| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१॥
पुरुष-अधिष्ठितात् पूर्वम् अव्यक्तात् ईश्वर-आज्ञया ॥ बुद्धि-आदयः विशेष-अंताः विकाराः च अभवन् क्रमात् ॥ ७।१,१०।१॥
puruṣa-adhiṣṭhitāt pūrvam avyaktāt īśvara-ājñayā .. buddhi-ādayaḥ viśeṣa-aṃtāḥ vikārāḥ ca abhavan kramāt .. 7.1,10.1..
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२॥
ततस् तेभ्यः विकारेभ्यः रुद्रः विष्णुः पितामहः ॥ कारण-त्वेन सर्वेषाम् त्रयः देवाः प्रजज्ञिरे ॥ ७।१,१०।२॥
tatas tebhyaḥ vikārebhyaḥ rudraḥ viṣṇuḥ pitāmahaḥ .. kāraṇa-tvena sarveṣām trayaḥ devāḥ prajajñire .. 7.1,10.2..
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३॥
सर्वतस् भुवन-व्याप्ति-शक्तिम् अव्याहताम् क्वचिद् ॥ ज्ञानम् अप्रतिमम् शश्वत् ऐश्वर्यम् च अणिम-आदिकम् ॥ ७।१,१०।३॥
sarvatas bhuvana-vyāpti-śaktim avyāhatām kvacid .. jñānam apratimam śaśvat aiśvaryam ca aṇima-ādikam .. 7.1,10.3..
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४॥
सृष्टि-स्थिति-लय-आख्येषु कर्मसु त्रिषु हेतुताम् ॥ प्रभु-त्वेन सह एतेषाम् प्रसीदति महेश्वरः ॥ ७।१,१०।४॥
sṛṣṭi-sthiti-laya-ākhyeṣu karmasu triṣu hetutām .. prabhu-tvena saha eteṣām prasīdati maheśvaraḥ .. 7.1,10.4..
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५॥
कल्प-अन्तरे पुनर् तेषाम् अस्पर्धा बुद्धि-मोहिनाम् ॥ सर्ग-रक्षा-लय-आचारम् प्रत्येकम् प्रददौ च सः ॥ ७।१,१०।५॥
kalpa-antare punar teṣām aspardhā buddhi-mohinām .. sarga-rakṣā-laya-ācāram pratyekam pradadau ca saḥ .. 7.1,10.5..
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६॥
एते परस्पर-उत्पन्नाः धारयन्ति परस्परम् ॥ परस्परेण वर्धंते परस्परम् अनुव्रताः ॥ ७।१,१०।६॥
ete paraspara-utpannāḥ dhārayanti parasparam .. paraspareṇa vardhaṃte parasparam anuvratāḥ .. 7.1,10.6..
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७॥
क्वचिद् ब्रह्मा क्वचिद् विष्णुः क्वचिद् रुद्रः प्रशस्यते ॥ न अनेन तेषाम् आधिक्यम् ऐश्वर्यम् च अतिरिच्यते ॥ ७।१,१०।७॥
kvacid brahmā kvacid viṣṇuḥ kvacid rudraḥ praśasyate .. na anena teṣām ādhikyam aiśvaryam ca atiricyate .. 7.1,10.7..
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८॥
मूर्खाः निंदंति तान् वाग्भिः संरंभ-अभिनिवेशिनः ॥ यातुधानाः भवन्ति एव पिशाचाः च न संशयः ॥ ७।१,१०।८॥
mūrkhāḥ niṃdaṃti tān vāgbhiḥ saṃraṃbha-abhiniveśinaḥ .. yātudhānāḥ bhavanti eva piśācāḥ ca na saṃśayaḥ .. 7.1,10.8..
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९॥
चतुर्-व्यूहः ॥ सकलः सकल-आधार-शक्तेः उत्पत्ति-कारणम् ॥ ७।१,१०।९॥
catur-vyūhaḥ .. sakalaḥ sakala-ādhāra-śakteḥ utpatti-kāraṇam .. 7.1,10.9..
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१०॥
सः उयम् आत्मा त्रयस्य अस्य प्रकृतेः पुरुषस्य च ॥ लीला-कृत-जगत्-सृष्टिः ईश्वर-त्वे व्यवस्थितः ॥ ७।१,१०।१०॥
saḥ uyam ātmā trayasya asya prakṛteḥ puruṣasya ca .. līlā-kṛta-jagat-sṛṣṭiḥ īśvara-tve vyavasthitaḥ .. 7.1,10.10..
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११॥
यः सर्वस्मात् परः नित्यः निष्कलः परमेश्वरः ॥ सः एव च तद्-आधारः तद्-आत्मा तद्-अधिष्ठितः ॥ ७।१,१०।११॥
yaḥ sarvasmāt paraḥ nityaḥ niṣkalaḥ parameśvaraḥ .. saḥ eva ca tad-ādhāraḥ tad-ātmā tad-adhiṣṭhitaḥ .. 7.1,10.11..
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२॥
तस्मात् महेश्वरः च एव प्रकृतिः पुरुषः तथा ॥ सदाशिव-भवः विष्णुः ब्रह्मा सर्व-शिव-आत्मकम् ॥ ७।१,१०।१२॥
tasmāt maheśvaraḥ ca eva prakṛtiḥ puruṣaḥ tathā .. sadāśiva-bhavaḥ viṣṇuḥ brahmā sarva-śiva-ātmakam .. 7.1,10.12..
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३॥
प्रधानात् प्रथमम् जज्ञे वृद्धिः ख्यातिः मतिः महान् ॥ महत्-तत्त्वस्य संक्षोभात् अहंकारः त्रिधा अभवत् ॥ ७।१,१०।१३॥
pradhānāt prathamam jajñe vṛddhiḥ khyātiḥ matiḥ mahān .. mahat-tattvasya saṃkṣobhāt ahaṃkāraḥ tridhā abhavat .. 7.1,10.13..
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४॥
अहंकारः च भूतानि तन्मात्रानि इंद्रियाणि च ॥ वैकारिकात् अहंकारात् सत्त्व-उद्रिक्तात् तु सात्त्विकः ॥ ७।१,१०।१४॥
ahaṃkāraḥ ca bhūtāni tanmātrāni iṃdriyāṇi ca .. vaikārikāt ahaṃkārāt sattva-udriktāt tu sāttvikaḥ .. 7.1,10.14..
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५॥
वैकारिकः स सर्गः तु युगपद् संप्रवर्तते ॥ बुद्धीन्द्रियाणि पञ्च एव पञ्च-कर्मेंद्रियाणि च ॥ ७।१,१०।१५॥
vaikārikaḥ sa sargaḥ tu yugapad saṃpravartate .. buddhīndriyāṇi pañca eva pañca-karmeṃdriyāṇi ca .. 7.1,10.15..
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६॥
एकादशम् मनः तत्र स्व-गुणेन उभय-आत्मकम् ॥ तमः-युक्तात् अहंकारात् भूत-तन्मात्र-संभवः ॥ ७।१,१०।१६॥
ekādaśam manaḥ tatra sva-guṇena ubhaya-ātmakam .. tamaḥ-yuktāt ahaṃkārāt bhūta-tanmātra-saṃbhavaḥ .. 7.1,10.16..
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७॥
भूतानाम् आदि-भूत-त्वात् भूतादिः कथ्यते तु सः ॥ भूतादेः शब्द-मात्रम् स्यात् तत्र च आकाश-संभवः ॥ ७।१,१०।१७॥
bhūtānām ādi-bhūta-tvāt bhūtādiḥ kathyate tu saḥ .. bhūtādeḥ śabda-mātram syāt tatra ca ākāśa-saṃbhavaḥ .. 7.1,10.17..
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८॥
आकाशात् स्पर्शः उत्पन्नः स्पर्शात् वायु-समुद्भवः ॥ वायोः रूपम् ततस् तेजः तेजसः रस-संभवः ॥ ७।१,१०।१८॥
ākāśāt sparśaḥ utpannaḥ sparśāt vāyu-samudbhavaḥ .. vāyoḥ rūpam tatas tejaḥ tejasaḥ rasa-saṃbhavaḥ .. 7.1,10.18..
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९॥
रसात् अपः समुत्पन्नाः तेभ्यः गन्ध-समुद्भवः ॥ गन्धात् च पृथिवी जाता भूतेभ्यः न्यत् चराचरम् ॥ ७।१,१०।१९॥
rasāt apaḥ samutpannāḥ tebhyaḥ gandha-samudbhavaḥ .. gandhāt ca pṛthivī jātā bhūtebhyaḥ nyat carācaram .. 7.1,10.19..
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२०॥
पुरुष-धिष्ठित-त्वात् च अव्यक्त-अनुग्रहेण च ॥ महत्-आदि-विशेष-अन्ताः हि अण्डम् उत्पादयन्ति ते ॥ ७।१,१०।२०॥
puruṣa-dhiṣṭhita-tvāt ca avyakta-anugraheṇa ca .. mahat-ādi-viśeṣa-antāḥ hi aṇḍam utpādayanti te .. 7.1,10.20..
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१॥
तत्र कार्यम् च करणम् संसिद्धम् ब्रह्मणः यदा ॥ तद्-अंडे सु प्रवृद्धः अभूत् क्षेत्रज्ञः ब्रह्म-संज्ञितः ॥ ७।१,१०।२१॥
tatra kāryam ca karaṇam saṃsiddham brahmaṇaḥ yadā .. tad-aṃḍe su pravṛddhaḥ abhūt kṣetrajñaḥ brahma-saṃjñitaḥ .. 7.1,10.21..
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२॥
स वै शरीरी प्रथमः स वै पुरुषः उच्यते ॥ आदिकर्ता स भूतानाम् ब्रह्म अग्रे समवर्तत ॥ ७।१,१०।२२॥
sa vai śarīrī prathamaḥ sa vai puruṣaḥ ucyate .. ādikartā sa bhūtānām brahma agre samavartata .. 7.1,10.22..
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३॥
तस्य ईश्वरस्य प्रतिमा ज्ञान-वैराग्य-लक्षणा ॥ धर्म-ऐश्वर्य-करी बुद्धिः ब्राह्मी यज्ञे अभिमानिनः ॥ ७।१,१०।२३॥
tasya īśvarasya pratimā jñāna-vairāgya-lakṣaṇā .. dharma-aiśvarya-karī buddhiḥ brāhmī yajñe abhimāninaḥ .. 7.1,10.23..
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४॥
अव्यक्तात् जायते तस्य मनसा यत् यत् ईप्सितम् ॥ वशी विकृत्वात् त्रैगुण्यात् सापेक्ष-त्वात् स्वभावतः ॥ ७।१,१०।२४॥
avyaktāt jāyate tasya manasā yat yat īpsitam .. vaśī vikṛtvāt traiguṇyāt sāpekṣa-tvāt svabhāvataḥ .. 7.1,10.24..
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५॥
त्रिधा विभज्य च आत्मानम् त्रैलोक्ये संप्रवर्तते ॥ सृजते ग्रसते च एव वीक्षते च त्रिभिः स्वयम् ॥ ७।१,१०।२५॥
tridhā vibhajya ca ātmānam trailokye saṃpravartate .. sṛjate grasate ca eva vīkṣate ca tribhiḥ svayam .. 7.1,10.25..
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६॥
चतुर्मुखः तु ब्रह्मत्वे काल-त्वे च अंतकः स्मृतः ॥ सहस्रमूर्धा पुरुषः तिस्रः उवस्थाः स्वयंभुवः ॥ ७।१,१०।२६॥
caturmukhaḥ tu brahmatve kāla-tve ca aṃtakaḥ smṛtaḥ .. sahasramūrdhā puruṣaḥ tisraḥ uvasthāḥ svayaṃbhuvaḥ .. 7.1,10.26..
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७॥
सत्त्वम् रजः च ब्रह्मा च काल-त्वे च तमः रजः ॥ विष्णु-त्वे केवलम् सत्त्वम् गुण-वृद्धिः त्रिधा विभौ ॥ ७।१,१०।२७॥
sattvam rajaḥ ca brahmā ca kāla-tve ca tamaḥ rajaḥ .. viṣṇu-tve kevalam sattvam guṇa-vṛddhiḥ tridhā vibhau .. 7.1,10.27..
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८॥
ब्रह्म-त्वे सृजते लोकान् काल-त्वे संक्षिपति अपि ॥ पुरुष-त्वे अति उदासीनः कर्म च त्रिविधम् विभोः ॥ ७।१,१०।२८॥
brahma-tve sṛjate lokān kāla-tve saṃkṣipati api .. puruṣa-tve ati udāsīnaḥ karma ca trividham vibhoḥ .. 7.1,10.28..
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९॥
एवम् त्रिधा विभिन्न-त्वात् ब्रह्मा त्रिगुणः उच्यते ॥ चतुर्धा प्रविभक्त-त्वात् चातुर्व्यूहः प्रकीर्तितः ॥ ७।१,१०।२९॥
evam tridhā vibhinna-tvāt brahmā triguṇaḥ ucyate .. caturdhā pravibhakta-tvāt cāturvyūhaḥ prakīrtitaḥ .. 7.1,10.29..
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३०॥
आदि-त्वात् आदिदेवः असौ अजात-त्वात् अजः स्मृतः ॥ पाति यस्मात् प्रजाः सर्वाः प्रजापतिः इति स्मृतः ॥ ७।१,१०।३०॥
ādi-tvāt ādidevaḥ asau ajāta-tvāt ajaḥ smṛtaḥ .. pāti yasmāt prajāḥ sarvāḥ prajāpatiḥ iti smṛtaḥ .. 7.1,10.30..
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१॥
हिरण्मयः तु यः मेरुः तस्य उल्बम् सु महात्मनः ॥ गर्भ-उदकम् समुद्राः च जरायुः च अपि पर्वताः ॥ ७।१,१०।३१॥
hiraṇmayaḥ tu yaḥ meruḥ tasya ulbam su mahātmanaḥ .. garbha-udakam samudrāḥ ca jarāyuḥ ca api parvatāḥ .. 7.1,10.31..
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२॥
तस्मिन् अंडे तु इमे लोकाः अंतर् विश्वम् इदम् जगत् ॥ चंद्र-आदित्यौ स नक्षत्रौ स ग्रहौ सह वायुना ॥ ७।१,१०।३२॥
tasmin aṃḍe tu ime lokāḥ aṃtar viśvam idam jagat .. caṃdra-ādityau sa nakṣatrau sa grahau saha vāyunā .. 7.1,10.32..
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३॥
अद्भिः दशगुणाभिः तु बाह्य-तोण्डम् समावृतम् ॥ आपः दशगुणेन एव तेजसा बहिस् आवृताः ॥ ७।१,१०।३३॥
adbhiḥ daśaguṇābhiḥ tu bāhya-toṇḍam samāvṛtam .. āpaḥ daśaguṇena eva tejasā bahis āvṛtāḥ .. 7.1,10.33..
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४॥
तेजः दशगुणेन एव वायुना बहिस् आवृतम् ॥ आकाशेन आवृतः वायुः खम् च भूतादिना आवृतम् ॥ ७।१,१०।३४॥
tejaḥ daśaguṇena eva vāyunā bahis āvṛtam .. ākāśena āvṛtaḥ vāyuḥ kham ca bhūtādinā āvṛtam .. 7.1,10.34..
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५॥
भूतादिः महता तद्वत् अव्यक्तेन आवृतः महान् ॥ एतैः आवरणैः अण्डम् सप्तभिः बहिस् आवृतम् ॥ ७।१,१०।३५॥
bhūtādiḥ mahatā tadvat avyaktena āvṛtaḥ mahān .. etaiḥ āvaraṇaiḥ aṇḍam saptabhiḥ bahis āvṛtam .. 7.1,10.35..
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६॥
एतत् आवृत्त्य च अन्योन्यम् अष्टौ प्रकृतयः स्थिताः ॥ सृष्टि-पालन-विध्वंस-कर्म-कर्त्र्यः द्विजोत्तमाः ॥ ७।१,१०।३६॥
etat āvṛttya ca anyonyam aṣṭau prakṛtayaḥ sthitāḥ .. sṛṣṭi-pālana-vidhvaṃsa-karma-kartryaḥ dvijottamāḥ .. 7.1,10.36..
एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७॥
एवम् परस्पर-उत्पन्नाः धारयंति परस्परम् ॥ आधार-आधेय-भावेन विकाराः तु विकारिषु ॥ ७।१,१०।३७॥
evam paraspara-utpannāḥ dhārayaṃti parasparam .. ādhāra-ādheya-bhāvena vikārāḥ tu vikāriṣu .. 7.1,10.37..
कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८॥
कूर्म-ऊंगानि यथा पूर्वम् प्रसार्य विनियच्छति ॥ विकारान् च तथा अव्यक्तम् सृष्ट्वा भूयस् नियच्छति ॥ ७।१,१०।३८॥
kūrma-ūṃgāni yathā pūrvam prasārya viniyacchati .. vikārān ca tathā avyaktam sṛṣṭvā bhūyas niyacchati .. 7.1,10.38..
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९॥
अव्यक्त-प्रभवम् सर्वम् आनुलोम्येन जायते ॥ प्राप्ते प्रलय-काले तु ॥ ७।१,१०।३९॥
avyakta-prabhavam sarvam ānulomyena jāyate .. prāpte pralaya-kāle tu .. 7.1,10.39..
गुणाः कालवशादेव भवंति विषमाः समाः ॥ गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४०॥
गुणाः काल-वशात् एव भवन्ति विषमाः समाः ॥ गुण-साम्ये लयः ज्ञेयः वैषम्ये सृष्टिः उच्यते ॥ ७।१,१०।४०॥
guṇāḥ kāla-vaśāt eva bhavanti viṣamāḥ samāḥ .. guṇa-sāmye layaḥ jñeyaḥ vaiṣamye sṛṣṭiḥ ucyate .. 7.1,10.40..
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१॥
तत् इदम् ब्रह्मणः योनिः एतत् अंडम् घनम् महत् ॥ ब्रह्मणः क्षेत्रम् उद्दिष्टम् ब्रह्मा क्षेत्रज्ञः उच्यते ॥ ७।१,१०।४१॥
tat idam brahmaṇaḥ yoniḥ etat aṃḍam ghanam mahat .. brahmaṇaḥ kṣetram uddiṣṭam brahmā kṣetrajñaḥ ucyate .. 7.1,10.41..
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२॥
इति ईदृशानाम् अण्डानाम् कोट्यः ज्ञेयाः सहस्रशस् ॥ सर्व-ग-त्वात् प्रधानस्य तिर्यक् ऊर्ध्वम् अधस् स्थिताः ॥ ७।१,१०।४२॥
iti īdṛśānām aṇḍānām koṭyaḥ jñeyāḥ sahasraśas .. sarva-ga-tvāt pradhānasya tiryak ūrdhvam adhas sthitāḥ .. 7.1,10.42..
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३॥
तत्र तत्र चतुर्-वक्त्राः ब्रह्माणः हरयः भवाः ॥ सृष्टा प्रधानेन तथा लब्ध्वा शंभोः तु सन्निधिम् ॥ ७।१,१०।४३॥
tatra tatra catur-vaktrāḥ brahmāṇaḥ harayaḥ bhavāḥ .. sṛṣṭā pradhānena tathā labdhvā śaṃbhoḥ tu sannidhim .. 7.1,10.43..
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४॥
महेश्वरः ॥ अण्डात् जज्ञे विभुः ब्रह्मा लोकाः तेन कृताः तु इमे ॥ ७।१,१०।४४॥
maheśvaraḥ .. aṇḍāt jajñe vibhuḥ brahmā lokāḥ tena kṛtāḥ tu ime .. 7.1,10.44..
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५॥
अ बुद्धि-पूर्वः कथितः मया एष प्रधान-सर्गः प्रथमः प्रवृतः ॥ आत्यंतिकः च प्रलय-उन्त-काले लीला-कृतः केवलम् ईश्वरस्य ॥ ७।१,१०।४५॥
a buddhi-pūrvaḥ kathitaḥ mayā eṣa pradhāna-sargaḥ prathamaḥ pravṛtaḥ .. ātyaṃtikaḥ ca pralaya-unta-kāle līlā-kṛtaḥ kevalam īśvarasya .. 7.1,10.45..
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६॥
यत् तत् स्मृतम् कारणम् अप्रमेयम् ब्रह्मा प्रधानम् प्रकृतेः प्रसूतिः ॥ अनादि-मध्य-अन्तम् अनन्त-वीर्यम् शुक्लम् सु रक्तम् पुरुषेण युक्तम् ॥ ७।१,१०।४६॥
yat tat smṛtam kāraṇam aprameyam brahmā pradhānam prakṛteḥ prasūtiḥ .. anādi-madhya-antam ananta-vīryam śuklam su raktam puruṣeṇa yuktam .. 7.1,10.46..
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७॥
उत्पादक-त्वात् रजसा उतिरेकात् लोकस्य संतान-विवृद्धि-हेतून् ॥ अष्टौ विकारान् अपि च आदि-काले सृष्ट्वा समश्नाति तथा अंत-काले ॥ ७।१,१०।४७॥
utpādaka-tvāt rajasā utirekāt lokasya saṃtāna-vivṛddhi-hetūn .. aṣṭau vikārān api ca ādi-kāle sṛṣṭvā samaśnāti tathā aṃta-kāle .. 7.1,10.47..
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८॥
प्रकृति-अवस्थापित-कारणानाम् या च स्थितिः या च पुनर् प्रवृत्तिः ॥ तत् सर्वम् अप्राकृत-वैभवस्य संकल्प-मात्रेण महेश्वरस्य ॥ ७।१,१०।४८॥
prakṛti-avasthāpita-kāraṇānām yā ca sthitiḥ yā ca punar pravṛttiḥ .. tat sarvam aprākṛta-vaibhavasya saṃkalpa-mātreṇa maheśvarasya .. 7.1,10.48..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् ब्रह्मांडस्थितिवर्णनम् नाम दशमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām brahmāṃḍasthitivarṇanam nāma daśamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In