| |
|

This overlay will guide you through the buttons:

व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१॥
नमः शिवाय सोमाय स गणाय स सूनवे ॥ प्रधान-पुरुष-ईशाय सर्ग-स्थिति-अंत-हेतवे ॥ ७।१,१।१॥
namaḥ śivāya somāya sa gaṇāya sa sūnave .. pradhāna-puruṣa-īśāya sarga-sthiti-aṃta-hetave .. 7.1,1.1..
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२॥
शक्तिः अप्रतिमा यस्य हि ऐश्वर्यम् च अपि सर्वगम् ॥ स्वामि-त्वम् च विभु-त्वम् च स्वभावम् संप्रचक्षते ॥ ७।१,१।२॥
śaktiḥ apratimā yasya hi aiśvaryam ca api sarvagam .. svāmi-tvam ca vibhu-tvam ca svabhāvam saṃpracakṣate .. 7.1,1.2..
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३॥
तम् अजम् विश्वकर्माणम् शाश्वतम् शिवम् अव्ययम् ॥ महादेवम् महात्मानम् व्रजामि शरणम् शिवम् ॥ ७।१,१।३॥
tam ajam viśvakarmāṇam śāśvatam śivam avyayam .. mahādevam mahātmānam vrajāmi śaraṇam śivam .. 7.1,1.3..
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४॥
धर्मक्षेत्रे महा-तीर्थे गंगा-कालिंदिसंगमे ॥ प्रयागे नैमिष-अरण्ये ब्रह्म-लोकस्य वर्त्मनि ॥ ७।१,१।४॥
dharmakṣetre mahā-tīrthe gaṃgā-kāliṃdisaṃgame .. prayāge naimiṣa-araṇye brahma-lokasya vartmani .. 7.1,1.4..
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५॥
मुनयः शंसित-आत्मानः सत्य-व्रत-परायणाः ॥ महा-ओजसः महाभागाः महा-सत्रम् वितेनिरे ॥ ७।१,१।५॥
munayaḥ śaṃsita-ātmānaḥ satya-vrata-parāyaṇāḥ .. mahā-ojasaḥ mahābhāgāḥ mahā-satram vitenire .. 7.1,1.5..
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६॥
तत्र सत्रम् समाकर्ण्य तेषाम् अक्लिष्ट-कर्मणाम् ॥ साक्षात् सत्यवती-सूनोः वेदव्यासस्य धीमतः ॥ ७।१,१।६॥
tatra satram samākarṇya teṣām akliṣṭa-karmaṇām .. sākṣāt satyavatī-sūnoḥ vedavyāsasya dhīmataḥ .. 7.1,1.6..
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७॥
शिष्यः महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ पञ्च-अवयव-युक्तस्य वाक्यस्य गुण-दोष-विद् ॥ ७।१,१।७॥
śiṣyaḥ mahātmā medhāvī triṣu lokeṣu viśrutaḥ .. pañca-avayava-yuktasya vākyasya guṇa-doṣa-vid .. 7.1,1.7..
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८॥
उत्तर-उत्तर-वक्ता च ब्रुवतः अपि बृहस्पतेः ॥ मधुरः श्रवणानाम् च मनोज्ञ-पद-पर्वणाम् ॥ ७।१,१।८॥
uttara-uttara-vaktā ca bruvataḥ api bṛhaspateḥ .. madhuraḥ śravaṇānām ca manojña-pada-parvaṇām .. 7.1,1.8..
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९॥
कथानाम् निपुणः वक्ता काल-विद् नय-विद् कविः ॥ आजगाम स तम् देशम् सूतः पौराणिक-उत्तमः ॥ ७।१,१।९॥
kathānām nipuṇaḥ vaktā kāla-vid naya-vid kaviḥ .. ājagāma sa tam deśam sūtaḥ paurāṇika-uttamaḥ .. 7.1,1.9..
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१०॥
तम् दृष्ट्वा सूतमायान्तम् मुनयः हृष्ट-मानसाः ॥ तस्मै साम च पूजाम् च यथावत् प्रत्यपादयन् ॥ ७।१,१।१०॥
tam dṛṣṭvā sūtamāyāntam munayaḥ hṛṣṭa-mānasāḥ .. tasmai sāma ca pūjām ca yathāvat pratyapādayan .. 7.1,1.10..
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११॥
प्रतिगृह्य सताम् पूजाम् मुनिभिः प्रतिपादिताम् ॥ उद्दिष्ट-मानसम् भेजे नियुक्तः युक्तम् आत्मनः ॥ ७।१,१।११॥
pratigṛhya satām pūjām munibhiḥ pratipāditām .. uddiṣṭa-mānasam bheje niyuktaḥ yuktam ātmanaḥ .. 7.1,1.11..
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२॥
ततस् तद्-संगमात् एव मुनीनाम् भावितात्मनाम् ॥ स उत्कंठम् अभवत् चितम् श्रोतुम् पौराणिकीम् कथाम् ॥ ७।१,१।१२॥
tatas tad-saṃgamāt eva munīnām bhāvitātmanām .. sa utkaṃṭham abhavat citam śrotum paurāṇikīm kathām .. 7.1,1.12..
तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ॥ अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३॥
तदा तम् अनुकूलाभिः वाग्भिः पूज्य महा-ऋषयः ॥ अतीव अभिमुखम् कृत्वा वचनम् च इदम् अब्रुवन् ॥ ७।१,१।१३॥
tadā tam anukūlābhiḥ vāgbhiḥ pūjya mahā-ṛṣayaḥ .. atīva abhimukham kṛtvā vacanam ca idam abruvan .. 7.1,1.13..
ऋषय ऊचुः॥
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४॥
रोमहर्षण सर्वज्ञ भवान् नः भाग्य-गौरवात् ॥ संप्राप्ता उद्य महाभाग शैव-राज महामते ॥ ७।१,१।१४॥
romaharṣaṇa sarvajña bhavān naḥ bhāgya-gauravāt .. saṃprāptā udya mahābhāga śaiva-rāja mahāmate .. 7.1,1.14..
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५॥
पुराण-विद्याम् अखिलाम् व्यासात् प्रत्यक्षम् ईयिवान् ॥ तस्मात् आश्चर्य-भूतानाम् कथानाम् त्वम् हि भाजनम् ॥ ७।१,१।१५॥
purāṇa-vidyām akhilām vyāsāt pratyakṣam īyivān .. tasmāt āścarya-bhūtānām kathānām tvam hi bhājanam .. 7.1,1.15..
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६॥
रत्नानाम् उरु-साराणाम् रत्न-आकरः इव अर्णवः ॥ यत् च भूतम् यत् च भव्यम् यत् च अन्यत् वस्तु वर्तते ॥ ७।१,१।१६॥
ratnānām uru-sārāṇām ratna-ākaraḥ iva arṇavaḥ .. yat ca bhūtam yat ca bhavyam yat ca anyat vastu vartate .. 7.1,1.16..
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७॥
न तव अ विदितम् किञ्चिद् त्रिषु लोकेषु विद्यते ॥ त्वम् अदृष्ट-वशात् अस्मद्-दर्शन-अर्थम् इह आगतः ॥ ७।१,१।१७॥
na tava a viditam kiñcid triṣu lokeṣu vidyate .. tvam adṛṣṭa-vaśāt asmad-darśana-artham iha āgataḥ .. 7.1,1.17..
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१७॥
अकुर्वन् किम् अपि श्रेयः न वृथा गन्तुम् अर्हसि ॥ तस्मात् श्राव्यतरम् पुण्यम् सत्-कथा-ज्ञान-संहितम् ॥ ७।१,१।१७॥
akurvan kim api śreyaḥ na vṛthā gantum arhasi .. tasmāt śrāvyataram puṇyam sat-kathā-jñāna-saṃhitam .. 7.1,1.17..
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१८॥
वेदांत-सार-सर्वस्वम् पुराणम् श्रावय आशु नः ॥ एवम् अभ्यर्थितः सूतः मुनिभिः वेद-वादिभिः ॥ ७।१,१।१८॥
vedāṃta-sāra-sarvasvam purāṇam śrāvaya āśu naḥ .. evam abhyarthitaḥ sūtaḥ munibhiḥ veda-vādibhiḥ .. 7.1,1.18..
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ सूत उवाच ७.१,१.१९॥
श्लक्ष्णाम् च न्याय-संयुक्ताम् प्रत्युवाच शुभाम् गिरम् ॥ सूतः उवाच।१,१।१९॥
ślakṣṇām ca nyāya-saṃyuktām pratyuvāca śubhām giram .. sūtaḥ uvāca.1,1.19..
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२०॥
पूजितः अनुगृहीतः च भवद्भिः इति चोदितः ॥ कस्मात् सम्यक् न विब्रूयाम् पुराणम् ऋषि-पूजितम् ॥ ७।१,१।२०॥
pūjitaḥ anugṛhītaḥ ca bhavadbhiḥ iti coditaḥ .. kasmāt samyak na vibrūyām purāṇam ṛṣi-pūjitam .. 7.1,1.20..
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१॥
अभिवंद्य महादेवम् देवीम् स्कंदम् विनायकम् ॥ नंदिनम् च तथा व्यासम् साक्षात् सत्यवती-सुतम् ॥ ७।१,१।२१॥
abhivaṃdya mahādevam devīm skaṃdam vināyakam .. naṃdinam ca tathā vyāsam sākṣāt satyavatī-sutam .. 7.1,1.21..
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२॥
वक्ष्यामि परमम् पुण्यम् पुराणम् वेद-संमितम् ॥ शिव-ज्ञान-अर्णवम् साक्षात् भक्ति-मुक्ति-फल-प्रदम् ॥ ७।१,१।२२॥
vakṣyāmi paramam puṇyam purāṇam veda-saṃmitam .. śiva-jñāna-arṇavam sākṣāt bhakti-mukti-phala-pradam .. 7.1,1.22..
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३॥
शब्द-अर्थ-न्याय-संयुक्तैः रागम् आर्थैः विभूषितम् ॥ श्वेतकल्प-प्रसंगेन वायुना कथितम् पुरा ॥ ७।१,१।२३॥
śabda-artha-nyāya-saṃyuktaiḥ rāgam ārthaiḥ vibhūṣitam .. śvetakalpa-prasaṃgena vāyunā kathitam purā .. 7.1,1.23..
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४॥
विद्या-स्थानानि सर्वाणि पुराण-अनुक्रमम् तथा ॥ तद्-पुराणस्य च उत्पत्तिम् ब्रुवतः मे निबोधत ॥ ७।१,१।२४॥
vidyā-sthānāni sarvāṇi purāṇa-anukramam tathā .. tad-purāṇasya ca utpattim bruvataḥ me nibodhata .. 7.1,1.24..
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५॥
अंगानि वेदाः चत्वारः मीमांसा-न्याय-विस्तरः ॥ पुराणम् धर्म-शास्त्रम् च विद्याः चेताः चतुर्दश ॥ ७।१,१।२५॥
aṃgāni vedāḥ catvāraḥ mīmāṃsā-nyāya-vistaraḥ .. purāṇam dharma-śāstram ca vidyāḥ cetāḥ caturdaśa .. 7.1,1.25..
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६॥
आयुर्वेदः धनुर्वेदः गांधर्वः च इति अनुक्रमात् ॥ अर्थशास्त्रम् परम् तस्मात् विद्याः हि अष्टादश स्मृताः ॥ ७।१,१।२६॥
āyurvedaḥ dhanurvedaḥ gāṃdharvaḥ ca iti anukramāt .. arthaśāstram param tasmāt vidyāḥ hi aṣṭādaśa smṛtāḥ .. 7.1,1.26..
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७॥
अष्टादशानाम् विद्यानाम् एतासाम् भिन्न-वर्त्मनाम् ॥ आदिकर्ता कविः साक्षात् शूलपाणिः इति श्रुतिः ॥ ७।१,१।२७॥
aṣṭādaśānām vidyānām etāsām bhinna-vartmanām .. ādikartā kaviḥ sākṣāt śūlapāṇiḥ iti śrutiḥ .. 7.1,1.27..
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८॥
स हि सर्व-जगत्-नाथः सिसृक्षुः अखिलम् जगत् ॥ ब्रह्माणम् विदधे साक्षात् पुत्रम् अग्रे सनातनम् ॥ ७।१,१।२८॥
sa hi sarva-jagat-nāthaḥ sisṛkṣuḥ akhilam jagat .. brahmāṇam vidadhe sākṣāt putram agre sanātanam .. 7.1,1.28..
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९॥
तस्मै प्रथम-पुत्राय ब्रह्मणे विश्वयोनये ॥ विद्याः च इमाः ददौ पूर्वम् विश्व-सृष्टि-अर्थम् ईश्वरः ॥ ७।१,१।२९॥
tasmai prathama-putrāya brahmaṇe viśvayonaye .. vidyāḥ ca imāḥ dadau pūrvam viśva-sṛṣṭi-artham īśvaraḥ .. 7.1,1.29..
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३०॥
पालनाय हरिम् देवम् रक्षा-शक्तिम् ददौ ततस् ॥ मध्यमम् तनयम् विष्णुम् पातारम् ब्रह्मणः अपि हि ॥ ७।१,१।३०॥
pālanāya harim devam rakṣā-śaktim dadau tatas .. madhyamam tanayam viṣṇum pātāram brahmaṇaḥ api hi .. 7.1,1.30..
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१॥
लब्ध-विद्येन विधिना प्रजा-सृष्टिम् वितन्वता ॥ प्रथमम् सर्व-शास्त्राणाम् पुराणम् ब्रह्मणा स्मृतम् ॥ ७।१,१।३१॥
labdha-vidyena vidhinā prajā-sṛṣṭim vitanvatā .. prathamam sarva-śāstrāṇām purāṇam brahmaṇā smṛtam .. 7.1,1.31..
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२॥
अनंतरम् तु वक्त्रेभ्यः वेदाः तस्य विनिर्गताः ॥ प्रवृत्तिः सर्व-शास्त्राणाम् तद्-मुखात् अभवत् ततस् ॥ ७।१,१।३२॥
anaṃtaram tu vaktrebhyaḥ vedāḥ tasya vinirgatāḥ .. pravṛttiḥ sarva-śāstrāṇām tad-mukhāt abhavat tatas .. 7.1,1.32..
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३॥
यदा अस्य विस्तरम् शक्ताः न अधिगंतुम् प्रजाः भुवि ॥ तदा विद्या-समास-अर्थम् विश्वेश्वर-नियोगतः ॥ ७।१,१।३३॥
yadā asya vistaram śaktāḥ na adhigaṃtum prajāḥ bhuvi .. tadā vidyā-samāsa-artham viśveśvara-niyogataḥ .. 7.1,1.33..
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४॥
द्वापर-अंतेषु विश्वात्मा विष्णुः विश्वंभरः प्रभुः ॥ व्यास-नाम्ना चरति अस्मिन् अवतीर्य मही-तले ॥ ७।१,१।३४॥
dvāpara-aṃteṣu viśvātmā viṣṇuḥ viśvaṃbharaḥ prabhuḥ .. vyāsa-nāmnā carati asmin avatīrya mahī-tale .. 7.1,1.34..
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५॥
एवम् व्यस्ताः च वेदाः च द्वापरे द्वापरे द्विजाः ॥ निर्मितानि पुराणानि अन्यानि च ततस् परम् ॥ ७।१,१।३५॥
evam vyastāḥ ca vedāḥ ca dvāpare dvāpare dvijāḥ .. nirmitāni purāṇāni anyāni ca tatas param .. 7.1,1.35..
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६॥
स पुनर् द्वापरे च अस्मिन् कृष्णद्वैपायन-आख्यया ॥ अरण्याम् इव हव्य-आशी सत्यवत्याम् अजायत ॥ ७।१,१।३६॥
sa punar dvāpare ca asmin kṛṣṇadvaipāyana-ākhyayā .. araṇyām iva havya-āśī satyavatyām ajāyata .. 7.1,1.36..
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७॥
संक्षिप्य स पुनर् वेदान् चतुर्धा कृतवान् मुनिः ॥ व्यस्त-वेद-तया लोके वेदव्यासः इति श्रुतः ॥ ७।१,१।३७॥
saṃkṣipya sa punar vedān caturdhā kṛtavān muniḥ .. vyasta-veda-tayā loke vedavyāsaḥ iti śrutaḥ .. 7.1,1.37..
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८॥
पुराणानाम् च संक्षिप्तम् चतुर्-लक्ष-प्रमाणतः ॥ अद्य अपि देव-लोके तत् शतकोटि-प्रविस्तरम् ॥ ७।१,१।३८॥
purāṇānām ca saṃkṣiptam catur-lakṣa-pramāṇataḥ .. adya api deva-loke tat śatakoṭi-pravistaram .. 7.1,1.38..
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९॥
यः विद्यात् चतुरः वेदान् सांग-उपणिषदान् द्विजः ॥ न चेद् पुराणम् संविद्यात् न एव स स्यात् विचक्षणः ॥ ७।१,१।३९॥
yaḥ vidyāt caturaḥ vedān sāṃga-upaṇiṣadān dvijaḥ .. na ced purāṇam saṃvidyāt na eva sa syāt vicakṣaṇaḥ .. 7.1,1.39..
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४०॥
इतिहास-पुराणाभ्याम् वेदम् समुपबृंहयेत् ॥ बिभेति अल्प-श्रुतात् वेदः माम् अयम् प्रतरिष्यति ॥ ७।१,१।४०॥
itihāsa-purāṇābhyām vedam samupabṛṃhayet .. bibheti alpa-śrutāt vedaḥ mām ayam pratariṣyati .. 7.1,1.40..
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१॥
सर्गः च प्रतिसर्गः च वंशः मन्वंतराणि च ॥ वंशानुचरितम् च एव पुराणम् पञ्च-लक्षणम् ॥ ७।१,१।४१॥
sargaḥ ca pratisargaḥ ca vaṃśaḥ manvaṃtarāṇi ca .. vaṃśānucaritam ca eva purāṇam pañca-lakṣaṇam .. 7.1,1.41..
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२॥
दशधा च अष्टधा च एतत् पुराणम् उपदिश्यते ॥ बृहत् सूक्ष्म-प्रभेदेन मुनिभिः तत्त्व-वित्तमैः ॥ ७।१,१।४२॥
daśadhā ca aṣṭadhā ca etat purāṇam upadiśyate .. bṛhat sūkṣma-prabhedena munibhiḥ tattva-vittamaiḥ .. 7.1,1.42..
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३॥
ब्राह्मम् पाद्मम् वैष्णवम् च शैवम् भागवतम् तथा ॥ भविष्यम् नारदीयम् च मार्कंडेयम् अतस् परम् ॥ ७।१,१।४३॥
brāhmam pādmam vaiṣṇavam ca śaivam bhāgavatam tathā .. bhaviṣyam nāradīyam ca mārkaṃḍeyam atas param .. 7.1,1.43..
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४॥
आग्नेयम् ब्रह्मवैवर्तम् लैंगम् वाराहम् एव च ॥ स्कान्दम् च वामनम् च एव कौर्म्यम् मात्स्यम् च गारुडम् ॥ ७।१,१।४४॥
āgneyam brahmavaivartam laiṃgam vārāham eva ca .. skāndam ca vāmanam ca eva kaurmyam mātsyam ca gāruḍam .. 7.1,1.44..
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५॥
ब्रह्मांडम् च इति पुण्यः अयम् पुराणानाम् अनुक्रमः ॥ तत्र शैवम् तुरीयम् यत् शार्वम् सर्व-अर्थ-साधकम् ॥ ७।१,१।४५॥
brahmāṃḍam ca iti puṇyaḥ ayam purāṇānām anukramaḥ .. tatra śaivam turīyam yat śārvam sarva-artha-sādhakam .. 7.1,1.45..
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६॥
ग्रंथः लक्ष-प्रमाणम् तत् व्यस्तम् द्वादश-संहितम् ॥ निर्मितम् तत् शिवेन एव तत्र धर्मः प्रतिष्ठितः ॥ ७।१,१।४६॥
graṃthaḥ lakṣa-pramāṇam tat vyastam dvādaśa-saṃhitam .. nirmitam tat śivena eva tatra dharmaḥ pratiṣṭhitaḥ .. 7.1,1.46..
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७॥
तद्-उक्तेन एव धर्मेण शैवाः त्रैवर्णिकाः नराः ॥ तस्मात् विमुकुतिम् अन्विच्छन् शिवम् एव समाश्रयेत् ॥ ७।१,१।४७॥
tad-uktena eva dharmeṇa śaivāḥ traivarṇikāḥ narāḥ .. tasmāt vimukutim anvicchan śivam eva samāśrayet .. 7.1,1.47..
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४८॥
तम् आश्रित्य एव देवानाम् अपि मुक्तिः न च अन्यथा ॥ यत् इदम् शैवम् आख्यातम् पुराणम् वेद-संमितम् ॥ ७।१,१।४८॥
tam āśritya eva devānām api muktiḥ na ca anyathā .. yat idam śaivam ākhyātam purāṇam veda-saṃmitam .. 7.1,1.48..
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.४९॥
तस्य भेदान् समासेन ब्रुवतः मे निबोधत ॥ विद्येश्वरम् तथा रौद्रम् वैनायकम् अनुत्तमम् ॥ ७।१,१।४९॥
tasya bhedān samāsena bruvataḥ me nibodhata .. vidyeśvaram tathā raudram vaināyakam anuttamam .. 7.1,1.49..
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५०॥
औमम् मातृपुराणम् च रुद्रैकादशकम् तथा ॥ कैलासम् शतरुद्रम् च शतरुद्र-आख्यम् एव च ॥ ७।१,१।५०॥
aumam mātṛpurāṇam ca rudraikādaśakam tathā .. kailāsam śatarudram ca śatarudra-ākhyam eva ca .. 7.1,1.50..
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५१॥
सहस्र-कोटि-रुद्र-आख्यम् वायवीयम् ततस् परम् ॥ धर्म-संज्ञम् पुराणम् च इति एवम् द्वादश संहिताः ॥ ७।१,१।५१॥
sahasra-koṭi-rudra-ākhyam vāyavīyam tatas param .. dharma-saṃjñam purāṇam ca iti evam dvādaśa saṃhitāḥ .. 7.1,1.51..
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५२॥
विद्येशम् दश-साहस्रम् उदितम् ग्रंथ-संख्यया ॥ रौद्रम् वैनायकम् चौमम् मातृका-आख्यम् ततस् परम् ॥ ७।१,१।५२॥
vidyeśam daśa-sāhasram uditam graṃtha-saṃkhyayā .. raudram vaināyakam caumam mātṛkā-ākhyam tatas param .. 7.1,1.52..
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५३॥
प्रत्येकम् अष्ट-साहस्रम् त्रयोदश-सहस्रकम् ॥ रौद्रक-अदशक-आख्यम् यत् कैलासम् षष्-सहस्रकम् ॥ ७।१,१।५३॥
pratyekam aṣṭa-sāhasram trayodaśa-sahasrakam .. raudraka-adaśaka-ākhyam yat kailāsam ṣaṣ-sahasrakam .. 7.1,1.53..
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५४॥
शतरुद्रम् त्रि-साहस्रम् कोटि-रुद्रम् ततस् परम् ॥ सहस्रैः नवभिः युक्तम् सर्व-अर्थ-ज्ञान-संयुतम् ॥ ७।१,१।५४॥
śatarudram tri-sāhasram koṭi-rudram tatas param .. sahasraiḥ navabhiḥ yuktam sarva-artha-jñāna-saṃyutam .. 7.1,1.54..
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५५॥
सहस्र-कोटि-रुद्र-आख्यम् एकादश-सहस्रकम् ॥ चतुर्-सहस्र-संख्येयम् वायवीयम् अनुत्तमम् ॥ ७।१,१।५५॥
sahasra-koṭi-rudra-ākhyam ekādaśa-sahasrakam .. catur-sahasra-saṃkhyeyam vāyavīyam anuttamam .. 7.1,1.55..
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५६॥
धर्म-संज्ञम् पुराणम् यत् तत् द्वादश-सहस्रकम् ॥ तत् एवम् लक्षम् उद्दिष्टम् शैवम् शाखा-विभेदतः ॥ ७।१,१।५६॥
dharma-saṃjñam purāṇam yat tat dvādaśa-sahasrakam .. tat evam lakṣam uddiṣṭam śaivam śākhā-vibhedataḥ .. 7.1,1.56..
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५७॥
पुराणम् वेद-सारम् तत् भुक्ति-मुक्ति-फल-प्रदम् ॥ व्यासेन तत् तु संक्षिप्तम् चतुर्विंशत्-सहस्रकम् ॥ ७।१,१।५७॥
purāṇam veda-sāram tat bhukti-mukti-phala-pradam .. vyāsena tat tu saṃkṣiptam caturviṃśat-sahasrakam .. 7.1,1.57..
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५८॥
शैवम् तत्र पुराणम् वै चतुर्थम् सप्त-संहितम् ॥ विद्येश्वर-आख्या तत्र आद्या द्वितीया रुद्र-संहिता ॥ ७।१,१।५८॥
śaivam tatra purāṇam vai caturtham sapta-saṃhitam .. vidyeśvara-ākhyā tatra ādyā dvitīyā rudra-saṃhitā .. 7.1,1.58..
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.५९॥
तृतीया शतरुद्रा-आख्या कोटिरुद्रा चतुर्थिका ॥ पञ्चमी कथिता च उमा षष्ठी कैलास-संहिता ॥ ७।१,१।५९॥
tṛtīyā śatarudrā-ākhyā koṭirudrā caturthikā .. pañcamī kathitā ca umā ṣaṣṭhī kailāsa-saṃhitā .. 7.1,1.59..
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६०॥
सप्तमी वायवीय-आख्या सप्ता एवम् संहिताः इह ॥ विद्येश्वरम् द्वि-साहस्रम् रौद्रम् पञ्च-शत-अयुतम् ॥ ७।१,१।६०॥
saptamī vāyavīya-ākhyā saptā evam saṃhitāḥ iha .. vidyeśvaram dvi-sāhasram raudram pañca-śata-ayutam .. 7.1,1.60..
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६१॥
त्रिंशत् तथा द्वि-साहस्रम् सार्ध-एकशतम् ईरितम् ॥ शतरुद्रम् तथा कोटि-रुद्रम् व्योम-युग-अधिकम् ॥ ७।१,१।६१॥
triṃśat tathā dvi-sāhasram sārdha-ekaśatam īritam .. śatarudram tathā koṭi-rudram vyoma-yuga-adhikam .. 7.1,1.61..
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६२॥
द्वि-साहस्रम् च द्विशतम् तथा उमम् भू-सहस्रकम् ॥ चत्वारिंशत् स अष्टशतम् कैलासम् भू-सहस्रकम् ॥ ७।१,१।६२॥
dvi-sāhasram ca dviśatam tathā umam bhū-sahasrakam .. catvāriṃśat sa aṣṭaśatam kailāsam bhū-sahasrakam .. 7.1,1.62..
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६३॥
चत्वारिंशत् च द्विशतम् वायवीयम् अतस् परम् ॥ चतुर्-साहस्र-संख्याकम् एवम् संख्या-विभेदतः ॥ ७।१,१।६३॥
catvāriṃśat ca dviśatam vāyavīyam atas param .. catur-sāhasra-saṃkhyākam evam saṃkhyā-vibhedataḥ .. 7.1,1.63..
श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६४॥
श्रुतम् परम-पुण्यन्तु पुराणम् शिव-संज्ञकम् ॥ चतुर्-साहस्रकम् यत् तु वायवीयम् उदीरितम् ॥ ७।१,१।६४॥
śrutam parama-puṇyantu purāṇam śiva-saṃjñakam .. catur-sāhasrakam yat tu vāyavīyam udīritam .. 7.1,1.64..
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६५॥
तत् इदम् वर्तयिष्यामि भाग-द्वय-समन्वितम् ॥ न अ वेद-विदुषे वाच्यम् इदम् शास्त्रम् अनुत्तमम् ॥ ७।१,१।६५॥
tat idam vartayiṣyāmi bhāga-dvaya-samanvitam .. na a veda-viduṣe vācyam idam śāstram anuttamam .. 7.1,1.65..
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६६॥
न च एव अ श्रद्ध-धानाय न अ पुराण-विदे तथा ॥ परीक्षिताय शिष्याय धार्मिकाय अनसूयवे ॥ ७।१,१।६६॥
na ca eva a śraddha-dhānāya na a purāṇa-vide tathā .. parīkṣitāya śiṣyāya dhārmikāya anasūyave .. 7.1,1.66..
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६७॥
प्रदेयम् शिव-भक्ताय शिव-धर्म-अनुसारिणे ॥ पुराण-संहिता यस्य प्रसादात् मयि वर्तते ॥ ७।१,१।६७॥
pradeyam śiva-bhaktāya śiva-dharma-anusāriṇe .. purāṇa-saṃhitā yasya prasādāt mayi vartate .. 7.1,1.67..
नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८॥
नमः भगवते तस्मै व्यासाय अमित-तेजसे ॥ ७।१,१।६८॥
namaḥ bhagavate tasmai vyāsāya amita-tejase .. 7.1,1.68..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे विद्यावतारकथनम् नाम प्रथमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe vidyāvatārakathanam nāma prathamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In