| |
|

This overlay will guide you through the buttons:

चित्रगुप्त उवाच ।।
भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः ॥ गर्विता रूपवीर्येण परदारावमर्द्दकाः ॥ १॥
भो भो दुष्कृत-कर्म्माणः द्रव्य-अपहारकाः ॥ गर्विताः रूप-वीर्येण पर-दार-अवमर्द्दकाः ॥ १॥
bho bho duṣkṛta-karmmāṇaḥ dravya-apahārakāḥ .. garvitāḥ rūpa-vīryeṇa para-dāra-avamarddakāḥ .. 1..
यस्त्वयं क्रियते कर्म तदिदं भुज्यते पुनः ॥ तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २ ॥
यः तु अयम् क्रियते कर्म तत् इदम् भुज्यते पुनर् ॥ तत् किम् आत्म-उपघात-अर्थम् भवद्भिः दुष्कृतम् कृतम् ॥ २ ॥
yaḥ tu ayam kriyate karma tat idam bhujyate punar .. tat kim ātma-upaghāta-artham bhavadbhiḥ duṣkṛtam kṛtam .. 2 ..
इदानीं किं प्रलप्यध्वे पीड्यमानास्स्वकर्मभिः ॥ भुज्यंतां स्वानि कर्म्माणि नास्ति दोषो हि कस्यचित् ॥ ३ ॥
इदानीम् किम् प्रलप्यध्वे पीड्यमानाः स्व-कर्मभिः ॥ भुज्यंताम् स्वानि कर्म्माणि न अस्ति दोषः हि कस्यचिद् ॥ ३ ॥
idānīm kim pralapyadhve pīḍyamānāḥ sva-karmabhiḥ .. bhujyaṃtām svāni karmmāṇi na asti doṣaḥ hi kasyacid .. 3 ..
सनत्कुमार उवाच ।।
एवं ते पृथिवीपालास्संप्राप्तास्तत्समीपतः ॥ स्वकीयैः कर्म्मभिघौरैर्दुष्कर्म्मबलदर्पिणः ॥ ४ ॥
एवम् ते पृथिवीपालाः संप्राप्ताः तद्-समीपतस् ॥ स्वकीयैः कर्म्मभिः घौरैः दुष्कर्म्म-बल-दर्पिणः ॥ ४ ॥
evam te pṛthivīpālāḥ saṃprāptāḥ tad-samīpatas .. svakīyaiḥ karmmabhiḥ ghauraiḥ duṣkarmma-bala-darpiṇaḥ .. 4 ..
तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ॥ संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥ ५ ॥
तान् अपि क्रोध-संयुक्तः चित्रगुप्तः महा-प्रभुः ॥ संशिक्षयति धर्म-ज्ञः यम-राज-अनुशिक्षया ॥ ५ ॥
tān api krodha-saṃyuktaḥ citraguptaḥ mahā-prabhuḥ .. saṃśikṣayati dharma-jñaḥ yama-rāja-anuśikṣayā .. 5 ..
चित्रगुप्त उवाच।।
भो भो नृपा दुराचाराः प्रजा विध्वंसकारिणः ॥ अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६ ॥
भो भो नृपाः दुराचाराः प्रजाः विध्वंस-कारिणः ॥ अल्प-कालस्य राज्यस्य कृते किम् दुष्कृतम् कृतम् ॥ ६ ॥
bho bho nṛpāḥ durācārāḥ prajāḥ vidhvaṃsa-kāriṇaḥ .. alpa-kālasya rājyasya kṛte kim duṣkṛtam kṛtam .. 6 ..
राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ॥ यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥ ७॥
राज्य-भोगेन मोहेन बलात् अन्यायतः प्रजाः ॥ यत् दण्डिताः फलम् तस्य भुज्यताम् अधुना नृपाः ॥ ७॥
rājya-bhogena mohena balāt anyāyataḥ prajāḥ .. yat daṇḍitāḥ phalam tasya bhujyatām adhunā nṛpāḥ .. 7..
क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ॥ तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ॥ ८॥
क्व तत् राज्यम् कलत्रम् च यद्-अर्थम् अशुभम् कृतम् ॥ तत् सर्वम् संपरित्यज्य यूयम् एकाकिनः स्थिताः ॥ ८॥
kva tat rājyam kalatram ca yad-artham aśubham kṛtam .. tat sarvam saṃparityajya yūyam ekākinaḥ sthitāḥ .. 8..
पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ॥ यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥ ९ ॥
पश्यामि तत् बलम् नष्टम् येन विध्वंसिताः प्रजाः ॥ यमदूतैः योज्यमानाः अधुना कीदृशम् भवेत् ॥ ९ ॥
paśyāmi tat balam naṣṭam yena vidhvaṃsitāḥ prajāḥ .. yamadūtaiḥ yojyamānāḥ adhunā kīdṛśam bhavet .. 9 ..
सनत्कुमार उवाच ।।
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ॥ स्वानि कर्माणि शोचंति तूष्णीं तिष्ठंति पार्थिवाः ॥ 5.8.१०॥
एवम् बहुविधैः वाक्यैः उपलब्धाः यमेन ते ॥ स्वानि कर्माणि शोचंति तूष्णीम् तिष्ठंति पार्थिवाः ॥ ५।८।१०॥
evam bahuvidhaiḥ vākyaiḥ upalabdhāḥ yamena te .. svāni karmāṇi śocaṃti tūṣṇīm tiṣṭhaṃti pārthivāḥ .. 5.8.10..
इति कर्म्म समुद्दिश्य नृपाणां धर्म्मराड्यमः॥तत्पापपंकशुद्ध्यर्थमिदं दूतान्ब्रवीति च ॥ ११ ॥
इति कर्म्म समुद्दिश्य नृपाणाम् धर्म्मराज् यमः॥तद्-पाप-पंक-शुद्धि-अर्थम् इदम् दूतान् ब्रवीति च ॥ ११ ॥
iti karmma samuddiśya nṛpāṇām dharmmarāj yamaḥ..tad-pāpa-paṃka-śuddhi-artham idam dūtān bravīti ca .. 11 ..
यमराज उवाच ।।
भोभोश्चण्ड महाचंड गृहीत्वा नृपतीन्बलात् ॥ नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥ १२॥
भो भोः चण्ड महा-चंड गृहीत्वा नृपतीन् बलात् ॥ नियमेन विशुद्यध्वम् क्रमेण नरक-अग्निषु ॥ १२॥
bho bhoḥ caṇḍa mahā-caṃḍa gṛhītvā nṛpatīn balāt .. niyamena viśudyadhvam krameṇa naraka-agniṣu .. 12..
सनत्कुमार उवाच ।।
ततश्शीघ्रं समादाय नृपान्संगृह्य पादयोः॥भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥ ।सर्वप्रायेण महतातीव तप्ते शिलातले॥आस्फालयंति तरसा वज्रेणेव महाद्रुमान्॥१४॥
ततस् शीघ्रम् समादाय नृपान् संगृह्य पादयोः॥भ्रामयित्वा तु वेगेन निक्षिप्य ऊर्ध्वम् प्रगृह्य च ॥ ।सर्व-प्रायेण महता अतीव तप्ते शिला-तले॥आस्फालयन्ति तरसा वज्रेण इव महा-द्रुमान्॥१४॥
tatas śīghram samādāya nṛpān saṃgṛhya pādayoḥ..bhrāmayitvā tu vegena nikṣipya ūrdhvam pragṛhya ca .. .sarva-prāyeṇa mahatā atīva tapte śilā-tale..āsphālayanti tarasā vajreṇa iva mahā-drumān..14..
ततस्सरक्तं श्रोत्रेण स्रवते जर्जरीकृतः॥निस्संज्ञस्स सदा देही निश्चेष्टस्संप्रजायते॥१५॥
ततस् स रक्तम् श्रोत्रेण स्रवते जर्जरीकृतः॥निस्संज्ञः स सदा देही निश्चेष्टः संप्रजायते॥१५॥
tatas sa raktam śrotreṇa sravate jarjarīkṛtaḥ..nissaṃjñaḥ sa sadā dehī niśceṣṭaḥ saṃprajāyate..15..
ततस्स वायुना स्पृष्टस्सतैरुज्जीवितः पुनः॥ततः पापविशुद्ध्यर्थं क्षिपंति नरकार्णवे॥१६॥
ततस् स वायुना स्पृष्टः स तैः उज्जीवितः पुनर्॥ततस् पाप-विशुद्धि-अर्थम् क्षिपंति नरक-अर्णवे॥१६॥
tatas sa vāyunā spṛṣṭaḥ sa taiḥ ujjīvitaḥ punar..tatas pāpa-viśuddhi-artham kṣipaṃti naraka-arṇave..16..
अष्टाविंशतिसंख्याभिः क्षित्यधस्सप्तकोटयः॥सप्तमस्य तलस्यांते घोरे तमसि संस्थितः॥१७॥
अष्टाविंशति-संख्याभिः क्षिति-अधस् सप्त-कोटयः॥सप्तमस्य तलस्य अंते घोरे तमसि संस्थितः॥१७॥
aṣṭāviṃśati-saṃkhyābhiḥ kṣiti-adhas sapta-koṭayaḥ..saptamasya talasya aṃte ghore tamasi saṃsthitaḥ..17..
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ॥ अतिघोरा महाघोरा घोररूपा च पंचमी ॥ १८॥
घोर-आख्या प्रथमा कोटिः सु घोरा तद्-अधस् स्थिता ॥ अतिघोरा महाघोरा घोररूपा च पंचमी ॥ १८॥
ghora-ākhyā prathamā koṭiḥ su ghorā tad-adhas sthitā .. atighorā mahāghorā ghorarūpā ca paṃcamī .. 18..
षष्ठी तलातलाख्या च सप्तमी च भयानका॥अष्टमी कालरात्रिश्च नवमी च भयोत्कटा॥१९॥
षष्ठी तलातल-आख्या च सप्तमी च भयानका॥अष्टमी कालरात्रिः च नवमी च भय-उत्कटा॥१९॥
ṣaṣṭhī talātala-ākhyā ca saptamī ca bhayānakā..aṣṭamī kālarātriḥ ca navamī ca bhaya-utkaṭā..19..
दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः ॥ चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ॥ 5.8.२० ॥
दशमी तद्-अधस् चण्डा महाचण्डा ततस् अपि अधस् ॥ चण्डकोलाहला च अन्या प्रचण्डा चण्डनायिका ॥ ५।८।२० ॥
daśamī tad-adhas caṇḍā mahācaṇḍā tatas api adhas .. caṇḍakolāhalā ca anyā pracaṇḍā caṇḍanāyikā .. 5.8.20 ..
पद्मा पद्मावती भीता भीमा भीषणनायिका ॥ कराला विकराला च वज्राविंशतिमा स्मृता ॥ २१॥
॥ कराला विकराला च वज्रा-विंशतिमा स्मृता ॥ २१॥
.. karālā vikarālā ca vajrā-viṃśatimā smṛtā .. 21..
त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा॥समा भीमबला भोग्रा दीप्तप्रायेति चान्तिमी॥२२॥
त्रि-कोणा पञ्च-कोणा च सु दीर्घा च अखिल-आर्ति-दा॥समा भीमबला भोग्रा दीप्तप्राया इति च अन्तिमी॥२२॥
tri-koṇā pañca-koṇā ca su dīrghā ca akhila-ārti-dā..samā bhīmabalā bhogrā dīptaprāyā iti ca antimī..22..
इति ते नामतः प्रोक्ता घोरा नरककोटयः॥अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः॥२३॥
इति ते नामतः प्रोक्ताः घोराः नरक-कोटयः॥अष्टाविंशतिः एव एताः पापानाम् यातना-आत्मिकाः॥२३॥
iti te nāmataḥ proktāḥ ghorāḥ naraka-koṭayaḥ..aṣṭāviṃśatiḥ eva etāḥ pāpānām yātanā-ātmikāḥ..23..
तासां क्रमेण विज्ञेयाः पंच पञ्चैव नायकाः॥प्रत्येकं सर्वकोटीनां नामतस्संनिबोधत ॥ २४॥
तासाम् क्रमेण विज्ञेयाः पंच पञ्च एव नायकाः॥प्रत्येकम् सर्व-कोटीनाम् नामतः संनिबोधत ॥ २४॥
tāsām krameṇa vijñeyāḥ paṃca pañca eva nāyakāḥ..pratyekam sarva-koṭīnām nāmataḥ saṃnibodhata .. 24..
रौरवः प्रथमस्तेषां रुवंते यत्र देहिनः ॥ महारौरवपीडाभिर्महांतोऽपि रुदंति च ॥ २५ ॥
रौरवः प्रथमः तेषाम् रुवंते यत्र देहिनः ॥ महारौरव-पीडाभिः महान्तः अपि रुदंति च ॥ २५ ॥
rauravaḥ prathamaḥ teṣām ruvaṃte yatra dehinaḥ .. mahāraurava-pīḍābhiḥ mahāntaḥ api rudaṃti ca .. 25 ..
ततश्शीतं तथा चोष्णं पंचाद्या नायकास्स्मृताः ॥ सुघोरस्तु महातीक्ष्णस्तथा संजीवनः स्मृतः ॥ २६॥
ततस् शीतम् तथा च उष्णम् पंच-आद्याः नायकाः स्मृताः ॥ सुघोरः तु महा-तीक्ष्णः तथा संजीवनः स्मृतः ॥ २६॥
tatas śītam tathā ca uṣṇam paṃca-ādyāḥ nāyakāḥ smṛtāḥ .. sughoraḥ tu mahā-tīkṣṇaḥ tathā saṃjīvanaḥ smṛtaḥ .. 26..
महातमो विलोमश्च विलोपश्चापि कंटक॥तीव्रवेगः करालश्च विकरालः प्रकंपनः ॥ २७॥
महातमः विलोमः च विलोपः च अपि कंटक॥तीव्र-वेगः करालः च विकरालः प्रकंपनः ॥ २७॥
mahātamaḥ vilomaḥ ca vilopaḥ ca api kaṃṭaka..tīvra-vegaḥ karālaḥ ca vikarālaḥ prakaṃpanaḥ .. 27..
महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः ॥ सूचीमुखस्सुनेतिश्च खादकस्सुप्रपीडनः ॥ २८ ॥
महावक्रः च कालः च कालसूत्रः प्रगर्जनः ॥ सूचीमुखः सुनेतिः च खादकः सुप्रपीडनः ॥ २८ ॥
mahāvakraḥ ca kālaḥ ca kālasūtraḥ pragarjanaḥ .. sūcīmukhaḥ sunetiḥ ca khādakaḥ suprapīḍanaḥ .. 28 ..
कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः ॥ अंगारराशिभवनं मेरुरसृक्प्रहितस्ततः ॥ २९॥
कुम्भीपाक-सुपाकौ च क्रकचः च अति दारुणः ॥ अंगार-राशि-भवनम् मेरुः असृज्-प्रहितः ततस् ॥ २९॥
kumbhīpāka-supākau ca krakacaḥ ca ati dāruṇaḥ .. aṃgāra-rāśi-bhavanam meruḥ asṛj-prahitaḥ tatas .. 29..
तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः॥तप्तजंतुः पंकलेपः प्रतिमांसस्त्रपूद्भवः॥5.8.३०॥
तीक्ष्णतुण्डः च शकुनिः महा-संवर्तकः क्रतुः॥तप्तजंतुः पंकलेपः प्रतिमांसः त्रपूद्भवः॥५।८।३०॥
tīkṣṇatuṇḍaḥ ca śakuniḥ mahā-saṃvartakaḥ kratuḥ..taptajaṃtuḥ paṃkalepaḥ pratimāṃsaḥ trapūdbhavaḥ..5.8.30..
उच्छ्वासस्सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः॥दुरिष्टस्सुमहावादः प्रवादस्सुप्रतापनः ॥ ३१॥
सु दीर्घः कूटशाल्मलिः॥दुरिष्टः सु महा-वादः प्रवादः सु प्रतापनः ॥ ३१॥
su dīrghaḥ kūṭaśālmaliḥ..duriṣṭaḥ su mahā-vādaḥ pravādaḥ su pratāpanaḥ .. 31..
ततो मेघो वृषः शाल्मस्सिंहव्याघ्रगजाननाः॥श्वसूकराजमहिषघूककोकवृकाननाः॥३२॥
ततस् मेघः वृषः शाल्मः सिंह-व्याघ्र-गज-आननाः॥श्व-सूक-राज-महिष-घूक-कोक-वृक-आननाः॥३२॥
tatas meghaḥ vṛṣaḥ śālmaḥ siṃha-vyāghra-gaja-ānanāḥ..śva-sūka-rāja-mahiṣa-ghūka-koka-vṛka-ānanāḥ..32..
ग्राहकुंभीननक्राख्या स्सर्पकूर्माख्यवायसाः॥गृध्रोलूकहलोकाख्याः शार्दूलक्रथकर्कटाः॥३३॥
ग्राह-कुंभी-ननक्र-आख्याः स्सर्प-कूर्म-आख्य-वायसाः॥गृध्र-उलूक-हलोक-आख्याः शार्दूल-क्रथ-कर्कटाः॥३३॥
grāha-kuṃbhī-nanakra-ākhyāḥ ssarpa-kūrma-ākhya-vāyasāḥ..gṛdhra-ulūka-haloka-ākhyāḥ śārdūla-kratha-karkaṭāḥ..33..
मंडूकाः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः॥कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ॥ ३४॥
मंडूकाः पूति-वक्त्राः च रक्त-अक्षः पूतिमृत्तिकाः॥कणधूम्रः तथा अग्निः च कृमिगन्धिवपुः तथा ॥ ३४॥
maṃḍūkāḥ pūti-vaktrāḥ ca rakta-akṣaḥ pūtimṛttikāḥ..kaṇadhūmraḥ tathā agniḥ ca kṛmigandhivapuḥ tathā .. 34..
अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभश्श्वभोजनः ॥ लाला भेक्षांत्रभक्षौ च सर्वभक्षः सुदारुणः॥३५॥
अग्नीध्रः च अप्रतिष्ठः च रुधिराभः श्वभोजनः ॥ लाला भेक्ष-अंत्र-भक्षौ च सर्व-भक्षः सु दारुणः॥३५॥
agnīdhraḥ ca apratiṣṭhaḥ ca rudhirābhaḥ śvabhojanaḥ .. lālā bhekṣa-aṃtra-bhakṣau ca sarva-bhakṣaḥ su dāruṇaḥ..35..
कंटकस्सुविशालश्च विकटः कटपूतनः॥अंबरीषः कटाहश्च कष्टा वैतरणी नदी॥३६॥
कंटकः सुविशालः च विकटः कटपूतनः॥अंबरीषः कटाहः च कष्टा वैतरणी नदी॥३६॥
kaṃṭakaḥ suviśālaḥ ca vikaṭaḥ kaṭapūtanaḥ..aṃbarīṣaḥ kaṭāhaḥ ca kaṣṭā vaitaraṇī nadī..36..
सुतप्तलोहशयन एकपादः प्रपूरणः ॥ असितालवनं घोरमस्थिभंगः सुपूरणः॥३७॥
सु तप्त-लोह-शयनः एक-पादः प्रपूरणः ॥ असिताल-वनम् घोरम् अस्थि-भंगः सु पूरणः॥३७॥
su tapta-loha-śayanaḥ eka-pādaḥ prapūraṇaḥ .. asitāla-vanam ghoram asthi-bhaṃgaḥ su pūraṇaḥ..37..
विलातसोऽसुयंत्रोऽपि कूटपाशः प्रमर्दनः ॥ महाचूर्ण्णो सुचूर्ण्णोऽपि तप्तलोहमयं तथा ॥ ३८॥
विलातसः असुयंत्रः अपि कूटपाशः प्रमर्दनः ॥ सु चूर्ण्णः अपि तप्त-लोह-मयम् तथा ॥ ३८॥
vilātasaḥ asuyaṃtraḥ api kūṭapāśaḥ pramardanaḥ .. su cūrṇṇaḥ api tapta-loha-mayam tathā .. 38..
पर्वतः क्षुरधारा च तथा यमलपर्वतः ॥ मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ॥ ३९॥
पर्वतः क्षुरधारा च तथा यमल-पर्वतः ॥ मूत्र-विष्ठा-अश्रु-कूपः च क्षार-कूपः च शीतलः ॥ ३९॥
parvataḥ kṣuradhārā ca tathā yamala-parvataḥ .. mūtra-viṣṭhā-aśru-kūpaḥ ca kṣāra-kūpaḥ ca śītalaḥ .. 39..
मुसलोलूखलं यन्त्रं शिलाशकटलांगलम्॥तालपत्रासिगहनं महाशकटमण्डपम्॥5.8.४०॥
मुसल-उलूखलम् यन्त्रम् शिला-शकट-लांगलम्॥तालपत्र-असि-गहनम् महा-शकट-मण्डपम्॥५।८।४०॥
musala-ulūkhalam yantram śilā-śakaṭa-lāṃgalam..tālapatra-asi-gahanam mahā-śakaṭa-maṇḍapam..5.8.40..
संमोहमस्थिभंगश्च तप्तश्चलमयो गुडम्॥बहुदुखं महाक्लेशः कश्मलं समलं मलात् ॥ ४१॥
संमोहम् अस्थि-भंगः च तप्तः चल-मयः गुडम्॥बहु-दुखम् महा-क्लेशः कश्मलम् स मलम् मलात् ॥ ४१॥
saṃmoham asthi-bhaṃgaḥ ca taptaḥ cala-mayaḥ guḍam..bahu-dukham mahā-kleśaḥ kaśmalam sa malam malāt .. 41..
हालाहलो विरूपश्च स्वरूपश्च यमानुगः ॥ ,एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ॥ ४२ ॥
हालाहलः विरूपः च स्वरूपः च यम-अनुगः ॥ ,एक-पादः त्रि-पादः च तीव्रः च अ चीवरम् तमः ॥ ४२ ॥
hālāhalaḥ virūpaḥ ca svarūpaḥ ca yama-anugaḥ .. ,eka-pādaḥ tri-pādaḥ ca tīvraḥ ca a cīvaram tamaḥ .. 42 ..
अष्टाविंशतिरित्येते क्रमशः पंचपंचकम् ॥ कोटीनामानुपूर्व्येण पंच पंचैव नायकाः ॥ ।४३॥
अष्टाविंशतिः इति एते क्रमशस् पंच-पंचकम् ॥ कोटीनाम् आनुपूर्व्येण पंच पंच एव नायकाः ॥ ।४३॥
aṣṭāviṃśatiḥ iti ete kramaśas paṃca-paṃcakam .. koṭīnām ānupūrvyeṇa paṃca paṃca eva nāyakāḥ .. .43..
रौरवाय प्रबोध्यंते नरकाणां शतं स्मृतम्॥चत्वारिंशच्छतं प्रोक्तं महानरकमण्डलम् ॥ ४४ ॥
रौरवाय नरकाणाम् शतम् स्मृतम्॥चत्वारिंशत्-शतम् प्रोक्तम् महानरक-मण्डलम् ॥ ४४ ॥
rauravāya narakāṇām śatam smṛtam..catvāriṃśat-śatam proktam mahānaraka-maṇḍalam .. 44 ..
इति ते व्यास संप्रोक्ता नरकस्य स्थितिर्मया ॥ प्रसंख्यानाच्च वैराग्यं शृणु पापगतिं च ताम् ॥ ४५ ॥
इति ते व्यास संप्रोक्ता नरकस्य स्थितिः मया ॥ प्रसंख्यानात् च वैराग्यम् शृणु पाप-गतिम् च ताम् ॥ ४५ ॥
iti te vyāsa saṃproktā narakasya sthitiḥ mayā .. prasaṃkhyānāt ca vairāgyam śṛṇu pāpa-gatim ca tām .. 45 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ॥ ८
इति श्री-शिव-महापुराणे पञ्चम्याम् उमासंहितायाम् नरकलोकवर्णनम् नाम अष्टमः अध्यायः ॥ ८
iti śrī-śiva-mahāpurāṇe pañcamyām umāsaṃhitāyām narakalokavarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In