| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१॥
भवता कथिता सृष्टिः भवस्य परमात्मनः ॥ चतुर्मुख-मुखात् तस्य संशयः नः प्रजायते ॥ ७।१,१३।१॥
bhavatā kathitā sṛṣṭiḥ bhavasya paramātmanaḥ .. caturmukha-mukhāt tasya saṃśayaḥ naḥ prajāyate .. 7.1,13.1..
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२॥
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ || kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ || 7.1,13.2||
devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ || kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ || 7.1,13.2||
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३॥
स ब्रह्मकम् इमम् लोकम् स विष्णुम् अपि पावकम् ॥ यः संहरति संक्रुद्धः युग-अन्ते समुपस्थिते ॥ ७।१,१३।३॥
sa brahmakam imam lokam sa viṣṇum api pāvakam .. yaḥ saṃharati saṃkruddhaḥ yuga-ante samupasthite .. 7.1,13.3..
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४॥
यस्य ब्रह्मा च विष्णुः च प्रणामम् कुरुतः भयात् ॥ लोक-संकोचकस्य अस्य यस्य तौ वश-वर्तिनौ ॥ ७।१,१३।४॥
yasya brahmā ca viṣṇuḥ ca praṇāmam kurutaḥ bhayāt .. loka-saṃkocakasya asya yasya tau vaśa-vartinau .. 7.1,13.4..
यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५॥
यः अयम् देवः स्वकात् अंगात् ब्रह्म-विष्णू पुरा असृजत् ॥ सः एव हि तयोः नित्यम् योगक्षेम-करः प्रभुः ॥ ७।१,१३।५॥
yaḥ ayam devaḥ svakāt aṃgāt brahma-viṣṇū purā asṛjat .. saḥ eva hi tayoḥ nityam yogakṣema-karaḥ prabhuḥ .. 7.1,13.5..
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६॥
स कथम् भगवान् रुद्रः आदिदेवः पुरातनः ॥ पुत्र-त्वम् अगमत् शंभुः ब्रह्मणः अव्यक्त-जन्मनः ॥ ७।१,१३।६॥
sa katham bhagavān rudraḥ ādidevaḥ purātanaḥ .. putra-tvam agamat śaṃbhuḥ brahmaṇaḥ avyakta-janmanaḥ .. 7.1,13.6..
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७॥
प्रजापतिः च विष्णुः च रुद्रस्य एतौ परस्परम् ॥ सृष्टौ परस्परस्य अंगात् इति प्राक् अपि शुश्रुम ॥ ७।१,१३।७॥
prajāpatiḥ ca viṣṇuḥ ca rudrasya etau parasparam .. sṛṣṭau parasparasya aṃgāt iti prāk api śuśruma .. 7.1,13.7..
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८॥
कथम् पुनर् अशेषाणाम् भूतानाम् हेतु-भूतयोः ॥ गुण-प्रधान-भावेन प्रादुर्भावः परस्परात् ॥ ७।१,१३।८॥
katham punar aśeṣāṇām bhūtānām hetu-bhūtayoḥ .. guṇa-pradhāna-bhāvena prādurbhāvaḥ parasparāt .. 7.1,13.8..
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९॥
न अ पृष्टम् भवता किंचिद् न अ श्रुतम् च कथंचन ॥ भगवत्-शिष्य-भूतेन भवता सकलम् स्मृतम् ॥ ७।१,१३।९॥
na a pṛṣṭam bhavatā kiṃcid na a śrutam ca kathaṃcana .. bhagavat-śiṣya-bhūtena bhavatā sakalam smṛtam .. 7.1,13.9..
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१०॥
तत्त्वम् वद यथा ब्रह्मा मुनीनाम् अवदत् विभुः ॥ वयम् श्रद्धालवः तात श्रोतुम् ईश्वर-सत् यशः ॥ ७।१,१३।१०॥
tattvam vada yathā brahmā munīnām avadat vibhuḥ .. vayam śraddhālavaḥ tāta śrotum īśvara-sat yaśaḥ .. 7.1,13.10..
वायुरुवाच॥
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११॥
स्थाने पृष्टम् इदम् विप्राः भवद्भिः प्रश्न-कोविदैः ॥ इदम् एव पुरा पृष्टः मम प्राह पितामहः ॥ ७।१,१३।११॥
sthāne pṛṣṭam idam viprāḥ bhavadbhiḥ praśna-kovidaiḥ .. idam eva purā pṛṣṭaḥ mama prāha pitāmahaḥ .. 7.1,13.11..
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२॥
तत् अहम् सम्प्रवक्ष्यामि यथा रुद्र-समुद्भवः ॥ यथा च पुनरुत्पत्तिः ब्रह्म-विष्ण्वोः परस्परम् ॥ ७।१,१३।१२॥
tat aham sampravakṣyāmi yathā rudra-samudbhavaḥ .. yathā ca punarutpattiḥ brahma-viṣṇvoḥ parasparam .. 7.1,13.12..
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३॥
त्रयः ते कारण-आत्मानः जताः साक्षात् महेश्वरात् ॥ चराचरस्य विश्वस्य सर्ग-स्थिति-अंत-हेतवः ॥ ७।१,१३।१३॥
trayaḥ te kāraṇa-ātmānaḥ jatāḥ sākṣāt maheśvarāt .. carācarasya viśvasya sarga-sthiti-aṃta-hetavaḥ .. 7.1,13.13..
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४॥
परम-ऐश्वर्य-संयुक्ताः परमेश्वर-भाविताः ॥ तद्-शक्त्या अधिष्ठिताः नित्यम् तद्-कार्य-करण-क्षमाः ॥ ७।१,१३।१४॥
parama-aiśvarya-saṃyuktāḥ parameśvara-bhāvitāḥ .. tad-śaktyā adhiṣṭhitāḥ nityam tad-kārya-karaṇa-kṣamāḥ .. 7.1,13.14..
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५॥
पित्रा नियमिताः पूर्वम् त्रयः अपि त्रिषु कर्मसु ॥ ब्रह्मा सर्गे हरिः त्राणे रुद्रः संहरणे तथा ॥ ७।१,१३।१५॥
pitrā niyamitāḥ pūrvam trayaḥ api triṣu karmasu .. brahmā sarge hariḥ trāṇe rudraḥ saṃharaṇe tathā .. 7.1,13.15..
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६॥
तथा अपि अन्योन्य-मात्सर्यात् अन्योन्य-अतिशय-आशिनः ॥ तपसा तोषयित्वा स्वम् पितरम् परमेश्वरम् ॥ ७।१,१३।१६॥
tathā api anyonya-mātsaryāt anyonya-atiśaya-āśinaḥ .. tapasā toṣayitvā svam pitaram parameśvaram .. 7.1,13.16..
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७॥
लब्ध्वा सर्व-आत्मना तस्य प्रसादात् परमेष्ठिनः ॥ ब्रह्म-नारायणौ पूर्वम् रुद्रः कल्प-अन्तरे असृजत् ॥ ७।१,१३।१७॥
labdhvā sarva-ātmanā tasya prasādāt parameṣṭhinaḥ .. brahma-nārāyaṇau pūrvam rudraḥ kalpa-antare asṛjat .. 7.1,13.17..
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८॥
कल्प-अन्तरे पुनर् ब्रह्मा रुद्र-विष्णू जगत्-मयः ॥ विष्णुः च भगवान् रुद्रम् ब्रह्माणम् असृजत् पुनर् ॥ ७।१,१३।१८॥
kalpa-antare punar brahmā rudra-viṣṇū jagat-mayaḥ .. viṣṇuḥ ca bhagavān rudram brahmāṇam asṛjat punar .. 7.1,13.18..
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९॥
नारायणम् पुनर् ब्रह्मा ब्रह्माणम् असृजत् पुनर् ॥ एवम् कल्पेषु कल्पेषु ब्रह्म-विष्णु-महेश्वराः ॥ ७।१,१३।१९॥
nārāyaṇam punar brahmā brahmāṇam asṛjat punar .. evam kalpeṣu kalpeṣu brahma-viṣṇu-maheśvarāḥ .. 7.1,13.19..
परस्परेण जायंते परस्परहितैषिणः ॥ तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२०॥
परस्परेण जायंते परस्पर-हित-एषिणः ॥ तद्-तद्-कल्पान्त-वृत्तान्तम् अधिकृत्य महा-ऋषिभिः ॥ ७।१,१३।२०॥
paraspareṇa jāyaṃte paraspara-hita-eṣiṇaḥ .. tad-tad-kalpānta-vṛttāntam adhikṛtya mahā-ṛṣibhiḥ .. 7.1,13.20..
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१॥
प्रभावः कथ्यते तेषाम् परस्पर-समुद्भवात् ॥ शृणु तेषाम् कथाम् चित्राम् पुण्याम् पाप-प्रमोचिनीम् ॥ ७।१,१३।२१॥
prabhāvaḥ kathyate teṣām paraspara-samudbhavāt .. śṛṇu teṣām kathām citrām puṇyām pāpa-pramocinīm .. 7.1,13.21..
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२॥
कल्पे तत्पुरुषे वृत्ताम् ब्रह्मणः परमेष्ठिनः ॥ पुरा नारायणः नाम कल्पे वै मेघवाहने ॥ ७।१,१३।२२॥
kalpe tatpuruṣe vṛttām brahmaṇaḥ parameṣṭhinaḥ .. purā nārāyaṇaḥ nāma kalpe vai meghavāhane .. 7.1,13.22..
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३॥
दिव्यम् वर्ष-सहस्रम् तु मेघः भूत्वा अवहत् धराम् ॥ तस्य भावम् समालक्ष्य विष्णोः विश्व-जगत्-गुरुः ॥ ७।१,१३।२३॥
divyam varṣa-sahasram tu meghaḥ bhūtvā avahat dharām .. tasya bhāvam samālakṣya viṣṇoḥ viśva-jagat-guruḥ .. 7.1,13.23..
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४॥
सर्वः सर्व-आत्म-भावेन प्रददौ शक्तिम् अव्ययाम् ॥ शक्तिम् लब्ध्वा तु सर्वात्मा शिवात् सर्व-ईश्वरात् तदा ॥ ७।१,१३।२४॥
sarvaḥ sarva-ātma-bhāvena pradadau śaktim avyayām .. śaktim labdhvā tu sarvātmā śivāt sarva-īśvarāt tadā .. 7.1,13.24..
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५॥
ससर्ज भगावन् विष्णुः विश्वम् विश्वसृजा सह ॥ विष्णोः तत् वैभवम् दृष्ट्वा सृष्टः तेन पितामहः ॥ ७।१,१३।२५॥
sasarja bhagāvan viṣṇuḥ viśvam viśvasṛjā saha .. viṣṇoḥ tat vaibhavam dṛṣṭvā sṛṣṭaḥ tena pitāmahaḥ .. 7.1,13.25..
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ॥
ईर्ष्यया परया ग्रस्तः प्रहसन् इदम् अब्रवीत् ॥गच्छ विष्णो मया ज्ञातम् तव सर्गस्य कारणम् ॥ आवयोः अधिकः च अस्ति स रुद्रः न अत्र संशयः ॥ ॥
īrṣyayā parayā grastaḥ prahasan idam abravīt ..gaccha viṣṇo mayā jñātam tava sargasya kāraṇam .. āvayoḥ adhikaḥ ca asti sa rudraḥ na atra saṃśayaḥ .. ..
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७॥
तस्य देव-अधिदेवस्य प्रसादात् परमेष्ठिनः ॥ स्रष्टा त्वम् भगवान् आद्यः पालकः परमार्थतः ॥ ७।१,१३।२७॥
tasya deva-adhidevasya prasādāt parameṣṭhinaḥ .. sraṣṭā tvam bhagavān ādyaḥ pālakaḥ paramārthataḥ .. 7.1,13.27..
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८॥
अहम् च तपसा आराध्य रुद्रम् त्रिदश-नायकम् ॥ त्वया सह जगत् सर्वम् स्रक्ष्यामि अत्र न संशयः ॥ ७।१,१३।२८॥
aham ca tapasā ārādhya rudram tridaśa-nāyakam .. tvayā saha jagat sarvam srakṣyāmi atra na saṃśayaḥ .. 7.1,13.28..
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९॥
एवम् विष्णुम् उपालभ्य भगवान् अब्ज-सम्भवः ॥ एवम् विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७।१,१३।२९॥
evam viṣṇum upālabhya bhagavān abja-sambhavaḥ .. evam vijñāpayāmāsa tapasā prāpya śaṃkaram .. 7.1,13.29..
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३०॥
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ तव वाम-अंग-जः विष्णुः दक्षिण-अंग-भवः हि अहम् ॥ ७।१,१३।३०॥
bhagavan devadeveśa viśveśvara maheśvara .. tava vāma-aṃga-jaḥ viṣṇuḥ dakṣiṇa-aṃga-bhavaḥ hi aham .. 7.1,13.30..
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१॥
मया सह जगत् सर्वम् तथा अपि असृजत् अच्युतः ॥ स मत्सरात् उपालब्धः त्वद्-आश्रय-बलात् मया ॥ ७।१,१३।३१॥
mayā saha jagat sarvam tathā api asṛjat acyutaḥ .. sa matsarāt upālabdhaḥ tvad-āśraya-balāt mayā .. 7.1,13.31..
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२॥
मद्-भावात् न अधिकः ते इति भावः त्वयि महेश्वरे ॥ त्वत्तः एव समुत्पत्तिः आवयोः सदृशी यतस् ॥ ७।१,१३।३२॥
mad-bhāvāt na adhikaḥ te iti bhāvaḥ tvayi maheśvare .. tvattaḥ eva samutpattiḥ āvayoḥ sadṛśī yatas .. 7.1,13.32..
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३॥
तस्य भक्त्या यथापूर्वम् प्रसादम् कृतवान् असि ॥ तथा मम अपि तत् सर्वम् दातुम् अर्हसि शंकर ॥ ७।१,१३।३३॥
tasya bhaktyā yathāpūrvam prasādam kṛtavān asi .. tathā mama api tat sarvam dātum arhasi śaṃkara .. 7.1,13.33..
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४॥
इति विज्ञापितः तेन भगवान् भग-नेत्र-हा ॥ न्यायेन वै ददौ सर्वम् तस्य अपि स घृणा-निधिः ॥ ७।१,१३।३४॥
iti vijñāpitaḥ tena bhagavān bhaga-netra-hā .. nyāyena vai dadau sarvam tasya api sa ghṛṇā-nidhiḥ .. 7.1,13.34..
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५॥
लब्ध्वा एवम् ईश्वरात् एव ब्रह्मा सर्व-आत्म-ताम् क्षणात् ॥ त्वरमाणा उथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७।१,१३।३५॥
labdhvā evam īśvarāt eva brahmā sarva-ātma-tām kṣaṇāt .. tvaramāṇā utha saṃgamya dadarśa puruṣottamam .. 7.1,13.35..
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६॥
क्षीरार्णव-आलये शुभ्रे विमाने सूर्य-संनिभे ॥ हेम-रत्न-अन्विते दिव्ये मनसा तेन निर्मिते ॥ ७।१,१३।३६॥
kṣīrārṇava-ālaye śubhre vimāne sūrya-saṃnibhe .. hema-ratna-anvite divye manasā tena nirmite .. 7.1,13.36..
अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७॥
अनंत-भोग-शय्यायाम् शयानम् पंकज-ईक्षणम् ॥ चतुर्-भुजम् उदार-अंगम् सर्व-आभरण-भूषितम् ॥ ७।१,१३।३७॥
anaṃta-bhoga-śayyāyām śayānam paṃkaja-īkṣaṇam .. catur-bhujam udāra-aṃgam sarva-ābharaṇa-bhūṣitam .. 7.1,13.37..
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८॥
शंख-चक्र-धरम् सौम्यम् चन्द्र-बिंब-सम-आननम् ॥ श्रीवत्स-वक्षसम् देवम् प्रसन्न-मधुर-स्मितम् ॥ ७।१,१३।३८॥
śaṃkha-cakra-dharam saumyam candra-biṃba-sama-ānanam .. śrīvatsa-vakṣasam devam prasanna-madhura-smitam .. 7.1,13.38..
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९॥
॥ क्षीरार्णव-अमृतम् इव शयानम् योगनिद्रया ॥ ७।१,१३।३९॥
.. kṣīrārṇava-amṛtam iva śayānam yoganidrayā .. 7.1,13.39..
तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४०॥
तमसा कालरुद्र-आख्यम् रजसा कनक-अंड-जम् ॥ सत्त्वेन सर्वगम् विष्णुम् निर्गुण-त्वे महेश्वरम् ॥ ७।१,१३।४०॥
tamasā kālarudra-ākhyam rajasā kanaka-aṃḍa-jam .. sattvena sarvagam viṣṇum nirguṇa-tve maheśvaram .. 7.1,13.40..
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१॥
तम् दृष्ट्वा पुरुषम् ब्रह्मा प्रगल्भम् इदम् अब्रवीत् ॥ ग्रसामि त्वाम् अहम् विष्णो त्वम् आत्मानम् यथा पुरा ॥ ७।१,१३।४१॥
tam dṛṣṭvā puruṣam brahmā pragalbham idam abravīt .. grasāmi tvām aham viṣṇo tvam ātmānam yathā purā .. 7.1,13.41..
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२॥
तस्य तत् वचनम् श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ उदैक्षत महा-बाहुः स्मितम् ईषत् चकार च ॥ ७।१,१३।४२॥
tasya tat vacanam śrutvā pratibuddhya pitāmaham .. udaikṣata mahā-bāhuḥ smitam īṣat cakāra ca .. 7.1,13.42..
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३॥
तस्मिन् अवसरे विष्णुः ग्रस्तः तेन महात्मना ॥ सृष्टः च ब्रह्मणा सद्यस् भ्रुवोः मध्यात् अयत्नतः ॥ ७।१,१३।४३॥
tasmin avasare viṣṇuḥ grastaḥ tena mahātmanā .. sṛṣṭaḥ ca brahmaṇā sadyas bhruvoḥ madhyāt ayatnataḥ .. 7.1,13.43..
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४॥
तस्मिन् अवसरे साक्षात् भगवान् इन्दुभूषणः ॥ शक्तिम् तयोः अपि द्रष्टुम् अरूपः रूपम् आस्थितः ॥ ७।१,१३।४४॥
tasmin avasare sākṣāt bhagavān indubhūṣaṇaḥ .. śaktim tayoḥ api draṣṭum arūpaḥ rūpam āsthitaḥ .. 7.1,13.44..
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५॥
प्रसादम् अतुलम् कर्तुम् पुरा दत्त-वरः तयोः ॥ आगच्छत् तत्र यत्र इमौ ब्रह्म-नारायणौ स्थितौ ॥ ७।१,१३।४५॥
prasādam atulam kartum purā datta-varaḥ tayoḥ .. āgacchat tatra yatra imau brahma-nārāyaṇau sthitau .. 7.1,13.45..
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६॥
अथ तुष्टुवतुः देवम् प्रीतौ भीतौ च कौतुकात् ॥ प्रणेमतुः च बहुशस् बहु-मानेन दूरतस् ॥ ७।१,१३।४६॥
atha tuṣṭuvatuḥ devam prītau bhītau ca kautukāt .. praṇematuḥ ca bahuśas bahu-mānena dūratas .. 7.1,13.46..
भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७॥
भवः अपि भगवान् एतौ अनुगृह्य पिनाकधृक् ॥ स आदरम् पश्यतोः एव तयोः अंतरधीयत ॥ ७।१,१३।४७॥
bhavaḥ api bhagavān etau anugṛhya pinākadhṛk .. sa ādaram paśyatoḥ eva tayoḥ aṃtaradhīyata .. 7.1,13.47..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे ब्रह्मविष्णुसृष्टिकथनम् नाम त्रयोदशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe brahmaviṣṇusṛṣṭikathanam nāma trayodaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In