| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
सर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ ७.१, १३.१ ॥
सर्गम् चिंतयतः तस्य तदा वै बुद्धि-पूर्वकम् ॥प्रध्यान-काले मोहः तु प्रादुर्भूतः तमः-मयः ॥ ७।१, १३।१ ॥
sargam ciṃtayataḥ tasya tadā vai buddhi-pūrvakam ..pradhyāna-kāle mohaḥ tu prādurbhūtaḥ tamaḥ-mayaḥ .. 7.1, 13.1 ..
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ ७.१, १३.२ ॥
तमः-मोहः महा-मोहः तामिस्रः च अन्ध-संज्ञितः ॥अविद्या पञ्चमी च एषा प्रादुर्भूता महात्मनः ॥ ७।१, १३।२ ॥
tamaḥ-mohaḥ mahā-mohaḥ tāmisraḥ ca andha-saṃjñitaḥ ..avidyā pañcamī ca eṣā prādurbhūtā mahātmanaḥ .. 7.1, 13.2 ..
पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ७.१, १३.३ ॥
पञ्चधा अवस्थितः सर्गः ध्यायतः तु अभिमानिनः ॥सर्वतस् तमसा अतीव बीज-कुम्भ-वत् आवृतः ॥ ७।१, १३।३ ॥
pañcadhā avasthitaḥ sargaḥ dhyāyataḥ tu abhimāninaḥ ..sarvatas tamasā atīva bīja-kumbha-vat āvṛtaḥ .. 7.1, 13.3 ..
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ७.१, १३.४ ॥
बहिस् अन्तर् च अप्रकाशः स्तब्धः निःसंज्ञः एव च ॥तस्मात् तेषाम् वृता बुद्धिः मुखानि करणानि च ॥ ७।१, १३।४ ॥
bahis antar ca aprakāśaḥ stabdhaḥ niḥsaṃjñaḥ eva ca ..tasmāt teṣām vṛtā buddhiḥ mukhāni karaṇāni ca .. 7.1, 13.4 ..
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ७.१, १३.५ ॥
तस्मात् ते संवृत-आत्मानः नगाः मुख्याः प्रकीर्तिताः ॥तम् दृष्ट्वा असाधकम् ब्रह्मा प्रथमम् सर्गम् ईदृशम् ॥ ७।१, १३।५ ॥
tasmāt te saṃvṛta-ātmānaḥ nagāḥ mukhyāḥ prakīrtitāḥ ..tam dṛṣṭvā asādhakam brahmā prathamam sargam īdṛśam .. 7.1, 13.5 ..
अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥ ७.१, १३.६ ॥
अ प्रसन्न-मनाः भूत्वा द्वितीयम् सः अभ्यमन्यत ॥तस्य अभिधायतः सर्गम् तिर्यक्स्रोतः अभ्यवर्तत ॥ ७।१, १३।६ ॥
a prasanna-manāḥ bhūtvā dvitīyam saḥ abhyamanyata ..tasya abhidhāyataḥ sargam tiryaksrotaḥ abhyavartata .. 7.1, 13.6 ..
अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७.१, १३.७ ॥
अन्तर् प्रकाशाः तिर्यंचः आवृताः च बहिस् पुनर् ॥पशु-आत्मानः ततस् जाताः उत्पथ-ग्राहिणः च ते ॥ ७।१, १३।७ ॥
antar prakāśāḥ tiryaṃcaḥ āvṛtāḥ ca bahis punar ..paśu-ātmānaḥ tatas jātāḥ utpatha-grāhiṇaḥ ca te .. 7.1, 13.7 ..
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ७.१, १३.८ ॥
तम् अपि असाधकम् ज्ञात्वा सर्गम् अन्यम् अमन्यत ॥तदा ऊर्ध्वस्रोतसः वृत्तः देव-सर्गः तु सात्त्विकः ॥ ७।१, १३।८ ॥
tam api asādhakam jñātvā sargam anyam amanyata ..tadā ūrdhvasrotasaḥ vṛttaḥ deva-sargaḥ tu sāttvikaḥ .. 7.1, 13.8 ..
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥ ७.१, १३.९ ॥
ते सुख-प्रीति-बहुलाः बहिस् अन्तर् च न आवृताः ॥प्रकाशाः बहिस् अन्तर् च स्वभावात् एव संज्ञिताः ॥ ७।१, १३।९ ॥
te sukha-prīti-bahulāḥ bahis antar ca na āvṛtāḥ ..prakāśāḥ bahis antar ca svabhāvāt eva saṃjñitāḥ .. 7.1, 13.9 ..
ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ ७.१, १३.१० ॥
ततस् अभिध्यायतः व्यक्तात् अर्वाक्स्रोतः तु साधकः ॥मनुष्य-नामा सञ्जातः सर्गः दुःख-समुत्कटः ॥ ७।१, १३।१० ॥
tatas abhidhyāyataḥ vyaktāt arvāksrotaḥ tu sādhakaḥ ..manuṣya-nāmā sañjātaḥ sargaḥ duḥkha-samutkaṭaḥ .. 7.1, 13.10 ..
प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ७.१, १३.११ ॥
प्रकाशाः अबहिर् अन्तर् ते तम-उद्रिक्ताः रजः अधिकाः ॥पञ्चमः अनुग्रहः सर्गः चतुर्धा संव्यवस्थितः ॥ ७।१, १३।११ ॥
prakāśāḥ abahir antar te tama-udriktāḥ rajaḥ adhikāḥ ..pañcamaḥ anugrahaḥ sargaḥ caturdhā saṃvyavasthitaḥ .. 7.1, 13.11 ..
विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ ७.१, १३.१२ ॥
विपर्ययेण शक्त्या च तुष्ट्या असिद्ध्या तथा एव च ॥ते अ परिग्राहिणः सर्वे संविभाग-रताः पुनर् ॥ ७।१, १३।१२ ॥
viparyayeṇa śaktyā ca tuṣṭyā asiddhyā tathā eva ca ..te a parigrāhiṇaḥ sarve saṃvibhāga-ratāḥ punar .. 7.1, 13.12 ..
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ ७.१, १३.१३ ॥
खादनाः च अपि अशीलाः च भूत-आद्याः परिकीर्तिताः ॥प्रथमः महतः सर्गः ब्रह्मणः परमेष्ठिनः ॥ ७।१, १३।१३ ॥
khādanāḥ ca api aśīlāḥ ca bhūta-ādyāḥ parikīrtitāḥ ..prathamaḥ mahataḥ sargaḥ brahmaṇaḥ parameṣṭhinaḥ .. 7.1, 13.13 ..
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ ७.१, १३.१४ ॥
तन्मात्राणाम् द्वितीयः तु भूत-सर्गः सः उच्यते ॥वैकारिकः तृतीयः तु सर्गः ऐन्द्रियकः स्मृतः ॥ ७।१, १३।१४ ॥
tanmātrāṇām dvitīyaḥ tu bhūta-sargaḥ saḥ ucyate ..vaikārikaḥ tṛtīyaḥ tu sargaḥ aindriyakaḥ smṛtaḥ .. 7.1, 13.14 ..
इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१, १३.१५ ॥
इति एष प्रकृतेः सर्गः सम्भृतः अ बुद्धि-पूर्वकः ॥ मुख्य-सर्गः चतुर्थः तु मुख्याः वै स्थावराः स्मृताः॥ ७।१, १३।१५ ॥
iti eṣa prakṛteḥ sargaḥ sambhṛtaḥ a buddhi-pūrvakaḥ .. mukhya-sargaḥ caturthaḥ tu mukhyāḥ vai sthāvarāḥ smṛtāḥ.. 7.1, 13.15 ..
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥ ७.१, १३.१६ ॥
तिर्यक्स्रोतः तु यः प्रोक्तः तिर्यग्योनिः स पञ्चमः ॥तत् ऊर्ध्वस्रोतसः षष्ठः देव-सर्गः तु स स्मृतः ॥ ७।१, १३।१६ ॥
tiryaksrotaḥ tu yaḥ proktaḥ tiryagyoniḥ sa pañcamaḥ ..tat ūrdhvasrotasaḥ ṣaṣṭhaḥ deva-sargaḥ tu sa smṛtaḥ .. 7.1, 13.16 ..
ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥ ७.१, १३.१७ ॥
ततस् अर्वाक्स्रोतसाम् सर्गः सप्तमः स तु मानुषः ॥अष्टमः अनुग्रहः सर्गः कौमारः नवमः स्मृतः ॥ ७।१, १३।१७ ॥
tatas arvāksrotasām sargaḥ saptamaḥ sa tu mānuṣaḥ ..aṣṭamaḥ anugrahaḥ sargaḥ kaumāraḥ navamaḥ smṛtaḥ .. 7.1, 13.17 ..
प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥ ७.१, १३.१८ ॥
प्राकृताः च त्रयः पूर्वे सर्गाः ते अ बुद्धि-पूर्वकाः ॥बुद्धि-पूर्वम् प्रवर्तन्ते मुख्य-आद्याः पञ्च वैकृताः ॥ ७।१, १३।१८ ॥
prākṛtāḥ ca trayaḥ pūrve sargāḥ te a buddhi-pūrvakāḥ ..buddhi-pūrvam pravartante mukhya-ādyāḥ pañca vaikṛtāḥ .. 7.1, 13.18 ..
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥ ७.१, १३.१९ ॥
अग्रे ससर्ज वै ब्रह्मा मानसान् आत्मनः समान् ॥सनन्दम् सनकञ्च च एव विद्वांसञ्च च सनातनम् ॥ ७।१, १३।१९ ॥
agre sasarja vai brahmā mānasān ātmanaḥ samān ..sanandam sanakañca ca eva vidvāṃsañca ca sanātanam .. 7.1, 13.19 ..
ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥ ७.१, १३.२० ॥
ऋभुम् सनत्कुमारञ्च च पूर्वम् एव प्रजापतिः ॥सर्वे ते योगिनः ज्ञेयाः वीत-रागाः विमत्सराः ॥ ७।१, १३।२० ॥
ṛbhum sanatkumārañca ca pūrvam eva prajāpatiḥ ..sarve te yoginaḥ jñeyāḥ vīta-rāgāḥ vimatsarāḥ .. 7.1, 13.20 ..
ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥ ७.१, १३.२१ ॥
ईश्वर-आसक्त-मनसः न चक्रुः सृष्टये मतिम् ॥तेषु सृष्टि-अनपेक्षेषु गतेषु सनक-आदिषु ॥ ७।१, १३।२१ ॥
īśvara-āsakta-manasaḥ na cakruḥ sṛṣṭaye matim ..teṣu sṛṣṭi-anapekṣeṣu gateṣu sanaka-ādiṣu .. 7.1, 13.21 ..
स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥ ७.१, १३.२२ ॥
स्रष्टु-कामः पुनर् ब्रह्मा तताप परमम् तपः ॥तस्य एवम् तप्यमानस्य न किंचिद् समवर्तत ॥ ७।१, १३।२२ ॥
sraṣṭu-kāmaḥ punar brahmā tatāpa paramam tapaḥ ..tasya evam tapyamānasya na kiṃcid samavartata .. 7.1, 13.22 ..
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.१, १३.२३ ॥
ततस् दीर्घेण कालेन दुःखात् क्रोधः व्यजायत ॥क्रोध-आविष्टस्य नेत्राभ्याम् प्रापतन् अश्रु-बिन्दवः ॥ ७।१, १३।२३ ॥
tatas dīrgheṇa kālena duḥkhāt krodhaḥ vyajāyata ..krodha-āviṣṭasya netrābhyām prāpatan aśru-bindavaḥ .. 7.1, 13.23 ..
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥ ७.१, १३.२४ ॥
ततस् तेभ्यः अश्रु-बिन्दुभ्यः भूताः प्रेताः तदा अभवन् ॥सर्वान् तान् अश्रु-जान् दृष्ट्वा ब्रह्मा आत्मानम् अनिंदत ॥ ७।१, १३।२४ ॥
tatas tebhyaḥ aśru-bindubhyaḥ bhūtāḥ pretāḥ tadā abhavan ..sarvān tān aśru-jān dṛṣṭvā brahmā ātmānam aniṃdata .. 7.1, 13.24 ..
तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥ ७.१, १३.२५ ॥
तस्य तीव्रा अभवत् मूर्छा क्रोध-अमर्ष-समुद्भवा ॥मूर्छितः तु जहौ प्राणान् क्रोध-आविष्टः प्रजापतिः ॥ ७।१, १३।२५ ॥
tasya tīvrā abhavat mūrchā krodha-amarṣa-samudbhavā ..mūrchitaḥ tu jahau prāṇān krodha-āviṣṭaḥ prajāpatiḥ .. 7.1, 13.25 ..
ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥ ७.१, १३.२६ ॥
ततस् प्राणेश्वरः रुद्रः भगवान् नीललोहितः ॥प्रसादम् अतुलम् कर्तुम् प्रादुरासीत् प्रभोः मुखात् ॥ ७।१, १३।२६ ॥
tatas prāṇeśvaraḥ rudraḥ bhagavān nīlalohitaḥ ..prasādam atulam kartum prādurāsīt prabhoḥ mukhāt .. 7.1, 13.26 ..
दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥ ७.१, १३.२७ ॥
दशधा च एकधा चक्रे स्व-आत्मानम् प्रभुः ईश्वरः ॥ते तेन उक्ताः महात्मानः दशधा च एकधा कृताः ॥ ७।१, १३।२७ ॥
daśadhā ca ekadhā cakre sva-ātmānam prabhuḥ īśvaraḥ ..te tena uktāḥ mahātmānaḥ daśadhā ca ekadhā kṛtāḥ .. 7.1, 13.27 ..
यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७.१, १३.२८ ॥
यूयम् सृष्टाः मया वत्साः लोक-अनुग्रह-कारणात् ॥तस्मात् सर्वस्य लोकस्य स्थापनाय हिताय च ॥ ७।१, १३।२८ ॥
yūyam sṛṣṭāḥ mayā vatsāḥ loka-anugraha-kāraṇāt ..tasmāt sarvasya lokasya sthāpanāya hitāya ca .. 7.1, 13.28 ..
प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥ ७.१, १३.२९ ॥
प्रजा-सन्तान-हेतोः च प्रयतध्वम् अतन्द्रिताः ॥एवम् उक्ताः च रुरुदुः दुद्रुवुः च समन्ततः ॥ ७।१, १३।२९ ॥
prajā-santāna-hetoḥ ca prayatadhvam atandritāḥ ..evam uktāḥ ca ruruduḥ dudruvuḥ ca samantataḥ .. 7.1, 13.29 ..
रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥ ७.१, १३.३० ॥
रोदनात् द्रावणात् च एव ते रुद्राः नामतः स्मृताः ॥ये रुद्राः ते खलु प्राणाः ये प्राणाः ते महात्मकाः ॥ ७।१, १३।३० ॥
rodanāt drāvaṇāt ca eva te rudrāḥ nāmataḥ smṛtāḥ ..ye rudrāḥ te khalu prāṇāḥ ye prāṇāḥ te mahātmakāḥ .. 7.1, 13.30 ..
ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥ ७.१, १३.३१ ॥
ततस् मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनर् प्राणान् ब्रह्म-पुत्रः महेश्वरः ॥ ७।१, १३।३१ ॥
tatas mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ ..ghṛṇī dadau punar prāṇān brahma-putraḥ maheśvaraḥ .. 7.1, 13.31 ..
प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥ ७.१, १३.३२ ॥
प्रहृष्ट-वदनः रुद्रः प्राण-प्रत्यागमात् विभोः ॥अभ्यभाषत विश्वेशः ब्रह्माणम् परमम् वचः ॥ ७।१, १३।३२ ॥
prahṛṣṭa-vadanaḥ rudraḥ prāṇa-pratyāgamāt vibhoḥ ..abhyabhāṣata viśveśaḥ brahmāṇam paramam vacaḥ .. 7.1, 13.32 ..
माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥ ७.१, १३.३३ ॥
माभैः माभैः महाभाग विरिंच जगताम् गुरो ॥मया ते प्राणिताः प्राणाः सुखम् उत्तिष्ठ सुव्रत ॥ ७।१, १३।३३ ॥
mābhaiḥ mābhaiḥ mahābhāga viriṃca jagatām guro ..mayā te prāṇitāḥ prāṇāḥ sukham uttiṣṭha suvrata .. 7.1, 13.33 ..
स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥ ७.१, १३.३४ ॥
स्वप्न-अनुभूतम् इव तत् श्रुत्वा वाक्यम् मनोहरम् ॥हरम् निरीक्ष्य शनकैस् नेत्रैः फुल्ल-अम्बुज-प्रभैः ॥ ७।१, १३।३४ ॥
svapna-anubhūtam iva tat śrutvā vākyam manoharam ..haram nirīkṣya śanakais netraiḥ phulla-ambuja-prabhaiḥ .. 7.1, 13.34 ..
तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥ ७.१, १३.३५ ॥
तथा प्रत्यागत-प्राणः स्निग्ध-गम्भीरया गिरा ॥उवाच वचनम् ब्रह्मा तम् उद्दिश्य कृताञ्जलिः ॥ ७।१, १३।३५ ॥
tathā pratyāgata-prāṇaḥ snigdha-gambhīrayā girā ..uvāca vacanam brahmā tam uddiśya kṛtāñjaliḥ .. 7.1, 13.35 ..
त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥ ७.१, १३.३६ ॥
त्वम् हि दर्शन-मात्रेण च आनन्दयसि मे मनः ॥कः भवान् विश्वमूर्त्याः वा स्थितः एकादश-आत्मकः ॥ ७।१, १३।३६ ॥
tvam hi darśana-mātreṇa ca ānandayasi me manaḥ ..kaḥ bhavān viśvamūrtyāḥ vā sthitaḥ ekādaśa-ātmakaḥ .. 7.1, 13.36 ..
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥ ७.१, १३.३७ ॥
तस्य तत् वचनम् श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्याम् ब्रह्माणम् सु सुखाभ्याम् सुरेश्वरः ॥ ७।१, १३।३७ ॥
tasya tat vacanam śrutvā vyājahāra maheśvaraḥ ..spṛśan kārābhyām brahmāṇam su sukhābhyām sureśvaraḥ .. 7.1, 13.37 ..
मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥ ७.१, १३.३८ ॥
माम् विद्धि परमात्मानम् तव पुत्र-त्वम् आगतम् ॥एते च एकादश रुद्राः त्वाम् सु रक्षितुम् आगताः ॥ ७।१, १३।३८ ॥
mām viddhi paramātmānam tava putra-tvam āgatam ..ete ca ekādaśa rudrāḥ tvām su rakṣitum āgatāḥ .. 7.1, 13.38 ..
तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥ ७.१, १३.३९ ॥
तस्मात् तीव्राम् इमाम् मूर्छाम् विधूय मद्-अनुग्रहात् ॥प्रबुद्धस्व यथापूर्वम् प्रजाः वै स्रष्टुम् अर्हसि ॥ ७।१, १३।३९ ॥
tasmāt tīvrām imām mūrchām vidhūya mad-anugrahāt ..prabuddhasva yathāpūrvam prajāḥ vai sraṣṭum arhasi .. 7.1, 13.39 ..
एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७.१, १३.४० ॥
एवम् भगवता प्रोक्तः ब्रह्मा प्रीत-मनाः हि अभूत् ॥नाना अष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥ ७।१, १३।४० ॥
evam bhagavatā proktaḥ brahmā prīta-manāḥ hi abhūt ..nānā aṣṭakena viśvātmā tuṣṭāva parameśvaram .. 7.1, 13.40 ..
ब्रह्मोवाच॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥नमो भवाय देवाय रसायाम्बुमयात्मने ॥ ७.१, १३.४१ ॥
नमः ते भगवन् रुद्र भास्कर-अमित-तेजसे ॥नमः भवाय देवाय रसाय अम्बु-मय-आत्मने ॥ ७।१, १३।४१ ॥
namaḥ te bhagavan rudra bhāskara-amita-tejase ..namaḥ bhavāya devāya rasāya ambu-maya-ātmane .. 7.1, 13.41 ..
शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥41॥ ॥ ७.१, १३.४२ ॥
शर्वाय क्षिति-रूपाय नन्दी-सुरभये नमः ॥ ईशाय वसवे तुभ्यम् नमः-स्पर्श-मय-आत्मने ॥४१॥ ॥ ७।१, १३।४२ ॥
śarvāya kṣiti-rūpāya nandī-surabhaye namaḥ .. īśāya vasave tubhyam namaḥ-sparśa-maya-ātmane ..41.. .. 7.1, 13.42 ..
पशूनां पतये चैव पावकायातितेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ७.१, १३.४३ ॥
पशूनाम् पतये च एव पावकाय अति तेजसे ॥भीमाय व्योम-रूपाय शब्द-मात्राय ते नमः ॥ ७।१, १३।४३ ॥
paśūnām pataye ca eva pāvakāya ati tejase ..bhīmāya vyoma-rūpāya śabda-mātrāya te namaḥ .. 7.1, 13.43 ..
उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥ ७.१, १३.४४ ॥
उग्राय उग्र-स्वरूपाय यजमान-आत्मने नमः ॥महादेवाय सोमाय नमः अस्तु अमृत-मूर्तये ॥ ७।१, १३।४४ ॥
ugrāya ugra-svarūpāya yajamāna-ātmane namaḥ ..mahādevāya somāya namaḥ astu amṛta-mūrtaye .. 7.1, 13.44 ..
एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥ ७.१, १३.४५ ॥
एवम् स्तुत्वा महादेवम् ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशम् गिरा प्रणति-पूर्वया ॥ ७।१, १३।४५ ॥
evam stutvā mahādevam brahmā lokapitāmahaḥ ..prārthayāmāsa viśveśam girā praṇati-pūrvayā .. 7.1, 13.45 ..
भगवन् भूतभव्येश मम पुत्र महेश्वर ॥सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥ ७.१, १३.४६ ॥
भगवन् भूत-भव्य-ईश मम पुत्र महेश्वर ॥सृष्टि-हेतोः त्वम् उत्पन्नः मम अंगे अनंग-नाशनः ॥ ७।१, १३।४६ ॥
bhagavan bhūta-bhavya-īśa mama putra maheśvara ..sṛṣṭi-hetoḥ tvam utpannaḥ mama aṃge anaṃga-nāśanaḥ .. 7.1, 13.46 ..
तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥ ७.१, १३.४७ ॥
तस्मात् महति कार्ये स्मिन् व्यापृतस्य जगत्प्रभो ॥सहायम् कुरु सर्वत्र स्रष्टुम् अर्हसि स प्रजाः ॥ ७।१, १३।४७ ॥
tasmāt mahati kārye smin vyāpṛtasya jagatprabho ..sahāyam kuru sarvatra sraṣṭum arhasi sa prajāḥ .. 7.1, 13.47 ..
तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥ ७.१, १३.४८ ॥
तेन एषाम् पावितः देवः रुद्रः त्रिपुर-मर्दनः ॥बाढम् इति एव ताम् वाणीम् प्रतिजग्राह शंकरः ॥ ७।१, १३।४८ ॥
tena eṣām pāvitaḥ devaḥ rudraḥ tripura-mardanaḥ ..bāḍham iti eva tām vāṇīm pratijagrāha śaṃkaraḥ .. 7.1, 13.48 ..
ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥ ७.१, १३.४९ ॥
ततस् स भगवान् ब्रह्मा हृष्टम् तम् अभिनंद्य च ॥स्रष्टुम् तेन अभ्यनुज्ञातः तथा अन्याः च असृजत् प्रजाः ॥ ७।१, १३।४९ ॥
tatas sa bhagavān brahmā hṛṣṭam tam abhinaṃdya ca ..sraṣṭum tena abhyanujñātaḥ tathā anyāḥ ca asṛjat prajāḥ .. 7.1, 13.49 ..
मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥ पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥ ७.१, १३.५० ॥
मरीचि-भृगु-अंगिरसः पुलस्त्यम् पुलहम् क्रतुम् ॥दक्षम् अत्रिम् वसिष्ठम् च सः असृजत् मनसा एव च ॥ पुरस्तात् असृजत् ब्रह्मा धर्मम् संकल्पम् एव च ॥ ७।१, १३।५० ॥
marīci-bhṛgu-aṃgirasaḥ pulastyam pulaham kratum ..dakṣam atrim vasiṣṭham ca saḥ asṛjat manasā eva ca .. purastāt asṛjat brahmā dharmam saṃkalpam eva ca .. 7.1, 13.50 ..
इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥ ७.१, १३.५१ ॥
इति एते ब्रह्मणः पुत्राः द्वादश आदौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणाः गृहमेधिनः ॥ ७।१, १३।५१ ॥
iti ete brahmaṇaḥ putrāḥ dvādaśa ādau prakīrtitāḥ ..saha rudreṇa saṃbhūtāḥ purāṇāḥ gṛhamedhinaḥ .. 7.1, 13.51 ..
तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥ ७.१, १३.५२ ॥
तेषाम् द्वादश वंशाः स्युः दिव्याः देव-गण-अन्विताः ॥प्रजावन्तः क्रियावन्तः महा-ऋषिभिः अलंकृताः ॥ ७।१, १३।५२ ॥
teṣām dvādaśa vaṃśāḥ syuḥ divyāḥ deva-gaṇa-anvitāḥ ..prajāvantaḥ kriyāvantaḥ mahā-ṛṣibhiḥ alaṃkṛtāḥ .. 7.1, 13.52 ..
अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥ ७.१, १३.५३ ॥
अथ देव-असुर-पितॄन् मनुष्यान् च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुः अंभसि एतानि वै विधिः ॥ ७।१, १३।५३ ॥
atha deva-asura-pitṝn manuṣyān ca catuṣṭayam ..saha rudreṇa sisṛkṣuḥ aṃbhasi etāni vai vidhiḥ .. 7.1, 13.53 ..
स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥ ७.१, १३.५४ ॥
स सृष्टि-अर्थम् समाधाय ब्रह्मा आत्मानम् अयूयुजत् ॥मुखात् अजनयत् देवान् पितॄन् च एव उपपक्षतः ॥ ७।१, १३।५४ ॥
sa sṛṣṭi-artham samādhāya brahmā ātmānam ayūyujat ..mukhāt ajanayat devān pitṝn ca eva upapakṣataḥ .. 7.1, 13.54 ..
जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.१, १३.५५ ॥
जघनात् असुरान् सर्वान् प्रजनात् अपि मानुषान् ॥अवस्करे क्षुधा-आविष्टाः राक्षसाः तस्य जज्ञिरे ॥ ७।१, १३।५५ ॥
jaghanāt asurān sarvān prajanāt api mānuṣān ..avaskare kṣudhā-āviṣṭāḥ rākṣasāḥ tasya jajñire .. 7.1, 13.55 ..
पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥ ७.१, १३.५६ ॥
पुत्राः तमः-रजः-प्रायाः बलिनः ते निशाचराः ॥सर्पाः यक्षाः तथा भूताः गंधर्वाः संप्रजज्ञिरे ॥ ७।१, १३।५६ ॥
putrāḥ tamaḥ-rajaḥ-prāyāḥ balinaḥ te niśācarāḥ ..sarpāḥ yakṣāḥ tathā bhūtāḥ gaṃdharvāḥ saṃprajajñire .. 7.1, 13.56 ..
वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥ ७.१, १३.५७ ॥
वयांसि पक्षतः सृष्टाः पक्षिणः वक्षसः असृजत् ॥मुखतोजान् तथा पार्श्वात् उरगान् च विनिर्ममे ॥ ७।१, १३।५७ ॥
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇaḥ vakṣasaḥ asṛjat ..mukhatojān tathā pārśvāt uragān ca vinirmame .. 7.1, 13.57 ..
पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः ॥ ७.१, १३.५८ ॥
पद्भ्याम् च अश्वान् स मातंगान् शरभान् गवयान् मृगान् ॥उष्ट्रान् अश्वतरान् च एव न्यंकून् अन्याः च जातयः ॥ ७।१, १३।५८ ॥
padbhyām ca aśvān sa mātaṃgān śarabhān gavayān mṛgān ..uṣṭrān aśvatarān ca eva nyaṃkūn anyāḥ ca jātayaḥ .. 7.1, 13.58 ..
औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥ ७.१, १३.५९ ॥
औषध्यः फल-मूलानि रोमभ्यः तस्य जज्ञिरे ॥गायत्रीम् च ऋचम् च एव त्रिवृत्-साम रथंतरम् ॥ ७।१, १३।५९ ॥
auṣadhyaḥ phala-mūlāni romabhyaḥ tasya jajñire ..gāyatrīm ca ṛcam ca eva trivṛt-sāma rathaṃtaram .. 7.1, 13.59 ..
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥ ७.१, १३.६० ॥
अग्निष्टोमम् च यज्ञानाम् निर्ममे प्रथमान् मुखात् ॥यजूंषि त्रैष्टुभम् छंदः-स्तोमम् पञ्चदशम् तथा ॥ ७।१, १३।६० ॥
agniṣṭomam ca yajñānām nirmame prathamān mukhāt ..yajūṃṣi traiṣṭubham chaṃdaḥ-stomam pañcadaśam tathā .. 7.1, 13.60 ..
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥ ७.१, १३.६१ ॥
बृहत्साम तथा उक्थम् च दक्षिणात् असृजत् मुखात् ॥सामानि जगती-छंदः स्तोमम् सप्तदशम् तथा ॥ ७।१, १३।६१ ॥
bṛhatsāma tathā uktham ca dakṣiṇāt asṛjat mukhāt ..sāmāni jagatī-chaṃdaḥ stomam saptadaśam tathā .. 7.1, 13.61 ..
वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥ ७.१, १३.६२ ॥
वैरूप्यम् अतिरात्रम् च पश्चिमात् असृजत् मुखात् ॥एकविंशम् अथर्वाणम् आप्तोर्यामाणम् एव च ॥ ७।१, १३।६२ ॥
vairūpyam atirātram ca paścimāt asṛjat mukhāt ..ekaviṃśam atharvāṇam āptoryāmāṇam eva ca .. 7.1, 13.62 ..
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ७.१, १३.६३ ॥
अनुष्टुभम् स वैराजम् उत्तरात् असृजत् मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यः तस्य जज्ञिरे ॥ ७।१, १३।६३ ॥
anuṣṭubham sa vairājam uttarāt asṛjat mukhāt ..uccāvacāni bhūtāni gātrebhyaḥ tasya jajñire .. 7.1, 13.63 ..
यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥ ७.१, १३.६४ ॥
यक्षाः पिशाचाः गंधर्वाः तथा एव अप्सरसाम् गणाः ॥नर-किन्नर-रक्षांसि वयः-पशु-मृग-उरगाः ॥ ७।१, १३।६४ ॥
yakṣāḥ piśācāḥ gaṃdharvāḥ tathā eva apsarasām gaṇāḥ ..nara-kinnara-rakṣāṃsi vayaḥ-paśu-mṛga-uragāḥ .. 7.1, 13.64 ..
अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥ ७.१, १३.६५ ॥
अव्ययम् च एव यत् इदम् स्थाणु-स्थावर-जंगमम् ॥तेषाम् वै यानि कर्माणि प्राच्-सृष्टानि प्रपेदिरे ॥ ७।१, १३।६५ ॥
avyayam ca eva yat idam sthāṇu-sthāvara-jaṃgamam ..teṣām vai yāni karmāṇi prāc-sṛṣṭāni prapedire .. 7.1, 13.65 ..
तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥ ७.१, १३.६६ ॥
तानि एव ते प्रपद्यंते सृज्यमानाः पुनर् पुनर् ॥हिंस्र-अहिंस्रे मृदु-क्रूरे धर्म-अधर्म-आवृत-अनृते ॥ ७।१, १३।६६ ॥
tāni eva te prapadyaṃte sṛjyamānāḥ punar punar ..hiṃsra-ahiṃsre mṛdu-krūre dharma-adharma-āvṛta-anṛte .. 7.1, 13.66 ..
तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥ ७.१, १३.६७ ॥
तद्-भाविताः प्रपद्यंते तस्मात् तत् तस्य रोचते ॥महाभूतेषु नानात्वम् इंद्रियार्थेषु मुक्तिषु ॥ ७।१, १३।६७ ॥
tad-bhāvitāḥ prapadyaṃte tasmāt tat tasya rocate ..mahābhūteṣu nānātvam iṃdriyārtheṣu muktiṣu .. 7.1, 13.67 ..
विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥ ७.१, १३.६८ ॥
विनियोगम् च भूतानाम् धाता एव व्यदधत् स्वयम् ॥नाम रूपम् च भूतानाम् प्राकृतानाम् प्रपञ्चनम् ॥ ७।१, १३।६८ ॥
viniyogam ca bhūtānām dhātā eva vyadadhat svayam ..nāma rūpam ca bhūtānām prākṛtānām prapañcanam .. 7.1, 13.68 ..
वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥ ७.१, १३.६९ ॥
वेद-शब्देभ्यः एव आदौ निर्ममे असौ पितामहः ॥आर्षाणि च एव नामानि याः च वेदेषु वृत्तयः ॥ ७।१, १३।६९ ॥
veda-śabdebhyaḥ eva ādau nirmame asau pitāmahaḥ ..ārṣāṇi ca eva nāmāni yāḥ ca vedeṣu vṛttayaḥ .. 7.1, 13.69 ..
शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥ ७.१, १३.७० ॥
शर्वरी-अन्ते प्रसूतानाम् तानि एव एभ्यः ददौ अजः ॥यथा ऋतौ ऋतु-लिंगानि नाना रूपाणि पर्यये ॥ ७।१, १३।७० ॥
śarvarī-ante prasūtānām tāni eva ebhyaḥ dadau ajaḥ ..yathā ṛtau ṛtu-liṃgāni nānā rūpāṇi paryaye .. 7.1, 13.70 ..
दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥ ७.१, १३.७१ ॥
दृश्यंते तानि तानि एव तथा भावाः युग-आदिषु ॥इति एष करण-उद्भूतः लोक-सर्गः स्वयंभुवः ॥ ७।१, १३।७१ ॥
dṛśyaṃte tāni tāni eva tathā bhāvāḥ yuga-ādiṣu ..iti eṣa karaṇa-udbhūtaḥ loka-sargaḥ svayaṃbhuvaḥ .. 7.1, 13.71 ..
महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥ ७.१, १३.७२ ॥
महत्-आद्यः विशेष-अंतः विकारः प्रकृतेः स्वयम् ॥चंद्र-सूर्य-प्रभा-जुष्टः ग्रह-नक्षत्र-मंडितः ॥ ७।१, १३।७२ ॥
mahat-ādyaḥ viśeṣa-aṃtaḥ vikāraḥ prakṛteḥ svayam ..caṃdra-sūrya-prabhā-juṣṭaḥ graha-nakṣatra-maṃḍitaḥ .. 7.1, 13.72 ..
नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥ ७.१, १३.७३ ॥
नदीभिः च समुद्रैः च पर्वतैः च स मंडितः ॥परैः च विविधैः रम्यैः स्फीतैः जनपदैः तथा ॥ ७।१, १३।७३ ॥
nadībhiḥ ca samudraiḥ ca parvataiḥ ca sa maṃḍitaḥ ..paraiḥ ca vividhaiḥ ramyaiḥ sphītaiḥ janapadaiḥ tathā .. 7.1, 13.73 ..
तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥ ७.१, १३.७४ ॥
तस्मिन् ब्रह्म-वने अव्यक्तः ब्रह्मा चरति सर्व-विद् ॥ ॥ ७।१, १३।७४ ॥
tasmin brahma-vane avyaktaḥ brahmā carati sarva-vid .. .. 7.1, 13.74 ..
बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥महाभूतप्रमाणश्च विशेषामलपल्लवः ॥ ७.१, १३.७५ ॥
॥च ॥ ७।१, १३।७५ ॥
..ca .. 7.1, 13.75 ..
धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥ ७.१, १३.७६ ॥
॥आजीव्यः सर्व-भूतानाम् ब्रह्मवृक्षः सनातनः ॥ ७।१, १३।७६ ॥
..ājīvyaḥ sarva-bhūtānām brahmavṛkṣaḥ sanātanaḥ .. 7.1, 13.76 ..
द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ ७.१, १३.७७ ॥
द्याम् मूर्धानम् तस्य विप्राः वदंति खम् वै नाभिम् चंद्र-सूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिम् च सः अचिन्त्य-आत्मा सर्व-भूत-प्रणेता ॥ ७।१, १३।७७ ॥
dyām mūrdhānam tasya viprāḥ vadaṃti kham vai nābhim caṃdra-sūryau ca netre ..diśaḥ śrotre caraṇau ca kṣitim ca saḥ acintya-ātmā sarva-bhūta-praṇetā .. 7.1, 13.77 ..
वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ ७.१, १३.७८ ॥
वक्त्रात् तस्य तद्-वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्याः उरुभ्याम् तस्य पद्भ्याम् च शूद्राः सर्वे वर्णाः गात्रतः संप्रसूताः ॥ ७।१, १३।७८ ॥
vaktrāt tasya tad-vakṣasaḥ kṣatriyāḥ pūrvabhāgāt ..vaiśyāḥ urubhyām tasya padbhyām ca śūdrāḥ sarve varṇāḥ gātrataḥ saṃprasūtāḥ .. 7.1, 13.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे सृष्टिवर्णनम् नाम द्वादशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe sṛṣṭivarṇanam nāma dvādaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In