| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१॥
मन्वंतराणि सर्वाणि कल्प-भेदान् च सर्वशस् ॥ तेषु एव अन्तर-सर्गम् च प्रतिसर्गम् च नः वद ॥ ७।१,११।१॥
manvaṃtarāṇi sarvāṇi kalpa-bhedān ca sarvaśas .. teṣu eva antara-sargam ca pratisargam ca naḥ vada .. 7.1,11.1..
वायुरुवाच॥
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२॥
काल-संख्या-विवृत्तस्य परार्धः ब्रह्मणः स्मृतः ॥ तावान् च एव अस्य कालः न्यः तस्य अंते प्रतिसृज्यते ॥ ७।१,११।२॥
kāla-saṃkhyā-vivṛttasya parārdhaḥ brahmaṇaḥ smṛtaḥ .. tāvān ca eva asya kālaḥ nyaḥ tasya aṃte pratisṛjyate .. 7.1,11.2..
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३॥
दिवसे दिवसे तस्य ब्रह्मणः पूर्व-जन्मनः ॥ चतुर्दश-महाभागाः मनूनाम् परिवृत्तयः ॥ ७।१,११।३॥
divase divase tasya brahmaṇaḥ pūrva-janmanaḥ .. caturdaśa-mahābhāgāḥ manūnām parivṛttayaḥ .. 7.1,11.3..
अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४॥
अनादि-त्वात् अनंत-त्वात् अज्ञेय-त्वात् च कृत्स्नशस् ॥ मन्वंतराणि कल्पाः च न शक्याः वचनात् पृथक् ॥ ७।१,११।४॥
anādi-tvāt anaṃta-tvāt ajñeya-tvāt ca kṛtsnaśas .. manvaṃtarāṇi kalpāḥ ca na śakyāḥ vacanāt pṛthak .. 7.1,11.4..
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५॥
उक्तेषु अपि च सर्वेषु शृण्वताम् वः वचः मम ॥ किम् इह अस्ति फलम् तस्मात् न पृथक् वक्तुम् उत्सहे ॥ ७।१,११।५॥
ukteṣu api ca sarveṣu śṛṇvatām vaḥ vacaḥ mama .. kim iha asti phalam tasmāt na pṛthak vaktum utsahe .. 7.1,11.5..
य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६॥
यः एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७।१,११।६॥
yaḥ eva khalu kalpeṣu kalpaḥ saṃprati vartate .. tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ .. 7.1,11.6..
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७॥
यः तु अयम् वर्तते कल्पः वाराहः नाम नामतः ॥ अस्मिन् अपि द्विजश्रेष्ठाः मनवः तु चतुर्दश ॥ ७।१,११।७॥
yaḥ tu ayam vartate kalpaḥ vārāhaḥ nāma nāmataḥ .. asmin api dvijaśreṣṭhāḥ manavaḥ tu caturdaśa .. 7.1,11.7..
स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८॥
स्वायंभुव-आदयः सप्त सप्त सावर्णिक-आदयः ॥ तेषु वैवस्वतः नाम सप्तमः वर्तते मनुः ॥ ७।१,११।८॥
svāyaṃbhuva-ādayaḥ sapta sapta sāvarṇika-ādayaḥ .. teṣu vaivasvataḥ nāma saptamaḥ vartate manuḥ .. 7.1,11.8..
मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९॥
मन्वंतरेषु सर्वेषु सर्ग-संहार-वृत्तयः ॥ प्रायस् समाभवन्ति इति तर्कः कार्यः विजानता ॥ ७।१,११।९॥
manvaṃtareṣu sarveṣu sarga-saṃhāra-vṛttayaḥ .. prāyas samābhavanti iti tarkaḥ kāryaḥ vijānatā .. 7.1,11.9..
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१०॥
पूर्व-कल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ समुन्मूलित-मूलेषु वृक्षेषु च वनेषु च ॥ ७।१,११।१०॥
pūrva-kalpe parāvṛtte pravṛtte kālamārute .. samunmūlita-mūleṣu vṛkṣeṣu ca vaneṣu ca .. 7.1,11.10..
जगंति तृणवक्त्रीणि देवे दहति पावके ॥ वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११॥
जगन्ति तृणवक्त्रीणि देवे दहति पावके ॥ वृष्ट्या भुवि निषिक्तायाम् विवेलेषु अर्णवेषु च ॥ ७।१,११।११॥
jaganti tṛṇavaktrīṇi deve dahati pāvake .. vṛṣṭyā bhuvi niṣiktāyām viveleṣu arṇaveṣu ca .. 7.1,11.11..
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२॥
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ तद्-अद्भिः चटुल-आक्षेपैः तरंग-भुज-मण्डलैः ॥ ७।१,११।१२॥
dikṣu sarvāsu magnāsu vāripūre mahīyasi .. tad-adbhiḥ caṭula-ākṣepaiḥ taraṃga-bhuja-maṇḍalaiḥ .. 7.1,11.12..
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३॥
प्रारब्ध-चण्ड-नृत्येषु ततस् प्रलय-वारिषु ॥ ब्रह्मा नारायणः भूत्वा सुष्वाप सलिले सुखम् ॥ ७।१,११।१३॥
prārabdha-caṇḍa-nṛtyeṣu tatas pralaya-vāriṣu .. brahmā nārāyaṇaḥ bhūtvā suṣvāpa salile sukham .. 7.1,11.13..
इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४॥
इमम् च उदाहरन् मंत्रम् श्लोकम् नारायणम् प्रति ॥ तम् शृणुध्वम् मुनि-श्रेष्ठाः तद्-अर्थम् च अक्षर-आश्रयम् ॥ ७।१,११।१४॥
imam ca udāharan maṃtram ślokam nārāyaṇam prati .. tam śṛṇudhvam muni-śreṣṭhāḥ tad-artham ca akṣara-āśrayam .. 7.1,11.14..
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५॥
आपः नाराः इति प्रोक्ताः आपः वै नर-सूनवः ॥ अयनम् तस्य ताः यस्मात् तेन नारायणः स्मृतः ॥ ७।१,११।१५॥
āpaḥ nārāḥ iti proktāḥ āpaḥ vai nara-sūnavaḥ .. ayanam tasya tāḥ yasmāt tena nārāyaṇaḥ smṛtaḥ .. 7.1,11.15..
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६॥
शिव-योग-मयीम् निद्राम् कुर्वन्तम् त्रिदशेश्वरम् ॥ बद्धांजलि पुटाः सिद्धाः जन-लोक-निवासिनः ॥ ७।१,११।१६॥
śiva-yoga-mayīm nidrām kurvantam tridaśeśvaram .. baddhāṃjali puṭāḥ siddhāḥ jana-loka-nivāsinaḥ .. 7.1,11.16..
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७॥
स्तोत्रैः प्रबोधयामासुः प्रभात-समये सुराः ॥ यथा सृष्टि-आदि-समये ईश्वरम् श्रुतयः पुरा ॥ ७।१,११।१७॥
stotraiḥ prabodhayāmāsuḥ prabhāta-samaye surāḥ .. yathā sṛṣṭi-ādi-samaye īśvaram śrutayaḥ purā .. 7.1,11.17..
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८॥
ततस् प्रबुद्धः उत्थाय शयनात् तोयम् अध्यगात् ॥ उदैक्षत दिशः सर्वाः योग-निद्रा-अलस-ईक्षणः ॥ ७।१,११।१८॥
tatas prabuddhaḥ utthāya śayanāt toyam adhyagāt .. udaikṣata diśaḥ sarvāḥ yoga-nidrā-alasa-īkṣaṇaḥ .. 7.1,11.18..
नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९॥
न अपश्यत् स तदा किंचिद् स्व-आत्मनः व्यतिरेकि यत् ॥ स विस्मयः इव आसीनः पराम् चिंताम् उपागमत् ॥ ७।१,११।१९॥
na apaśyat sa tadā kiṃcid sva-ātmanaḥ vyatireki yat .. sa vismayaḥ iva āsīnaḥ parām ciṃtām upāgamat .. 7.1,11.19..
क्व सा भगवती या तु मनोज्ञा महती मही ॥ नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२०॥
क्व सा भगवती या तु मनोज्ञा महती मही ॥ नानाविध-महा-शैल-नदीनगर-कानना ॥ ७।१,११।२०॥
kva sā bhagavatī yā tu manojñā mahatī mahī .. nānāvidha-mahā-śaila-nadīnagara-kānanā .. 7.1,11.20..
एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१॥
एवम् संचिंतयन् ब्रह्मा बुबुधे ना एव भू-स्थितिम् ॥ तदा सस्मार पितरम् भगवंतम् त्रिलोचनम् ॥ ७।१,११।२१॥
evam saṃciṃtayan brahmā bubudhe nā eva bhū-sthitim .. tadā sasmāra pitaram bhagavaṃtam trilocanam .. 7.1,11.21..
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२॥
स्मरणात् देवदेवस्य भवस्य अमित-तेजसः ॥ ज्ञातवान् सलिले मग्नाम् धरणीम् धरणीपतिः ॥ ७।१,११।२२॥
smaraṇāt devadevasya bhavasya amita-tejasaḥ .. jñātavān salile magnām dharaṇīm dharaṇīpatiḥ .. 7.1,11.22..
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३॥
ततस् भूमेः समुद्धारम् कर्तु-कामः प्रजापतिः ॥ जल-क्रीडा-उचितम् दिव्यम् वाराहम् रूपम् अस्मरत् ॥ ७।१,११।२३॥
tatas bhūmeḥ samuddhāram kartu-kāmaḥ prajāpatiḥ .. jala-krīḍā-ucitam divyam vārāham rūpam asmarat .. 7.1,11.23..
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४॥
महा-पर्वत-वर्ष्माणम् महा-जलद-निःस्वनम् ॥ नील-मेघ-प्रतीकाशम् दीप्त-शब्दम् भयानकम् ॥ ७।१,११।२४॥
mahā-parvata-varṣmāṇam mahā-jalada-niḥsvanam .. nīla-megha-pratīkāśam dīpta-śabdam bhayānakam .. 7.1,11.24..
पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५॥
पीन-वृत्त-घन-स्कंध-पीन-उन्नत-कटी-तटम् ॥ ह्रस्व-वृत्त-ऊरु-जंघा-अग्रम् सु तीक्ष्ण-पुर-मण्डलम् ॥ ७।१,११।२५॥
pīna-vṛtta-ghana-skaṃdha-pīna-unnata-kaṭī-taṭam .. hrasva-vṛtta-ūru-jaṃghā-agram su tīkṣṇa-pura-maṇḍalam .. 7.1,11.25..
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६॥
पद्मराग-मणि-प्रख्यम् वृत्त-भीषण-लोचनम् ॥ वृत्त-दीर्घ-महा-गात्रम् स्तब्ध-कर्ण-स्थल-उज्ज्वलम् ॥ ७।१,११।२६॥
padmarāga-maṇi-prakhyam vṛtta-bhīṣaṇa-locanam .. vṛtta-dīrgha-mahā-gātram stabdha-karṇa-sthala-ujjvalam .. 7.1,11.26..
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७॥
उदीर्ण-उच्छ्वास-निश्वास-घूर्णित-प्रलय-अर्णवम् ॥ विस्फुरत्-सु सटा-आच्छन्न-कपोल-स्कंध-बंधुरम् ॥ ७।१,११।२७॥
udīrṇa-ucchvāsa-niśvāsa-ghūrṇita-pralaya-arṇavam .. visphurat-su saṭā-ācchanna-kapola-skaṃdha-baṃdhuram .. 7.1,11.27..
मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८॥
मणिभिः भूषणैः चित्रैः महा-रत्नैः परिष्कृतम् ॥ विराजमानम् विद्युद्भिः मेघ-संघम् इव उन्नतम् ॥ ७।१,११।२८॥
maṇibhiḥ bhūṣaṇaiḥ citraiḥ mahā-ratnaiḥ pariṣkṛtam .. virājamānam vidyudbhiḥ megha-saṃgham iva unnatam .. 7.1,11.28..
आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९॥
आस्थाय विपुलम् रूपम् वाराहम् अमितम् विधिः ॥ पृथिवी-उद्धरण-अर्थाय प्रविवेश रसातलम् ॥ ७।१,११।२९॥
āsthāya vipulam rūpam vārāham amitam vidhiḥ .. pṛthivī-uddharaṇa-arthāya praviveśa rasātalam .. 7.1,11.29..
स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३०॥
स तदा शुशुभे अतीव सूकरः गिरि-संनिभः ॥ लिंग-आकृतेः महेशस्य पाद-मूलम् गतः यथा ॥ ७।१,११।३०॥
sa tadā śuśubhe atīva sūkaraḥ giri-saṃnibhaḥ .. liṃga-ākṛteḥ maheśasya pāda-mūlam gataḥ yathā .. 7.1,11.30..
ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१॥
ततस् स सलिले मग्नाम् पृथिवीम् पृथिवींधरः ॥ उद्धृत्य आलिंग्य दंष्ट्राभ्याम् उन्ममज्ज रसातलात् ॥ ७।१,११।३१॥
tatas sa salile magnām pṛthivīm pṛthivīṃdharaḥ .. uddhṛtya āliṃgya daṃṣṭrābhyām unmamajja rasātalāt .. 7.1,11.31..
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२॥
तम् दृष्ट्वा मुनयः सिद्धाः जन-लोक-निवासिनः ॥ मुमुदुः ननृतुः मूर्ध्नि तस्य पुष्पैः अवाकिरन् ॥ ७।१,११।३२॥
tam dṛṣṭvā munayaḥ siddhāḥ jana-loka-nivāsinaḥ .. mumuduḥ nanṛtuḥ mūrdhni tasya puṣpaiḥ avākiran .. 7.1,11.32..
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३॥
वपुः महावराहस्य शुशुभे पुष्प-संवृतम् ॥ पतद्भिः इव खद्योतैः प्राशुरंजन-पर्वतः ॥ ७।१,११।३३॥
vapuḥ mahāvarāhasya śuśubhe puṣpa-saṃvṛtam .. patadbhiḥ iva khadyotaiḥ prāśuraṃjana-parvataḥ .. 7.1,11.33..
ततः संस्थानमानीय वराहो महतीं महीम् ॥ स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४॥
ततस् संस्थानम् आनीय वराहः महतीम् महीम् ॥ स्वम् एव रूपम् आस्थाय स्थापयामास वै विभुः ॥ ७।१,११।३४॥
tatas saṃsthānam ānīya varāhaḥ mahatīm mahīm .. svam eva rūpam āsthāya sthāpayāmāsa vai vibhuḥ .. 7.1,11.34..
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५॥
पृथिवीम् च समीकृत्य पृथिव्याम् स्थापयन् गिरीन् ॥ भूः आद्यान् चतुरः लोकान् कल्पयामास पूर्ववत् ॥ ७।१,११।३५॥
pṛthivīm ca samīkṛtya pṛthivyām sthāpayan girīn .. bhūḥ ādyān caturaḥ lokān kalpayāmāsa pūrvavat .. 7.1,11.35..
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६॥
इति सह महतीम् महीम् महीध्रैः प्रलय-महा-जलधेः अधस् स्थ-मध्यात् ॥ उपरि च विनिवेश्य विश्वकर्मा चरम् अचरम् च जगत् ससर्ज भूयस् ॥ ७।१,११।३६॥
iti saha mahatīm mahīm mahīdhraiḥ pralaya-mahā-jaladheḥ adhas stha-madhyāt .. upari ca viniveśya viśvakarmā caram acaram ca jagat sasarja bhūyas .. 7.1,11.36..
इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः॥
इति श्री-शिवमहापुराणे सप्तम्याम् सृष्ट्यादिवर्णनम् नाम एकादशः अध्यायः॥
iti śrī-śivamahāpurāṇe saptamyām sṛṣṭyādivarṇanam nāma ekādaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In