॥कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः॥२५॥
कूटशासन-कर्तारः कूट-कर्म-क्रिया-रताः॥कूट-पाक-अन्न-वस्त्राणाम् कूट-संव्यवहारिणः॥२५॥
kūṭaśāsana-kartāraḥ kūṭa-karma-kriyā-ratāḥ..kūṭa-pāka-anna-vastrāṇām kūṭa-saṃvyavahāriṇaḥ..25..
धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी॥निर्द्दयोऽतीवभृत्येषु पशूनां दमनश्च यः॥२६॥
धनुषः शस्त्र-शल्यानाम् कर्ता यः क्रय-विक्रयी॥निर्द्दयः अतीव भृत्येषु पशूनाम् दमनः च यः॥२६॥
dhanuṣaḥ śastra-śalyānām kartā yaḥ kraya-vikrayī..nirddayaḥ atīva bhṛtyeṣu paśūnām damanaḥ ca yaḥ..26..
मिथ्या प्रवदतो वाच आकर्णयति यश्शनैः॥स्वामिमित्रगुरुद्रोही मायावी चपलश्शठः॥२७॥
मिथ्या प्रवदतः वाचः आकर्णयति यः शनैस्॥स्वामि-मित्र-गुरु-द्रोही मायावी चपलः शठः॥२७॥
mithyā pravadataḥ vācaḥ ākarṇayati yaḥ śanais..svāmi-mitra-guru-drohī māyāvī capalaḥ śaṭhaḥ..27..
ये भार्य्यापुत्रमित्राणि बालवृद्धकृशातुरान्॥भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नंति बुभुक्षितान् ॥ २८॥
ये भार्य्या-पुत्र-मित्राणि बाल-वृद्ध-कृश-आतुरान्॥भृत्यान् अतिथि-बंधून् च त्यक्त्वा अश्नंति बुभुक्षितान् ॥ २८॥
ye bhāryyā-putra-mitrāṇi bāla-vṛddha-kṛśa-āturān..bhṛtyān atithi-baṃdhūn ca tyaktvā aśnaṃti bubhukṣitān .. 28..
यः स्वयं मिष्टमश्नाति विप्रेभ्यो न प्रयच्छति ॥ वृथापाकस्स विज्ञेयो ब्रह्मवादिषु गर्हितः ॥ २९ ॥
यः स्वयम् मिष्टम् अश्नाति विप्रेभ्यः न प्रयच्छति ॥ वृथा पाकः स विज्ञेयः ब्रह्म-वादिषु गर्हितः ॥ २९ ॥
yaḥ svayam miṣṭam aśnāti viprebhyaḥ na prayacchati .. vṛthā pākaḥ sa vijñeyaḥ brahma-vādiṣu garhitaḥ .. 29 ..
नियमान्स्वयमादाय ये त्यजंत्यजितेन्द्रियाः ॥ प्रव्रज्यावासिता ये च हरस्यास्यप्रभेदकाः ॥ 5.6.३० ॥
नियमान् स्वयम् आदाय ये त्यजंति अजित-इन्द्रियाः ॥ प्रव्रज्या-वासिताः ये च हरस्य आस्य-प्रभेदकाः ॥ ५।६।३० ॥
niyamān svayam ādāya ye tyajaṃti ajita-indriyāḥ .. pravrajyā-vāsitāḥ ye ca harasya āsya-prabhedakāḥ .. 5.6.30 ..
ये ताडयंति गां क्रूरा दमयंते मुहुर्मुहुः ॥ दुर्बलान्ये न पुष्णंति सततं ये त्यजंति च ॥ ३१ ॥
ये ताडयंति गाम् क्रूराः दमयंते मुहुर् मुहुर् ॥ दुर्बलान् ये न पुष्णंति सततम् ये त्यजंति च ॥ ३१ ॥
ye tāḍayaṃti gām krūrāḥ damayaṃte muhur muhur .. durbalān ye na puṣṇaṃti satatam ye tyajaṃti ca .. 31 ..
पीडयंत्यतिभारेणाऽसहंतं वाहयंति च ॥ योजयन्नकृताहारान्न विमुंचंति संयतान् ॥ ३२ ॥
पीडयंति अतिभारेण अ सहन्तम् वाहयंति च ॥ योजयन् अकृत-आहारान् न विमुंचंति संयतान् ॥ ३२ ॥
pīḍayaṃti atibhāreṇa a sahantam vāhayaṃti ca .. yojayan akṛta-āhārān na vimuṃcaṃti saṃyatān .. 32 ..
ये भारक्षतरोगार्तान्गोवृषांश्च क्षुधातुरान् ॥ न पालयंति यत्नेन गोघ्नास्ते नारकास्स्मृताः ॥ ३३ ॥
ये भार-क्षत-रोग-आर्तान् गो-वृषान् च क्षुधा आतुरान् ॥ न पालयंति यत्नेन गो-घ्नाः ते नारकाः स्मृताः ॥ ३३ ॥
ye bhāra-kṣata-roga-ārtān go-vṛṣān ca kṣudhā āturān .. na pālayaṃti yatnena go-ghnāḥ te nārakāḥ smṛtāḥ .. 33 ..
वृषाणां वृषणान्ये च पापिष्ठा गालयंति च ॥ वाहयंति च गां वंध्यां महानारकिनो नराः ॥ ३४ ॥
वृषाणाम् वृषणानि ये च पापिष्ठाः गालयंति च ॥ वाहयंति च गाम् वंध्याम् महानारकिनः नराः ॥ ३४ ॥
vṛṣāṇām vṛṣaṇāni ye ca pāpiṣṭhāḥ gālayaṃti ca .. vāhayaṃti ca gām vaṃdhyām mahānārakinaḥ narāḥ .. 34 ..
आशया समनुप्राप्तान्क्षुत्तृष्णाश्रमकर्शितान् ॥ अतिथींश्च तथानाथान्स्वतन्त्रा गृहमागतान् ॥ ३५ ॥
आशया समनुप्राप्तान् क्षुध्-तृष्णा-श्रम-कर्शितान् ॥ अतिथीन् च तथा अनाथान् स्वतन्त्राः गृहम् आगतान् ॥ ३५ ॥
āśayā samanuprāptān kṣudh-tṛṣṇā-śrama-karśitān .. atithīn ca tathā anāthān svatantrāḥ gṛham āgatān .. 35 ..
अन्नाभिलाषान्दीनान्वा बालवृद्धकृशातुरान् ॥ नानुकंपंति ये मूढास्ते यांति नरकार्णवम् ॥ ३६ ॥
अन्न-अभिलाषान् दीनान् वा बाल-वृद्ध-कृश-आतुरान् ॥ न अनुकंपंति ये मूढाः ते यांति नरक-अर्णवम् ॥ ३६ ॥
anna-abhilāṣān dīnān vā bāla-vṛddha-kṛśa-āturān .. na anukaṃpaṃti ye mūḍhāḥ te yāṃti naraka-arṇavam .. 36 ..
गृहेष्वर्था निवर्तन्ते स्मशानादपि बांधवाः ॥ सुकृतं दुष्कृतं चैव गच्छंतमनुगच्छति ॥ ३७ ॥
गृहेषु अर्थाः निवर्तन्ते स्मशानात् अपि बांधवाः ॥ सुकृतम् दुष्कृतम् च एव गच्छंतम् अनुगच्छति ॥ ३७ ॥
gṛheṣu arthāḥ nivartante smaśānāt api bāṃdhavāḥ .. sukṛtam duṣkṛtam ca eva gacchaṃtam anugacchati .. 37 ..
अजाविको माहिषिकस्सामुद्रो वृषलीपतिः ॥ शूद्रवत्क्षत्रवृत्तिश्च नारकी स्याद् द्विजाधमः ॥ ३८ ॥
अजाविकः माहिषिकः सामुद्रः वृषली-पतिः ॥ शूद्र-वत् क्षत्र-वृत्तिः च नारकी स्यात् द्विज-अधमः ॥ ३८ ॥
ajāvikaḥ māhiṣikaḥ sāmudraḥ vṛṣalī-patiḥ .. śūdra-vat kṣatra-vṛttiḥ ca nārakī syāt dvija-adhamaḥ .. 38 ..
शिल्पिनः कारवो वैद्या हेमकारा नृपध्वजाः ॥ भृतका कूटसंयुक्ताः सर्वे ते नारकाः स्मृताः ॥ ३९ ॥
शिल्पिनः कारवः वैद्याः हेमकाराः नृपध्वजाः ॥ सर्वे ते नारकाः स्मृताः ॥ ३९ ॥
śilpinaḥ kāravaḥ vaidyāḥ hemakārāḥ nṛpadhvajāḥ .. sarve te nārakāḥ smṛtāḥ .. 39 ..
यश्चोचितमतिक्रम्य स्वेच्छयै वाहरेत्करम् ॥ नरके पच्यते सोऽपि योपि दण्डरुचिर्नरः ॥ 5.6.४० ॥
यः च उचितम् अतिक्रम्य स्व-इच्छयै वा आहरेत् करम् ॥ नरके पच्यते सः अपि दण्ड-रुचिः नरः ॥ ५।६।४० ॥
yaḥ ca ucitam atikramya sva-icchayai vā āharet karam .. narake pacyate saḥ api daṇḍa-ruciḥ naraḥ .. 5.6.40 ..
उत्कोचकै रुचिक्रीतैस्तस्करैश्च प्रपीड्यते ॥ यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ४१ ॥
उत्कोचकैः रुचि-क्रीतैः तस्करैः च प्रपीड्यते ॥ यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ४१ ॥
utkocakaiḥ ruci-krītaiḥ taskaraiḥ ca prapīḍyate .. yasya rājñaḥ prajā rāṣṭre pacyate narakeṣu saḥ .. 41 ..
ये द्विजाः परिगृह्णंति नृपस्यान्यायवर्तिनः ॥ ते प्रयांति तु घोरेषु नरकेषु न संशयः ॥ ४२॥
ये द्विजाः परिगृह्णंति नृपस्य अन्याय-वर्तिनः ॥ ते प्रयान्ति तु घोरेषु नरकेषु न संशयः ॥ ४२॥
ye dvijāḥ parigṛhṇaṃti nṛpasya anyāya-vartinaḥ .. te prayānti tu ghoreṣu narakeṣu na saṃśayaḥ .. 42..
अन्यायात्समुपादाय द्विजेभ्यो यः प्रयच्छति ॥ प्रजाभ्यः पच्यते सोऽपि नरकेषु नृपो यथा ॥ ४३॥
अन्यायात् समुपादाय द्विजेभ्यः यः प्रयच्छति ॥ प्रजाभ्यः पच्यते सः अपि नरकेषु नृपः यथा ॥ ४३॥
anyāyāt samupādāya dvijebhyaḥ yaḥ prayacchati .. prajābhyaḥ pacyate saḥ api narakeṣu nṛpaḥ yathā .. 43..
पारदारिकचौराणां चंडानां विद्यते त्वघम् ॥ परदाररतस्यापि राज्ञो भवति नित्यशः ॥ ४४ ॥
पारदारिक-चौराणाम् चंडानाम् विद्यते तु अघम् ॥ परदार-रतस्य अपि राज्ञः भवति नित्यशस् ॥ ४४ ॥
pāradārika-caurāṇām caṃḍānām vidyate tu agham .. paradāra-ratasya api rājñaḥ bhavati nityaśas .. 44 ..
अचौरं चौरवत्पश्येच्चौरं वाचौररूपिणम् ॥ अविचार्य नृपस्तस्माद्धातयन्नरकं व्रजेत् ॥ ४५ ॥
अचौरम् चौर-वत् पश्येत् चौरम् वा अचौर-रूपिणम् ॥ अ विचार्य नृपः तस्मात् हातयत् नरकम् व्रजेत् ॥ ४५ ॥
acauram caura-vat paśyet cauram vā acaura-rūpiṇam .. a vicārya nṛpaḥ tasmāt hātayat narakam vrajet .. 45 ..
घृततैलान्नपानानि मधुमांससुरासवम् ॥ गुडेक्षुशाकदुग्धानि दधिमूलफलानि च ॥ ४६ ॥
घृत-तैल-अन्न-पानानि मधु-मांस-सुरा-आसवम् ॥ गुड-इक्षु-शाक-दुग्धानि दधि-मूल-फलानि च ॥ ४६ ॥
ghṛta-taila-anna-pānāni madhu-māṃsa-surā-āsavam .. guḍa-ikṣu-śāka-dugdhāni dadhi-mūla-phalāni ca .. 46 ..
तृणं काष्ठं पत्रपुष्पमौषधं चात्मभोजनम् ॥ उपानत्छत्रशकटमासनं च कमंडलुम् ॥ ४७ ॥
तृणम् काष्ठम् पत्र-पुष्पम् औषधम् च आत्मभोजनम् ॥ उपानह् छत्र-शकटम् आसनम् च कमंडलुम् ॥ ४७ ॥
tṛṇam kāṣṭham patra-puṣpam auṣadham ca ātmabhojanam .. upānah chatra-śakaṭam āsanam ca kamaṃḍalum .. 47 ..
ताम्रसीसत्रपुः शस्त्रं शंखाद्यं च जलोद्भवम्॥वैद्यं च वैणवं चान्यद्गृहोपस्करणानि च ॥ ४८॥
ताम्र-सीस-त्रपुः शस्त्रम् शंख-आद्यम् च जल-उद्भवम्॥वैद्यम् च वैणवम् च अन्यत् गृह-उपस्करणानि च ॥ ४८॥
tāmra-sīsa-trapuḥ śastram śaṃkha-ādyam ca jala-udbhavam..vaidyam ca vaiṇavam ca anyat gṛha-upaskaraṇāni ca .. 48..
और्ण्णकार्पासकौशेयपट्टसूत्रोद्भवानि च ॥ स्थूलसूक्ष्माणि वस्त्राणि ये लोभाद्धि हरंति च ॥ ४९ ॥
और्ण्ण-कार्पास-कौशेय-पट्टसूत्र-उद्भवानि च ॥ स्थूल-सूक्ष्माणि वस्त्राणि ये लोभात् हि हरन्ति च ॥ ४९ ॥
aurṇṇa-kārpāsa-kauśeya-paṭṭasūtra-udbhavāni ca .. sthūla-sūkṣmāṇi vastrāṇi ye lobhāt hi haranti ca .. 49 ..
एवमादीनि चान्यानि द्रव्याणि विविधानि च ॥ नरकेषु ध्रुवं यान्ति चापहृत्याल्पकानि च ॥ 5.6.५० ॥
एवमादीनि च अन्यानि द्रव्याणि विविधानि च ॥ नरकेषु ध्रुवम् यान्ति च अपहृत्य अल्पकानि च ॥ ५।६।५० ॥
evamādīni ca anyāni dravyāṇi vividhāni ca .. narakeṣu dhruvam yānti ca apahṛtya alpakāni ca .. 5.6.50 ..
तद्वा यद्वा परद्रव्यमपि सर्षपमात्रकम् ॥ अपहृत्य नरा यांति नरकं नात्र संशयः ॥ ५१॥
तत् वा यत् वा पर-द्रव्यम् अपि सर्षप-मात्रकम् ॥ अपहृत्य नराः यांति नरकम् न अत्र संशयः ॥ ५१॥
tat vā yat vā para-dravyam api sarṣapa-mātrakam .. apahṛtya narāḥ yāṃti narakam na atra saṃśayaḥ .. 51..
एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम्॥शरीरयातनार्थाय सर्वाकारमवाप्नुयात् ॥ ५२ ॥
एवमाद्यैः नरः पापैः उत्क्रांति-समनंतरम्॥शरीर-यातना-अर्थाय सर्वाकारम् अवाप्नुयात् ॥ ५२ ॥
evamādyaiḥ naraḥ pāpaiḥ utkrāṃti-samanaṃtaram..śarīra-yātanā-arthāya sarvākāram avāpnuyāt .. 52 ..
यमलोकं व्रजंत्येते शरीरेण यमाज्ञया ॥ यमदूतैर्महाघोरैनीयमानास्सुदुःखिताः ॥ ५३ ॥
यम-लोकम् व्रजन्ति एते शरीरेण यम-आज्ञया ॥ यम-दूतैः महा-घोरैः नीयमानाः सु दुःखिताः ॥ ५३ ॥
yama-lokam vrajanti ete śarīreṇa yama-ājñayā .. yama-dūtaiḥ mahā-ghoraiḥ nīyamānāḥ su duḥkhitāḥ .. 53 ..
देवतिर्यङ्मनुष्याणामधर्मनिरतात्मनाम् ॥ धर्मराजः स्मृतश्शास्ता सुघोरैर्विविधैर्वधैः ॥ ५४॥
देव-तिर्यक्-मनुष्याणाम् अधर्म-निरत-आत्मनाम् ॥ धर्मराजः स्मृतः शास्ता सु घोरैः विविधैः वधैः ॥ ५४॥
deva-tiryak-manuṣyāṇām adharma-nirata-ātmanām .. dharmarājaḥ smṛtaḥ śāstā su ghoraiḥ vividhaiḥ vadhaiḥ .. 54..
नियमाचारयुक्तानां प्रमादात्स्खलितात्मनाम् ॥ प्रायश्चित्तैर्गुरुश्शास्ता न बुधैरिष्यते यमः ॥ ५५ ॥
नियम-आचार-युक्तानाम् प्रमादात् स्खलित-आत्मनाम् ॥ प्रायश्चित्तैः गुरुः शास्ता न बुधैः इष्यते यमः ॥ ५५ ॥
niyama-ācāra-yuktānām pramādāt skhalita-ātmanām .. prāyaścittaiḥ guruḥ śāstā na budhaiḥ iṣyate yamaḥ .. 55 ..
पारदारिकचौराणामन्यायव्यवहारिणाम् ॥ नृपतिश्शासकः प्रोक्तः प्रच्छन्नानां स धर्म्मराट् ॥ ५६ ॥
पारदारिक-चौराणाम् अन्याय-व्यवहारिणाम् ॥ नृपतिः शासकः प्रोक्तः प्रच्छन्नानाम् स धर्म्मराज् ॥ ५६ ॥
pāradārika-caurāṇām anyāya-vyavahāriṇām .. nṛpatiḥ śāsakaḥ proktaḥ pracchannānām sa dharmmarāj .. 56 ..
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ॥ नाभुक्तस्यान्यथानाशः कल्पकोटिशतैरपि ॥ ५७॥
तस्मात् कृतस्य पापस्य प्रायश्चित्तम् समाचरेत् ॥ न अभुक्तस्य अन्यथा नाशः कल्प-कोटि-शतैः अपि ॥ ५७॥
tasmāt kṛtasya pāpasya prāyaścittam samācaret .. na abhuktasya anyathā nāśaḥ kalpa-koṭi-śataiḥ api .. 57..
यः करोति स्वयं कर्म्म कारयेच्चानुमोदयेत् ॥ कायेन मनसा वाचा तस्य पापगतिः फलम् ॥ ५८॥
यः करोति स्वयम् कर्म्म कारयेत् च अनुमोदयेत् ॥ कायेन मनसा वाचा तस्य पाप-गतिः फलम् ॥ ५८॥
yaḥ karoti svayam karmma kārayet ca anumodayet .. kāyena manasā vācā tasya pāpa-gatiḥ phalam .. 58..
इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां पापभेदवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इति श्री-शिवमहापुराणे पञ्चम्याः मुमासंहितायाम् पापभेदवर्णनम् नाम षष्ठः अध्यायः ॥ ६ ॥
iti śrī-śivamahāpurāṇe pañcamyāḥ mumāsaṃhitāyām pāpabhedavarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In