| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ पापैर्नरा यांति यमलोकं चतुर्विधैः ॥ संत्रासजननं घोरं विवशास्सर्वदेहिनः ॥ १॥
अथ पापैः नराः यान्ति यम-लोकम् चतुर्विधैः ॥ संत्रास-जननम् घोरम् विवशाः सर्व-देहिनः ॥ १॥
atha pāpaiḥ narāḥ yānti yama-lokam caturvidhaiḥ .. saṃtrāsa-jananam ghoram vivaśāḥ sarva-dehinaḥ .. 1..
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ॥ स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजंतुषु॥२॥
गर्भ-स्थैः जायमानैः च बालैः तरुण-मध्यमैः ॥ स्त्री-पुत्-नपुंसकैः जीवैः ज्ञातव्यम् सर्व-जंतुषु॥२॥
garbha-sthaiḥ jāyamānaiḥ ca bālaiḥ taruṇa-madhyamaiḥ .. strī-put-napuṃsakaiḥ jīvaiḥ jñātavyam sarva-jaṃtuṣu..2..
शुभाशुभफलं चात्र देहिनां संविचार्यते ॥ चित्रगुप्तादिभिस्सर्वैर्वसिष्ठप्रमुखैस्तथा ॥ ३ ॥
शुभ-अशुभ-फलम् च अत्र देहिनाम् संविचार्यते ॥ चित्रगुप्त-आदिभिः सर्वैः वसिष्ठ-प्रमुखैः तथा ॥ ३ ॥
śubha-aśubha-phalam ca atra dehinām saṃvicāryate .. citragupta-ādibhiḥ sarvaiḥ vasiṣṭha-pramukhaiḥ tathā .. 3 ..
न केचित्प्राणिनस्संति ये न यांति यमक्षयम् ॥ अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्य्यताम् ॥ ४ ॥
न केचिद् प्राणिनः संति ये न यांति यम-क्षयम् ॥ अवश्यम् हि कृतम् कर्म भोक्तव्यम् तत् विचार्य्यताम् ॥ ४ ॥
na kecid prāṇinaḥ saṃti ye na yāṃti yama-kṣayam .. avaśyam hi kṛtam karma bhoktavyam tat vicāryyatām .. 4 ..
तत्र ये शुभकर्माणस्सौम्यचित्ता दयान्विताः ॥ ते नरा यांति सौम्येन पूर्वं यमनिकेतनम् ॥ ५॥
तत्र ये शुभ-कर्माणः सौम्य-चित्ताः दया-अन्विताः ॥ ते नराः यांति सौम्येन पूर्वम् यम-निकेतनम् ॥ ५॥
tatra ye śubha-karmāṇaḥ saumya-cittāḥ dayā-anvitāḥ .. te narāḥ yāṃti saumyena pūrvam yama-niketanam .. 5..
ये पुनः पापकर्म्माणः पापा दानविवर्जिताः ॥ ते घोरेण पथा यांति दक्षिणेन यमालयम् ॥ ६॥
ये पुनर् पाप-कर्म्माणः पापाः दान-विवर्जिताः ॥ ते घोरेण पथा यांति दक्षिणेन यम-आलयम् ॥ ६॥
ye punar pāpa-karmmāṇaḥ pāpāḥ dāna-vivarjitāḥ .. te ghoreṇa pathā yāṃti dakṣiṇena yama-ālayam .. 6..
षडशीतिसहस्राणि योजनानामतीत्य तत् ॥ वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥ ७ ॥
षष्-अशीति-सहस्राणि योजनानाम् अतीत्य तत् ॥ वैवस्वत-पुरम् ज्ञेयम् नाना रूपम् अवस्थितम् ॥ ७ ॥
ṣaṣ-aśīti-sahasrāṇi yojanānām atītya tat .. vaivasvata-puram jñeyam nānā rūpam avasthitam .. 7 ..
समीपस्थमिवाभाति नराणां पुण्यकर्मणाम्॥पापिनामतिदूरस्थं पथा रौद्रेण गच्छताम् ॥ ८॥
समीप-स्थम् इव आभाति नराणाम् पुण्य-कर्मणाम्॥पापिनाम् अति दूर-स्थम् पथा रौद्रेण गच्छताम् ॥ ८॥
samīpa-stham iva ābhāti narāṇām puṇya-karmaṇām..pāpinām ati dūra-stham pathā raudreṇa gacchatām .. 8..
तीक्ष्णकंटकयुक्तेन शर्कराविचितेन च ॥ क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च॥९॥
तीक्ष्ण-कंटक-युक्तेन शर्करा-विचितेन च ॥ क्षुर-धारा-निभैः तीक्ष्णैः पाषाणैः रचितेन च॥९॥
tīkṣṇa-kaṃṭaka-yuktena śarkarā-vicitena ca .. kṣura-dhārā-nibhaiḥ tīkṣṇaiḥ pāṣāṇaiḥ racitena ca..9..
क्वचित्पंकेन महता उरुतोकैश्च पातकैः ॥ लोहसूचीनिभैर्दर्भैस्सम्पन्नेन पथा क्वचित्॥5.7.१०॥
क्वचिद् पंकेन महता उरु-तोकैः च पातकैः ॥ लोह-सूची-निभैः दर्भैः सम्पन्नेन पथा क्वचिद्॥५।७।१०॥
kvacid paṃkena mahatā uru-tokaiḥ ca pātakaiḥ .. loha-sūcī-nibhaiḥ darbhaiḥ sampannena pathā kvacid..5.7.10..
तटप्रायातिविषमैः पर्वतैर्वृक्षसंकुलैः ॥ प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ॥ ११॥
तट-प्राया अति विषमैः पर्वतैः वृक्ष-संकुलैः ॥ प्रतप्त-अंगार-युक्तेन यांति मार्गेण दुःखिताः ॥ ११॥
taṭa-prāyā ati viṣamaiḥ parvataiḥ vṛkṣa-saṃkulaiḥ .. pratapta-aṃgāra-yuktena yāṃti mārgeṇa duḥkhitāḥ .. 11..
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैस्सुदुष्करैः ॥ सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः॥१२॥
क्वचिद् विषम-गर्तैः च क्वचिद् लोष्टैः सु दुष्करैः ॥ सु तप्त-वालुकाभिः च तथा तीक्ष्णैः च शंकुभिः॥१२॥
kvacid viṣama-gartaiḥ ca kvacid loṣṭaiḥ su duṣkaraiḥ .. su tapta-vālukābhiḥ ca tathā tīkṣṇaiḥ ca śaṃkubhiḥ..12..
अनेक शाखाविततैर्व्याप्तं वंशवनैः क्वचित्॥कष्टेन तमसा मार्गे नानालम्बेन कुत्रचित्॥१३॥
शाखा-विततैः व्याप्तम् वंश-वनैः क्वचिद्॥कष्टेन तमसा मार्गे न अन् आलम्बेन कुत्रचिद्॥१३॥
śākhā-vitataiḥ vyāptam vaṃśa-vanaiḥ kvacid..kaṣṭena tamasā mārge na an ālambena kutracid..13..
अयश्शृंगाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ॥ क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ १४॥
अयः-शृंगाटकैः तीक्ष्णैः क्वचिद् दाव-अग्निना पुनर् ॥ क्वचिद् तप्त-शिलाभिः च क्वचिद् व्याप्तम् हिमेन च ॥ १४॥
ayaḥ-śṛṃgāṭakaiḥ tīkṣṇaiḥ kvacid dāva-agninā punar .. kvacid tapta-śilābhiḥ ca kvacid vyāptam himena ca .. 14..
क्वचिद्वालुकया व्याप्तमाकंठांतः प्रवेशया ॥ क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ॥ १५ ॥
क्वचिद् वालुकया व्याप्तम् आकंठा-अंतर् प्रवेशया ॥ क्वचिद् दुष्ट-अम्बुना व्याप्तम् क्वचिद् च करिष-अग्निना ॥ १५ ॥
kvacid vālukayā vyāptam ākaṃṭhā-aṃtar praveśayā .. kvacid duṣṭa-ambunā vyāptam kvacid ca kariṣa-agninā .. 15 ..
क्वचित्सिंहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ॥ क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा॥१६॥
क्वचिद् सिंहैः वृकैः व्याघ्रैः मशकैः च सु दारुणैः ॥ क्वचिद् महा-जलौकाभिः क्वचिद् च अजगरैः तथा॥१६॥
kvacid siṃhaiḥ vṛkaiḥ vyāghraiḥ maśakaiḥ ca su dāruṇaiḥ .. kvacid mahā-jalaukābhiḥ kvacid ca ajagaraiḥ tathā..16..
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ॥ मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ॥ १७ ॥
मक्षिकाभिः च रौद्राभिः क्वचिद् सर्पैः विष-उल्बणैः ॥ मत्त-मातंग-यूथैः च बल-उन्मत्तैः प्रमाथिभिः ॥ १७ ॥
makṣikābhiḥ ca raudrābhiḥ kvacid sarpaiḥ viṣa-ulbaṇaiḥ .. matta-mātaṃga-yūthaiḥ ca bala-unmattaiḥ pramāthibhiḥ .. 17 ..
पंथानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः॥तीक्ष्णशृंगैश्च महिषैस्सर्वभूतैश्च श्वापदैः ॥ १८ ॥
पंथानम् उल्लिखद्भिः च सूकरैः तीक्ष्ण-दंष्ट्रिभिः॥तीक्ष्ण-शृंगैः च महिषैः सर्व-भूतैः च श्वापदैः ॥ १८ ॥
paṃthānam ullikhadbhiḥ ca sūkaraiḥ tīkṣṇa-daṃṣṭribhiḥ..tīkṣṇa-śṛṃgaiḥ ca mahiṣaiḥ sarva-bhūtaiḥ ca śvāpadaiḥ .. 18 ..
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ॥ व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ॥ १९॥
डाकिनीभिः च रौद्राभिः विकरालैः च राक्षसैः ॥ व्याधिभिः च महा-घोरैः पीड्यमानाः व्रजंति हि ॥ १९॥
ḍākinībhiḥ ca raudrābhiḥ vikarālaiḥ ca rākṣasaiḥ .. vyādhibhiḥ ca mahā-ghoraiḥ pīḍyamānāḥ vrajaṃti hi .. 19..
महाधूलिविमिश्रेण महाचण्डेन वायुना ॥ महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ 5.7.२० ॥
महा-धूलि-विमिश्रेण महा-चण्डेन वायुना ॥ महा-पाषाण-वर्षेण हन्यमानाः निराश्रयाः ॥ ५।७।२० ॥
mahā-dhūli-vimiśreṇa mahā-caṇḍena vāyunā .. mahā-pāṣāṇa-varṣeṇa hanyamānāḥ nirāśrayāḥ .. 5.7.20 ..
क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ॥ महता बाणवर्षेण विध्यमानाश्च सर्वतः ॥ २१ ॥
क्वचिद् विद्युत्-प्रपातेन दह्यमानाः व्रजन्ति च ॥ महता बाण-वर्षेण विध्यमानाः च सर्वतस् ॥ २१ ॥
kvacid vidyut-prapātena dahyamānāḥ vrajanti ca .. mahatā bāṇa-varṣeṇa vidhyamānāḥ ca sarvatas .. 21 ..
पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ॥ प्रदीप्तांगारवर्षेण दह्यमानाश्च संति हि ॥ २२॥
पतद्भिः वज्र-पातैः च उल्का-पातैः च दारुणैः ॥ प्रदीप्त-अंगार-वर्षेण दह्यमानाः च संति हि ॥ २२॥
patadbhiḥ vajra-pātaiḥ ca ulkā-pātaiḥ ca dāruṇaiḥ .. pradīpta-aṃgāra-varṣeṇa dahyamānāḥ ca saṃti hi .. 22..
महता पांसुवर्षेण पूर्यमाणा रुदंति च॥महामेघरवैर्घोरैस्त्रस्यंते च मुहुर्मुहुः॥२३॥
महता पांसु-वर्षेण पूर्यमाणाः रुदंति च॥महा-मेघ-रवैः घोरैः त्रस्यंते च मुहुर् मुहुर्॥२३॥
mahatā pāṃsu-varṣeṇa pūryamāṇāḥ rudaṃti ca..mahā-megha-ravaiḥ ghoraiḥ trasyaṃte ca muhur muhur..23..
निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ॥ महाक्षाराम्बुधाराभिस्सिच्यमाना व्रजंति च ॥ २४ ॥
निशित-आयुध-वर्षेण भिद्यमानाः च सर्वतस् ॥ महा-क्षार-अम्बु-धाराभिः सिच्यमानाः व्रजंति च ॥ २४ ॥
niśita-āyudha-varṣeṇa bhidyamānāḥ ca sarvatas .. mahā-kṣāra-ambu-dhārābhiḥ sicyamānāḥ vrajaṃti ca .. 24 ..
महीशीतेन मरुता रूक्षेण परुषेण च ॥ समंताद्बाध्यमानाश्च शुष्यंते संकुचन्ति च ॥ २५ ॥
मही-शीतेन मरुता रूक्षेण परुषेण च ॥ समंतात् बाध्यमानाः च शुष्यंते संकुचन्ति च ॥ २५ ॥
mahī-śītena marutā rūkṣeṇa paruṣeṇa ca .. samaṃtāt bādhyamānāḥ ca śuṣyaṃte saṃkucanti ca .. 25 ..
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ॥ निरालम्बेन दुर्गेण निर्जलेन समंततः ॥ २६ ॥
इत्थम् मार्गेण रौद्रेण पाथेय-रहितेन च ॥ निरालम्बेन दुर्गेण निर्जलेन समंततः ॥ २६ ॥
ittham mārgeṇa raudreṇa pātheya-rahitena ca .. nirālambena durgeṇa nirjalena samaṃtataḥ .. 26 ..
विषमेणैव महता निर्जनापाश्रयेण च ॥ तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च॥२७॥
विषमेण एव महता निर्जन-अपाश्रयेण च ॥ तमः-रूपेण कष्टेन सर्व-दुष्ट-आश्रयेण च॥२७॥
viṣameṇa eva mahatā nirjana-apāśrayeṇa ca .. tamaḥ-rūpeṇa kaṣṭena sarva-duṣṭa-āśrayeṇa ca..27..
नीयंते देहिनस्सर्वे ये मूढाः पापकर्मिणः ॥ यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ॥ २८ ॥
नीयंते देहिनः सर्वे ये मूढाः पाप-कर्मिणः ॥ यम-दूतैः महा-घोरैः तद्-आज्ञा-कारिभिः बलात् ॥ २८ ॥
nīyaṃte dehinaḥ sarve ye mūḍhāḥ pāpa-karmiṇaḥ .. yama-dūtaiḥ mahā-ghoraiḥ tad-ājñā-kāribhiḥ balāt .. 28 ..
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ शोचंतस्स्वानि कर्म्माणि रुदंतश्च मुहुर्मुहुः ॥ २९ ॥
एकाकिनः पर-अधीनाः मित्र-बन्धु-विवर्जिताः ॥ शोचंतः स्वानि कर्म्माणि रुदंतः च मुहुर् मुहुर् ॥ २९ ॥
ekākinaḥ para-adhīnāḥ mitra-bandhu-vivarjitāḥ .. śocaṃtaḥ svāni karmmāṇi rudaṃtaḥ ca muhur muhur .. 29 ..
प्रेता भूत्वा विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ॥ असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ॥ 5.7.३०॥
प्रेताः भूत्वा विवस्त्राः च शुष्क-कंठ-ओष्ठ-तालुकाः ॥ असौम्याः भय-भीताः च दह्यमानाः क्षुधा अन्विताः ॥ ५।७।३०॥
pretāḥ bhūtvā vivastrāḥ ca śuṣka-kaṃṭha-oṣṭha-tālukāḥ .. asaumyāḥ bhaya-bhītāḥ ca dahyamānāḥ kṣudhā anvitāḥ .. 5.7.30..
बद्धाश्शृंखलया केचिदुत्ता नपादका नराः ॥ कृष्यंते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ॥ ३१ ॥
बद्धाः शृंखलया केचिद् उत्ताः नपादकाः नराः ॥ कृष्यंते कृष्यमाणाः च यमदूतैः बल-उत्कटैः ॥ ३१ ॥
baddhāḥ śṛṃkhalayā kecid uttāḥ napādakāḥ narāḥ .. kṛṣyaṃte kṛṣyamāṇāḥ ca yamadūtaiḥ bala-utkaṭaiḥ .. 31 ..
उरसाधोमुखाश्चान्ये घृष्यमाणास्सुदुःखिताः ॥ केशपाशनि बंधेन संस्कृष्यंते च रज्जुना ॥ ३२ ॥
उरसा अधोमुखाः च अन्ये घृष्यमाणाः सु दुःखिताः ॥ बंधेन संस्कृष्यंते च रज्जुना ॥ ३२ ॥
urasā adhomukhāḥ ca anye ghṛṣyamāṇāḥ su duḥkhitāḥ .. baṃdhena saṃskṛṣyaṃte ca rajjunā .. 32 ..
ललाटे चांकुशेनान्ये भिन्ना दुष्यंति देहिनः ॥ उत्तानाः कंटकपथा क्वचिदंगारवर्त्मना ॥ ३३ ॥
ललाटे च अंकुशेन अन्ये भिन्नाः दुष्यंति देहिनः ॥ उत्तानाः कंटक-पथा क्वचिद् अंगार-वर्त्मना ॥ ३३ ॥
lalāṭe ca aṃkuśena anye bhinnāḥ duṣyaṃti dehinaḥ .. uttānāḥ kaṃṭaka-pathā kvacid aṃgāra-vartmanā .. 33 ..
पश्चाद्बाहुनिबद्धाश्च जठरेण प्रपीडिताः ॥ पूरिताश्शृंखलाभिश्च हस्तयोश्च सुकीलिताः ॥ ४४ ॥
पश्चात् बाहु-निबद्धाः च जठरेण प्रपीडिताः ॥ पूरिताः शृंखलाभिः च हस्तयोः च सु कीलिताः ॥ ४४ ॥
paścāt bāhu-nibaddhāḥ ca jaṭhareṇa prapīḍitāḥ .. pūritāḥ śṛṃkhalābhiḥ ca hastayoḥ ca su kīlitāḥ .. 44 ..
ग्रीवापाशेन कृष्यंते प्रयांत्यन्ये सुदुःखिताः ॥ जिह्वांकुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ॥ ३५ ॥
ग्रीवा-पाशेन कृष्यंते प्रयांति अन्ये सु दुःखिताः ॥ जिह्वा-अंकुश-प्रवेशेन रज्ज्वा आकृष्यन्ते एव ते ॥ ३५ ॥
grīvā-pāśena kṛṣyaṃte prayāṃti anye su duḥkhitāḥ .. jihvā-aṃkuśa-praveśena rajjvā ākṛṣyante eva te .. 35 ..
नासाभेदेन रज्ज्वा च त्वाकृश्यन्ते तथापरे ॥ भिन्नाः कपोलयो रज्ज्वाकृष्यंतेऽन्ये तथौष्ठयोः ॥ ३६ ॥
नासाभेदेन रज्ज्वा च तु आकृश्यन्ते तथा अपरे ॥ भिन्नाः कपोलयोः रज्ज्वा आकृष्यंते अन्ये तथा ओष्ठयोः ॥ ३६ ॥
nāsābhedena rajjvā ca tu ākṛśyante tathā apare .. bhinnāḥ kapolayoḥ rajjvā ākṛṣyaṃte anye tathā oṣṭhayoḥ .. 36 ..
छिन्नाग्रपादहस्ताश्च च्छिन्नकर्णोष्ठनासिकाः ॥ संछिन्नशिश्नवृषणाः छिन्नभिन्नांगसंधयः ॥ ३७ ॥
छिन्न-अग्र-पाद-हस्ताः च छिन्न-कर्ण-उष्ठ-नासिकाः ॥ संछिन्न-शिश्न-वृषणाः छिन्न-भिन्न-अंग-संधयः ॥ ३७ ॥
chinna-agra-pāda-hastāḥ ca chinna-karṇa-uṣṭha-nāsikāḥ .. saṃchinna-śiśna-vṛṣaṇāḥ chinna-bhinna-aṃga-saṃdhayaḥ .. 37 ..
आभिद्यमानाः कुंतैश्च भिद्यमानाश्च सायकैः ॥ इतश्चेतश्च धावंतः क्रंदमाना निराश्रयाः ॥ ३८ ॥
आभिद्यमानाः कुंतैः च भिद्यमानाः च सायकैः ॥ इतस् च इतस् च धावंतः क्रंदमानाः निराश्रयाः ॥ ३८ ॥
ābhidyamānāḥ kuṃtaiḥ ca bhidyamānāḥ ca sāyakaiḥ .. itas ca itas ca dhāvaṃtaḥ kraṃdamānāḥ nirāśrayāḥ .. 38 ..
मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ॥ कंटकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ॥ ३९॥
मुद्गरैः लोह-दण्डैः च हन्यमानाः मुहुर् मुहुर् ॥ कंटकैः विविधैः घोरैः ज्वलन-अर्क-सम-प्रभैः ॥ ३९॥
mudgaraiḥ loha-daṇḍaiḥ ca hanyamānāḥ muhur muhur .. kaṃṭakaiḥ vividhaiḥ ghoraiḥ jvalana-arka-sama-prabhaiḥ .. 39..
भिन्दिपालैर्विभियंते स्रवतः पूयशोणितम् ॥ शकृता कृमिदिग्धाश्च नीयंते विवशा नराः ॥ 5.7.४० ॥
भिन्दिपालैः विभियंते स्रवतः पूय-शोणितम् ॥ शकृता कृमि-दिग्धाः च नीयंते विवशाः नराः ॥ ५।७।४० ॥
bhindipālaiḥ vibhiyaṃte sravataḥ pūya-śoṇitam .. śakṛtā kṛmi-digdhāḥ ca nīyaṃte vivaśāḥ narāḥ .. 5.7.40 ..
याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ॥ छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ॥ ४१॥
याचमानाः च सलिलम् अन्नम् वा अपि बुभुक्षिताः ॥ छायाम् प्रार्थयमानाः च शीत-आर्ताः च अनलम् पुनर् ॥ ४१॥
yācamānāḥ ca salilam annam vā api bubhukṣitāḥ .. chāyām prārthayamānāḥ ca śīta-ārtāḥ ca analam punar .. 41..
दानहीनाः प्रयांत्येवं प्रार्थयंतस्सुखं नराः ॥ गृहीतदान पाथेयास्सुखं यांति यमालयम् ॥ ४२ ॥
दान-हीनाः प्रयान्ति एवम् प्रार्थयंतः सुखम् नराः ॥ गृहीत-दान पाथेयाः सुखम् यांति यम-आलयम् ॥ ४२ ॥
dāna-hīnāḥ prayānti evam prārthayaṃtaḥ sukham narāḥ .. gṛhīta-dāna pātheyāḥ sukham yāṃti yama-ālayam .. 42 ..
एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ॥ प्रज्ञापितास्ततो दूतैर्निवेश्यंते यमाग्रतः ॥ ॥ ४३ ॥
एवम् न्यायेन कष्टेन प्राप्ताः प्रेत-पुरम् यदा ॥ प्रज्ञापिताः ततस् दूतैः निवेश्यंते यम-अग्रतस् ॥ ॥ ४३ ॥
evam nyāyena kaṣṭena prāptāḥ preta-puram yadā .. prajñāpitāḥ tatas dūtaiḥ niveśyaṃte yama-agratas .. .. 43 ..
तत्र ये शुभकर्म्माणस्तांस्तु सम्मानयेद्यमः ॥ स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ॥ ४४॥
तत्र ये शुभ-कर्म्माणः तान् तु सम्मानयेत् यमः ॥ स्वागत-आसन-दानेन पाद्य-अर्घ्येण प्रियेण च ॥ ४४॥
tatra ye śubha-karmmāṇaḥ tān tu sammānayet yamaḥ .. svāgata-āsana-dānena pādya-arghyeṇa priyeṇa ca .. 44..
धन्या यूयं महात्मानो निगमोदितकारिणः ॥ यैश्च दिव्यसुखार्थाय भवद्भिस्सुकृतं कृतम् ॥ ४५॥
धन्याः यूयम् महात्मानः निगम-उदित-कारिणः ॥ यैः च दिव्य-सुख-अर्थाय भवद्भिः सुकृतम् कृतम् ॥ ४५॥
dhanyāḥ yūyam mahātmānaḥ nigama-udita-kāriṇaḥ .. yaiḥ ca divya-sukha-arthāya bhavadbhiḥ sukṛtam kṛtam .. 45..
दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ॥ स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम्॥४६॥
दिव्यम् विमानम् आरुह्य दिव्य-स्त्री-भोग-भूषितम् ॥ स्वर्गम् गच्छध्वम् अमलम् सर्व-काम-समन्वितम्॥४६॥
divyam vimānam āruhya divya-strī-bhoga-bhūṣitam .. svargam gacchadhvam amalam sarva-kāma-samanvitam..46..
तत्र भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ॥ यत्किंचिदल्पमशुभं पुनस्तदिह भोक्ष्यथ॥४७॥
तत्र भुक्त्वा महा-भोगान् अन्ते पुण्यस्य संक्षयात् ॥ यत् किंचिद् अल्पम् अशुभम् पुनर् तत् इह भोक्ष्यथ॥४७॥
tatra bhuktvā mahā-bhogān ante puṇyasya saṃkṣayāt .. yat kiṃcid alpam aśubham punar tat iha bhokṣyatha..47..
धर्म्मात्मानो नरा ये च मित्रभूत्वा इवात्मनः ॥ सौम्यं सुखं प्रपश्यंति धर्मराजत्वमेव च ॥ ४८॥
धर्म्म-आत्मानः नराः ये च मित्र-भूत्वाः इव आत्मनः ॥ सौम्यम् सुखम् प्रपश्यंति धर्मराज-त्वम् एव च ॥ ४८॥
dharmma-ātmānaḥ narāḥ ye ca mitra-bhūtvāḥ iva ātmanaḥ .. saumyam sukham prapaśyaṃti dharmarāja-tvam eva ca .. 48..
ये पुनः क्रूरकर्म्माणस्ते पश्यंति भयानकम् ॥ दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ४९॥
ये पुनर् क्रूर-कर्म्माणः ते पश्यंति भयानकम् ॥ दंष्ट्रा-कराल-वदनम् भृकुटी-कुटिल-ईक्षणम् ॥ ४९॥
ye punar krūra-karmmāṇaḥ te paśyaṃti bhayānakam .. daṃṣṭrā-karāla-vadanam bhṛkuṭī-kuṭila-īkṣaṇam .. 49..
ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ॥ अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम्॥5.7.५०॥
ऊर्ध्व-केशम् महा-श्मश्रुम् ऊर्ध्व-प्रस्फुरित-अधरम् ॥ अष्टादश-भुजम् क्रुद्धम् नीलांजन-चय-उपमम्॥५।७।५०॥
ūrdhva-keśam mahā-śmaśrum ūrdhva-prasphurita-adharam .. aṣṭādaśa-bhujam kruddham nīlāṃjana-caya-upamam..5.7.50..
सर्वायुधोद्धतकरं सर्वदण्डेन तर्जयन् ॥ महामहिषमारूढं दीप्ताग्निसमलोचनम्॥५१॥
सर्व-आयुध-उद्धत-करम् सर्व-दण्डेन तर्जयन् ॥ महा-महिषम् आरूढम् दीप्त-अग्नि-सम-लोचनम्॥५१॥
sarva-āyudha-uddhata-karam sarva-daṇḍena tarjayan .. mahā-mahiṣam ārūḍham dīpta-agni-sama-locanam..51..
रक्तमाल्यांबरधरं महामेरुमिवोच्छ्रितम्॥प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥ ॥ ५२॥
रक्त-माल्य-अंबर-धरम् महा-मेरुम् इव उच्छ्रितम्॥प्रलय-अम्बुद-निर्घोषम् पिबन् इव महोदधिम् ॥ ॥ ५२॥
rakta-mālya-aṃbara-dharam mahā-merum iva ucchritam..pralaya-ambuda-nirghoṣam piban iva mahodadhim .. .. 52..
ग्रसंतमिव शैलेन्द्रमुद्गिरंतमिवानलम् ॥ मृत्युश्चैव समीपस्थः कालानलसमप्रभुः ॥ ५३॥
ग्रसंतम् इव शैल-इन्द्रम् उद्गिरंतम् इव अनलम् ॥ मृत्युः च एव समीप-स्थः काल-अनल-सम-प्रभुः ॥ ५३॥
grasaṃtam iva śaila-indram udgiraṃtam iva analam .. mṛtyuḥ ca eva samīpa-sthaḥ kāla-anala-sama-prabhuḥ .. 53..
कालश्चांजनसंकाशः कृतांतश्च भयानकः ॥ मारीचोग्रमहामारी कालरात्रिश्च दारुणा ॥ ५४॥
कालः च अंजन-संकाशः कृतांतः च भयानकः ॥ मारीच-उग्र-महा-मारी कालरात्रिः च दारुणा ॥ ५४॥
kālaḥ ca aṃjana-saṃkāśaḥ kṛtāṃtaḥ ca bhayānakaḥ .. mārīca-ugra-mahā-mārī kālarātriḥ ca dāruṇā .. 54..
विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ॥ शक्तिशूलांकुशधराः पाशचक्रासिपाणयः ॥ ५५॥
विविधाः व्याधयः कुष्ठाः नाना रूपाः भय-आवहाः ॥ शक्ति-शूल-अंकुश-धराः पाश-चक्र-असि-पाणयः ॥ ५५॥
vividhāḥ vyādhayaḥ kuṣṭhāḥ nānā rūpāḥ bhaya-āvahāḥ .. śakti-śūla-aṃkuśa-dharāḥ pāśa-cakra-asi-pāṇayaḥ .. 55..
वजतुंडधरा रुद्रा क्षुरतूणधनुर्द्धराः॥नानायुधधरास्सर्वे महावीरा भयंकराः॥५६॥
वज-तुंड-धराः क्षुर-तूण-धनुः-धराः॥नाना आयुध-धराः सर्वे महा-वीराः भयंकराः॥५६॥
vaja-tuṃḍa-dharāḥ kṣura-tūṇa-dhanuḥ-dharāḥ..nānā āyudha-dharāḥ sarve mahā-vīrāḥ bhayaṃkarāḥ..56..
असंख्याता महावीराः कालाञ्जनसमप्रभाः ॥ सर्वायुधोद्यतकरा यमदूता भयानकाः ॥ ५७ ॥
असंख्याताः महा-वीराः काल-अञ्जन-सम-प्रभाः ॥ सर्व-आयुध-उद्यत-कराः यमदूताः भयानकाः ॥ ५७ ॥
asaṃkhyātāḥ mahā-vīrāḥ kāla-añjana-sama-prabhāḥ .. sarva-āyudha-udyata-karāḥ yamadūtāḥ bhayānakāḥ .. 57 ..
अनेन परिचारेण वृतं तं घोरदर्शनम् ॥ यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ॥ ५८ ॥
अनेन परिचारेण वृतम् तम् घोर-दर्शनम् ॥ यमम् पश्यंति पापिष्ठाः चित्रगुप्तम् च भीषणम् ॥ ५८ ॥
anena paricāreṇa vṛtam tam ghora-darśanam .. yamam paśyaṃti pāpiṣṭhāḥ citraguptam ca bhīṣaṇam .. 58 ..
निर्भर्त्सयति चात्यंतं यमस्तान्पापकर्म्मणः ॥ चित्रगुप्तश्च भगवान्धर्म्मवाक्यैः प्रबोधयेत् ॥ ५९ ॥
निर्भर्त्सयति च अत्यन्तम् यमः तान् पाप-कर्म्मणः ॥ चित्रगुप्तः च भगवान् धर्म्म-वाक्यैः प्रबोधयेत् ॥ ५९ ॥
nirbhartsayati ca atyantam yamaḥ tān pāpa-karmmaṇaḥ .. citraguptaḥ ca bhagavān dharmma-vākyaiḥ prabodhayet .. 59 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् नरकलोकमार्गयमदूतस्वरूपवर्णनम् नाम सप्तमः अध्यायः ॥ ७ ॥
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām narakalokamārgayamadūtasvarūpavarṇanam nāma saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In